"अथर्ववेदः/काण्डं १२" इत्यस्य संस्करणे भेदः

* (12,1।1अ) सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">12.1
* (12,1।1अ) सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति |
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
* (12,1।1च्) सा नो भूतस्य भव्यस्य पत्न्य् उरुं लोकं पृथिवी नः कृणोतु ||1||
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।
नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।
यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः ।
या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।
यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।
सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।
सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१}
गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।
बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।
तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।
यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्।
सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन ।
तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ॥१७॥
महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।
महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।
सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥
अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् ।
अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२}
अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥
भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥
यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।
यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥
यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।
अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥
यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥
शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।
तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।
पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥
उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।
पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥
विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥
शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।
पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३}
यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्।
स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥
मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत ।
स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥
यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।
तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥
यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे ।
मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥
यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।
ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥
याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।
परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥
यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।
ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥
सा नो भूमिरा दिशतु यद्धनं कामयामहे ।
भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४}
यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।
सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥
यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥
यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।
प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥
निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।
वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥
ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।
यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।
वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥
ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।
उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥
ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५}
यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।
वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥
यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥
द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥
अहमस्मि सहमान उत्तरो नाम भूम्याम् ।
अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥
अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।
आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥
ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।
ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥
अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत ।
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥
यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।
त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥
शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।
भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥
यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।
भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥
त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।
यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥
उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।
दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥
भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६}
 
12.2
* (12,1।2अ) असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु |
नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
* (12,1।2च्) नानावीर्या ओषधीर् या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ||2||
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥१॥
अघशंसदुःशंसाभ्यां करेणानुकरेण च ।
यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥२॥
निरितो मृत्युं निर्ऋतिं निररातिमजामसि ।
यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥३॥
यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः ।
तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोऽप्यग्नीन् ॥४॥
यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते ।
सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥
पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने ।
पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥६॥
यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥
क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥९॥
क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७}
समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।
जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥
देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत्।
मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥१२॥
अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥१३॥
संकसुको विकसुको निर्ऋथो यश्च निस्वरः ।
ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥१४॥
यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु ।
क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥१५॥
अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा ।
निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥१६॥
यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥१७॥
समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥१८॥
सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्।
अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥१९॥
सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।
अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८}
परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्।
चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥
इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहुतिर्नो अद्य ।
प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२२॥
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥२३॥
आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ ।
तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥२४॥
यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् ।
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥२५॥
अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः ।
अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥२६॥
उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् ।
अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥२७॥
वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥
उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः ।
त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥२९॥
मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥३०॥ {९}
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥३१॥
व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।
स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥३२॥
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।
मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥
अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा ।
प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥
द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।
अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥३५॥
यत्कृषते यद्वनुते यच्च वस्नेन विन्दते ।
सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥३६॥
अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे ।
छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥३७॥
मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य ।
क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥३८॥
ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः ।
ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्॥३९॥
यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् ।
आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्॥४०॥ {१०}
ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः ।
पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥४१॥
अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥
इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्।
व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥
अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥
जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गच्छन्तु ये मृताः ।
सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥४५॥
सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥४६॥
इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।
तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥
अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।
आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥४८॥
अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः ।
अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥४९॥
ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।
क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥५०॥ {११}
येऽश्रद्धा धनकाम्या क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥
प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः ।
क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥५२॥
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः ।
माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥५३॥
इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् ।
तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥५४॥
प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश ।
परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥५५॥ {१२}
 
12.3
* (12,1।3अ) यस्यां समुद्र उत सिन्धुर् आपो यस्याम् अन्नं कृष्टयः संबभूवुः |
पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।
* (12,1।3च्) यस्याम् इदं जिन्वति प्राणद् एजत् सा नो भूमिः पूर्वपेये दधातु ||3||
यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥
तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि ।
अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥२॥
समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥
आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥४॥
यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः ।
स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥५॥
उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥
दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्।
तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात्॥८॥
प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च ।
तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥९॥
उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् ।
पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३}
ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।
सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥
पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।
यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥१२॥
यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद ।
यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः ।
आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥१४॥
वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः ।
स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥१५॥
सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्माँ उत यश्चकर्श ।
त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥१६॥
स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम ।
गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निर्ऋतिर्मो अरातिः ॥१७॥
ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु ।
वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥१८॥
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ।
वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥१९॥
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् ।
अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥२०॥ {१४}
पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या ।
एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥
पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा ।
यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥२२॥
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥२३॥
अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् ।
वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥२४॥
पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् ।
ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥
आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् ।
शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥
उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः ।
ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥
संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।
असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् ।
योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥२९॥
उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् ।
अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥३०॥ {१५}
प्र यच्छ पर्शुं त्वरया हरौसमहिंसन्त ओषधीर्दान्तु पर्वन् ।
वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥
नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु ।
तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥३२॥
वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोभैः संमितो देवताभिः ।
त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥
षष्ट्यां शरत्सु निधिपा अभीछात्स्वः पक्वेनाभ्यश्नवातै ।
उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥३४॥
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्॥३५॥
सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् ।
वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥३६॥
उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्।
वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥३७॥
उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः ।
तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥
यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः ।
सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥३९॥
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः ।
सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६}
वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्॥४१॥
निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये ।
अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्॥४२॥
अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त ।
नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥४३॥
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥४४॥
इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप ।
आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥४५॥
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।
मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्॥४६॥
अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया ।
कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्॥४७॥
न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति ।
अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥४८॥
प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति ।
धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥४९॥
समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् ।
यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७}
एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये ।
क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥५१॥
यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या ।
समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥५२॥
वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि ।
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥५३॥
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् ।
अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥
प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५५॥
दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५६॥
प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५७॥
उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५८॥
ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५९॥
ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।
एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥६०॥ {१८}
 
12.4
* (12,1।4अ) यस्याश् चतस्रः प्रदिशः पृथिव्या यस्याम् अन्नम् कृष्टयः संबभूवुः |
ददामीत्येव ब्रूयादनु चैनामभुत्सत ।
* (12,1।4च्) या बिभर्ति बहुधा प्राणद् एजत् सा नो भूमिर् गोष्व् अप्य् अन्ने दधातु ||4||
वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।
अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।
ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।
ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
यदस्याः पल्पूलनं शकृद्दासी समस्यति ।
ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।
तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
य एनां वनिमायन्ति तेषां देवकृता वशा ।
ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।
आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।
हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।
तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।
यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
चरेदेवा त्रैहायणादविज्ञातगदा सती ।
वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
य एनामवशामाह देवानां निहितं निधिम् ।
उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।
उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
दुरदभ्नैनमा शये याचितां च न दित्सति ।
नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।
तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।
देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।
दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।
तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।
ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।
चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।
आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
वशा चरन्ती बहुधा देवानां निहितो निधिः ।
आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
आविरात्मानं कृणुते यदा स्थाम जिघांसति ।
अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
मनसा सं कल्पयति तद्देवामपि गच्छति ।
ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥३२॥
वशा माता राजन्यस्य तथा संभूतमग्रशः ।
तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।
एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।
सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
यो वेहतं मन्यमानोऽमा च पचते वशाम् ।
अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
महदेषाव तपति चरन्ती गोषु गौरपि ।
अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।
अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
तां देवा अमीमांसन्त वशेया३ अवशेति ।
तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
विलिप्त्या बृहस्पते या च सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।
कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।
तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।
ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।
वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।
एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।
तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
ये वशाया अदानाय वदन्ति परिरापिणः ।
इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
यदि हुतं यद्यहुताममा च पचते वशाम् ।
देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥५३॥ {२३}
 
12.5
* (12,1।5अ) यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् |
श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥
* (12,1।5च्) गवाम् अश्वानां वयसश् च विष्ठा भगं वर्चः पृथिवी नो दधातु ||5||
सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥
स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥
ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥
तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥
अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४}
ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥
आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥
पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥
तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}
सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥
सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥
सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥
मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥
वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥
हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥
क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥
मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥
सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥
मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥
सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥
अघविषा निपतन्ती तमो निपतिता ॥२६॥
अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥
देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥
पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥
विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥
अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥
शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
अवर्तिरश्यमाना निर्ऋतिरशिता ॥३७॥
अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७}
तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥
अस्वगता परिह्णुता ॥४०॥
अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥
सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥
छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥
विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८}
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥
क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥
क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥
छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥
ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥
आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यच्छसि ॥५७॥
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥
मेनिः शरव्या भवाघादघविषा भव ॥५९॥
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥
त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९}
वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥
यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥
एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥
वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥
प्र स्कन्धान् प्र शिरो जहि ॥६७॥
लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥
मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥
अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥
सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥
सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०}
 
</span></poem>
* (12,1।6अ) विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी |
* (12,1।6च्) वैश्वानरं बिभ्रती भूमिर् अग्निम् इन्द्रऋषभा द्रविणे नो दधातु ||6||
 
* (12,1।7अ) यां रक्षन्त्य् अस्वप्ना विश्वदानीं देवा भूमिं पृथिवीम् अप्रमादम् |
* (12,1।7च्) सा नो मधु प्रियं दुहाम् अथो उक्षतु वर्चसा ||7||
 
* (12,1।8अ) यार्णवे 'धि सलिलम् अग्र आसीत् यां मायाभिर् अन्वचरन् मनीषिणः |
* (12,1।8च्) यस्या हृदयं परमे व्योमन्त् सत्येनावृतम् अमृतं पृथिव्याः |
* (12,1।8ए) सा नो भूमिस् त्विषिं बलं राष्ट्रे दधातूत्तमे ||8||
 
* (12,1।9अ) यस्याम् आपः परिचराः समानीर् अहोरात्रे अप्रमादं क्षरन्ति |
* (12,1।9च्) सा नो भूमिर् भूरिधारा पयो दुहाम् अथो उक्षतु वर्चसा ||9||
 
* (12,1।10अ) याम् अश्विनाव् अमिमातां विष्णुर् यस्यां विचक्रमे |
* (12,1।10च्) इन्द्रो यां चक्र आत्मने 'नमित्रां शचीपतिः |
* (12,1।10ए) सा नो भूमिर् वि सृजतां माता पुत्राय मे पयः ||10|| {1}
 
* (12,1।11अ) गिरयस् ते पर्वता हिमवन्तो 'रण्यं ते पृथिवि स्योनम् अस्तु |
* (12,1।11च्) बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीम् इन्द्रगुप्ताम् |
* (12,1।11ए) अजीतो 'हतो अक्षतो 'ध्य् अष्ठाम् पृथिवीम् अहम् ||11||
 
* (12,1।12अ) यत् ते मध्यं पृथिवि यच् च नभ्यं यास् त ऊर्जस् तन्वः संबभूवुः |
* (12,1।12च्) तासु नो धेह्य् अभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ||12||
 
* (12,1।13अ) यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः |
* (12,1।13च्) यस्यां मीयन्ते स्वरवः पृथिव्याम् ऊर्ध्वाः शुक्रा आहुत्याः पुरस्तात् |
* (12,1।13ए) सा नो भूमिर् वर्धयद् वर्धमाना ||13||
 
* (12,1।14अ) यो नो द्वेषत् पृथिवि यः पृतन्याद् यो 'भिदासान् मनसा यो वधेन |
* (12,1।14च्) तं नो भूमे रन्धय पूर्वकृत्वरि ||14||
 
* (12,1।15अ) त्वज् जातास् त्वयि चरन्ति मर्त्यास् त्वं बिभर्षि द्विपदस् त्वं चतुष्पदः |
* (12,1।15च्) तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिर् अमृतं मर्त्येभ्य उद्यन्त् सूर्यो रश्मिभिर् आतनोति ||15||
 
* (12,1।16अ) ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ||16||
 
* (12,1।17अ) विश्वस्वं मातरम् ओषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् |
* (12,1।17च्) शिवां स्योनाम् अनु चरेम विश्वहा ||17||
 
* (12,1।18अ) महत् सधस्थं महती बभूविथ महान् वेग एजथुर् वेपथुष् टे |
* (12,1।18च्) महांस् त्वेन्द्रो रक्षत्य् अप्रमादम् |
* (12,1।18ए) सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश् चन ||18||
 
* (12,1।19अ) अग्निर् भूम्याम् ओषधीष्व् अग्निम् आपो बिभ्रत्य् अग्निर् अश्मसु |
* (12,1।19च्) अग्निर् अन्तः पुरुषेषु गोष्व् अश्वेष्व् अग्नयः ||19||
 
* (12,1।20अ) अग्निर् दिव आ तपत्य् अग्नेर् देवस्योर्व् अन्तरिक्षम् |
* (12,1।20च्) अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ||20|| {2}
 
* (12,1।21अ) अग्निवासाः पृथिव्य् असितज्ञूस् त्विषीमन्तं संशितं मा कृणोतु ||21||
 
* (12,1।22अ) भूम्यां देवेभ्यो ददति यज्ञं हव्यम् अरंकृतम् |
* (12,1।22च्) भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः |
* (12,1।22ए) सा नो भूमिः प्राणम् आयुर् दधातु जरदष्टिं मा पृथिवी कृणोतु ||22||
 
* (12,1।23अ) यस् ते गन्धः पृथिवि संबभूव यं बिभ्रत्य् ओषधयो यम् आपः |
* (12,1।23च्) यं गन्धर्वा अप्सरसश् च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ||23||
 
* (12,1।24अ) यस् ते गन्धः पुष्करम् आविवेश यं संजभ्रुः सूर्याया विवाहे |
* (12,1।24च्) अमर्त्याः पृथिवि गन्धम् अग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश् चन ||24||
 
* (12,1।25अ) यस् ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः |
* (12,1।25च्) यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु |
* (12,1।25ए) कन्यायां वर्चो यद् भूमे तेनास्मां अपि सं सृज मा नो द्विक्षत कश् चन ||25||
 
* (12,1।26अ) शिला भूमिर् अश्मा पांसुः सा भूमिः संधृता धृता |
* (12,1।26च्) तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ||26||
 
* (12,1।27अ) यस्यां वृक्षा वानस्पत्या ध्रुवास् तिष्ठन्ति विश्वहा |
* (12,1।27च्) पृथिवीं विश्वधायसं धृताम् अछावदामसि ||27||
 
* (12,1।28अ) उदीराणा उतासीनास् तिष्ठन्तः प्रक्रामन्तः |
* (12,1।28च्) पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ||28||
 
* (12,1।29अ) विमृग्वरीं पृथिवीम् आ वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् |
* (12,1।29च्) ऊर्जं पुष्टं बिभ्रतीम् अन्नभागं घृतं त्वाभि नि षीदेम भूमे ||29||
 
* (12,1।30अ) शुद्धा न आपस् तन्वे क्षरन्तु यो नः सेदुर् अप्रिये तं नि दध्मः |
* (12,1।30च्) पवित्रेण पृथिवि मोत् पुनामि ||30|| {3}
 
* (12,1।31अ) यास् ते प्राचीः प्रदिशो या उदीचीर् यास् ते भूमे अधराद् याश् च पश्चात् |
* (12,1।31च्) स्योनास् ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ||31||
 
* (12,1।32अ) मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तराद् अधराद् उत |
* (12,1।32च्) स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ||32||
 
* (12,1।33अ) यावत् ते 'भि विपश्यामि भूमे सूर्येण मेदिना |
* (12,1।33च्) तावन् मे चक्षुर् मा मेष्टोत्तरामुत्तरां समाम् ||33||
 
* (12,1।34अ) यच् छयानः पर्यावर्ते दक्षिणं सख्यम् अभि भूमे पार्श्वम् उत्तानास् त्वा प्रतीचीं यत् पृष्टीभिर् अधिशेमहे |
* (12,1।34च्) मा हिंसीस् तत्र नो भूमे सर्वस्य प्रतिशीवरि ||34||
 
* (12,1।35अ) यत् ते भूमे विखनामि क्षिप्रं तद् अपि रोहतु |
* (12,1।35च्) मा ते मर्म विमृग्वरि मा ते हृदयम् अर्पिपम् ||35||
 
* (12,1।36अ) ग्रीष्मस् ते भूमे वर्षाणि शरद् धेमन्तः शिशिरो वसन्तः |
* (12,1।36च्) ऋतवस् ते विहिता हायनीर् अहोरात्रे पृथिवि नो दुहाताम् ||36||
 
* (12,1।37अ) याप सर्पं विजमाना विमृग्वरी यस्याम् आसन्न् अग्नयो ये अप्स्व् अन्तः |
* (12,1।37च्) परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रम् शक्राय दध्रे वृषभाय वृष्णे ||37||
 
* (12,1।38अ) यस्यां सदोहविर्धाने यूपो यस्यां निमीयते |
* (12,1।38च्) ब्रह्माणो यस्याम् अर्चन्त्य् ऋग्भिः साम्ना यजुर्विदः युज्यन्ते यस्याम् ऋत्विजः सोमम् इन्द्राय पातवे ||38||
 
* (12,1।39अ) यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः |
* (12,1।39च्) सप्त सत्रेण वेधसो यज्ञेन तपसा सह ||39||
 
* (12,1।40अ) सा नो भूमिर् आ दिशतु यद् धनं कामयामहे |
* (12,1।40च्) भगो अनुप्रयुङ्क्ताम् इन्द्र एतु पुरोगवः ||40|| {4}
 
* (12,1।41अ) यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः |
* (12,1।41च्) युध्यन्ते यस्याम् आक्रन्दो यस्याम् वदति दुन्दुभिः |
* (12,1।41ए) सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ||41||
 
* (12,1।42अ) यस्याम् अन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः |
* (12,1।42च्) भूम्यै पर्जन्यपत्न्यै नमो 'स्तु वर्षमेदसे ||42||
 
* (12,1।43अ) यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते |
* (12,1।43च्) प्रजापतिः पृथिवीं विश्वगर्भाम् आशामाशां रण्यां नः कृणोतु ||43||
 
* (12,1।44अ) निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे |
* (12,1।44च्) वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ||44||
 
* (12,1।45अ) जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् |
* (12,1।45च्) सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुर् अनपस्फुरन्ती ||45||
 
* (12,1।46अ) यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये |
* (12,1।46च्) क्रिमिर् जिन्वत् पृथिवि यद्यद् एजति प्रावृषि तन् नः सर्पन् मोप सृपद् यच् छिवं तेन नो मृढ ||46||
 
* (12,1।47अ) ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश् च यातवे |
* (12,1।47च्) यैः संचरन्त्य् उभये भद्रपापास् तं पन्थानं जयेमानमित्रम् अतस्करं यच् छिवं तेन नो मृढ ||47||
 
* (12,1।48अ) मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः |
* (12,1।48च्) वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ||48||
 
* (12,1।49अ) ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश् चरन्ति |
* (12,1।49च्) उलं वृकं पृथिवि दुछुनाम् इत ऋक्षीकां रक्षो अप बाधयास्मत् ||49||
 
* (12,1।50अ) ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः |
* (12,1।50च्) पिशाचान्त् सर्वा रक्षांसि तान् अस्मद् भूमे यावय ||50|| {5}
 
* (12,1।51अ) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि |
* (12,1।51च्) यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश् च्यावयंश् च वृक्षान् |
* (12,1।51ए) वातस्य प्रवाम् उपवाम् अनु वात्य् अर्चिः ||51||
 
* (12,1।52अ) यस्यां कृष्णम् अरुणं च संहिते अहोरात्रे विहिते भूम्याम् अधि |
* (12,1।52च्) वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ||52||
 
* (12,1।53अ) द्यौश् च म इदं पृथिवी चान्तरिक्षं च मे व्यचः |
* (12,1।53च्) अग्निः सूर्य आपो मेधां विश्वे देवाश् च सं ददुः ||53||
 
* (12,1।54अ) अहम् अस्मि सहमान उत्तरो नाम भूम्याम् |
* (12,1।54च्) अभीषाढ् अस्मि विश्वाषाढ् आशामाशां विषासहिः ||54||
 
* (12,1।55अ) अदो यद् देवि प्रथमाना पुरस्ताद् देवैर् उक्ता व्यसर्पो महित्वम् |
* (12,1।55च्) आ त्वा सुभूतम् अविशत् तदानीम् अकल्पयथाः प्रदिशश् चतस्रः ||55||
 
* (12,1।56अ) ये ग्रामा यद् अरण्यं याः सभा अधि भूम्याम् |
* (12,1।56च्) ये संग्रामाः समितयस् तेषु चारु वदेम ते ||56||
 
* (12,1।57अ) अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं याद् अजायत |
* (12,1।57च्) मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिर् ओषधीनाम् ||57||
 
* (12,1।58अ) यद् वदामि मधुमत् तद् वदामि यद् ईक्षे तद् वनन्ति मा |
* (12,1।58च्) त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ||58||
 
* (12,1।59अ) शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती |
* (12,1।59च्) भूमिर् अधि ब्रवीतु मे पृथिवी पयसा सह ||59||
 
* (12,1।60अ) याम् अन्वैछद् धविषा विश्वकर्मान्तर् अर्णवे रजसि प्रविष्टाम् |
* (12,1।60च्) भुजिष्यं पात्रं निहितं गुहा यद् आविर् भोगे अभवन् मातृमद्भ्यः ||60||
 
* (12,1।61अ) त्वम् अस्य् आवपनी जनानाम् अदितिः कामदुघा पप्रथाना |
* (12,1।61च्) यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ||61||
 
* (12,1।62अ) उपस्थास् ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः |
* (12,1।62च्) दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ||62||
 
* (12,1।63अ) भूमे मातर् नि धेहि मा भद्रया सुप्रतिष्ठितम् |
* (12,1।63च्) संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ||63|| {6}
 
 
 
* (12,2।1अ) नढम् आ रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि |
* (12,2।1च्) यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस् तेन त्वं साकम् अधराङ् परेहि ||1||
 
* (12,2।2अ) अघशंसदुःशंसाभ्यां करेणानुकरेण च |
* (12,2।2च्) यक्ष्मं च सर्वं तेनेतो मृत्युं च निर् अजामसि ||2||
 
* (12,2।3अ) निर् इतो मृत्युं निरृतिं निर् अरातिम् अजामसि |
* (12,2।3च्) यो नो द्वेष्टि तम् अद्ध्य् अग्ने अक्रव्याद् यम् उ द्विष्मस् तम् उ ते प्र सुवामसि ||3||
 
* (12,2।4अ) यद्य् अग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः |
* (12,2।4च्) तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गछत्व् अप्सुषदो 'प्य् अग्नीन् ||4||
 
* (12,2।5अ) यत् त्वा क्रुद्धाः प्रचक्रुर् मन्युना पुरुषे मृते |
* (12,2।5च्) सुकल्पम् अग्ने तत् त्वया पुनस् त्वोद् दीपयामसि ||5||
 
* (12,2।6अ) पुनस् त्वादित्या रुद्रा वसवः पुनर् ब्रह्मा वसुनीतिर् अग्ने |
* (12,2।6च्) पुनस् त्वा ब्रह्मणस् पतिर् आधाद् दीर्घायुत्वाय शतशारदाय ||6||
* (12,2।7अ) यो अग्निः क्रव्यात् प्रविवेश नो गृहम् इमं पश्यन्न् इतरं जातवेदसम् |
* (12,2।7च्) तं हरामि पितृयज्ञाय दूरं स घर्मम् इन्धां परमे सधस्थे ||7||
 
* (12,2।8अ) क्रव्यादम् अग्निं प्र हिणोमि दूरम् यमराज्ञो गछतु रिप्रवाहः |
* (12,2।8च्) इहायम् इतरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ||8||
 
* (12,2।9अ) क्रव्यादम् अग्निम् इषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् |
* (12,2।9च्) नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके 'पि भागो अस्तु ||9||
 
* (12,2।10अ) क्रव्यादम् अग्निं शशमानम् उक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः |
* (12,2।10च्) मा देवयानैः पुनर् आ गा अत्रैवैधि पितृषु जागृहि त्वम् ||10|| {7}
 
* (12,2।11अ) सम् इन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः |
* (12,2।11च्) जहाति रिप्रम् अत्य् एन एति समिद्धो अग्निः सुपुना पुनाति ||11||
 
* (12,2।12अ) देवो अग्निः संकसुको दिवस् पृष्ठान्य् आरुहत् |
* (12,2।12च्) मुच्यमानो निर् एणसो 'मोग् अस्मां अशस्त्याः ||12||
 
* (12,2।13अ) अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे |
* (12,2।13च्) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ||13||
 
* (12,2।14अ) संकसुको विकसुको निरृथो यश् च निस्वरः |
* (12,2।14च्) ते ते यक्ष्मं सवेदसो दूराद् दूरम् अनीनशन् ||14||
 
* (12,2।15अ) यो नो अश्वेषु वीरेषु यो नो गोष्व् अजाविषु |
* (12,2।15च्) क्रव्यादं निर् णुदामसि यो अग्निर् जनयोपनः ||15||
 
* (12,2।16अ) अन्येभ्यस् त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस् त्वा |
* (12,2।16च्) निः क्रव्यादं नुदामसि यो अग्निर् जीवितयोपनः ||16||
 
* (12,2।17अ) यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत |
* (12,2।17च्) तस्मिन् घृतस्तावो मृष्ट्वा त्वम् अग्ने दिवं रुह ||17||
 
* (12,2।18अ) समिद्धो अग्न आहुत स नो माभ्यपक्रमीः |
* (12,2।18च्) अत्रैव दीदिहि द्यवि ज्योक् च सूर्यं दृशे ||18||
 
* (12,2।19अ) सीसे मृढ्ढ्ह्वं नढे मृढ्ढ्ह्वम् अग्नौ संकसुके च यत् |
* (12,2।19च्) अथो अव्यां रामायां शीर्षक्तिम् उपबर्हणे ||19||
 
* (12,2।20अ) सीसे मलं सादयित्वा शीर्षक्तिम् उपबर्हणे |
* (12,2।20च्) अव्याम् असिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ||20|| {8}
 
* (12,2।21अ) परं मृत्यो अनु परेहि पन्थां यस् त एष इतरो देवयानात् |
* (12,2।21च्) चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ||21||
 
* (12,2।22अ) इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहुतिर् नो अद्य |
* (12,2।22च्) प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथम् आ वदेम ||22||
 
* (12,2।23अ) इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् |
* (12,2।23च्) शतं जीवन्तः शरदः पुरूचीस् तिरो मृत्युं दधताम् पर्वतेन ||23||
 
* (12,2।24अ) आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति स्थ |
* (12,2।24च्) तान् वस् त्वष्टा सुजनिमा सजोषाः सर्वम् आयुर् नयतु जीवनाय ||24||
 
* (12,2।25अ) यथाहान्य् अनुपूर्वं भवन्ति यथ र्तव ऋतुभिर् यन्ति साकम् |
* (12,2।25च्) यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ||25||
 
* (12,2।26अ) अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः |
* (12,2।26च्) अत्रा जहीत ये असन् दुरेवा अनमीवान् उत् तरेमाभि वाजान् ||26||
 
* (12,2।27अ) उत् तिष्ठता प्र तरता सखायो 'श्मन्वती नदी स्यन्दत इयम् |
* (12,2।27च्) अत्रा जहीत ये असन्न् अशिवाः शिवान्त् स्योनान् उत् तरेमाभि वाजान् ||27||
 
* (12,2।28अ) वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः |
* (12,2।28च्) अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ||28||
 
* (12,2।29अ) उदीचीनैः पथिभिर् वायुमद्भिर् अतिक्रामन्तो 'वरान् परेभिः |
* (12,2।29च्) त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्य् अउहन् पदयोपनेन ||29||
 
* (12,2।30अ) मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः |
* (12,2।30च्) आसीना मृत्युं नुदता सधस्थे 'थ जीवासो विदथम् आ वदेम ||30|| {9}
 
* (12,2।31अ) इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं स्पृशन्ताम् |
* (12,2।31च्) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ||31||
 
* (12,2।32अ) व्याकरोमि हविषाहम् एतौ तौ ब्रह्मणा व्य् अहं कल्पयामि |
* (12,2।32च्) स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा सम् इमान्त् सृजामि ||32||
 
* (12,2।33अ) यो नो अग्निः पितरो हृत्स्व् अन्तर् आविवेशामृतो मर्त्येषु |
* (12,2।33च्) मय्य् अहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ||33||
 
* (12,2।34अ) अपावृत्य गार्हपत्यात् क्रव्यादा प्रेत दक्षिणा |
* (12,2।34च्) प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ||34||
 
* (12,2।35अ) द्विभागधनम् आदाय प्र क्षिणात्य् अवर्त्या |
* (12,2।35च्) अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्याद् अनिराहितः ||35||
 
* (12,2।36अ) यत् कृषते यद् वनुते यच् च वस्नेन विन्दते |
* (12,2।36च्) सर्वं मर्त्यस्य तन् नास्ति क्रव्याच् चेद् अनिराहितः ||36||
 
* (12,2।37अ) अयज्ञियो हतवर्चा भवति नैनेन हविर् अत्तवे |
* (12,2।37च्) छिनत्ति कृष्या गोर् धनाद् यं क्रव्याद् अनुवर्तते ||37||
 
* (12,2।38अ) मुहुर् गृध्यैः प्र वदत्य् आर्तिम् मर्त्यो नीत्य |
* (12,2।38च्) क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति ||38||
 
* (12,2।39अ) ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः |
* (12,2।39च्) ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत् ||39||
* (12,2।40अ) यद् रिप्रं शमलं चकृम यच् च दुष्कृतम् |
* (12,2।40च्) आपो मा तस्माच् छुम्भन्त्व् अग्नेः संकसुकाच् च यत् ||40|| {10}
 
* (12,2।41अ) ता अधराद् उदीचीर् आववृत्रन् प्रजानैतीः पथिभिर् देवयानैः |
* (12,2।41च्) पर्वतस्य वृषभस्याधि पृष्ठे नवाश् चरन्ति सरितः पुराणीः ||41||
 
* (12,2।42अ) अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ||42||
 
* (12,2।43अ) इमं क्रव्याद् आ विवेशायं क्रव्यादम् अन्व् अगात् |
* (12,2।43च्) व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ||43||
 
* (12,2।44अ) अन्तर्धिर् देवानां परिधिर् मनुष्याणाम् अग्निर् गार्हपत्य उभयान् अन्तरा श्रितः ||44||
 
* (12,2।45अ) जीवानाम् आयुः प्र तिर त्वम् अग्ने पितॄणां लोकम् अपि गछन्तु ये मृताः |
* (12,2।45च्) सुगार्हपत्यो वितपन्न् अरातिम् उषामुषां श्रेयसीं धेह्य् अस्मै ||45||
 
* (12,2।46अ) सर्वान् अग्ने सहमानः सपत्नान् अइषाम् ऊर्जं रयिम् अस्मासु धेहि ||46||
 
* (12,2।47अ) इमम् इन्द्रं वह्निं पप्रिम् अन्वारभध्वं स वो निर् वक्षद् दुरिताद् अवद्यात् |
* (12,2।47च्) तेनाप हत शरुम् आपतन्तं तेन रुद्रस्य परि पातास्ताम् ||47||
 
* (12,2।48अ) अनढ्वाहं प्लवम् अन्वारभध्वं स वो निर् वक्षद् दुरिताद् अवद्यात् |
* (12,2।48च्) आ रोहत सवितुर् नावम् एतां षढ्भिर् उर्वीभिर् अमतिं तरेम ||48||
 
* (12,2।49अ) अहोरात्रे अन्व् एषि बिभ्रत् क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः |
* (12,2।49च्) अनातुरान्त् सुमनसस् तल्प बिभ्रज् ज्योग् एव नः पुरुषगन्धिर् एधि ||49||
 
* (12,2।50अ) ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा |
* (12,2।50च्) क्रव्याद् यान् अग्निर् अन्तिकाद् अश्व इवानुवपते नढम् ||50|| {11}
 
* (12,2।51अ) ये 'श्रद्धा धनकाम्या क्रव्यादा समासते |
* (12,2।51च्) ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ||51||
 
* (12,2।52अ) प्रेव पिपतिषति मनसा मुहुर् आ वर्तते पुनः |
* (12,2।52च्) क्रव्याद् यान् अग्निर् अन्तिकाद् अनुविद्वान् वितावति ||52||
 
* (12,2।53अ) अविः कृष्णा भागधेयं पशूनां सीसं क्रव्याद् अपि चन्द्रं त आहुः |
* (12,2।53च्) माषाः पिष्टा भागधेयं ते हव्यम् अरण्यान्या गह्वरं सचस्व ||53||
 
* (12,2।54अ) इषीकां जरतीम् इष्ट्वा तिल्पिञ्जं दण्ढनं नढम् |
* (12,2।54च्) तम् इन्द्र इध्मम् कृत्वा यमस्याग्निं निरादधौ ||54||
 
* (12,2।55अ) प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्य् आविवेश |
* (12,2।55च्) परामीषाम् असून् दिदेश दीर्घेणायुषा सम् इमान्त् सृजामि ||55|| {12}
 
 
 
* (12,3।1अ) पुमान् पुंसो 'धि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते |
* (12,3।1च्) यावन्ताव् अग्रे प्रथमं समेयथुस् तद् वां वयो यमराज्ये समानम् ||1||
 
* (12,3।2अ) तावद् वां चक्षुस् तति वीर्याणि तावत् तेजस् ततिधा वाजिनानि |
* (12,3।2च्) अग्निः शरीरं सचते यदैधो 'धा पक्वान् मिथुना सं भवाथः ||2||
 
* (12,3।3अ) सम् अस्मिंल् लोके सम् उ देवयाने सं स्मा समेतं यमराज्येषु |
* (12,3।3च्) पूतौ पवित्रैर् उप तद् ध्वयेथां यद्यद् रेतो अधि वां संबभूव ||3||
 
* (12,3।4अ) आपस् पुत्रासो अभि सं विशध्वम् इमं जीवं जीवधन्याः समेत्य |
* (12,3।4च्) तासां भजध्वम् अमृतं यम् आहुर् ओदनं पचति वां जनित्री ||4||
 
* (12,3।5अ) यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच् च वाचः |
* (12,3।5च्) स ओदनः शतधारः स्वर्ग उभे व्य् आप नभसी महित्वा ||5||
 
* (12,3।6अ) उभे नभसी उभयांश् च लोकान् ये यज्वनाम् अभिजिताः स्वर्गाः |
* (12,3।6च्) तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर् जरसि सं श्रयेथाम् ||6||
 
* (12,3।7अ) प्राचींप्राचीं प्रदिशम् आ रभेथाम् एतं लोकं श्रद्दधानाः सचन्ते |
* (12,3।7च्) यद् वां पक्वं परिविष्टम् अग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ||7||
 
* (12,3।8अ) दक्षिणां दिशम् अभि नक्षमाणौ पर्यावर्तेथाम् अभि पात्रम् एतत् |
* (12,3।8च्) तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात् ||8||
 
* (12,3।9अ) प्रतीची दिशाम् इयम् इद् वरं यस्यां सोमो अधिपा मृढिता च |
* (12,3।9च्) तस्यां श्रयेथां सुकृतः सचेथाम् अधा पक्वान् मिथुना सं भवाथः ||9||
 
* (12,3।10अ) उत्तरं राष्ट्रं प्रजयोत्तरावद् दिशाम् उदीची कृणवन् नो अग्रम् |
* (12,3।10च्) पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर् विश्वाङ्गैः सह सं भवेम ||10|| {13}
 
* (12,3।11अ) ध्रुवेयं विराण् नमो अस्त्व् अस्यै शिवा पुत्रेभ्य उत मह्यम् अस्तु |
* (12,3।11च्) सा नो देव्य् अदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ||11||
 
* (12,3।12अ) पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ |
* (12,3।12च्) यम् ओदनं पचतो देवते इह तं नस् तप उत सत्यं च वेत्तु ||12||
 
* (12,3।13अ) यद्यद् कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद |
* (12,3।13च्) यद् वा दास्य् आर्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ||13||
 
* (12,3।14अ) अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैर् अप हन्तु रक्षः |
* (12,3।14च्) आ रोह चर्म महि शर्म यछ मा दंपती पौत्रम् अघं नि गाताम् ||14||
 
* (12,3।15अ) वनस्पतिः सह देवैर् न आगन् रक्षः पिशाचां अपबाधमानः |
* (12,3।15च्) स उच् छ्रयातै प्र वदाति वाचं तेन लोकां अभि सर्वान् जयेम ||15||
 
* (12,3।16अ) सप्त मेधान् पशवः पर्य् अगृह्णन् य एषां ज्योतिष्मां उत यश् चकर्श |
* (12,3।16च्) त्रयस्त्रिंशद् देवतास् तान्त् सचन्ते स नः स्वर्गम् अभि नेष लोकम् ||16||
 
* (12,3।17अ) स्वर्गं लोकम् अभि नो नयासि सं जायया सह पुत्रैः स्याम |
* (12,3।17च्) गृह्णामि हस्तम् अनु मैत्व् अत्र मा नस् तारीन् निरृतिर् मो अरातिः ||17||
 
* (12,3।18अ) ग्राहिं पाप्मानम् अति तां अयाम तमो व्य् अस्य प्र वदासि वल्गु |
* (12,3।18च्) वानस्पत्य उद्यतो मा जिहिंसीर् मा तण्ढुलं वि शरीर् देवयन्तम् ||18||
 
* (12,3।19अ) विश्वव्यचा घृतपृष्ठो भविष्यन्त् सयोनिर् लोकम् उप याह्य् एतम् |
* (12,3।19च्) वर्षवृद्धम् उप यछ शूर्पं तुषं पलावान् अप तद् विनक्तु ||19||
 
* (12,3।20अ) त्रयो लोकाः संमिता ब्राह्मणेन द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् |
* (12,3।20च्) अंशून् गृभीत्वान्वारभेथाम् आ प्यायन्तां पुनर् आ यन्तु शूर्पम् ||20|| {14}
 
* (12,3।21अ) पृथग् रूपाणि बहुधा पशूनाम् एकरूपो भवसि सं समृद्ध्या |
* (12,3।21च्) एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ||21||
 
* (12,3।22अ) पृथिवीं त्वा पृथिव्याम् आ वेशयामि तनूः समानी विकृता त एषा |
* (12,3।22च्) यद्यद् द्युत्तं लिखितम् अर्पणेन तेन मा सुस्रोर् ब्रह्मणापि तद् वपामि ||22||
 
* (12,3।23अ) जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या |
* (12,3।23च्) उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैर् आज्येनातिषक्ता ||23||
 
* (12,3।24अ) अग्निः पचन् रक्षतु त्वा पुरस्ताद् इन्द्रो रक्षतु दक्षिणतो मरुत्वान् |
* (12,3।24च्) वरुणस् त्वा दृंहाद् धरुणे प्रतीच्या उत्तरात् त्वा सोमः सं ददातै ||24||
 
* (12,3।25अ) पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् |
* (12,3।25च्) ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्य् अग्निर् इन्धाम् ||25||
 
* (12,3।26अ) आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्य् अन्तरिक्षम् |
* (12,3।26च्) शुद्धाः सतीस् ता उ शुम्भन्त एव ता नः स्वर्गम् अभि लोकं नयन्तु ||26||
 
* (12,3।27अ) उतेव प्रभ्वीर् उत संमितास उत शुक्राः शुचयश् चामृतासः |
* (12,3।27च्) ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ||27||
 
* (12,3।28अ) संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः |
* (12,3।28च्) असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ||28||
 
* (12,3।29अ) उद् योधन्त्य् अभि वल्गन्ति तप्ताः फेनम् अस्यन्ति बहुलांश् च बिन्दून् |
* (12,3।29च्) योषेव दृष्ट्वा पतिम् ऋत्वियायैतैस् तण्ढुलैर् भवता सम् आपः ||29||
 
* (12,3।30अ) उत् थापय सीदतो बुध्न एनान् अद्भिर् आत्मानम् अभि सं स्पृशन्ताम् |
* (12,3।30च्) अमासि पात्रैर् उदकं यद् एतन् मितास् तण्ढुलाः प्रदिशो यदीमाः ||30|| {15}
 
* (12,3।31अ) प्र यछ पर्शुं त्वरया हरौसम् अहिंसन्त ओषधीर् दान्तु पर्वन् |
* (12,3।31च्) वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ||31||
 
* (12,3।32अ) नवं बर्हिर् ओदनाय स्तृणीत प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु |
* (12,3।32च्) तस्मिन् देवाः सह दैवीर् विशन्त्व् इमं प्राश्नन्त्व् ऋतुभिर् निषद्य ||32||
 
* (12,3।33अ) वनस्पते स्तीर्णम् आ सीद बर्हिर् अग्निष्टोभैः संमितो देवताभिः |
* (12,3।33च्) त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ||33||
 
* (12,3।34अ) षष्ट्यां शरत्सु निधिपा अभीछात् स्वः पक्वेनाभ्य् अश्नवातै |
* (12,3।34च्) उपैनं जीवान् पितरश् च पुत्रा एतं स्वर्गं गमयान्तम् अग्नेः ||34||
 
* (12,3।35अ) धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश् च्यावयन्तु |
* (12,3।35च्) तं त्वा दंपती जीवन्तौ जीवपुत्राव् उद् वासयातः पर्य् अग्निधानात् ||35||
 
* (12,3।36अ) सर्वान्त् समागा अभिजित्य लोकान् यावन्तः कामाः सम् अतीतृपस् तान् |
* (12,3।36च्) वि गाहेथाम् आयवनं च दर्विर् एकस्मिन् पात्रे अध्य् उद् धरैनम् ||36||
 
* (12,3।37अ) उप स्तृणीहि प्रथय पुरस्ताद् घृतेन पात्रम् अभि घारयैतत् |
* (12,3।37च्) वाश्रेवोस्रा तरुणं स्तनस्युम् इमं देवासो अभिहिङ्कृणोत ||37||
 
* (12,3।38अ) उपास्तरीर् अकरो लोकम् एतम् उरुः प्रथताम् असमः स्वर्गः |
* (12,3।38च्) तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ||38||
 
* (12,3।39अ) यद्यज् जाया पचति त्वत् परःपरः पतिर् वा जाये त्वत् तिरः |
* (12,3।39च्) सं तत् सृजेथां सह वां तद् अस्तु संपादयन्तौ सह लोकम् एकम् ||39||
 
* (12,3।40अ) यावन्तो अस्याः पृथिवीं सचन्ते अस्मत् पुत्राः परि ये संबभूवुः |
* (12,3।40च्) सर्वांस् तां उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ||40|| {16}
 
* (12,3।41अ) वसोर् या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः |
* (12,3।41च्) सर्वास् ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात् ||41||
 
* (12,3।42अ) निधिं निधिपा अभ्य् एनम् इछाद् अनीश्वरा अभितः सन्तु ये 'न्ये |
* (12,3।42च्) अस्माभिर् दत्तो निहितः स्वर्गस् त्रिभिः काण्ढैस् त्रीन्त् स्वर्गान् अरुक्षत् ||42||
 
* (12,3।43अ) अग्नी रक्षस् तपतु यद् विदेवं क्रव्याद् पिशाच इह मा प्र पास्त |
* (12,3।43च्) नुदाम एनम् अप रुध्मो अस्मद् आदित्या एनम् अङ्गिरसः सचन्ताम् ||43||
* (12,3।44अ) आदित्येभ्यो अङ्गिरोभ्यो मध्व् इदं घृतेन मिश्रं प्रति वेदयामि |
* (12,3।44च्) शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृताव् अपीतम् ||44||
 
* (12,3।45अ) इदं प्रापम् उत्तमं काण्ढम् अस्य यस्माल् लोकात् परमेष्ठी समाप |
* (12,3।45च्) आ सिञ्च सर्पिर् घृतवत् सम् अङ्ग्ध्य् एष भागो अङ्गिरसो नो अत्र ||45||
 
* (12,3।46अ) सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् |
* (12,3।46च्) मा नो द्यूते 'व गान् मा समित्यां मा स्मान्यस्मा उत् सृजता पुरा मत् ||46||
 
* (12,3।47अ) अहं पचाम्य् अहं ददामि ममेद् उ कर्मन् करुणे 'धि जाया |
* (12,3।47च्) कौमारो लोको अजनिष्ट पुत्रो 'न्वारभेथां वय उत्तरावत् ||47||
 
* (12,3।48अ) न किल्बिषम् अत्र नाधारो अस्ति न यन् मित्रैः समममान एति |
* (12,3।48च्) अनूनं पात्रं निहितं न एतत् पक्तारं पक्वः पुनर् आ विशाति ||48||
 
* (12,3।49अ) प्रियं प्रियाणां कृणवाम तमस् ते यन्तु यतमे द्विषन्ति |
* (12,3।49च्) धेनुर् अनढ्वान् वयोवय आयद् एव पौरुषेयम् अप मृत्युं नुदन्तु ||49||
 
* (12,3।50अ) सम् अग्नयः विदुर् अन्यो अन्यं य ओषधीः सचते यश् च सिन्धून् |
* (12,3।50च्) यावन्तो देवा दिव्य् आतपन्ति हिरण्यं ज्योतिः पचतो बभूव ||50|| {17}
 
* (12,3।51अ) एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये |
* (12,3।51च्) क्षत्रेणात्मानं परि धापयाथो 'मोतं वासो मुखम् ओदनस्य ||51||
 
* (12,3।52अ) यद् अक्षेषु वदा यत् समित्यां यद् वा वदा अनृतं वित्तकाम्या |
* (12,3।52च्) समानं तन्तुम् अभि सम्वसानौ तस्मिन्त् सर्वं शमलं सादयाथः ||52||
 
* (12,3।53अ) वर्षं वनुष्वापि गछ देवांस् त्वचो धूमं पर्य् उत् पातयासि |
* (12,3।53च्) विश्वव्यचा घृतपृष्ठो भविष्यन्त् सयोनिर् लोकम् उप याह्य् एतम् ||53||
 
* (12,3।54अ) तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् |
* (12,3।54च्) अपाजैत् कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ||54||
 
* (12,3।55अ) प्राच्यै त्वा दिशे 'ग्नये 'धिपतये 'सिताय रक्षित्र आदित्यायेषुमते |
* (12,3।55च्) एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः |
* (12,3।55ए) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ||55||
 
* (12,3।56अ) दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते |
* (12,3।56च्) एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः |
* (12,3।56ए) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ||56||
 
* (12,3।57अ) प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे 'न्नायेषुमते |
* (12,3।57च्) एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः |
* (12,3।57ए) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ||57||
 
* (12,3।58अ) उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रे 'शन्या इषुमत्यै |
* (12,3।58च्) एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः |
* (12,3।58ए) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ||58||
 
* (12,3।59अ) ध्रुवायै त्वा दिशे विष्णवे 'धिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः |
* (12,3।59च्) एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः |
* (12,3।59ए) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ||59||
 
* (12,3।60अ) ऊर्ध्वायै त्वा दिशे बृहस्पतये 'धिपतये श्वित्राय रक्षित्रे वर्षायेषुमते |
* (12,3।60च्) एतं परि दद्मस् तं नो गोपायतास्माकम् अइतोः |
* (12,3।60ए) दिष्टं नो अत्र जरसे नि नेषज् जरा मृत्यवे परि णो ददात्व् अथ पक्वेन सह सं भवेम ||60|| {18}
 
 
 
* (12,4।1अ) ददामीत्य् एव ब्रूयाद् अनु चैनाम् अभुत्सत |
* (12,4।1च्) वशां ब्रह्मभ्यो याचद्भ्यस् तत् प्रजावद् अपत्यवत् ||1||
 
* (12,4।2अ) प्रजया स वि क्रीणीते पशुभिश् चोप दस्यति |
* (12,4।2च्) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ||2||
 
* (12,4।3अ) कूटयास्य सं शीर्यन्ते श्लोणया काटम् अर्दति |
* (12,4।3च्) बण्ढया दह्यन्ते गृहाः काणया दीयते स्वम् ||3||
 
* (12,4।4अ) विलोहितो अधिष्ठानाच् छक्नो विन्दति गोपतिम् |
* (12,4।4च्) तथा वशायाः संविद्यं दुरदभ्ना ह्य् उच्यसे ||4||
 
* (12,4।5अ) पदोर् अस्या अधिष्ठानाद् विक्लिन्दुर् नाम विन्दति |
* (12,4।5च्) अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति ||5||
 
* (12,4।6अ) यो अस्याः कर्णाव् आस्कुनोत्य् आ स देवेषु वृश्चते |
* (12,4।6च्) लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ||6||
 
* (12,4।7अ) यद् अस्याः कस्मै चिद् भोगाय बालान् कश् चित् प्रकृन्तति |
* (12,4।7च्) ततः किशोरा म्रियन्ते वत्सांश् च घातुको वृकः ||7||
 
* (12,4।8अ) यद् अस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिढत् |
* (12,4।8च्) ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्य् अनामनात् ||8||
 
* (12,4।9अ) यद् अस्याः पल्पूलनं शकृद् दासी समस्यति |
* (12,4।9च्) ततो 'परूपं जायते तस्माद् अव्येष्यद् एनसः ||9||
 
* (12,4।10अ) जायमानाभि जायते देवान्त् सब्राह्मणान् वशा |
* (12,4।10च्) तस्माद् ब्रह्मभ्यो देयैषा तद् आहुः स्वस्य गोपनम् ||10|| {19}
 
* (12,4।11अ) य एनां वनिम् आयन्ति तेषां देवकृता वशा |
* (12,4।11च्) ब्रह्मज्येयं तद् अब्रुवन् य एनां निप्रियायते ||11||
 
* (12,4।12अ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति |
* (12,4।12च्) आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ||12||
 
* (12,4।13अ) यो अस्य स्याद् वशाभोगो अन्याम् इछेत तर्हि सः |
* (12,4।13च्) हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ||13||
 
* (12,4।14अ) यथा शेवधिर् निहितो ब्राह्मणानां तथा वशा |
* (12,4।14च्) ताम् एतद् अछायन्ति यस्मिन् कस्मिंश् च जायते ||14||
 
* (12,4।15अ) स्वम् एतद् अछायन्ति यद् वशां ब्राह्मणा अभि |
* (12,4।15च्) यथैनान् अन्यस्मिन् जिनीयाद् एवास्या निरोधनम् ||15||
 
* (12,4।16अ) चरेद् एवा त्रैहायणाद् अविज्ञातगदा सती |
* (12,4।16च्) वशां च विद्यान् नारद ब्राह्मणास् तर्ह्य् एष्याः ||16||
 
* (12,4।17अ) य एनाम् अवशाम् आह देवानां निहितं निधिम् |
* (12,4।17च्) उभौ तस्मै भवाशर्वौ परिक्रम्येषुम् अस्यतः ||17||
 
* (12,4।18अ) यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत |
* (12,4।18च्) उभयेनैवास्मै दुहे दातुं चेद् अशकद् वशाम् ||18||
 
* (12,4।19अ) दुरदभ्नैनम् आ शये याचितां च न दित्सति |
* (12,4।19च्) नास्मै कामाः सम् ऋध्यन्ते याम् अदत्त्वा चिकीर्षति ||19||
 
* (12,4।20अ) देवा वशाम् अयाचन् मुखं कृत्वा ब्राह्मणम् |
* (12,4।20च्) तेषां सर्वेषाम् अददद् धेढं न्य् एति मानुषः ||20|| {20}
 
* (12,4।21अ) हेढं पशूनां न्य् एति ब्राह्मणेभ्यो 'ददद् वशाम् |
* (12,4।21च्) देवानां निहितं भागं मर्त्यश् चेन् निप्रियायते ||21||
 
* (12,4।22अ) यद् अन्ये शतं याचेयुर् ब्राह्मणा गोपतिं वशाम् |
* (12,4।22च्) अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ||22||
 
* (12,4।23अ) य एवं विदुषे 'दत्त्वाथान्येभ्यो ददद् वशाम् |
* (12,4।23च्) दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ||23||
 
* (12,4।24अ) देवा वशाम् अयाचन् यस्मिन्न् अग्रे अजायत |
* (12,4।24च्) ताम् एतां विद्यान् नारदः सह देवैर् उद् आजत ||24||
 
* (12,4।25अ) अनपत्यम् अल्पपशुं वशा कृणोति पूरुषम् |
* (12,4।25च्) ब्राह्मणैश् च याचिताम् अथैनां निप्रियायते ||25||
 
* (12,4।26अ) अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च |
* (12,4।26च्) तेभ्यो याचन्ति ब्राह्मणास् तेष्व् आ वृश्चते 'ददत् ||26||
 
* (12,4।27अ) यावद् अस्या गोपतिर् नोपशृणुयाद् ऋचः स्वयम् |
* (12,4।27च्) चरेद् अस्य तावद् गोषु नास्य श्रुत्वा गृहे वसेत् ||27||
 
* (12,4।28अ) यो अस्या ऋच उपश्रुत्याथ गोष्व् अचीचरत् |
* (12,4।28च्) आयुश् च तस्य भूतिं च देवा वृश्चन्ति हीढिताः ||28||
 
* (12,4।29अ) वशा चरन्ती बहुधा देवानां निहितो निधिः |
* (12,4।29च्) आविष् कृणुष्व रूपाणि यदा स्थाम जिघांसति ||29||
 
* (12,4।30अ) आविर् आत्मानं कृणुते यदा स्थाम जिघांसति |
* (12,4।30च्) अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ||30|| {21}
 
* (12,4।31अ) मनसा सं कल्पयति तद् देवां अपि गछति |
* (12,4।31च्) ततो ह ब्रह्माणो वशाम् उपप्रयन्ति याचितुम् ||31||
 
* (12,4।32अ) स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः |
* (12,4।32च्) दानेन राजन्यो वशाया मातुर् हेढम् न गछति ||32||
 
* (12,4।33अ) वशा माता राजन्यस्य तथा संभूतम् अग्रशः |
* (12,4।33च्) तस्या आहुर् अनर्पणं यद् ब्रह्मभ्यः प्रदीयते ||33||
 
* (12,4।34अ) यथाज्यं प्रगृहीतम् आलुम्पेत् स्रुचो अग्नये |
* (12,4।34च्) एवा ह ब्रह्मभ्यो वशाम् अग्नय आ वृश्चते 'ददत् ||34||
 
* (12,4।35अ) पुरोढाशवत्सा सुदुघा लोके 'स्मा उप तिष्ठति |
* (12,4।35च्) सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ||35||
 
* (12,4।36अ) सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे |
* (12,4।36च्) अथाहुर् नारकं लोकं निरुन्धानस्य याचिताम् ||36||
 
* (12,4।37अ) प्रवीयमाना चरति क्रुद्धा गोपतये वशा |
* (12,4।37च्) वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ||37||
 
* (12,4।38अ) यो वेहतं मन्यमानो 'मा च पचते वशाम् |
* (12,4।38च्) अप्य् अस्य पुत्रान् पौत्रांश् च याचयते बृहस्पतिः ||38||
 
* (12,4।39अ) महद् एषाव तपति चरन्ती गोषु गौर् अपि |
* (12,4।39च्) अथो ह गोपतये वशाददुषे विषं दुहे ||39||
 
* (12,4।40अ) प्रियं पशूनां भवति यद् ब्रह्मभ्यः प्रदीयते |
* (12,4।40च्) अथो वशायास् तत् प्रियं यद् देवत्रा हविः स्यात् ||40|| {22}
 
* (12,4।41अ) या वशा उदकल्पयन् देवा यज्ञाद् उदेत्य |
* (12,4।41च्) तासां विलिप्त्यं भीमाम् उदाकुरुत नारदः ||41||
 
* (12,4।42अ) तां देवा अमीमांसन्त वशेया3म् अवशेति |
* (12,4।42च्) ताम् अब्रवीन् नारद एषा वशानां वशतमेति ||42||
 
* (12,4।43अ) कति नु वशा नारद यास् त्वं वेत्थ मनुष्यजाः |
* (12,4।43च्) तास् त्वा पृछामि विद्वांसं कस्या नाश्नीयाद् अब्राह्मणः ||43||
 
* (12,4।44अ) विलिप्त्या बृहस्पते या च सूतवशा वशा |
* (12,4।44च्) तस्या नाश्नीयाद् अब्राह्मणो य आशंसेत भूत्याम् ||44||
 
* (12,4।45अ) नमस् ते अस्तु नारदानुष्ठु विदुषे वशा |
* (12,4।45च्) कतमासां भीमतमा याम् अदत्त्वा पराभवेत् ||45||
 
* (12,4।46अ) विलिप्ती या बृहस्पते 'थो सूतवशा वशा |
* (12,4।46च्) तस्या नाश्नीयाद् अब्राह्मणो य आशंसेत भूत्याम् ||46||
 
* (12,4।47अ) त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा |
* (12,4।47च्) ताः प्र यछेद् ब्रह्मभ्यः सो 'नाव्रस्कः प्रजापतौ ||47||
 
* (12,4।48अ) एतद् वो ब्राह्मणा हविर् इति मन्वीत याचितः |
* (12,4।48च्) वशां चेद् एनं याचेयुर् या भीमाददुषो गृहे ||48||
 
* (12,4।49अ) देवा वशां पर्य् अवदन् न नो 'दाद् इति हीढिताः |
* (12,4।49च्) एताभिर् ऋग्भिर् भेदं तस्माद् वै स पराभवत् ||49||
 
* (12,4।50अ) उतैनां भेदो नाददाद् वशाम् इन्द्रेण याचितः |
* (12,4।50च्) तस्मात् तं देवा आगसो 'वृश्चन्न् अहमुत्तरे ||50||
 
* (12,4।51अ) ये वशाया अदानाय वदन्ति परिरापिणः |
* (12,4।51च्) इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ||51||
 
* (12,4।52अ) ये गोपतिं पराणीयाथाहुर् मा ददा इति |
* (12,4।52च्) रुद्रस्यास्तां ते हेतीं परि यन्त्य् अचित्त्या ||52||
 
* (12,4।53अ) यदि हुतं यद्य् अहुताम् अमा च पचते वशाम् |
* (12,4।53च्) देवान्त् सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर् ऋछति ||53|| {23}
 
 
* (12,5।53अ) श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ||1||
 
* (12,5।2अ) सत्येनावृता श्रिया प्रावृता यशसा परीवृता ||2||
 
* (12,5।3अ) स्वधया परिहिता श्रद्धया पर्यूडा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ||3||
 
* (12,5।4अ) ब्रह्म पदवायं ब्राह्मणो 'धिपतिः ||4||
 
* (12,5।5अ) ताम् आददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ||5||
 
* (12,5।6अ) अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ||6|| {24}
 
* (12,5।7अ) ओजश् च तेजश् च सहश् च बलं च वाक् चेन्द्रियं च श्रीश् च धर्मश् च ||7||
 
* (12,5।8अ) ब्रह्म च क्षत्रं च राष्ट्रं च विशश् च त्विषिश् च यशश् च वर्चश् च द्रविणं च ||8||
 
* (12,5।9अ) आयुश् च रूपं च नाम च कीर्तिश् च प्राणश् चापानश् च चक्षुश् च श्रोत्रं च ||9||
 
* (12,5।10अ) पयश् च रसश् चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश् च ||10||
 
* (12,5।11अ) तानि सर्वाण्य् अप क्रामन्ति ब्रह्मगवीम् आददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ||11|| {25}
 
* (12,5।12अ) सैषा भीमा ब्रह्मगव्य् अघविषा साक्षात् कृत्या कूल्बजम् आवृता ||12||
 
* (12,5।13अ) सर्वाण्य् अस्यां घोराणि सर्वे च मृत्यवः ||13||
 
* (12,5।14अ) सर्वाण्य् अस्यां क्रूराणि सर्वे पुरुषवधाः ||14||
 
* (12,5।15अ) सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्य् आदीयमाना मृत्योः पद्वीष आ द्यति ||15||
 
* (12,5।16अ) मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर् हि सा ||16||
 
* (12,5।17अ) तस्माद् वै ब्राह्मणानां गौर् दुराधर्षा विजानता ||17||
 
* (12,5।18अ) वज्रो धावन्ती वैश्वानर उद्वीता ||18||
 
* (12,5।19अ) हेतिः शफान् उत्खिदन्ती महादेवो 'पेक्षमाणा ||19||
 
* (12,5।20अ) क्षुरपविर् ईक्षमाणा वाश्यमानाभि स्फूर्जति ||20||
 
* (12,5।21अ) मृत्युर् हिङ्कृण्वत्य् उग्रो देवः पुछं पर्यस्यन्ती ||21||
 
* (12,5।22अ) सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ||22||
 
* (12,5।23अ) मेनिर् दुह्यमाना शीर्षक्तिर् दुग्धा ||23||
 
* (12,5।24अ) सेदिर् उपतिष्ठन्ती मिथोयोधः परामृष्टा ||24||
* (12,5।25अ) शरव्या मुखे 'पिनह्यमान ऋतिर् हन्यमाना ||25||
 
* (12,5।26अ) अघविषा निपतन्ती तमो निपतिता ||26||
 
* (12,5।27अ) अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ||27|| {26}
 
* (12,5।28अ) वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ||28||
 
* (12,5।29अ) देवहेतिर् ह्रियमाणा व्यृद्धिर् हृता ||29||
 
* (12,5।30अ) पाप्माधिधीयमाना पारुष्यम् अवधीयमाना ||30||
 
* (12,5।31अ) विषं प्रयस्यन्ती तक्मा प्रयस्ता ||31||
 
* (12,5।32अ) अघं प्रच्यमाना दुष्वप्न्यं पक्वा ||32||
* (12,5।33अ) मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ||33||
 
* (12,5।34अ) असंज्ञा गन्धेन शुग् उद्ध्रियमाणाशीविष उद्धृता ||34||
 
* (12,5।35अ) अभूतिर् उपह्रियमाणा पराभूतिर् उपहृता ||35||
 
* (12,5।36अ) शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ||36||
 
* (12,5।37अ) अवर्तिर् अश्यमाना निरृतिर् अशिता ||37||
 
* (12,5।38अ) अशिता लोकाच् छिनत्ति ब्रह्मगवी ब्रह्मज्यम् अस्माच् चामुष्माच् च ||38|| {27}
 
* (12,5।39अ) तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम् ||39||
 
* (12,5।40अ) अस्वगता परिह्णुता ||40||
 
* (12,5।41अ) अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ||41||
 
* (12,5।42अ) सर्वास्याङ्गा पर्वा मूलानि वृश्चति ||42||
 
* (12,5।43अ) छिनत्त्य् अस्य पितृबन्धु परा भावयति मातृबन्धु ||43||
 
* (12,5।44अ) विवाहां ज्ञातीन्त् सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ||44||
 
* (12,5।45अ) अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् अपरापरणो भवति क्षीयते ||45||
 
* (12,5।46अ) य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ||46|| {28}
 
* (12,5।47अ) क्षिप्रं वै तस्याहनने गृध्राः कुर्वत अइलबम् ||47||
 
* (12,5।48अ) क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीर् आघ्नानाः पाणिनोरसि कुर्वाणाः पापम् अइलबम् ||48||
 
* (12,5।49अ) क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत अइलबम् ||49||
 
* (12,5।50अ) क्षिप्रं वै तस्य पृछन्ति यत् तद् आसी3द् इदं नु ता3द् इति ||50||
 
* (12,5।51अ) छिन्ध्य् आ छिन्धि प्र छिन्ध्य् अपि क्षापय क्षापय ||51||
 
* (12,5।52अ) आददानम् आङ्गिरसि ब्रह्मज्यम् उप दासय ||52||
 
* (12,5।53अ) वैश्वदेवी ह्य् उच्यसे कृत्या कूल्बजम् आवृता ||53||
 
* (12,5।54अ) ओषन्ती समोषन्ती ब्रह्मणो वज्रः ||54||
 
* (12,5।55अ) क्षुरपविर् मृत्युर् भूत्वा वि धाव त्वम् ||55||
 
* (12,5।56अ) आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ||56||
 
* (12,5।57अ) आदाय जीतं जीताय लोके 'मुष्मिन् प्र यछसि ||57||
 
* (12,5।58अ) अघ्न्ये पदवीर् भव ब्राह्मणस्याभिशस्त्या ||58||
 
* (12,5।59अ) मेनिः शरव्या भवाघाद् अघविषा भव ||59||
 
* (12,5।60अ) अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोर् अराधसः ||60||
 
* (12,5।61अ) त्वया प्रमूर्णं मृदितम् अग्निर् दहतु दुश्चितम् ||61|| {29}
 
* (12,5।62अ) वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ||62||
 
* (12,5।63अ) ब्रह्मज्यं देव्य् अघ्न्य आ मूलाद् अनुसंदह ||63||
 
* (12,5।64अ) यथायाद् यमसादनात् पापलोकान् परावतः ||64||
 
* (12,5।65अ) एवा त्वं देव्य् अघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोर् अराधसः ||65||
 
* (12,5।66अ) वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ||66||
 
* (12,5।67अ) प्र स्कन्धान् प्र शिरो जहि ||67||
 
* (12,5।68अ) लोमान्य् अस्य सं छिन्धि त्वचम् अस्य वि वेष्टय ||68||
 
* (12,5।69अ) मांसान्य् अस्य शातय स्नावान्य् अस्य सं वृह ||69||
 
* (12,5।70अ) अस्थीन्य् अस्य पीढय मज्जानम् अस्य निर् जहि ||70||
 
* (12,5।71अ) सर्वास्याङ्गा पर्वाणि वि श्रथय ||71||
 
* (12,5।72अ) अग्निर् एनं क्रव्यात् पृथिव्या नुदताम् उद् ओषतु वायुर् अन्तरिक्षान् महतो वरिम्णः ||72||
 
* (12,5।73अ) सूर्य एनं दिवः प्र णुदतां न्य् ओषतु ||73|| {30}
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_१२" इत्यस्माद् प्रतिप्राप्तम्