Content deleted Content added
|
|
- तत् परिगृह्यैतस्मिन् द्वितीये ऽहन्न् आलभन्ते। तद् एतद् एकविंशं द्वितीयम् अहर् भवत्य् एकस्तोमम्। द्वादश मासाः, पञ्चचर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। यथा ह वै दृढा मेधी निहतैवम् एकविंश स्तोमानाम्। तस्मिन्न् एतान् पशून् आलभन्ते - हस्तिनं परमं प्लुषिम् अवमम्। तान् पर्यग्निकृत्वैकान् लभन्त, उद् एकान् सृजन्ते। ब्रह्म वा अग्निः। ब्रह्मणैवैनांस् तत् पर्यग्निकृत्वैकान् लभन्त, उद् एकान् सृजन्ते। तस्य महानाम्न्यः पृष्ठं भवन्ति। नो ह्य् एतान् अन्यन् महानाम्नीभ्यः पृष्ठं पशून् उद्यन्तुम् अर्हति। तास् सप्तपदा भवन्ति - सप्त वै ग्राम्याः पशवो - ग्राम्याणाम् एवं पशूनाम् अवरुद्धयै। अति सप्तमं पदं भवत्य् आरण्यानाम् एव पशूनाम् अवरुद्धयै। तस्य पार्थुरश्मं ब्रह्मसाम भवत्य् अथकारेण समृद्धम्। अथग् अथग् इतीव ह्य अश्वो धावति। अथो पुथुर् वाव रश्मिर् अश्वं यन्तुम् अर्हति। तद् उ पांक्तं भवति। पांक्तं हि महानाम्नीनां ब्रह्मसाम। तस्यैकविंशतिर् यूपा भवन्य् एकविंशत्यरत्नयः। नो ह्य् एतान् अनेकविंशतिर् यूपाः पशून् उद्यन्तुम् अर्हन्ति। षड् बैल्वा द्वादश खादिराः पौतुद्रवाव् अभितो - ऽग्नेर् वा एतच् छरीरं यत् पूतुद्रु - राज्जुदाल एकविंशतिः। सो ऽग्निष्ठः। प्रजापतिर् वा एष वृक्षाणां यद् राज्जुदालः। तस्य यानि फलानि शिश्नान्य् एव तानि। अथ य श्लेष्मा रेत एव तत्। प्रजापतिर् वै पिता, आदित्यः पुत्रः। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् नानेकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.274॥
|