"ऋग्वेदः सूक्तं ४.५४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः |
वि यो रत्ना भजति मानवेभ्यः शरेष्ठं नो अत्र दरविणं यथा दधत ||
देवेभ्यो हि परथमं यज्ञियेभ्यो ऽमर्तत्वं सुवसि भागम उत्तमम |
आद इद दामानं सवितर वय ्र्णुषे ऽनूचीना जीविता मानुषेभ्यः ||
अचित्ती यच चक्र्मा दैव्ये जने दीनैर दक्षैः परभूती पूरुषत्वता |
देवेषु च सवितर मानुषेषु च तवं नो अत्र सुवताद अनागसः ||
 
न परमिये सवितुर दैव्यस्य तद यथा विश्वम भुवनं धारयिष्यति |
यत पर्थिव्या वरिमन्न आ सवङगुरिर वर्ष्मन दिवः सुवति सत्यम अस्य तत ||
इन्द्रज्येष्ठान बर्हद्भ्यः पर्वतेभ्यः कषयां एभ्यः सुवसि पस्त्यावतः |
यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ||
ये ते तरिर अहन सवितः सवासो दिवे-दिवे सौभगम आसुवन्ति |
इन्द्रो दयावाप्र्थिवी सिन्धुर अद्भिर आदित्यैर नो अदितिः शर्म यंसत ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५४" इत्यस्माद् प्रतिप्राप्तम्