"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left=इदन्तप्रकरणम् ]|center=बालमनोरमा ।|right=१९५}} {{c|'''२९... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:४२, ४ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
इदन्तप्रकरणम् ]
१९५
बालमनोरमा ।

२९९ । अचि र ऋतः । (७-२-१००)

तिसृ चतसृ एतयोर्वकारस्य रेफादेशा स्यादचि । गुणदीर्घत्त्वानाम पवाद् । तिस्र । तिस्र । तिसृभि । तिसृभ्य । तिसृभ्य । आमि “नुमचिर (वा ४३७४) इति नुट् ।

३००न तिसृचतसृ । (६-४-४)

तिसृ चतसृ एतयोर्नामि दीर्घ न स्यान्। तिसृणाम् । तिसृषु। “त्रियाम् इति त्रिचतुरोर्विशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्या. सा प्रियत्रि । मति शब्दवत् । आमि तु “प्रियत्रयाणाम्' इति विशेष । “प्रियास्तिस्रो यस्य स ' इति

आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भाव । जश्शसेो तिसृ अस् इति स्थिते । अचि र ऋतः ॥ पूर्वसूत्रात् तिसृचतस् इत्यनुवर्तते । तचेह लुप्तषष्ठीकमाश्रीयते । तदाह । तिस इत्यादिना । ननु *इको यणचि' इत्येव सिद्धमित्यत आह । गुणदोघत्वानामपवादः इत ॥ 'ऋतो डि’ इति गुणस्य 'प्रथमयेो ' इति पूर्वसवर्णदीर्घस्य 'ऋत उत्' इत्युक्त्वस्य च रत्वमपवाद इत्यर्थे । तिस्रः इति ॥ जश्शसो रूपम् । तत्र जसि 'ऋतो डि’ इति गुणस्य रत्वमपवाद "। शसि तु “प्रथमयो ' इति पूर्वसवर्णदीर्घस्य रत्वमपवाद । अामीति॥ तिसृ आम् इति स्थिते नुट बाधित्वा 'अचि र ऋत ' इति रत्वे तिस्रामिति प्राप्त ‘नुमचिरतृ ज्वद्रावगुणेभ्यो नुट् पूर्वविप्रतिषेधेन' इति रत्व बाधित्वा नुडित्यर्थ । तिसृ नामिति स्थिते नामि' इति दीर्घ प्राप्त । न तिसृचतस् ॥ तिसृचतसृ इति लुप्तषष्ठीक पदम् । * ठूलो पे' इत्यतो दीर्घ इत्यनुवर्तते । 'नामि’ इति सूत्रञ्चानुवर्तते । तदाह । तिस् इत्यादिना ॥ तिसृणामिति ॥ 'ऋवर्णीन्नस्य' इति णत्वम् । ननु 'अचि र' इति रत्व 'ऋत उत् इति उत्त्वस्य कथमपवादस्यात् । उत्त्वस्य डसिडसोरेव प्राप्त । त्रिचतुशैब्दयेोश्च नित्य बहु वचनान्तत्वेन डसिडसेोरभावादिति चेन्न । प्रियतित्र इत्यादिबहुव्रीहौ तत्सत्त्वात् । तचानुपद मेव वक्ष्यते । ननु प्रिया त्रय त्रीणि वा यस्यास्सा प्रियति इति बहुव्रीहावपि तिस्रादेक्ष. कुतो न स्यादित्यत आह । स्त्रियामित्यादि ॥ प्रियत्रिशब्दो हि स्त्रीलिङ्ग । नतु त्रिशब्द. । त्रियामिति त्रिचतुरोर्विशेषणम्, नतु तदन्तयेो । प्रमाणाभावात् । न चाङ्गत्वात्तदन्तलाभ इति वाच्यम् । । एवमपि त्रिचतुरोरेव प्रत्यक्षश्रुतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादिति भाव । ‘डिति हूस्वश्च' इति नदीत्वविकल्प मत्वा आह । मति शब्दवदिति ॥ आमि त्विति । षष्ठीबहुवचने ‘त्रेस्त्रय' इति त्रयादेशस्य आङ्गत्वेन तदन्त ऽपि प्रवृत्तरिति भाव । एवञ्च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुन्नपुसकलिङ्गात्रिशब्दगर्भबहुव्रीहौ अतिव्याप्तिस्यादिति त्रिचतुरोरेव स्त्रियामिति विशेः षणमिति स्थितम् । अथ त्रीलिङ्गत्रिशब्दगर्भबहुव्रीहौ अव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणम्, न तु तदन्तयेरिति मत्वा आह । प्रियास्तिस्रः इत्यादि । प्रिय तिसेति ॥ समासे सति अन्तर्वर्तिविभत्तेर्लका लुप्तत्वात् तिस्रादेशनिवृत्तौ प्रियत्रिशब्दात्