विश्वकर्मवास्तुशास्त्रम्
विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या
- श्री सरस्वत्यै नमः श्रीगणेशाय नमः श्रीविश्वकर्मणे नमः
प्रथमोऽध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यां पूर्वार्ध आयादिगणिताध्याय प्रथमोऽध्याय १
- श्री विश्वकर्मा उवाच
- अथातः संप्रवक्ष्यामि आयादिनां लक्षणे
- प्रासादनिलये पुरे वापि प्राकर मंडपे १
- वास्तु कर्मेषु सर्वेषु आयादिगणित योजयेत्
- इदानीं कथयिष्यामि गणितवास्तुकर्मके २
- १ आय
- आयत्वं च पृथुत्वे न गुणयेदाकर्मणि
- अष्टाभिर्हरेत्भाग यत्शेषं आयादिशु ३
- ध्वजाधूमस्तथा सिंह श्वानोवृषखरौगज
- ध्वाक्षं चैव समं दृष्ट्वा प्रार्व्यादिषु प्रदक्षिणे ४
- ध्वजो सिंहो वृषो गजो शश्यतेश्रुभवेश्मशु
- अधमानं खरोध्वांक्षो धूमश्वानःसुखावहा ५
- प्रासाद प्रतिमालिङ्गे जगती पीठमंडपे
- वेदी कुंडेशुचि चैव पताकाछत्र ध्वजादेय ६
- अग्निकर्मषु सर्वेषु होमशाला महानसे
- थूमोऽग्निकुंडसंस्थाने होमकर्मगृहेऽपि च ७
- आयुधेषु समस्तेषु नृपाणां भवनेषु च
- नृपासने सिंहद्वारे सिंहतत्र निवेशयेत् ८
- श्वानोम्लेच्छं गृहे प्रोक्तो वेश्यागारे नटस्य च
- नृत्यकारेषु सर्वेषु श्वानःश्वानोपजीविनाम् ९
- वणिजकर्मषु सर्वेषु भोजनपात्रेषु मंडपे
- वृषास्तुरङ्गशालानां गौशालागोकुलेषु च १०
- तत् वितघ्नादिस्वरे वाजित्रे विविधे तथा
- कुलालरजाकादिका खरो गर्दभोपजीविनाम् ११
- गजश्च गजशालायां सिंहयत्नेन वर्जयेत्
- सिंहासने गजं देयं यानस्याय गृहेषु च १२
- मठेषु यंत्रशालासु जिनशालादिकेषु च
- ध्वांक्षं चैव प्रदातव्यं शिल्पकर्मो प्रजीविनाम् १३
- वृषस्थाने गजं दद्यात् सिंहवृषमहस्तिनौ
- ध्वज सर्वेषु दातव्यं वृषो नान्यत्र दीयते १४
- प्रासादे मंडपे बाह्ये गृहे भित्तिस्तु मध्यत १५
- आय स्वरूप
- यथानामा तथामुखा ध्वजनर ध्वांक्षकाकरूपकं
- मुखैः स्वनामा सदशाः नराकार करोदरा १६
- हस्तभ्यां तदूरुपाढ्या पादाभ्यां विहंगाकृते
- सर्वेषां सिंहवह्नीवा प्रबलाश्च महोकटा १७
- २ नक्षत्रा
- फले चाष्टगुपो तस्मिन् सप्ताविंशति भाजित
- यदच्छेषं लभते तत्र नक्षत्र तद्गृहेषु य १८
- ३ गण
- पुनर्वसुश्विनी पुष्य मृगश्रवणरेवती
- स्वाति हस्तानुराधाय एतेदेवगणाःस्मृता १९
- भरणी रोहिणि आद्रा र्! पूर्वाणि तृतीयं तथा
- उत्तरात्रयं श्रैव नवैते मानुषागणा २०
- विशाखा कृतिकाश्लेषा मघा च शतभिषास्तथा
- चित्रा ज्येष्ठाधनीष्ठा च मूल एते च राक्षसा २१
- स्वगणे चोत्तमा प्रीति मध्ये मानवराक्षसा
- कलहो देवदैत्यानां मृत्युमानवराक्षसै २२
- ४ चंद्र
- कृतिकाद्या सप्त सप्त पूर्वादिषु प्रदक्षिणे
- अष्टाविंशति ऋक्षाणी ततः चंद्र मुदियते २३
- अग्रतो हरते आयु पृष्ठतो हरतेधन
- वामदक्षिणातो चंद्रो धनधान्यकरस्मृता २४
- प्रासादे रात्रवेश्मेषु चंद्रो दद्यात् अग्रतो
- अन्येषां च न दातव्यं श्रीमंतादि गृहेषु च २५
- ५ व्यय
- नक्षत्रं वसुभिर्भक्त यच्छेषं व्ययो भवेन
- समव्ययः पिशाच राक्षसस्य व्ययोऽधिकं २६
- व्ययन्यूनो नरोऋक्षो धनंधान्यकर स्मृता
- ६ अशंक
- मूलराशी व्ययक्षिप्यं गृहनामाक्षराणि च २७
- त्रिभिरेव हरेद्भागे यच्छेषं तदंशकम्
- इंद्रो यमश्च राजानां अंशके क्रमेण तु २८
- प्रमाणं त्रिविधोत्कर्तव्या ज्येष्ठ मध्यम कन्यस
- ७ तारा
- गणयेत्स्वामि नक्षत्रं यावदक्षं गृहस्य च २९
- नवभिश्च हरेत्भागं शेषं तारा प्रकीर्तिता
- ताराषटश्रुभाप्रोक्ताद्येकाद्विचतुषडाष्टनवके ३०
- त्रिपंच सप्तभिश्चैव एमितारा विवर्जिता ३१
- इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्याय आयादिगणिताध्याय प्रथमोऽध्याय क्रमांक १ पूर्वार्ध
द्वितीयोऽध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमांक द्वितीयोऽध्याय २
- ग्रंथपूर्ति
- वास्तुप्रारंभ
- शुभ लग्ने शुभ नक्षत्रे पंचग्रह बलान्विते
- मास संक्रांतिवत्सादि निषिद्धकाल वर्जिते १
- भूमिपरीक्षा
- सर्वदिक्षुप्रवाहो वा प्रागुदक्शंकरप्लवा
- केशांगाराकाष्टलोहास्थिक्रान्त शोधयेत् भूमि २
- पाषाणान्ते जलान्तवा वालुकान्नखनेन्त भूमि
- दिग्शुद्धिकृते वास्तु पुरप्रासाद मंदिर ३
- पंचवानवाशिला मध्ये कर्मशिला स्थापयेत्
- एक हस्ते तु प्रासादे शिलो वेदांङ्गुलो भवेत् ४
- षडांङ्गुला द्विहस्ते च त्रिहस्ते च ग्रहाङ्गुला
- चतुहस्तेय प्रासादे शिलास्याद द्वादशाम् ५
- ततोऽपरेष्ट हस्तांते वृद्धिवेदाङ्गुलो भवेत्
- पुनः त्र्! यंगुलातो वृद्धि पंचाश हस्तकावधि ६
- पादेन चोच्छिता शस्तातां कुर्याद् पंकजान्वितम्
- दिग्पाल क्षेत्रपाल गणेशचंडीका वास्तौ ७
- एतेषां विधिवत्पूजा कृत्वा कर्मसमारभेत्
- शिलाधः नागकूर्मोपरिकुभ स्थापयेत् ८
- एक हस्तादिप्रासादाद् यावद् हस्तशतार्धकम्
- प्रमाणां कुंभकेमुले नासिकेभित्ति बाह्यते ९
- त्रिपंचसप्तनवोभि फलनाभिर्विभाजितम्
- प्रासादस्याङ्गसंख्या च वारिमार्गान्तरस्थिता १०
- इति विश्वकर्माकृते वासुविद्यायां वास्तुशास्त्रे वास्तुप्रारंभाशिला स्थापना ध्याय द्वितीयोऽध्याय २
तृतीयोऽध्यायः सम्पाद्यताम्
- श्री विश्वकर्माकृतायां वास्तुविद्यायां जगती लक्षणाध्याय क्रमाक ३
- विश्वकर्मा उवाच
- अतः ऊर्ध्वप्रवक्ष्यामि जगत्यां लक्षण परम्
- ये नैव कृतमात्रेण सर्वश्रेय समाप्नुयात् १
- प्रासाद विस्तर तुल्य प्रासादार्धं प्रमाणतः
- पादोनं वाथ कर्तव्यं सार्धवाथ प्रयोजयेत् २
- द्विगुणं वाथ कर्तव्यं सोपानायाम कीर्तितः
- शुण्डिकासु च विज्ञेयं तत्पादे गण्ड विस्तरम् ३
- द्वितीयं तत्समं ज्ञेयं शुण्डिकोभयतः स्थिता
- प्रासादार्धसमं ज्ञेयं जगतीभद्र निर्गमम् ४
- पादोनं वाथ कर्तव्यं प्रासादस्य समं ततः
- भद्र निर्गम तुल्यं तु जगतीगण्डनिर्गमम् ५
- द्वितीयं तत्समं कार्य प्रतीहारास्तदग्रतः
- मूलनायकं यन्मानं तन्मानात्पादवर्जितम् ६
- ऊर्ध्वोदयलक्षणम्
- जगत्योदय संग्राह्या चतुर्दश विभाजितम्
- प्रथमे चतुरश्रे तु सार्ध्वभागसमुच्छ्रयम् ७
- द्वितीयं तत्समं कार्यं तृतीयं तत्प्रमाणतः
- चिप्पिका ऊर्ध्वमेकेन भागमेकेन कुंभकम् ८
- भागार्धे खुरकं ज्ञेयं पादोनं जाडयकुंभकम्
- भागार्धे कर्णकं कुर्यात् पादोनंतरपत्रिका ९
- भागार्धं खुरकं कार्यं सार्धं भागं तु कुंभकम्
- पादोनभागमुत्सेधं कलशं कुर्याद्विचक्षणः १०
- भागार्धे नान्तरपत्रं पादोनं च कपोतिका
- रूपकण्ठं च भागेन निर्गमं तु त्रिभागिकम् ११
- एतेन कथितं सर्वं जगतीनां समुच्छ्रयम्
- तथाहं कथयामिति तव पुत्र यथार्थतः १२
- राजसेनो धरेनाम अर्धभाग प्रमाणतः
- सार्धभाग समुच्छ्रेया पत्रयुक्तं सुवेदिका १३
- आसनपट्टमानं तु अर्धभागं च सङ्ख्यया
- विस्तारं च द्विभिर्भागैः पादयुक्ताश्च कारयेत् १४
- मत्तवारणकं चैव सार्धभागसमुच्छ्रयम्
- तस्योदयंश्च त्रिभागेन पिण्डं कुर्याद्विचक्षणः १५
- पादोन कायेत् पिण्डश्च न न्यूना न ततोधिका
- अथ प्रासादमानेन कन्यसे चैव चोच्यते १६
- अर्धेन कोणधामानि चतुःकोणेन दापयेत्
- वामे गणाधिपत्यं च दक्षिणे पार्वती स्मृता १७
- नैरृत्ये भास्करं विद्यात् वायव्ये च जनार्दनम्
- मातृभिर्मातरस्थाने दक्षिणं दिशमाश्रितम् १८
- पश्चिमांजलशेनस्तु सौम्यायां अश्ववाहनम्
- स्थात्पथि चैव कर्तव्यं ईशान्यां देवतालयम् १९
- प्रासादस्योत्तरे कार्यं गृहं चन्द्र स्य चोत्तमम्
- चतुरश्रं च वृत्तं वा वलभ्याकृतिमुत्तमम् २०
- अर्धभागे त्रिपादे वा यथा वाध्यान जायते
- तथावै कार्य्येत्प्राज्ञः जगत्यां मध्यसंस्थितम् २१
- चारुसिंहासनासीनं नीलमेघाञ्जन प्रभम्
- ऊर्ध्वे चक्रं सुते जाढ्यं पिवंतं स्नपन सदा २२
- टंकऽपाणि महाचण्डं प्रणालाधो व्यवस्थितम्
- इदृशं कारयेच्चण्डं सर्वकामफलप्रदम् २३
- स्वयं बाणलिङ्गे च स्थण्डिले मण्डलेपि वा
- अद्वैतमन्त्रसंयुक्ते चले चण्डेन विद्यते २४
- रोहलिङ्गे स्वयम्भूबाणलिङ्गे सवेदिका
- इतरे च जगत्यायां चले चण्डेन विद्यते २५
- बाण रोहे चले सिद्धे न चण्डाय स्वयम्भूवा
- प्रतिमानां च सर्वेषां अद्वैते स्थण्डिलेन हि २६
- नंदिमंडप
- वृषभं तोरणं चैव तथा वै नृत्यमण्डपम्
- प्रासादाग्रे प्रकर्तव्यं सर्वशोभा समन्वितम् २७
- अनन्तरं च त्रिभागेन चतुर्थांशेन चोत्तमम्
- भूतांशेन तु कर्तव्यं द्वितीयं नृत्यमण्डपं २८
- जगत्यायाम गर्भं तु गर्भं वै मण्डपस्य च
- तत्समानः प्रतीहारा द्वारे च वामदक्षिणे
- नामानि च प्रवक्ष्यामि यथोक्तानि स्वयंभुवा २९
- जगती चतुर्मुखा नामः महाकालं च वामतः
- दक्षिणे तु भवेन्नंदी सर्वविघ्नविनाशन ३०
- याम्या यां च स्मृतं द्वारं भृंगौ वामौ विनिर्दिशेत्
- हेरंबो दक्षिणे कुर्यात् द्वारदो विघ्ननाशन ३१
- पश्चिमायां दिशां वामे दुर्मुखो पाण्डुरो भवेत्
- सौम्यायां च दिशां वत्स सितो वामेऽसितोत्तरे ३२
- चत्वारि द्वारः विख्यातां जगत्यां रूपदायकाः
- देव्यांश्च दिग्पालांश्च यथा स्थानतः शृणु ३३
- पूर्वायां स्थापयेत् शक्रं अग्नौ चैवाग्नि गोचरे
- यमं वै दक्षिणे भागे राक्षसान्नैरृति तथा ३४
- वरुणे पश्चिमायां तु वायव्यां वायुदेवता
- घनदं सोम दिग्भागे ईशान्याभीश देवता ३५
- प्रासाद पृष्टि भद्रे तु जगत्यां याः कुमारिकाः
- वामे च दक्षिणे चैव सप्तमातृ विनिर्दिशेत् ३६
- जगती देवदेवस्य शृणु विष्णोर्यथा स्थिता ३७
- आग्नेयां स्थापयेन्नित्यं मुदकन्तं विनायकम्
- याम्यां वामनं रूपं नारसिंहं च नैऋते ३८
- वायव्ये क्रोड रूपं च जलशयनः वारुणे
- कौबेरे बालक्रीडा च ईशाने मधुनाशनम् ३९
- एवं विष्णुं भवेज्जगती सूर्यस्य शृणु सांप्रतः
- शिखीस्थाने कुजं स्थाप्यं गुरुं वामे प्रतिष्ठयो ४०
- चन्द्र पुत्रं तु नैरृत्ये शुक्रं च वारुणे न्यसेत्
- रविपुत्रं तु वायव्ये सोमे सोमं च स्थापयेत् ४१
- राहु च शंकरे स्थाप्य स्थाप्यता वरदा भवेत्
- सुमित्रस्य भवेद् ह्येवं देवद्रो णे सुखावहा ४२
- अन्यथा कुरुते यस्तु सोपिकुर्य्याशिवेन्यथा
- चण्डिकायां प्रवक्ष्यामि शृणु संक्षेपलक्षणम् ४३
- विघ्नेशमग्निदेशे च मातृहर्म्यं च दक्षिणे
- चामुण्डा नैरृते भागे मिश्रादेवी तु पश्चिमे ४४
- लक्ष्मी च वायव्ये स्थाप्य भद्र काली च सौम्यगा
- ऐशान्यां कालरात्री च सर्वकार्यार्थसाधिनी ४५
- एवं तु स्थापयेद्देव्यः सर्वसिद्धकरःशुभा
- जिनविहारम्
- अथजिन विहार कथयाम्यहम्
- विहारं यादृशं प्रोक्त तादृशं कथयाम्यहम् ४६
- मध्ये स्थाप्यं बुधजीन् श्रीमान् अग्रे चित्रेण भूषिता
- ताराहर्म्यं समोपेत यक्षवृंदगणान्वितम् ४७
- एक भौम द्विभौमं वा त्रिभुयो कास्योरये
- चित्रशाला समोपेतं उपवर्णसंकुलम् ४८
- विहार एवमेवं च श्रीमुचान्य जिनालयम्
- रिष्टनेम्ययतः कृत्वा ऋषभं च नियोजयेत्
- चतुर्विंशती देवानि एकमेकं प्रतिष्ठयेत् ५०
- यक्षैर्गणधरैर्दिव्यैः देवतैश्च विशेषतः
- नानारूपकसंयुक्ता जगती कारयेत् शुभा ५१
- प्रासादे मण्डपं कुर्यात् त्रिकं च तदनन्तरम्
- अग्रं वलाणकं कार्यं द्विभूमं च त्रिणीस्तथा ५२
- सप्त दश देवकुलीः स्थाप्या वामदक्षिणतः
- त्रिकस्य पार्श्वयोश्चैव नवपृष्ट ष्टयोगयेन ५३
- द्विपच्चाश तथा कार्या प्रदक्षिण क्रमेण तु
- जिनस्याग्रे प्रदातव्यं समोवसरणं तथा ५४
- अपूर्ण ५५
- इति श्री विश्वकर्माकृत्तायां वास्तुशास्त्रे वास्तुविद्यायां जगती लक्षणाधिकारे क्रमांक तृतीयोऽध्यायः ३
प्रमाणलक्षणाध्यायः सम्पाद्यताम्
- श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे भिट्टपीठ लक्षणाध्याय क्रमांक अध्याय ४
- भिट्टमान
- अतिस्थूलासु विस्तीर्णा प्रासाद घरणीशीला
- अति सुद्र ढकार्या इष्टिका चूर्णवारिभिः १
- शिलोपटि भवेद्भिट्टमेकहस्ते युजाङ्कुलम्
- अर्धांगुला भवेदवृयविद् हस्तशतार्धकम् २
- एकद्वित्रिणि भिट्टानि हीनाहीनानि कारयेत्
- स्वस्योदयप्रमाणस्य चतुर्थांशेन निर्गमं ३
- पीठमान
- अथातः संप्रवक्ष्यामि प्रासादपीठमानतम्
- एकहस्तेषु प्रासादे पीठं च द्वादशांगुलम् ४
- हस्ताद्विपंचपर्यंत हस्तेहस्ते पंवाङ्कुलम्
- पंयोर्ध्व दशयावत् वृद्धि वेदाङ्कुलं भवेत् ५
- दशोर्ध्व विशपर्यंतं हस्ते चैवाङ्कुलं त्रयं
- विशोर्ध्व षट् त्रिंशति कर वृद्धद्वयाङ्कुलम् ६
- अतःऊर्ध्व शतार्धेन हरतेहरतैकमंङ्गुलम्
- अर्धमाने त्रिभाजे वा पीठ चैव नियोजयेत् ७
- स्थानमानाश्रयं ज्ञात्वा तत्र दोषो न विद्यते
- प्रथम पीठं भाग
- पीठस्यायोछ्रयो ज्ञात्वा भागं वक्ष्यामि तत्वतः
- चत्वारिंशद्विभिश्चास्य ऊर्ध्वभागा विभाजिते ८
- अष्टभागैर्भवेध्वत्स । जाडयकुम्भं द्विजोत्तम
- कर्णं सार्ध विभागं तु भागार्ध चान्तरपत्रकम् ९
- सार्ध पंचाभिमानं स्कंधकुर्याद्वियक्षणाम्
- पट्टिकाचार्ध भागं तु चाष्टभागाश्य निर्गमम् १०
- कर्णालिकां ततः कुर्यात् भागै चैव चतुर्दशम्
- कर्णं सार्धं यं ज्ञेयं भागार्ध चांतरपदम् ११
- चिप्पिका भागमेकं तु चान्तरपदं द्विभागिकः
- सार्धद्विभागिका कार्या कपोतालिस्तु शोभना १२
- भागार्धं तत्र मध्ये तु स्कन्धं चान्तरपत्रिका
- ग्रासश्च पद्विका कुर्यात् सार्धपञ्चस्तु उन्नत १३
- अतो भागार्ध मध्ये तु चिप्पिका दलशोभना
- षड्भागास्य भवेत् वत्स निर्गमं तु कणालिका १४
- चिप्पिका भागमेकं तु कपोतालिर्द्विभागिका
- चिप्पिका तत्समा प्रोक्ता त्रिभागं कणकं भवेत् १५
- अतन्मेतवमाक्ष्यान्तं कणालिका प्रमाणकम्
- गजपीठं च वक्ष्यामि भागैर्युक्तं च द्वादशै १६
- पट्टिका अन्तरपत्रं तु भागार्ध चारु शोभना
- कर्ण च भागमेकं च भागार्ध स्कंधपट्टिका १७
- सार्धचाष्टो समाख्याता गजाःभागेस्तु शोभना
- कपोतालिश्च कर्णं च भागमेकं सुविस्तृतम् १८
- भागार्ध स्कंधपट्टिस्तु त्रिणिभागस्तु निर्गमः
- नरपीठं पीठ मध्यैः भागैश्चाष्टैः समन्वितः १९
- चिप्पिकान्तर पत्रः भागमेकं च कारयेत्
- रूपाणि षट्सार्धेन अर्ध स्कन्धं च पट्टिका २०
- एतन्मेवतमं वत्स द्विभागाश्चैव निर्गमे
- पीठमानो समादिष्ट प्रासादमान समन्वितम् २१
- द्वितीय पीठम्
- शतार्द्धत्रीणि संयुक्ता पीठभागं च मध्यमे
- नवभिर्जाडयकुम्भं च निर्गमं चाष्टभागिकम् २२
- कणालिका प्रकर्तव्या भागैश्चैव चतुर्दश
- षड्भिस्तु निर्गमे कुर्यात् गजाश्चैव त्रयोदशैः २३
- निर्गमे त्रीणि भागानि नवभिरश्वपीठकम्
- निर्गमे त्रीणि विज्ञेया वसुभिर्नरपीठकम् २४
- द्वौ भागौ निर्गमे तस्य मध्यपीठं अयंविधि
- तृतीय पीठम्
- उत्तमं संप्रवक्ष्यामि षष्टिभागैर्विभाजिते २५
- वसुभिर्जाडयकुम्भं तु निर्गमं तु तदेव हि
- मनुसङ्ख्या कणाली च निर्गमे ऋतुभागिकाः २६
- त्रयोदशैर्गजाज्ञेया निर्गमे त्रीणिमेव च
- नंदस्या सङ्ख्या भवेदश्वा त्रीणि निर्गममेव च २७
- नराणां मातराणां च अष्टवाष्टो प्रकल्पयेत्
- द्वौ द्वौ निर्गमे ताभ्यां ज्येष्ठपीठ अयं विधौ २८
- चतुर्थ पीठम्
- चतुर्थ कन्यसं पीठं प्रासादस्यानुरूपतः २९
- पञ्चमे षष्टमे भागे सप्तमे चाष्टमेव च ३०
- पीठं चैव प्रकर्तव्य अत ऊर्ध्व न कारयेत्
- अष्टभिर्जाडयकुम्भं च निर्गमे वसुभार्णिकम् ३०
- मनुसङ्ख्य कणाली च निर्गमे ऋतुसङ्ख्यया
- एवं कृते भवेतसिद्धिं कर्तुं काशपकः सदा ३१
- कनीयसपीठाङ्गोपाङ्गानि
- भागार्धं घसिका कार्या पादोन कर्णकं द्वयम्
- पञ्च भागोच्छ्रितं स्कन्धं पादोनं चैव चिप्पिका ३२
- चाष्टभाग समुच्छ्रयं जाडयकुम्भं सुशोभनम्
- निर्गमं चाष्टाभिर्भागै अतोदूर्ध्वं च कणालिका ३३
- भागार्धा घसिका कार्या कणकं सार्धद्विमुच्छ्रयम्
- चिप्पिका भागमेकं तु द्वितीयान्तरपत्रिकाम् ३४
- सपादस्कन्ध द्वयं स्यात् पादोनं कर्णमुच्यते
- पादोनं स्कन्धचोच्छ्रायं घसिका भाग पादकः ३५
- सार्ध त्रयोच्छ्रिता कार्या ग्रासपृट्टी सुशोभना
- पादोनं कर्णमुच्छ्रेयं पादोन चैव चिप्पिका ३६
- चतुर्दशै समुच्छ्रेयं कर्णमालि सुशोभना इतिकामदपीठ
- षट्भागं भवेत्वत्स निर्गमं च कणालिका ३७
- कर्णपीठ
- चिप्पिका भागमेकेन कर्णद्विसार्धभागम्
- घसिकार्ध भागेन प्रोक्तस्कंधत्रिभागम् ३८
- कर्णकद्वीभागेन चाष्टभागं कर्षापीठकम्
- एतेने तत्रमाख्याता कर्णपीठ सुशोभना इति कर्णपीठ ३९
- देवप्रासादपीठादेयम्
- पीठं चत्वारि उक्तानि प्रासादेषु च कारयेत्
- शिवे च ब्रह्मणे चैव विष्णुना च रवैस्तथा ४०
- बौद्धे जैनै च कर्तव्या पीठा चत्वारि शोभना
- यक्षं च चण्डी तथा दुर्गा गौरी गणपतिस्तथा ४१
- महालक्ष्मीस्तथा स्कन्दे योगिनीनां तथैव च
- पीठानि कार्येन्नित्यं प्रासादेषु च सर्वेषु
- इदस्यं कुरुते यस्तु सर्वकामफलं लभेत ४२
- देवपीठ विभाग
- ऊच्छयेयत्र पीठस्य त्रिशता परिभाजिते
- एकांशभूगतं कार्यं त्रिभागः कण्ठपीठिका ४३
- भागार्ध मुखपट्ट च स्कंधः सार्ध्वत्रयोन्नत
- स्कंधस्य पट्टिका वै स्याद् भागार्ध चान्तरपत्रिका ४४
- कर्णः सार्द्धद्वयं वै स्याद् भागैकं चिप्पिकामत
- द्विभागं चान्तरपत्रकं कपोताली द्विसार्द्धिका ४५
- सार्द्धपंचग्रासपदि कर्तव्याविधिपूर्वकम्
- अर्धे मुखपट्टिकाख्या त्रिभागं कर्णशोभनम् ४६
- अर्धः स्कंधपट्टि कार्या चतुर्भागश्च स्कंधकः
- क्षोभणश्चाष्टभागैः कर्तव्य तदशंकितैः इति देवपीठ ४७
- दोषफलम्
- मानहीनं न कर्तव्य मानाधिक्यं न कारयेत्
- मानहीने कुलोच्छेदं स्थापकस्य तदाभवेत् ४८
- स्थापकस्या भवेद्दोषं नरके पतनं ध्रुवम्
- शिल्पीनो निष्कुलं यान्ति मानहीने कृतेन तु ४९
- मानाधिक्ये कृते चैव राष्ट्रभङ्ग भयंभवेत्
- न दोषः स्थापकश्चैव यजमानस्य विद्यते ५०
- अन्य च कुरुतेयस्तु शिल्पीदोष भवाप्नुयात्
- इति श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे भिट्टपीठ प्रमाणलक्षणाध्याय क्रमांक ४
अध्याय ५ सम्पाद्यताम्
- श्री विश्वकर्माकृते वास्तुविद्यायां प्रासाद कटयोच्छ्रय लक्षणां क्रमांक अध्याय ५
- मंडोवर प्रासादोदयमान
- अथातः संप्रवक्ष्यामि प्रासादस्य तु लक्षणम्
- प्रासादस्य तु यन्मानं ज्ञातव्यं मूलनासके १
- अंगुलानि ततो ज्ञात्वा दशभागे विभाजित
- एकहस्तं द्विहस्तं वा कूर्यात्तय समोदयं २
- त्रिचतुःपंच हस्तं तु नवभागोदये स्मृतं
- षट् सप्तहस्तके चैव अष्टभाणमुच्छ्रयं ३
- नवाष्टकेषु प्रासादे सप्तसार्ध्व प्रमाणकं
- दशमेकादशैव चैव सप्तभाग समुच्छ्रयं ४
- द्वादशे त्रयोदशे च षटसार्धतुकाश्येत्
- अतः ऊर्ध्व ततो कुर्यात् द्यान द्विंशस्तु हस्तके ५
- षट्भागस्य प्रमाणं तु कर्तव्यं शिल्पीबुध
- विशहस्तात्यरे ज्ञात्वा यावत्षट्विंशहस्तकं ६
- कटयुच्छ्रयं तु कर्तव्य पंचसार्ध्व समुच्छ्रिता
- षट् त्रिंशमत कृत्वा यावत्पंचाशहस्तक ७
- पंचभाग प्रमाणेन कर्तव्याशिल्पिनोबुधः
- घटादौ छाद्यपर्यंत विभक्ति मध्यमध्यया ८
- एकभेदा समाख्यान द्वितीयं शृणु सोप्रत
- प्रासादयं च मानं च ९
- प्रासादमेमुलाना कृत्वा विभजेन्नवभागिकं
- एकहस्तद्विहस्तं वा त्रिहस्तं चतुःपंचक १०
- अधःपदयोर्ध्व पदंय नवभागं कारयेत्
- षट्सप्त हस्त प्रासादे कर्तव्यं चाष्टभागिकं ११
- नवचाष्ट हस्तप्रासादे सप्तभागप्रमाणकं
- दशमेकादशे पुत्र षट्सार्ध्व भागमानक १२
- द्वादशे त्रयोदशे ज्ञात्वा पंचसार्धश्च भाजत
- अतऊर्ध्वततः कुर्याद्यावद्विंशश्च संख्यया १३
- पंचभाग प्रमाणेन कर्तव्या शिल्पिनो बुध
- विंशोर्ध्वेत्ततः कुर्याद्यावत्पंचाश हस्तकं १४
- तावत्यर्ध कर्तव्ये प्रासादस्यानुमेखला
- नवभागप्रमाणेन उच्छ्रये भाग संख्यया १५
- शलिलांत्तर
- अथातो लक्षणं वक्ष्ये सलिलान्तर निश्चयं
- यावद् हस्तप्रमाणेन विस्तारक्रियते कटि १६
- तावदङ्गुलमानेन निर्गमं तस्य कारयेत्
- निर्गमं पंचमॐऽशेन वारिमार्गान्तरक्षोभना १७
- क्षोभयानास्तु पादेन विस्तारतस्य कारयेत्
- मद्रा र्ध तु ततो वत्स ज्ञातव्यं मूलनासके १८
- दशधा भाजितं कृत्वा भागैके मूल नासिक
- द्वितीया फालना कार्या पादोनत्रयविस्तृता १९
- तृतीया च त्रिभिर्भागैः कर्तव्या नामसंशय
- भागार्धनु ततः कार्य सपादचयविस्तृता २०
- अनेनैवचभागेन निर्गमंस्याफालना
- यावद्हस्तप्रमाणेन कटिमान विधीयते २१
- तावदेङ्गुलपास्तु फलादैना तु निर्माम
- अनुगेषु तथा प्येयं एव कोणेषु मापयेत् २२
- मंडोवर विभाग १७०
- अतोर्ध्व चैव कर्तव्यं शतमेकोनसप्तभिः
- क्षुनमादो पादपर्यंतः विभक्त भाग योजयेत् २३
- एतेश्चैव भाजैस्तु क्षुरकंस्तु क्रतु कल्पयेत्
- भागविंश त्रयधिका ततोकुभे भागाश्च कारयेत् २४
- अत ऊर्ध्व तु यदिस्तु कुर्याद्भागं पदात्फलं
- कलशं दिगभागानि ऊर्ध्वपद्वित्रिपादत २५
- अर्धाच्च तेन मानेन अंतरपत्रं तथा शृणु
- चत्वारिभाज तो वत्स कर्तव्या शिल्पिनातधः २६
- कुमालिका भाग श कथयामि सार्धनव
- भागत् कर्णभाग द्वयं कुर्यात् स्कंध द्विभागितं २७
- स्कंधोर्ध्व षट्टिका वत्स भागोर्ध कारयेद्बुधः
- कर्ण तलै पट्टिका वत्स उभयोर्द्विभागमेव च २७
- कर्ण तु भागमेकं तु त्रिभाग स्कंधमित्युक्तं
- वर्तनात्तु कुमालिका एवं सार्ध नव भागत् २८
- मसुरकं तु वक्ष्यामि भागः सार्धदशेन तु
- कर्णकभाग चतुष्केन तन्मध्ये स्कंधपट्टीका २९
- कणॐ भागसार्धेनु
- स्कंध भागत्रयं अधः पट्टिका अर्धभूषिते ३०
- कामरूपवती नाम विन्यसेत्सार्धभागिका
- अंतरपत्रं तु विख्यातं भागार्ध च कारयेत् ३१
- जंघा
- जंघाकायां तथा कार्या च तु चत्वारिंशत्तु भागत्
- जंघालथैव कर्तव्या सुरूप्त रूपसंयुत ३२
- दिशापालैस्तु सायुक्ता भद्र खत्तक भूषिता
- उत्तरे विन्यसेच्चंडी दक्षिणैंडधक भैरव ३३
- नाटेश्वरं न्यसेद्भद्रे पश्चिमे नृत्यसंयुतं
- अथवा च प्रकर्तव्या देवता त्रय संयुताः ३४
- ब्रह्मा दक्षिणे भागे वामे विष्णुः प्रकीर्तित
- रुद्र स्तु पश्चिमे भद्रे सर्वसोभाग्य संयुतं ३५
- रथिकैश्च विचियेस्तु अनुजेषु च योक्षितो
- किं तु संपात कोणेषु मुनिस्तत्र संस्थितेः ३६
- सिंहकर्णार्धमुत्सेध भद्रं उद्भम् समुछ्रय
- सर्धपादाधिकं चैवा विंशभागाश्च कारयेत् ३७
- अंतरपदं तथा भागं कारयेद्विचक्षणा
- ग्रासस्थपट्टिका चैव पंच भागस्तु संख्यया ३८
- दशभाग उद्गमो वक्ष्ये मध्ये संयोज्यसूनुतुः
- कर्णय पट्टीकायुक्त सार्धभागं तु कारयेत् ३९
- सार्ध भाग समाख्याता भरण च निबोधये
- कपोताली तथा वक्ष्ये भागमेकञ्च विन्यसेत्
- स्कंधतथेतियुकत सार्धभागं तु कारयेत ४०
- सार्धभाग समाख्यात भरणो च निबोधयेत्
- भरणं च ततो प्राज्ञ सार्ध द्वादश संख्यया ४१
- कामरूपट्टिका चैव भागमेकं समुच्छ्रिता
- पाद्न चिप्पिका कार्या कर्पापाद्नकद्वय ४२
- गौभार्ध घसिका कार्या भागार्धनत् पट्टिका
- द्विभिर्भागैस्तत स्कंध कर्ण भागेन कायसेत् ४३
- सार्ध भागोच्छ्रितं स्कंध कर्ण सार्ध समुच्छ्रितं
- कर्तव्ये चांतरपत्रं द्विभिर्भागै समुच्छ्रितं ४४
- एवमेवं हि कर्तव्य भरण सार्ध द्वादश
- भागैश्चतुर्दशेश्चैव कपोताली वदाम्यहं ४५
- भागार्धे पट्टिका कार्या स्कंध सार्धसमुच्छ्रिता
- पट्टियांद्वयं कार्यं भागमेकं समुच्छ्रितं ४६
- भागद्वयो छितं स्कंध कर्णसार्धद्विभागक
- भागेर्ध चार्ध पट्टिस्तु कर्तव्या नात्र संशय ४७
- पंच भागोच्छ्रिते कार्यं अंतरपत्र च शोभन
- कपोताली समाशयाता कूटछाद्यं वदाम्यहं ४८
- कूटछाद्यं ततो वक्षे भागैचैवतुषौंऽशौ
- कामरूप च कर्तव्य भागपादेन संयुतं ४९
- चिप्पिका तत्प्रमाणेन त्रैश्चैव तु भूषित
- सार्ध भागोच्छ्रिता कर्ण दंडभागेन मुच्छ्रित ५०
- पादोनै कृतभि मार्गैः स्कंध कार्यसुवर्त्तित
- पाद्नै घसिका कार्या मागार्धेन तु पट्टिक ५१
- सार्धभागोछ्रिताकर्ण स्कंध पादोनक द्वय
- तस्योर्ध पट्टिका कार्या भागार्धेन तु चौच्छिता ५२
- प्रवेशं च कपोतश्च भागायत्वारी नान्यथा
- निर्गमं च प्रवक्ष्यामि कर्णसूत्रागतःछ्रितं ५३
- दशमेकाधिकै भागैः तत्वनातस्य कारयेत्
- लंबुना तु द्विधाकृत्यं अग्रभागांगुलीकृत ५४
- तरयाग्रे चिप्पिका कार्या मणिबंध तथापरे
- कपोताल्य कर्णस्य कारयेच्चापरांदिश ५५
- पंचयुक्तानि अधन प्रविशेतु प्रवेशिकं
- खल्वणा कारयेत्तत्र कर्णस्योर्ध्व समाबुधः ५६
- तस्योर्धपट्टिका कार्या सार्ध भाग समुछ्रता
- स्कंध सार्धद्वय कार्य भागं नैकेनपट्टिका ५७
- शलिलान्तर सप्तभिर्भागैस्तद्वत्प्रवेशनं
- कूटछाद्यं भवेदेवं षोडशैस्तु समुछ्रत ५८
- गर्भन्यासार्धमुच्छ्रायं गर्भकार्या प्रयत्नत
- प्रासादसपाद सार्धमर्धवा अत्युच्चभयकारक ५९
- अपूर्ण
- इति विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्रासाद कटयोछ्रियं लक्षणं मंडोवराधिकार अध्याय कमांक ५
द्वारमानलक्षणाध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमानलक्षणाध्याय क्रमांक ६
- श्री विश्वकर्मा उवाच -- द्वार लक्षणं मान प्रमाण
- द्वारस्य लक्षणं वत्स कथयामि यथार्थत
- एकहस्ते तु प्रासादे द्वारस्यात् षोडशांङ्गुलम् १
- षोडशाङ्गुलं वृद्धि पर्यंत चतुर्हस्तकम्
- गुणङ्गुका भवेद् वृद्धिर्यावम् वसुहस्तकम् २
- अतः ऊर्ध्व द्वयाङ्गलावृद्धि पंचाश हस्तकम्
- यं दृष्टा त्रिदशाः सर्वे विस्मय परमंगलः ३
- ज्ञातव्यं द्वारमुत्सेधं शिल्पिनेन तु तत्त्वतः ४
- पञ्चमांशेन पादेन त्रिभागेन तु कार्यतः
- प्रासाद द्वार विस्तारं द्विगुणं तस्य चोछ्रयम् ५
- द्वारस्य विस्तरं ज्ञात्वा शाखा लक्षणमब्रवीत्
- पञ्च मांशेन हीना च षोडशोना तदर्धतः ६
- त्रिभागेन प्रकर्तव्या पादूना वाथ कारयेत्
- शाखास्य विस्तरं वत्स एकैकस्य तु प्रकल्पयत् ७
- शाखास्य विस्तरं वत्स भागैश्चैव विभञ्जयत्
- शाखास्य विस्तरं ज्ञात्वा त्रयोविंशार्ध संयुतैः ८
- --- कर्तव्यं तु सदा तज्ञे
- --- शिल्पिनिः शास्त्रपारगैः ९
- भद्र शाखा तु कर्तव्या भागैश्चतुर्भिरेव च
- रूपशाखां द्वयोर्भागा द्वितीया तत्समा भवेत् १०
- तृतीया चैव त्रिभागा द्वौभागौ च चतुर्थिका
- पत्रशाखां त्रिभिर्भागैरुभयोः पार्श्वयोः समाः ११
- बकुली सार्ध भागेन भागं भागं च चिप्पिका
- घसिका सुर संयुक्ता वौलिका भगतस्थिताः १२
- पत्रशाखा द्विभिर्भागै पट्टिका द्वय संयुता
- --- खल्वशाखा च भागतः १३
- शाखाश्च पेटकं पुत्र द्वार विस्तार पादतः
- उदयं च प्रवक्ष्यामि यथा वदनु पूर्वशः १४
- द्वारस्य चोछ्रयं ज्ञात्वा विंशभागैर्विभाजयेत्
- दशपञ्च तथा कुर्यात् अतोर्ध्व भज्जनं शृणु १५
- रथिका भद्र शाखास्य भागाश्चत्वारि दापयेत्
- निगरं चाष्टभिर्भागैः शेषं चैवोपरिस्थितिम् १६
- यस्य पदा देवा प्रतिहारा तस्य कारयेत्
- सीमा मधेयदेवान् उपरे तत्र कारयेत् १७
- निगरे वामा शाखायां महाकालं तु कारयेत्
- दक्षिणे तु स्थितोनन्दी सर्वोपद्र वनाशनः १८
- शिवस्याग्रे भवेद् ह्येवं नान्येषां तु सुरालये
- निगरस्योपरिष्टा तु शिवरूपाणि कारयेत् १९
- त्रिरथिकं च कर्तव्यं चतुर्भि वाथ कारयेत्
- उपर्युपरि विन्यस्य रथिका शाखमानतः २०
- उत्तरङ्गम्
- उत्तरङ्ग च वक्ष्यामि यथोक्तं च स्वयंभुवा
- द्वारोच्छ्रयस्य पादून त्रिभागेवाथ चार्धतः २१
- उछ्रयं चैव कर्तव्यं कथितेन यथार्थतः
- भद्रे षु पल्लवैर्युक्तं भरणेषु विशेषतः २२
- मालाधरस्तथायुक्तं मध्यभागे विनायकम्
- ग्रहैश्चैव समोपेतं अधिनायक रूपकै
- रथिको द्वि द्वि वधेषु भूषितव्यं प्रयत्नतः
- उदम्बरम्
- उदम्बरो ततो वक्ष्ये उच्छ्रयेण विशेषतः २४
- द्वारोच्छ्रयस्य पादेन बाहुल्यो उदुम्बरस्य च
- कर्तव्यं सर्वतस्तेवं घटां तस्य समोदयम् २५
- द्वारविस्तार त्रिभागेन मध्यकन्द कारयेत्
- मृणालेन समायुक्तं पद्यं कुर्यात्ततोपरि २६
- पार्श्वयोरुभयोः कार्य ग्रासरूपं सपत्रकम्
- धनदं वामदेशे तु दक्षिणे तु विनायकम् २७
- युग्मेन सहितं वाथ कर्तव्यं नात्र संशयः
- पीठोपरि तु कर्तव्यं मृणालं रूपसंयुतम् २८
- मूलनासिक्योर्मध्ये समसूत्रं तु शोभनम्
- शाखायां भित्तितुल्यं न न्यूनं न ततोऽधिकम् २९
- सीमाधिक्यं हने दृष्टं भृत्यां श्चैवस्तु बान्धवान्
- सीमा मध्यगतं वाथ स्वसुतं स्वामीनं हनेत् ३०
- ऋजुसूत्रस्य चक्र स्यात् प्रजाहानिस्तदा भवेत्
- अज्ञानात्स्थापयेदस्तु शिल्पीन च बुद्धिमान् ३१
- निष्कुलं शिल्पीनस्तत्र कारकं मृत्युमाप्नुयान्
- अथ शास्त्रप्रभाणेन उभयोरन्तरं चिरम् ३२
- अर्धचन्द्र म्
- अर्धचन्द्र प्रवक्ष्यामि द्वारविस्तार चार्धतः
- कर्तव्यं निर्गमं तस्य न न्यूनं न ततोऽधिकम् ३३
- निर्गमस्य च यन्मान द्विगुणं कारयेद्बुधः
- त्रिभागेन नगरक उभयोः पार्श्वताः समम् ३४
- पद्मं च मध्यतः कुर्यात्ततो वृत्तं समालिखेत्
- शङ्खयुग्मं समायुक्तं पद्माकारैः समावृत्तम् ३५
- एतत्ते कथितं सर्व निःसन्देह यथार्थतः
- अपूर्ण
- इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमान लक्षणाध्याय क्रमांक ६
अध्याय ७ सम्पाद्यताम्
- श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे क्रमांक अध्याय ७
- प्राग्ग्रीवादिमण्डपाः
- मण्डपा कथयिष्यामि पूर्वप्रासाद मानतः
- समसार्धश्च द्विगुणाज्येष्ठ मध्यकन्यसा १
- अनुक्रमेण ते सर्वे पदस्तंभानुपूर्वतः
- प्राग्ग्रीवो वर्धमानश्च विजयो भद्र मेव च २
- विशालः यज्ञभद्र श्च सुश्लिष्ठोमृत्मर्युदनः
- भाग्यं च बुद्धिसंकीर्णः सर्वभद्रो जयावहोः ३
- मुक्तकोणो हरिश्चैव मानभद्रो च सुवृत्तः
- पुष्पभद्र ः! सुभद्र श्चैव छत्रं च पद्ममेव च ४
- श्रीवत्सश्च धनालयः पुष्पकं पुण्डरीकं च
- कौशल्यं च सुरप्रियं सुव्रतं शङ्खनाभकम् ५
- सौभाग्यं कुन्दमेव च सूत्रं पूर्णचन्द्र कम्
- --- अष्टकोणं तथैव च ६
- इत्येतेन समाख्याता त्रयस्त्रिंशति मण्डपाः
- प्रासाद विस्तरं कल्पं अग्रे च स्तंभकं द्वयम् ७
- स तु प्राग्ग्रीवको नामं मण्डपं प्रथमं स्मृतम्
- चतुर्भि च स्तंभमान चतुष्कि वर्धमानम् ८
- चतुर्भागे कृते क्षेत्रे अग्रे कुर्याच्चतुष्किका
- कर्तव्यो विजयो प्राज्ञः षड्भिः स्तम्भकैर्युतम् ९
- तस्य भद्रे पदा त्रीणि दशस्तम्भैस्तु भाजितम्
- भद्रं चैव समाख्यातं भद्र भागैक निर्गतम् १०
- विशालं तु प्रवक्ष्यामि चतुर्भाग कृते भुवि
- द्विषट स्तम्भकैर्युक्तो कथयामि यज्ञभद्र ः! ११
- चतुःक्षेत्रं च प्राग्ग्रीवं भागद्वयं विनिर्गतम्
- चतुर्दशयुते स्तंभैर्मण्डपं यज्ञभद्र कम् १२
- क्षेत्रे विशाल संज्ञं तु त्रिदिक्षु भद्र कानि च
- अष्टादशयुतैः स्तम्भैः सुश्लिष्टो नाम कीर्तितः १३
- अष्टाष्टके कृते क्षेत्रे द्विरष्ट स्तम्भकैर्युता
- चतुष्किकान्नतामध्ये कर्तव्यो मृत्युमर्दनः १४
- क्षेत्रं अष्टाकृति कृत्वा कर्णभाग द्वयं मतम्
- भद्रं च तत्समं कुर्यात् भाग्यं च द्धिनयै च ऐ १५
- मध्ये चतुष्किकायुक्तं कर्तव्यं बुद्धिसंकीर्णम्
- दशधा विभजेत्क्षेत्रे द्विपदं कर्ण विस्तरम् १६
- भद्र शाला षडंशेन भागत्रय विनिर्गतम्
- सर्वभद्रं चैवोक्तं स्तम्भकै दशचाष्टभिः १७
- चतुःस्तम्भयुतं मध्ये मण्डपेस्तु जयावहः
- विदिष्टते पदे क्षेत्रे अष्टौकर्ण द्विभागिकौ १८
- भद्र कर्ण समं कुर्यात् स्तम्भकै विंशतिर्युतम्
- मुक्तकोणं तु कर्तव्यं कक्षस्तम्भा समावृत्तम् १९
- प्राग्ग्रीवे निर्गतं च हरिऽष्टाविंशति स्तम्भके
- अष्टस्तंभधरैमध्ये मानभद्र ः! स उच्यते २०
- स्तंभकैश्चतुर्त्रिंश तु कर्तव्यं शुभलक्षणम्
- अष्टवर्ग कृते क्षेत्रे कर्ण भाग द्वयं मतम् २१
- भद्रं द्विपदमेवोक्तं अनुगं भाग संयुतम्
- अष्टाविंशधरैर्युक्तो सुवृतो मुनिसत्तमः २२
- सर्वाश्चतुष्किका बाह्ये पुष्पभद्रं प्रकीर्तिताः
- मध्ये चतुष्कीकार्या चतुस्तम्भ समाकुला २३
- अष्टाविंशधरैर्युक्तौ मण्डपोयं सुभद्र कः
- दिवाकरकृते क्षेत्रे त्रिचतुर्भ्रमंततः
- कर्णद्विपदमेवोक्तं अनुग भागमेव च २४
- भद्रं भागचतुष्केन द्विपदं तस्य निर्गमम्
- चतुष्कोन्नतं मध्ये अष्टस्तम्भ विभूषितम् २५
- तच्छत्रमण्डपं प्रोक्तं कर्तव्यं प्रीतिवर्धनम्
- चतुस्त्रिंशच्च बाह्ये तु सूत्रये नात्र संशयः २६
- चतुर्दश कृते क्षेत्रे भद्र षड्भाग विस्तृतम्
- द्विभाग निर्गतं बाह्ये कर्णभागेष्टयं भवेत् २७
- सूत्रेष्टांशं जायते स्फुटं स बाह्याभ्यन्तरम्
- कुर्यात् विंशधरा --- पद्मे प्रकीर्तिता २८
- चतुरश्रं दशधा क्षेत्रे भद्रं भाग यथान्वितम्
- निर्गतं भागमेकेन सार्धभागेन चानुगः २९
- द्विभाग कर्ण विस्तारं ---
- त्रिंशस्तम्भ समायुक्तं श्रीवत्स शुभलक्षणम् ३०
- द्विसप्तति कृते क्षेत्रे भद्रं भाग द्वयंमतम्
- द्विपदं निर्गमं प्रोक्तं नंदिका भागसंयुता ३१
- द्वादश द्विपदा कर्णा नंदिका स्तम्भ संयुता
- चतुषष्टि धरैर्युक्तो मण्डपो च धनालयः ३२
- क्षेत्रे षोडशधा भक्ते द्विपदा कर्ण विस्तरा
- शालायां द्विधा प्रोक्ता विस्तरावेन निर्गता ३३
- स्तम्भका चतुर्मध्येन अष्टस्यान्तरालये
- द्वाविंशति विधा प्रोक्ता पुष्पको नाम सुव्रतो ३४
- भू भागे दशधा प्राज्ञः ससूत्रपद संचितै
- द्वादशं द्विपदा कर्णा भद्र हीनं चतुर्दिशम् ३५
- अष्टस्तम्भान्वितं मध्ये कर्तव्यं चान्नतं शुभम्
- षट्त्रिंशति धरैर्युक्तं पुण्डरीकं हरिप्रियम् ३६
- षट्चाष्ट कृते क्षेत्रे त्रिपदं कर्ण विस्तरम्
- अनुगं द्विपदं ज्ञेयं त्रिगुणं भद्र कं भवेत् ३७
- निर्गमं द्विपदं प्रोक्ते मध्यस्तम्भा तु द्वादशः
- केचित्तदान्तरे प्रोक्तो चतुः पञ्चाश सङ्ख्यया ३८
- मण्डपं कारयेत्प्राज्ञः कौशल्यं च सुखावहम्
- द्विरष्ट भाजिते क्षेत्रे कर्णं षड्भागविस्तरम् ३९
- चतुर्भागयुतं भद्रं निर्गमं च पदत्रयम्
- द्विपदा नेधराका कार्या चत्वारिंश प्रमाणतः ४०
- चतुष्किकाकोनविंशो मण्डपो यं सुरप्रियः
- क्षेत्रे द्वादशधा भक्ते कर्णं त्रिपदं विस्तरम् ४१
- द्विपदा चतुष्की त्रीणि सर्वभद्रे षु कीर्तिता
- द्वादशे मध्यदेशे तु षट्त्रिंशद्बाह्यतो धरा ४२
- सुव्रतं नाममेवोक्तं मण्डपं सर्वकामदम्
- चतुषष्टि पदे क्षेत्रे द्विपदं कर्ण विस्तरम् ४३
- भद्र भाग चतुष्केन बाहुल्यं निर्गतं तथा
- अर्ध सङ्ख्यामिती चोर्ध्व विंश स्तम्भधरैर्युतम् ४४
- शङ्खनाभं प्रकर्तव्यं नारायणो अतिप्रियम्
- विस्तार भाजिते क्षेत्रे द्विपदं कर्ण विस्तरम् ४५
- भद्र भागे चतुष्केन हीनं च निर्गमं सम
- मध्ये तु अष्टभिर्भागैः त्रिंशच्चाष्टो तदन्तरे ४६
- चत्वारिंशच्चतुर्युक्ता बाह्यतरा प्रकीर्तिता
- अशीतिः स्तम्भकैर्युक्तैः मध्ये रङ्गोपशोभितः ४७
- सौभाग्यं च समाख्यातं मण्डपं मकरालयम्
- भूभागैः षोडशैर्भक्तैः कर्णाद्विपद विंशति ४८
- त्रिपदा निर्गता सर्वे भद्रं द्विपद विस्तरम्
- निर्गतं च त्रिभागेन मध्ये षोडशभिर्धरै ४९
- भद्रा न्तरे तथा चाष्टौ षटसप्तति स्तम्भकैः
- विंशतिश्च सदा सौम्यं कर्तव्यं कुन्द सम्भवम् ५०
- चतुरश्र सप्तधा क्षेत्रे सर्वपदि चतुष्किका
- सङ्ख्यया चतुःषष्टी तु चतुरश्र समाश्रुमा ५१
- चतुशीति धरैर्युक्तः स सूत्रश्चेति कीर्तितः
- सूत्रस्तम्भ चतुःषष्टि वाऽथवा चतुशीति च ५२
- क्षेत्रे त्रिमण्डले प्राज्ञः अष्टं संपात संवृत्तम्
- त्रिकोण विषमेवोक्तं चतुर्विंशधरैर्युतम् ५३
- वृत्तं तु कारयेत् सर्वं पूर्णचन्द्रं तु मण्डपम्
- अष्टकोणे कृते क्षेत्रे मध्यकोणानि ज्ञापयेत् ५४
- चतुष्की तत्पदे कार्याः चतुरश्राश्चेति कीर्तिता
- अष्टकोणं भवेत्प्राज्ञः विंश स्तम्भ समावृत्तः ५५
- सर्वे करोटके कार्या तद्लितौ क्षिप्त लंबिका
- संवरणोदयमूर्ध्वे तु सूत्र संपाद एव च ५६
- केचिद्वेदिकाहीना च गवाक्षा स्तम्भ सखावृत्तः
- भद्रा लिन्दको केचित् सव्यते सिक्षयतं षट्विधः क्रमात् ५७
- प्रमाणो वेदिका कर्णो केचित्स्तम्भं च विस्तरात्
- केचित् भित्ति प्रमाणेन विस्तारं मण्डपस्य तु ५८
- इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्राग्ग्रीवादि मंडपाधिकार क्रमांक अध्याय ७
शिखरलक्षणाध्याय सम्पाद्यताम्
- अथ श्री विश्वकर्माकृते वास्तुविद्यायां शिखरलक्षणाध्याय क्रमांक आध्याय ८
- एकस्थापि तलस्योर्ध्वे शिखराणि बहून्यपि
- शिखराश्च विविधाकार मनेकांऽकभूषिता १
- छाद्योर्ध्वे प्रहारा स्यात् शृंगेशृंगे तथैव च
- मूलकर्णस्थादौ च एक द्वित्रिक्रमे न्यसेत् २
- निरंधारे मूलभितौ सांधारे भ्रमभित्तिषु
- रेखा विस्तार मानेन सपादं तदुच्छ्रय ३
- त्रिभाग सहितश्चैव सार्ध्ववातु विचक्षणं
- दशधामूल पृथुत्वे षड्भागः स्कंध उच्यते ४
- षड्बाह्ये दोषदं प्रोक्त पंचमध्येन शोभनम्
- अतोर्घ्वं शिखरं मूले समासान्न तु विस्तरात् ५
- चतुरश्री कृते क्षेत्रे दशधा प्रतिभाजितः ६
- द्वौ द्वौ भागो तु कर्तव्यौ कोणे कोणे न संशयः
- भद्र भाग त्रयं कार्यं सार्धभागं तु चानुगम् ७
- व्यासमानं सपादं च उच्छ्रयेण तु कारयेत्
- स्कन्धं षड्भागिकं कार्यं तस्यार्धे नवधा भजेत् ८
- चतुर्भागायतं कोणं त्रिभिर्भागंस्तु चानुगः
- भद्रा र्धं तु द्विभिर्भागेस्ततः साधयते कला ९
- आदिकोणं द्विधाकृत्वा प्रथमं वेद भाजितम्
- द्वितीयं तु त्रिभिर्भागैरेवं सप्तकला भवेत् १०
- उदयं चाष्टभिर्भागैः कृत्वा रेखा समालिखेत्
- ऊर्ध्व तिर्यक् भागानां भागे भागं तु लाञ्छयेत् ११
- एवं सिद्धयेद् रेखा भद्रे कोणे च चानुगे
- विषमा भूमिका ज्ञेया पञ्चसप्तनवस्तथा १२
- दशमेकाधिका कार्या त्रयोदश तथा परा
- पञ्चाधिकं दशै कार्या आघाटैश्चोपल क्षिताः १३
- दशभिर्भागे षड्भागे स्कंध विस्तरात्
- मूलरेखाः ---
- सप्तभागे आमलासारो विस्तारास्यार्धोदये कृतः
- प्रतिरथावुभौ मध्येऽमलसारस्य विस्तरम् १४
- ततो विस्तरमर्धेन कृत्वा चैव ततोच्छ्रयम्
- उच्छ्रयं त्रीणि सार्धानि विभजेत्तदनन्तरम् १५
- ग्रीवा पादोन भागेन सपादामलसारकम्
- चन्द्रि का भाग पादोन पादोनामलसारिको १६
- ग्रीवायासं च विस्तरं आमलसारं सप्तभिश्च
- चन्द्रि का पंचमी ज्ञेया त्रिभिस्तु मालसारिका १७
- पद्मच्छत्रे तथा पद्मं आमलसारे तथाऽमलम्
- कलशे च स्थितो रुद्रो व्योम व्यापि सदाशिव १८
- सद्योवामस्तथा घोरं तत्पुरुषीशानमेवः
- एतदेवासमाख्याता प्रासादो समाश्रिते
- कर्णं प्रतिरथे भद्रे रथे पञ्जरभद्र योः १९
- पञ्चवक्त्रे दिक्षुभद्रे अङ्ग सङ्ख्या प्रशस्यते
- एता देवाः समाख्याता प्रासादेषु समाश्रिता २०
- मूलरेखास्य मानेन कलशं पंचभागतमं स्याद् द्विभागिकम्
- अथवा प्रासादोष्ट भाग कलशविस्तरे तत २१
- उच्छ्रये विस्तरे सार्धतुल्य कुर्यान्न संशये
- विस्तारो सार्ध उच्छ्रये त्रयभागं च अंडके
- आर्ध चतुर्भिर्भाज्येत्सर्वं भागं तस्य परित्यजेत्
- भागत्रयमधस्ताच्च भोगे वृत्तं ततोपरि २२
- अधोवृत्तं द्विभिर्भागैः भ्रामयेन्नात्र संशयः
- एवं तु सिद्धते चाण्डं अधोभागे न संशयः २३
- अर्ध भागोछ्रिता ग्रीवा अर्धे कर्णं पद्मपत्रिकाम्
- कर्तव्यं च द्विभिर्भागैः विस्तारं कर्णयोर्द्वयोः २४
- विस्तारं भागमेकेन कण्ठस्यैव तु कारयेत्
- मातुलिङ्गं च कर्तव्यं द्विभिर्भागैः समुच्छ्रितम् २५
- अधोमेकभागं च ऊर्ध्वे नार्ध विस्तरा
- कर्तव्यं सर्वतस्तेवं न न्यूनं न ततोऽधिकम् २६
- अतः परं प्रवक्ष्यामि पुरुषं विन्यसेद्यथा २७
- न्यसेत् देवालयेन चतुर्वर्गफलं लभेत्
- छाद्यनोपप्रदेशे तु शृङ्गमध्येऽथ चोपरि २८
- शुकनासावसाने तु विधुवद्वेदयाभूमिकान्तरे
- मध्यगर्भे विद्यातव्यो हृदावरण को विधिः २९
- पुंसस्तुर्य मय तत्र सर्वतः पुटिते न्यसेत्
- कलशाधृतोपूर्ण परिपर्यकोर्धस्थापने
- शयी तस्यामि निप्रस्थ पद्मं च दक्षिणे करे ३०
- त्रिपताकं करे वामे कारये हृदि संस्थितम्
- प्रमाणं यास्य वक्ष्यामि प्रासादो चैक हस्तके ३१
- अर्धमङ्गुल सङ्ख्या च कर्तव्यो नात्र संशयः
- अर्धाङ्गुला भवेद् वृद्धिर्यावत् पंचाश हस्तकं ३२
- हेमजे रनरजे वापि ताम्रजे वापि भागशः
- कलश आञ्जपूर्णे तु सौवर्णं पुरुषं क्षिपेत् ३३
- स्थिरः अध्मनि विन्यस्तं अधोधं मध्यमाधमम्
- पूज्य वास्त्वगारे शोध्यन मन्त्रस्याभि मन्त्रयेत् ३४
- अतो रेखां प्रवक्ष्यामि सङ्ख्यया पञ्चविंशतिः
- सच्या सा शोभना भद्रा सुरूपा सुमनोहरा ३५
- शुभा चैव तथा शान्ता कौबेरी च सरस्वती
- कोला च कलवीरा च कुमुदा पद्मिनी तथा ३६
- कनका विकटा चैव रम्या च रमणी तथा
- वसुंधरा तथा हंसी विशाखा नंदिनी भवेत् ३७
- जया च विजया चैव सुमुखा च प्रियानना
- इत्येतानि च रेखाणि सङ्ख्यायां पञ्चविंशतिः ३८
- ध्वजलक्षणाधिकारः
- को ध्वजो ध्वजमित्या रोहणं च कीदशम्
- निरंधारे किं प्रमाणं च कथं वा तस्य कल्पना ३९
- श्री विश्वकर्मा उवाच
- ध्वजानुरोहणं वक्ष्ये कृते येन फलं लभेत्
- सुदृढं विषमं पर्व ध्वजं वंशं परीक्षयेत् ४०
- ---
- अनुगोपरि संस्थाप्य ध्वज तु दक्षिणां दिशम् ४१
- पश्चिमा मुखाकार्या प्रासाद पुरभूषणः
- इशान्यांदिशिमाश्रित्य ध्वजादण्ड निवेशनम् ४२
- पूर्वमुखे तु प्रासादे दृष्टव्या सुरवल्लभा
- नैऋत्यां तु प्रकर्तव्यां ध्वजादण्ड निवेशनम् ४३
- दक्षिणाभिमुखं कार्य प्रासाद कीर्तिसम्भवा
- वायव्या चानुगे दिक्षु ध्वजादण्ड निवेशनम् ४४
- उत्तराभिमुखं वत्स प्रासादे तत्र कारयेत्
- वायव्ये चानुगे तस्य ध्वजादण्ड निवेशनम् ४५
- मूलगर्भस्य यन्मानं दक्षिणा दिशमाश्रितम्
- अनुगस्योपरि कार्यं ध्वजादण्ड निवेशनम् ४६
- प्रासादस्यनुयद्वारं प्राचीस्था तत्र कल्पयेत्
- पृष्ठश्चानुगे दिक्षु दृष्टव्य ध्वजलक्षणम् ४७
- दिशायां बिदिशायां च प्रासादमुखकल्पना
- पृष्ठश्चानुगे दिक्षे दृष्टव्यं ध्वजलक्षणम् ४८
- मेरु शृङ्गे तु प्रासादे भद्र को गेतु चानुगे
- मूलप्रासादमानेन ध्वजादण्ड निवेशनम् ४९
- चतुर्मुखं ततो वत्स प्रासादं सर्वकामदम्
- ईशान्यां दिशमाश्रित्य ध्वजादण्ड निवेशनम् ५०
- तोरणेन तथा चैव शुकनासे बलानके
- मूलप्रासाद मानेन ध्वजादण्ड निवेशयेत् ५१
- पूरे ग्रामे नगरे च दुर्ग यत्रा नियोजयेत्
- ध्वजस्य नियमो नास्ति सर्वतोमुख शोभना ५२
- अत्रतिष्ठे ध्वजाकार्या जलाश्रयं तत्र शोधयेत्
- दक्षिणां दिशमाश्रित्य दृष्टव्यं ध्वजलक्षणम् ५३
- गिरिदोष हिते वत्स प्रासादे न च मन्दिरे
- स्थानानैव प्रकर्तव्या इत्युक्तं च स्वयंभुवा ५४
- पञ्चगव्य समायुक्तं पञ्चवर्ण च संयुतम्
- प्लावधे तत्र मध्यस्थे तत्रकार्य समाचरेत् ५५
- विजयश्च शक्तिरूपं च सुप्रभं तु जयावहम्
- पञ्चमं विश्वरूपं च प्रमाणं तस्य कल्पयेत् ५६
- ध्वजदंडदीर्घमान
- प्रासादे कटि विस्तारे चतुष्की स्तम्भ विस्तरात्
- गर्मभित्ति समंदैर्घ्यं क्वचित् कर्ण प्रविस्तरम् ५७
- विभक्ते चैव प्रासादे शिखरं विस्तर तत्सम्
- ध्वजवंशस्य दीर्घत्वं मया प्रोक्तं मतान्तरे ५८
- ज्येष्ठे च मध्यमे चैव कन्यसे च प्रकल्पयेत्
- त्रिपर्वं च जयं नाम शक्तिरूपं च पञ्चभिः ५९
- सुप्रभं सप्तपर्वं तु नवपर्वं जयावह
- विश्वरूपं द्विरूपं तु बहुपर्वं समन्वितम् ६०
- वंशमयो च कर्तव्यः सारदारु समन्वितः
- ध्वजदंडकाष्ट
- शिशवं खदिरं चैव अञ्चन मधुकं तथा ६१
- दृढढारु शुभं कार्यं ग्रन्थिकोटर वर्जितम्
- पिण्डश्चैव प्रकर्तव्यः ध्वजदण्डस्य कल्पयेत् ६२
- अंशे द्वात्र्! यंशके चैव चत्वारिंश तु मध्यमे
- ज्येष्ठे चैव प्रकर्तव्या षष्टिः अंशकाः स्मृता ६३
- एवंविधं तु कर्तव्यं हेमरूपेन वेष्ठिता
- मर्कटिकाः
- तदूर्ध्व चैव वक्ष्यामि मर्कटकां सुशोभनम् ६४
- तदूर्ध्व तु षडंशेन मर्कटी चार्ध विस्तरा
- ततस्त्रिभाग उत्सेधं किंकिणी मण्डिता शुभा ६५
- कलशं कारयेत्तस्य पञ्चमांशेन दीर्घतः
- आयुधं वाहनं वापि ध्वजाग्रे तस्य धारयेत् ६६
- नवभागेन वंशस्य प्रमाणं तस्य कल्पयेत्
- शिखराध त्रिभागोर्ध्वं वंशाधा सुनिश्चियम् ६७
- पताका
- विजया वैजयंती च शक्तिरूपा तथैव च
- अपराजिताः सुरूपाः पताका परिकीर्तिताः ६८
- दिव्य वस्त्र पताका च पञ्चवर्णक संयुता
- तारकैरर्धचन्द्र श्च किंकिणी घुर्घुरान्विता ६९
- निष्पन्नं शिखरं दृष्ट्वा ध्वजहीनं न धारयेत्
- असुरा वासमिच्छन्ति ध्वजहीनं सुरालवे ७०
- वाताहुनं पताकानां फोफारो यत्र दृश्यते
- तत कृतं निष्फलं यान्ति पुण्यं तस्य न विद्यते ७१
- तस्मात्सर्वप्रयत्नेन ध्वजहीनं न धारयेत्
- ईदृशं कुरुते यस्तु स्थापकः स्थपक सदा ७२
- राज्यवृद्धिः स्थानवृद्धिः प्रजा सौख्येन नंदति
- --- --- ७३
- इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे शिखरलक्षणाध्याय क्रमांक ८
करोटक लक्षणाध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे क्रमांक अध्याय ९
- करोटक लक्षणाध्याय
- अतोर्ध्वं मण्डपं वक्ष्ये अंतरः क्रियते यथा
- मण्डपस्य प्रमाणं स्यात् ज्ञातव्यं सूत्र साधितम् १
- चतुरश्च कृते क्षेत्रे गर्भसूत्रं तु पातयेत्
- व्यासार्धं तु ततो ग्राह्यं द्विषड्भागं तत्र भागयेत् २
- गर्भार्धपंचभागाय दशभागैक अस्य
- अष्टास्त्रः सिध्यते ह्येवं नात्रकार्या विचारणा
- पूर्वोक्त भागमानेन सार्धस्य पट्टविस्तरम् ३
- तन्त्रकेन समायुक्तं ज्ञातव्यं शिल्पिना त्वया
- अतोर्ध्वं भ्रामयेद्वत्स सूत्रं तु भ्रमसाधितम् ४
- पट्टयोरुभयोर्मध्ये विस्तारं च प्रलक्षयेत्
- विस्तारार्धन तत्रैव कर्तव्यं च ततोच्छ्रयम् ५
- उच्छ्रयेण शतं कुर्यात् अष्टादश विनिश्चितम्
- कर्णदर्दरिका
- अतो दर्दरिकां वक्ष्ये भागाश्चैव चतुर्दश ६
- कामरूपं च भागेन भागं पादोन चिप्पिका
- कर्णकं तु द्विभिर्भागैः भागैकं पदिकान्तरम् ७
- त्रिभिः स्कन्धं च कर्तव्यं भागैकं पट्टिकाद्वयम्
- चतुर्भागास्ततश्चोर्ध्वे ग्रासपट्टीश्च शोभना ८
- पादोनकर्णमुत्सेधं अर्धं चान्तरपत्रकम्
- चतुर्दशैस्तु कर्तव्या भागै दर्दरिका शुभा ९
- निर्गमं ततो वक्ष्ये दर्दरिका सुशोभनम्
- भागैकं कामरूपं च चिप्पिका द्वय निर्गता १०
- सपादैस्तु त्रिभिर्भागै कर्णं तु तत्र कारयेत्
- स्कन्धश्चैव ततः कार्यः सपादत्रयनिर्गतः ११
- द्वौ भागौ निर्गमेणैव कर्तव्यं पट्टिका द्वयम्
- सार्धेकादशभागे तु निर्गमेणैव कारयेत् १२
- एवं दर्दरिका कार्या उदये निर्गमेन च
- रूपकंठ
- रूपकण्ठं ततो वक्ष्ये भागं चैव तु द्वादशे १३
- कामरूपं च भागेन सार्धभागेन चिप्पिका
- भागार्धं च ध्रुवं कार्यं पञ्चसार्धाश्च रूपकम् १४
- छुरकं चार्धभागेन पादोना चैव चिप्पिका
- पादेन घसिका कार्या पादूने चोर्ध्वचिप्पिका १५
- कर्णं च भागपादोन अर्धेनान्तरपत्रकम्
- तस्योर्ध्वे द्वादशोत्सेधं रूपकण्ठं सुशोभनम् १६
- निर्गमं चैव वक्ष्यामि त्रिभिर्भागैस्तु कारयेत्
- विद्याधरान् ततो कुर्यात् षोडशैव तु सङ्ख्यकान् १७
- रूपकण्ठोच्छ्रिता कार्या निर्गमान् तत्प्रमाणतः
- विस्तृता तत्प्रमाणेन मूले चैव तु कीर्तिताः १८
- विद्याधराणामूध्वेन कामदेवं सुशोभनम्
- प्रावृत्तं नायिकाभिश्च सुरूपैः सुमनोरमैः १९
- इशान्याभिमुखं कार्यं धनुर्हस्तं पुष्पबाणक्रम्
- एवं विधं प्रकर्तव्यं सर्वदोषापहारकम् २०
- षड्दर्शनेषु प्रासादेषु अग्रेश्चैव तु कारयेत्
- अन्यथा कुरुते यस्तु सगच्छेन्नरकं ध्रुवम् २१
- शिल्पिनो निष्कुलं यान्ति राष्ट्रभङ्गभयं भवेत्
- म्रियते यजमानस्तु नात्र कार्या विचारणा २२
- गजतालु
- भागोस्त्रयोदशैश्चैव कुर्याच्च गजतालुका
- उच्छ्रयेण ततः कुर्यात् यथा भवति शोभनम् २३
- भागैकं कामरूपं च भागं कुर्याच्च चिप्पिकाम्
- लूमा वै सप्तभिः कुर्यात् भागैकं कामरूपकम् २४
- भागैकं चिप्पिका कार्या कर्णसार्ध समुच्छ्रितम्
- भागार्धे चान्तरपत्रं कर्तव्यं नात्रसंशयः २५
- एवं त्रयोदशभागैः उच्छ्रयेण तु कारयेत्
- निर्गमं चास्य वक्ष्यामि यथावदतु पूर्वतः २६
- भागार्ध कामरूपस्तु चिप्पिकाद्वयनिर्गता
- त्रिभिश्च गजतालुका चतुर्भिस्तु लूमास्मृता २७
- चिप्पिका पृष्टिसूत्रेण खल्वणा तत्र कारयेत्
- द्विभिर्माणिबन्धस्तु चिप्पिका द्वयनिर्गता २८
- एवं त्रयोदशैः सार्धं निर्गमं गजतालुके
- द्वितीय गजतालु
- जगतालु द्वितीया च भागैश्चैव तु द्वादशैः २९
- उच्छ्रयेण ततः कुर्यात् निर्गमः सार्ध द्वादशः
- भागैरेकादशैश्चैव उच्छ्रयेण गजतालुका ३०
- सार्ध एकादशाभागा निर्गमेण तु कारयेत्
- तृतीयां कारयेत्प्राज्ञः सर्वकामफलप्रदाम् ३१
- कोल
- गजतालुकोर्ध्व कर्तव्यं कोलं चैव सुशोभनम्
- पुष्पकण्ठं समायुक्तं छुरकैस्तु समावृत्तः ३२
- भागादर्धं च ध्रुवं कुर्यात् द्वितीय ह्येवमेव च
- पुष्पकण्ठं च सोधन छुरिका भाग त्रयेण तु ३३
- कामरूप सपादेन चिप्पिका भाग पादुन
- पट्टिका द्वयभागेन अर्धयान्तरपत्रिका ३४
- कोलं च दशभिर्भागै उच्छ्रये निर्गमे तथा
- चिप्पिका भागपादोन लूमापादाष्टका स्मृता ३५
- पिंड कार्योनुभागेन एवं कोल समुच्छ्रय
- सार्ध त्रिक एवं कार्यं कोलकं तस्य मध्यतः ३६
- ध्रुवकेण समायुक्ता चिप्पिकाभिर्विनिर्गता
- सार्धद्धि निर्गतं कार्य टेकरं तत्र शोभनम् ३७
- सिद्धिस्तु पद्मपत्राणि शेषा लूमाः समालिखेत्
- द्विभागे निर्गमणं च प्रथमा वलिका तत्र त्रिभिर्भागैस्तु निर्गता ३८
- उच्छ्रिता च द्विभागेन पद्मकेसर संयुता
- द्वितीया तत्समा कार्या निर्गमौच्छ्रये यथा ३९
- त्रिभिश्चैव तृतीयं च निर्गमेणैव कारयेत्
- उच्छ्रिता च द्विभागेन न न्यूना न चाधिका ४०
- चतुर्थी च तथा कार्या सार्धद्विभाग निर्गता
- प्रथमं षोडशैः कोलै द्वितीयं द्वादशैः स्थितम् ४१
- अष्टकोलं तृतीयं च चतुः कोलं चतुर्थकम्
- द्विकोलं पञ्चमं प्रोक्तं सर्वशोभासमन्वितम् ४२
- उदयं निर्गमेणैव दशभागानि च कारयेत्
- थरैः पञ्चभि च ख्याता भागानि उदयेन तु ४३
- अष्टाविंशति शतार्धे भागानुत्र संख्यता
- यथामेधागताश्चैव आषाढे य महिपति ४४
- तथा मेधाश्च मंडपा प्रोक्त आकाशं दशते पुनः
- निलवृक्षे समुत्पन्ना देवता मपिता दुर्लभ ४५
- इति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे करोटकलक्षणनाम क्रमांक अध्याय ९
अध्याय १० सम्पाद्यताम्
- अथ श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्या संवरणाधिकारे क्रमांक अध्याय १०
- अत ऊर्ध्वं प्रवक्ष्यामि संवर्णा च यथा भवेत्
- उदयेन समायुक्ता भाग सङ्ख्या च संयुता १
- अर्धोदयं च यत्प्रोक्तं वामनं उदयं भवेत्
- कृते चैव भवेच्छान्तिः सर्वयज्ञफलं लभेत् २
- अर्धोदयं च नवधाः द्वौभागौ परिवर्जयेत्
- अनन्तं उदयं नामः सर्वलोके सुखावहम् ३
- अधोदयं च नवधाः त्रीणि भागानि संत्यजेत्
- वाराहं उदयं नाम अनन्तं फल दायकम् ४
- उदये च समाख्याता अनन्तं फलदायिका
- तस्मिन् देशे भवेच्छान्ति क्षेमारोग्यं प्रजायते ५
- उदयंहीना चये केचित् क्रियंते मण्डपा भुवि
- तत्र मारीमहाव्याधि राष्ट्रभङ्ग भयं भवेत् ६
- दुर्भिक्षं चाति रौद्रं च राज्ञो च म्रियते तथा
- यजमानं निष्कुलं यांति शिल्पिनो म्रियते ध्रुवम् ७
- एक हस्तादितः कृत्वा यावतः सप्त षष्टि वत्
- तावंतश्चतुरो वृद्धिः घण्टिका परिकीर्तिता ८
- घण्टानां च विभागेन तलोदय समन्वितम्
- विविधा मण्डपैश्चैव संवर्णा ऊर्ध्वसंयुता ९
- एकहस्ते द्विहस्ते च प्रासादे मण्डपं शुभम्
- पञ्च घण्टिका संयुक्तं मण्डपं सर्वकामदम् १०
- त्रि हस्तेन नव घण्टा च चतुर्हस्ते त्रयोदशः
- दशसप्त घण्टिकैर्युक्तं पञ्च हस्ते प्रकीर्तितम् ११
- एकविंशत्समायुक्तं घण्टिका मण्डपं शुभम्
- प्रासादे षट्हस्तेन सर्वशोभासमन्विते १२
- सप्त हस्ते तु प्रासादे घण्टिका पञ्चविंशति
- मण्डपं कारयेत्प्राज्ञः गजसिंहसमन्वितम् १३
- वसु हस्तेन कर्तव्या घण्टिका उनत्रिंशतिः
- नव हस्ते तथा प्रोक्तं दश हस्ते तथैव च १४
- त्रयस्त्रिंशत्समायुक्तं सार्धपादसमन्वितम्
- कलश सिंहसमोपेता तथा गरुडसमन्विता १५
- सप्तत्रिंशत्समायुक्तं घण्टिकायाः समन्वितम्
- एकादशा दितकृत्वा यावत्षोडशहस्तकम् १६
- हस्ते सप्तत्रिंशो मेते यावत् जिनहस्तकम्
- घण्टिका च प्रकर्तव्या चत्वारिंशेक संयुता १७
- पंचविंशति संयुक्ता प्रासादे सर्व कामदे
- तावश्चैव प्रकर्तव्यं ज्ञातव्यं त्रिंशहस्तकम् १८
- पंचचत्वारिंशेघंटा मंडपा सुशोभना
- एकत्रिंशति हस्ते तु यावत् षड्त्रिंशतिः
- घण्टिकानां प्रकर्तव्या उनपञ्चाश संयुता १९
- सप्तत्रिंशोदितः कृत्वा यावत्पञ्चाश हस्तकम्
- घण्टिकानां प्रकर्तव्यं शतमेकोत्तरीयुतम् २०
- एकपञ्चादितः कृत्वा ज्ञातव्यं सप्तषष्टीय
- घण्टिकानां प्रकर्तव्यो शतमेकोनत्रिंशक २१
- एवं संवरणा कार्या गजसिंहसमन्विता
- रथिकातिलकयुताघण्टिकास्कन्धपट्टिका २२
- मूलकूटक संयुक्ता तवङ्गे छाद्य संयुता
- कूटकौ बहुसंपन्ना कार्या संवरणा शुभा २३
- चतुरस्रीकृते क्षेत्रे अष्टभाग विभाजिते
- भागौ द्वौ रथिका कार्या चतुर्दिक्षु व्यवस्थिता २४
- द्वौ भागौ कर्णकं चैव घण्टिका च द्विभागिका
- कूटं भागोन कर्तव्यं चतुर्दिक्षु व्यवस्थितम् २५
- द्विभागा घण्टिका कार्या सर्वशोभासमन्विता
- मूलघण्टा चतुर्भागा द्विभागै कलशं भवेत् २६
- उदयं च प्रवक्ष्यामि भागाश्चत्वारिमेव च
- रथिकातिलकंकूटं भागमेकेन कारयेत् २७
- सार्धपादा तथा घण्टा मूलघण्टा तथैव च
- भाग भाग च कर्तव्यं उदये परिकीर्तितः २८
- मूलघण्टा च पादोना स्कन्धं पट्टं च शोभनम्
- मूलघण्टा त्रिधा कृत्वा विभजेय यथाक्रमम् २९
- अन्तरपत्रं पदं चैव कर्ण चैव तथैव च
- भागमेकेन कर्तव्यं स्कन्धं वै भागमेव च ३०
- घसिकामलसारि च तथा चैव तु कर्तरि
- भागमेकेन कार्या एवं घण्टा विवर्तना ३१
- पञ्चघण्ठा मया प्रोक्ता संवरणा सुशोभना
- द्वादशैव ततः कार्या घण्टिका च समन्विता ३२
- संवरणा नामानि
- अथ नामानि वक्ष्यामि संवरणा यथास्थिता
- पद्मिनी पञ्चघण्टा च नवघण्टा च नंदिनी ३३
- त्रयोदश घण्टिकोपेता कमला परिकीर्तिता
- सप्तदश घण्टिकोपेता हंसिनी परिकीर्तिता ३४
- सुनन्दा चैकविंशत्या नलिनी पञ्चविंशतीः
- नन्दा चैकोनत्रिंशत्या त्रयस्त्रिंश यशोवती ३५
- सप्तत्रिंश विशालाक्षी घण्टिका परिकीर्तिता
- कीर्तिसंवर्द्धनी नाम चत्वारिंशेक संयुता ३६
- पञ्चत्वारिंश देवश्च वा पदा परिकीर्तिता
- उनपंचाशद्युक्ता गजवर्द्धनिका शुभा ३७
- सिंहालिका तथा प्रोक्ता त्रिपंचाश च घण्टिका
- सप्तपंचाशद्युक्ता श्रीधरी प्रविकीर्तिता ३८
- एकषष्टं गंधलता पंचषष्टं तु मालिका
- विशाल नवषष्टं तु घण्टिका प्रविधीयते ३९
- त्रिकूटा त्रिसप्तति घण्टिकाः क्रियते पुनः
- दलदा सप्त सप्तायां घण्टिकासुर्विधीयते ४०
- एकाशिती घण्टिकानां तु पुष्पशिखा प्रशस्यते
- तारावली तु पंचाशी घण्टिका परिकीर्तिता ४१
- नावांस्री घण्टिकायुक्ता पूर्णोदरी प्रशस्यते
- त्रिनवत्यांश्चित्रकूटानां घण्टांकूटस्य पूजयेत् ४२
- माहेन्द्री सप्तनवत्या च घण्टा गवाक्ष क्रियते
- शतेनैकोत्तराणां तु गौरी घण्टा प्रकीर्तिता ४३
- शतपंचोत्तरी घण्टा चन्द्रा स्यानामनामतः
- नवधिकं शतं कार्यं पंचमुखी प्रकीर्तिता ४४
- कीर्तिसंजीवनी नाम घण्टा त्रयोदशं शतम्
- मृणालसिंह सम्भूता शतं सप्तदशाधिकाम् ४५
- गवाक्षं तत्र सम्भूतं कूटाकारं तु शोभनम्
- शतमेकोनविंशत्या कर्तव्यं मृगसुन्दरम् ४६
- शतं विंशाधिका पंच वैज्यंती घण्टामेव च
- शतमेकोन त्रिंशत्या राजवर्द्धनिका शुभा ४७
- यशः कीर्तिं बलं देयं राज्ञानां दर्द्धते मुदा
- ---- ४८
- इति विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे संवरणाधिकार अध्याय क्रमांक १०
अध्याय ११ सम्पाद्यताम्
- अथ श्री विश्वकर्माकृतायां जयपृच्छायां वास्तुशास्त्रे वास्तुविद्यायां देवता दृष्टिपदस्थापनलक्षणाधिकारे क्रमांक अध्याय ११
- विश्वकर्मा उवाच
- गर्भार्धे अष्टा भक्ते मध्ये लिद्ध स्थापयेत्
- सप्तमे ब्रह्मणे चैव केशवं सूर्यमेव च १
- षष्टमे तु उमादेवी रुद्र श्चैव विनायकम्
- पंचमे मातराः रुद्र लोकपाला मरुद्गणान् २
- चतुर्थे नारा सुशधि योगिनं तृतीयमक्षयपदम्
- द्वितीया राक्षस पदं प्रथमे पैशाचिक पदम् ३
- गर्भार्द्धे पञ्च भागेन प्रथम शिव स्थाप्य
- द्वितीये ब्रह्म संस्थाने कुमारी ऽर्हत म्रवेति ४
- तृतीये विष्णुरादित्य कुमारो ब्रह्म मातृकाम्
- चतुर्थे मातरः स्थानं चतुर्थे भाग यौगिनी ५
- पंचमे यक्ष भूताद्या एते पद स्थापन
- इति देवता पद स्थापन
- अथ प्रासाद देवता दृष्टिपद
- द्वात्रिंशद्वारमुत्सेधं मूर्ध्वके त्रीणि वर्जयेत्
- अधोऽष्टमे शिवः प्रोक्तौ दर्शेकादश हीनकम् ६
- द्वादशे च समुत्सेध भवेत्स्थाप्य जलशायिनम्
- चतुर्दशे मातृदेवीं षोडशे यक्षमेव च ७
- अष्टादशे तु कर्तव्या बुभौ रुद्रो च श्रीहरिः
- ब्रह्म युग्मं च कर्तव्यं अत ऊर्ध्वं तथा शृणु ८
- एकाधिके बुधश्चैव लेपचित्राणि कारयेत्
- विंशति मे दुर्गा देवीं अगस्ति नारदस्तथा ९
- एक विशतमे चैव लक्ष्या च जिनमेव च
- चतुर्विंशे समुत्सेधं सरस्वती गणाधिकम् १०
- षडधिक विंशोत्सेध मानव चंद्र मेव च
- ब्रह्मा विष्णुस्तथा रुद्र सूर्यस्तु सप्तविंशती ११
- भैरव चंडिका चैव एकोन त्रिंशदंशके
- तदूर्ध्वे भैरव कार्यं नान्येषां तु कदाचन १२
- द्वारोछ्रयाष्टधा भक्ते ऊर्ध्व भाग परित्यजेत्
- सप्तमाष्टमे सप्तमे भागे दृष्टिस्तु शोभना १३
- इति श्री विश्वकर्माकृते जयपृच्छायां वास्तुशास्त्रे वास्तुविद्यायां देवता दृष्टिपद स्थापन अध्याय ११
अध्याय १२ सम्पाद्यताम्
- अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे महादेवादि महासंघाट क्रमांक अध्याय १२
- अथातः संप्रवक्ष्यामि मूर्तिसंघाट लक्षणं
- चतुर्विंश कार्या प्रत्येकं शृणु निर्गतं १
- केशवं च महादेवं संघाटं स महादेव
- जयकांचन भूषितं दिग्मार्णादिभूषणै २
- शंकर नारायणं युक्तं शंकरनारायण भवेत्
- तस्य ऊर्ध्वं किरीटं च हरितादिभूषणां प्रिय ३
- महेश्वर महाज्ञेयं संघाटं प्रसित माधवम्
- चतुर्भुज विराटं पासं च भूषितं ४
- हरगोविंद संघाटं --- गोविंदहरमेव च
- श्रीवत्सको समायुक्तं जय सार्ध्व विभूषितम् ५
- कीर्तिवास विष्णुभ्यां संघाट विष्णुकीर्तित
- सर्वलक्षण संयुक्तं रुचकादिविभूषितम् ६
- शशि मधुसूदन स्यात् संघाटं तत्र नामत
- मधुसूदन कपालि च भूषया चास्ति कांचनम् ७
- त्रिविक्रम चक्रदेवेश संघाटं नामोच्यते
- देवेश त्रिविक्रमं नामं कांचन मुकुटाहितम् ८
- वामनं श्रीकंठ युक्तं श्रीकंठ वामने भवेत्
- सर्वाभूषणा साचोर्ध्व शेखरीरत्नभूषित ९
- ईश्वरं श्रीधर प्रोक्त श्रीधरीश्वरमेव च
- चित्रकूटं च वामकूटं श्रीवत्सकौस्तुभं भवेत् १०
- पार्वतीप्रियहृषिकेश कुर्यतं परिकीर्तिनम्
- परमऋषिकेशनाम सर्वाभरणाभूषितम् ११
- रुद्रे व पद्मनाभं च संघाटे पद्मरुद्र कम्
- सर्वसंवाकदेव स्याद् भूषणा सर्वशान्तिदं १२
- दामोदर शिवयुक्तं शिवदामोदरं भवेत्
- सर्वलक्षणा संयुक्तं सर्वाभरणभूषिता
- इतिमहादेवदिकेशवादि १३
- आयुधमेद निर्णय
- अथातः संप्रवक्ष्यामि आयुधमेदनिर्णय
- प्रत्येक कथिनं वत्स आदिमध्ये च सानुगा १४
- दक्षिणे वादने वा संव्यावर्तं च निर्णयं
- वज्रखट्वाङ्गचक्रे कौमोदकीमितस्तथा १५
- विश्वकेशवनामस्य सर्वपापप्रणाशनं
- अक्षमाला त्रिशूलं च गदायां चक्रमेव च १६
- शंकर नारायणं नाम तस्योर्ध्वे पुनरुच्यते
- अक्षमाला च खड्ग शंख या पद्ममेव च १७
- प्रशस्त माधवं नाम तस्योर्ध्व पुनरुवेत्रि
- मातुलिका श्रूले स्यात्पद्म शंखस्तथैव च १८
- गोविंद हरनामस्थ कर्मचास्ताश निबोधते
- कपालं डमरुज्ञेयं शंख चक्रणमेव च १९
- चक्रपाणिस्तदानाम तस्योर्ध्वे पुनरुच्यते
- अक्षमाला च पाशाया पद्म कौमोदकीस्तथा २०
- मधुसूदन कपालं च गदतो विहतो मया
- अक्षमाला त्रिशूलं च सुदर्शनशंखमेव च २१
- देवेशत्रिविक्रम नाम तस्योर्ध्वे पुनरुच्यते
- वरद याक्ष मालास्यां गदा वज्र प्रकीर्तिता २२
- श्रीकंठ वामनो नाम तस्योर्ध्वे पुनरुच्यते
- कपालं खद्वाङ्गमित्युक्तं गदा या शंखमेव च २३
- श्रीधरभ्य नाम कर्म चारत निबोधते
- वरदडमरुके च पद्मायां शंखमेव च २४
- परमऋषिकेशं नाम कर्मचास्त निबोधते
- अक्षमालां च विज्ञेया डमरु चक्रदाभवेत् २५
- अर्चासंघाटभिन्युक्त पद्मरुद्वेश्चमेव च
- वरदडमरु चैव गदायां चक्रमेव च २६
- शिवदामोदरं नाम कर्मचास्त निबोधते
- --- २७
- अंगप्रत्यङ्गभग्नायां मूर्तिस्थाप्याविसर्जयेत्
- नखाऽभरणामालाखेर्मग्नाज्ञानविचारयेत् २८
- इति श्री विश्वकर्माकृते वासुविद्यायां महादेवादि महासंघाट आयुध भैदनिर्णयाध्याय क्रमांक अध्याय १२
कीर्तिस्तंभलक्षण सम्पाद्यताम्
- विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां कीर्तिस्तंभलक्षण क्रमांक अध्याय १३
- श्री विश्वकर्मा उवाच
- नमामि शारदादेवी देवमानवंदिताम्
- नमामि चर्चिता वक्षे कीर्तिस्तंभादिलक्षणम् १
- अनेक शिल्पीकार्याणि सिद्धिकेतु सुखाप्तये
- कीर्तिस्तंभो महानाभो प्रोच्यते विश्वकर्मणे २
- शुद्धभूमिं तले स्तंभः कीर्तिकर्तव्य ज्ञायते
- भूमितोऽकुरपात्राद्यै श्रेष्टितिश्चामलैरिभै ३
- नरै नाटिकरुपैश्च रूपिणी शतसंयुते
- दीव्यपाषाणसंपन्ने रंशेर्नाना विधैर्युते ४
- प्रभाभूषितशक्तिनां मध्यकोणंता मुख्यकं
- भद्र कर्णे विकर्णाद्य वक्षे वास्तुविचारिन ५
- प्रासादाग्रेऽगणवारे स्थापिती विश्वकर्मणा
- प्रतोल्या सहितो देवै पूजिते खिलसिद्धिदं ६
- यस्य दर्शनमात्रेण जिनशासनदीपकै
- जिनवर्गे महापुण्यं प्राप्यते भवसागरे ७
- महाप्रासादकरणे निष्पन्नै वास्तुवेदिके
- पूर्णे याये ततः कार्यो मानस्तंभसकीर्तिदं ८
- अभिरूपमरूपश्च विरूप मध्यरूपकै
- कीर्तिस्तंभो विभातिह भूमौ पुण्यकृतां नृणां ९
- पूर्वदक्षिण वारुण्यो दिशो वाक्ष कुवेरका
- चतुररस्त्र कोणकाश्चैव ईशानाग्निनैरुत्यनिलः १०
- धवसाधन कामादौ कीर्तिस्तंभस्तु कारयेत्
- सर्वे वासुकृतः श्रेष्टं कीर्तिस्तंभस्य लक्षणं ११
- मानप्रमाण संयुक्तं लघुदीर्घसमन्वित
- अनुरूप यथायोग्य कर्तव्यं विश्वकर्मणा १२
- अष्टभाग विभक्तेऽन भूपीठे संदुराश्रये
- भद्र कर्णो विकर्णाद्यै कीर्तिस्तंभो विरच्यतो १३
- सप्तभूमिमयकार्या वास्तुवेदे त्रिंशत्यभी
- प्रथमभूमिरुद्दिष्टा भद्र त्रयविराजिता १४
- जाड्यकुंभकणालि च तत्र ग्रासपद्या पुन
- गजस्थानं नरःस्थानं पुरःस्थानं च कुंभकं १५
- कलशोऽत्तरपत्रं च कपोलिमंचिकस्तथा
- बहिर्जंधाविभार्ग च दिग्पालाश्च सपन्नगा १६
- अंतर्जघा विभागेन गणगंधर्वशक्त्यया
- उद्गभरणी चैव कणालि च शिरावटि १७
- पट्टिकाछाद्यकूटं च मंडोवरादिभूमिका
- एतस्योभूमिकायं च उपर्योपरिसूरिभि १८
- --- कर्तव्यं वास्तुविधिनां
- बाह्यभूर विभूमिषु पुरुषमूर्ति प्रतिष्टितं १९
- एवं षट् भूमिकायं च उपर्योपरिसूरिभिः
- कर्तव्य वास्तुविधिना बाह्यभूरविभूमिषु २०
- आद्यभूमिमहानंदा द्वितीयानंदवद्धनी
- तृतीयाधर्मविस्तारा चतुर्थकर्मासिद्धिदा २१
- पंचमी देवतातुल्या षष्टिमोक्षस्वरूपका
- सप्ताभ्यानंदविर्वाणा अष्टमि तु अयोनिजा २२
- नवभि एकादशी स्यात् एवं च भूमिलक्षणं
- शिवालये शिव कुर्यात् ब्रह्मणंब्रह्मणंस्थले २३
- विष्णुस्थाने महाविष्णु जिनेजैनप्रकर्तिना
- नगरे राजधानी च महादूर्गे विशेषत २४
- भूपालयवलभः स्तंभः वास्तुशास्त्रे प्रकर्तिता
- स्तंभकीर्तिदर्शनेय तीर्थकोटिकलप्रदं २५
- इति श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे कीर्तिस्तंभ लक्षणाधिकार क्रमांक अध्याय १३
अध्याय १४ सम्पाद्यताम्
- अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्रासादाधिकारे देवतान्यास क्रमांक अध्याय १४
- श्री विश्वकर्मा उवाच
- प्रासादे देवतानां च गुणवृक्ष्यामि सांप्रत
- तथा यावतनुसंस्था च क्रमेणैवप्रकीर्तिता १
- कौर्म्म घनशिलाणं तु खरशिलायावाराहकं
- भिट्टत्रयो त्रयोदेवा पन्नगायक्षकिन्नरा २
- जाड्यकुंभो स्थितो नंदि हरि चैव कणालिका
- गजपीठं गणेशं च अश्वपीठं तथाश्विनै ३
- नरपीठ नरोत्तमात्र खुरके च धरास्मृता
- कुंभकेष्ट तथासृष्टिं निर्गमोदगोसमया ४
- रुद्रं च प्रकर्तव्या भद्रे भद्रे स्वयंविधि
- कलशे च तथागौरि नंदि चैवांतरपत्रको ५
- कपोताल्यां गांधर्वा मंचिकायां सरस्वती
- अत ऊर्ध्वे भवेद्जंघा देवतानां मनोरमा ६
- देवतानां श्रयं स्थानं प्रासादस्यावभूषण
- कर्णेषु दिक्पालाश्चैव प्राच्यादिषु प्रदक्षिणे ७
- नाटेश्वरं पश्चिमे भडे अंतकैः सहदक्षिणे
- चंडिका चोत्तरे देवी दंष्ट्रारौद्र तनाश्रुभा ८
- प्रतिरथे तत्र देव्या च कर्तव्या च दिशापति
- वारिमध्ये तु निद्रा णां प्रनिलातयसाशने ९
- आधारं अक्षसूत्र च जटामुकटमंडितं
- मंदिकाकोणिकायां च दले प्रतिरथौ तथा १०
- रूपं च नृत्यसंयुक्तं भेदमूर्तिस्तथैव च
- गणेशं च कुमारं च आदित्यस्य ---स्तथा ११
- चंडिकाब्रह्मणं चैव वासुदेव तथैव च
- भेदमूर्तिस्तु जंघाया अन्येश्चापि सुरास्तया १२
- क--मिकमध्यदेवं च प्रासादो सर्वदेव हि
- प्रासादे अंतरं नास्ती पीठं चैव तथैव च १३
- कपिलायमभिश्चैव अंतरंतय विद्यते
- तलविभक्ति छंदेन ऊर्ध्वे च पृथक्पृथक् १४
- ज्ञातिच्छंदे समुत्पन्ना शृंगप्रत्याङ्गमेव च
- कर्तव्यं जगत्यान्तरं अनंतरं कुलदेवता १५
- अंतरं भद्र देशे तु उत्तभागे स्तथैव च
- बलाणक मंडपंश्चैव कर्तव्या पंचदेवता १६
- चंडिका गणेशं चैव जिनार्क ब्रह्मणदास्तथा
- यामूर्तिमध्यदेशे तु पृष्टिभद्रे तथैव च १७
- अन्ये परिणाप्राज्ञ सर्वदैव स्वयं विधि
- उद्गमे च भवेदिंद्र कपिग्रासरलकृता १८
- प्रवेशं चतुभागेस्तु कर्तव्यं शास्त्रपारगै
- सावित्रिपद संस्थाने भरण्या च न संशय १९
- विद्याधराकपोतालि अंतरपत्रेषु सुरंगाणि
- पर्जन्येषु खुटछाद्यै अतः ऊर्ध्वे तथैव च २०
- निर्गमे मणिरत्नेव --- सर्वत्र पूजते २१
- इति मंडोवर देवतादस्थान
- विश्वकर्मा उवाच
- सदाशिवमध्यदेशे च लक्ष्मी सर्वत्र दापयेत्
- पदस्थाने स्थितादेवा सर्वकल्याणकारका २२
- शाखायां चंदसूयस्तु मातराणां चोतरंगकौ
- उदंबरस्थिता यक्ष अश्विन्यर्धचंद्र के २३
- राजसेन वेदिकायां आसनं घत्रवारणं
- मृत्यलोकयो देवा ते पद सर्वमाश्चिता २४
- स्तंभासने भवे शक्र आसनं सर्ववर्णयेत्
- ब्रह्मक्षत्रिय वैश्य योगियां च पुनःपुनः २५
- स्तंभेषु पर्वता प्रोक्ता आयाश्च दिग्वजः
- सह भरणं शंकरे चैव गांधर्वे कुमारस्तथा २६
- पट्टकं मातरा सर्वे देव्यानं च समस्तकाः
- अंतरा उत्तराश्चैव वैताल्या ब्रह्मराक्षसा २७
- पदशांशे भवे शक्रः यक्षश्च धनदस्तथा
- उदिपर्णा गणी सर्वे वृतश्चैव न संशयः २८
- त्रयाशंतिसुरा सर्वे त्रिदैशैः सहसंयुतं
- वृतोर्ध्वयते नित्यं कर्णदर्दटिका २९
- करोटकस्यऽधोभागैः ऊर्ध्वं दर्दरिकास्तथा
- विद्याधरथरं नाम देवानावल्लभ सदा ३०
- दशयाद्विद्याधरं च रूपपश्चिम प्रियवादिनौ
- दिशि च विदिशि चैव मध्यस्थास्र निदेशयेत् ३१
- --- संघाप्रकर्तव्या षंडेषंडे च कारयेत्
- ----- ३२
- षोडशविद्याधरं च चतुर्यात्रप्रकाशका
- कंदर्प्प नृत्यताश्चैव नृत्यकी नृत्यवल्लभा ३३
- गीयालुंकोलकंक्तयाव वृत्तानपूर्णामेव च
- आकाशं च पदं प्रोक्त अव्यक्तं व्यक्तमेव च ३४
- मध्ये ध्रुवपदं तस्य अचलं ध्रुव निश्चलं
- एतत सर्वपदं प्रोक्त भाषिते विश्वकर्मणे ३५
- जालिके रुषि संहाय मध्ये वसुरसंस्थिता
- ब्रह्माविष्णुस्तथारुद्रं भद्रे भद्रे षु दाययेत् ३६
- ऊरुशिखरे तथाय च भद्रे भद्रे स्वयंविधि
- शिखरे ईश्वरं विद्यात् शिखायं च सुराधिपं ३७
- ग्रीवायां यततो नंदी अंडकेषु निशानतं
- पद्मपत्र तथा पद्मं आमलसादिकापदरं ३८
- कलशं च स्थितो रुद्रो व्योमव्यापि सदाशिव
- सद्योवामस्तथाधोर पद्म ईशानःस्तथा ३९
- कर्णप्रतिरथरद्ध बालंझरसुभद्र कं
- कर्णिका नदिकायां च शलिलान्तक तथा ४०
- एते देव समाख्याता प्रासादेषु सुराधिपा
- पंचवक्रे दिषु भद्रे अंगसंख्या प्रशस्यते ४१
- पथ्यते मुच्यते पापं अक्षयाफलमेव च
- त्रिकालस्मरते यस्तु सर्वार्धफलं भवेत् ४२
- इति श्री विश्वकर्माकृते वास्तुविद्यायां त्रिदशभवनोद्भव वास्तुशास्त्रे प्रासादाधिकारेस्तथवकादेवता क्रमांक अध्याय १४
अध्याय १५ सम्पाद्यताम्
- अथ चतुर्विंशति गौरी स्वरूपाणि श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे वास्तुविद्या क्रमांक अध्याय १५
- विश्वकर्मा उवाच
- अथातः संप्रवक्ष्यामि गौर्यादिचतुर्विंशतिम्
- चतुर्भुजा विनेत्रा च सर्वाभरणभूषिता १
- पीताङ्गी पीतवर्णा च पीतवस्त्रविभूषिता
- एक वक्त्रा त्रिनेत्रा च स्वरूपे यौवनान्विता २
- सुप्रभा सुतेजाद्या च मुकुटेन विराजिता
- प्रभामंडलसंयुक्ता कुंडलाभरणविभूषिता ३
- हारकंकणकेयूरा पादयोर्नू पुरास्थिता
- सिंहस्कंधे मसारूढा नानारूपकरोद्यता ४
- देवगांधर्वगणेन पूजिता सुरगणैस्तथा
- कृतयुगे तोतला नाम पूज्यते ब्राह्मणैः सदा ५
- त्रिपुराख्या तु क्षत्रियैः सौभाग्या च वैश्यस्तथा
- विजया शूद्र जातिभिः पूज्याश्वत्वारो ब्राह्मणैः ६
- त्रयश्च राज्यजातिभिः द्वयौ वैश्यश्च पूज्यते
- अथैका शूद्र जातिभिः --- ७
- १ तोतला देवी-
- दक्षिणे चाक्षमालां च तस्याधश्च कमंडलुम्
- तथैव पीछिकां वामे वामाधः शंखमुत्तमम् ८
- रूपेण तोतला नाम मूर्त्तिश्च हंसवाहिनी
- २ त्रिपुरा देवी-
- अभयं च दक्षिणे हस्ते तस्योर्ध्वेऽङ्कुशमङ्गुले ९
- पाशं च वामहस्ते तु लिङ्गं च तदधः स्थितम्
- प्रेतासना महादेवी त्रिपुरा नाम मूर्तिकः १०
- ३ सौभाग्या देवी-
- दक्षिणे चाक्षसूत्रं च तस्योर्ध्वे पद्ममुत्तमम्
- वामे तु पुस्तकं चैव वामाधः फलमुत्तमम् ११
- गरुडे च समारूढा सौभाग्यवेत्ता मूर्त्तिकः
- ४ विजया देवी-
- दक्षिणे चाक्षसूत्रं च तदूर्ध्व दंडमुत्तमम् १२
- वामे तु पुस्तकं चैव वामेधश्चाभयं तथा
- प्रसन्नमुखा देवी च विजया नाम मूर्त्तिकः १३
- ५ गौरी देवी-
- दक्षिणे चाक्षसूत्रं च भूजोर्ध्वेश्वरमेव च
- गणं च वामहस्ते च तस्याधश्च कमंडलुम् १४
- गौरी नामेन विख्याता मूर्तिश्च सिंहवाहिनी
- ६ पार्वती देवी-
- दक्षिणे चाभयं चैवं तूर्ध्वे लिङ्गमीश्वरम् १५
- वामे गजाननं चैव मातुलिङ्गं चाधःस्थितम्
- गोधिका लांछनं चैव पार्वती नाम मूर्त्तिकाः १६
- ७ शूलेश्वरी देवी-
- अभयं दक्षिणे हस्ते तदूर्ध्वे रुद्र मेव च
- वामे गणपतिश्चैव वामाधः चाक्षमालिका १७
- सिंहवाहने समारूढा शुलेश्वरी नाम मूर्तिषु
- ८ ललिता देवी-
- दक्षिणं चाक्षमालां तु तदूर्ध्वे लिङ्गमेव च १८
- वामे गणपतिं चैव तस्याधः पद्ममुत्तमम्
- गोधिकावाहने चैव ललिता नाम मूर्तिषु १९
- ९ ईश्वरी देवी-
- अभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
- वामे गणपतिं चैव वामाधश्च कमंडलुम् २०
- ---ईश्वरी सिंहवाहिनी
- १० मनेश्वरी देवी-
- पद्मं दक्षिणहस्ते च तदूर्ध्वे ईश्वरं तथा २१
- वामे गणपतिं चैव वामाधश्चाभयं तथा
- सिंह वाहन समारूढा मनेश्वरी नाम मूर्तिषु २२
- ११ उमापति देवी-
- अभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
- वामे गणपतिं चैव वामाधः पद्ममुत्तमम् २३
- उमापतिनामा मूर्तिः देवी च सिंहवाहिनी
- १२ वीणा देवी-
- पद्मं च दक्षिणे हस्ते तदूर्ध्व लिङ्गमेव च २४
- गणेशं वामहस्ते च लिङ्गं तदधःस्थितम्
- सिंहासने समारूढा वीणेति नाम मूर्तिषु २५
- १३ हस्तिनी देवी-
- दक्षिणे च मातुलिङ्गं तदूर्ध्वे ईश्वरं तथा
- वामे गणपतिं चैव वामाधश्च कमंडलुम् २६
- गोधासने समारूढा हस्तिनी नाम मूर्तिषु
- १४ त्रिनेत्रा देवी-
- अक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा २७
- वामे गणपतिं चैव मातुलिङ्गमधः स्थितम्
- सिंहासने समारूढा त्रिनेत्रा नाम मूर्तिषु २८
- १५ रमणा देवी-
- अक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा
- वामे गणपतिं चैव तस्याधः पुस्तकं तथा २९
- हंसवाहनमारूढा रमणा नाम मूर्तिषु
- १६ कुलकला देवी-
- पद्मं च दक्षिणे हस्ते तस्योर्ध्वे पद्ममुत्तमम् ३०
- पुस्तकं वामहस्तेन तथाधश्च कमंडलुम्
- कमलालाच्छनं चैव देवीनाम कुलकला ३१
- १७ जंघा देवी-
- अक्षमालां दक्षिणे च तस्योर्ध्वे पद्ममुत्तमम्
- दर्पणं वामहस्ते च वामाधाः फलमुत्तमम् ३२
- हस्तिनो वाहना देवी जंघानामतो मूर्तिषु
- १८ त्र्! यैलोक्यविजया देवी-
- वरदं दक्षिणे हस्ते तस्योर्ध्वेऽकुशमुत्तमम् ३३
- पाशं च वामहस्ते तु वामाधश्चाभयं तथा
- ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ३४
- एते पंच महाप्रोक्ताः पादमूले व्यवस्थिताः
- त्र्! यैलोक्यविजया नाम --- ३५
- १९ कामेश्वरी देवी-
- दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम्
- पुस्तकं वामस्ते तु वामाधश्चाभयं तथा ३६
- कमलासनमारूढा देवी कामेश्वरी तथा
- २० रक्तनेत्रा-
- अभयं दक्षिणे हस्ते तदूर्ध्वे खड्गमेव च ३७
- वामे तु तक्षकं चैव तस्याधः फलं भवेत्
- प्रेतासना समारूढा रक्तनेत्रा च नामत ३८
- २१ चंडी २२ जंभिनी २३ ज्वालाप्रभो २४ भैरवी-
- चंडीनीतानी दध्यनी जंभिनी ज्वलतप्रभा
- सहितं भैरवरूपा कोटराक्षी च भीषणी ३९
- प्रेतारूढा विशाला च द्वादश पंचलोचना
- पंचमहादीप्तमुद्रा --- पंचकभूषणा ४०
- सिंहचर्मपरिधाना गजचर्मोत्तरीयकम्
- नीलोत्पलसमाभासा सूर्यकोटिसमप्रभम् ४१
- कपालाभरणं खण्डं खंडं षड्वर्गधारिणि
- कपालखड्गधरा ज्ञेया त्र्! यैलोकोद्योतघंटिका ४२
- सरसारङ्गधरा दिव्या पाशाङ्कुशधरा च तु
- सर्पकुंडलसंयुक्ता सर्पाभरणभूषिता ४३
- सर्पकंकणकेयूरा नागाभरणभूषिता
- इत्येवं भैरवीदेवी सपादपरिकीर्तिता ४४
- इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे चतुर्विंशति गौरी स्वरूपाक क्रमांक अध्याय १५
गौरीस्वरूपाध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरी स्वरूपाध्याय क्रमांक अध्याय १६
- अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्ति लक्षणम्
- चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता १
- गोधासनो परिस्था च कर्तव्या सर्व कामदा
- इति गौरी मूर्ति स्वरूप
- उमा च पार्वती गौरी ललिता च श्रिया तथा २
- कृष्णा च हिमवती च रंभा च सावित्री तथा
- त्रिखंडा तोतला चैव त्रिपुरा द्वादशोदिताः
- इति गौरि नामानि ३
- १ उमा देवी-
- अक्षसूत्रं च कमलं दर्पणं च कमंडलुः
- उमानाम्ना भवेन्मूर्ति पूजिता त्रिदशैरपि ४
- २ पार्वती देवी-
- अक्षसूत्रं शिवदेवं गणाध्यक्षं कमंडलुम्
- अग्निकुंडोपक्षद्वये पार्वती पर्वतोद्भवा ५
- ३ गौरी देवी-
- अक्षसूत्राभये पद्म तस्योधस्तु कमंडलुः
- गौर्याश्रु मूर्तिरित्युक्ता कर्तव्या शिवशालिनी ६
- ४ ललिता देवी-
- अक्षसूत्रं तथा वीणा दर्पणेऽध कमंडलुः
- ललिता च तदा नाम सिद्धचारण सेविता ७
- ५ श्रिया देवी-
- गोधासनाक्षसूत्रो च वरदाभयकमंडलुः
- श्रिया मूर्तिस्तदानाम गृहे पूज्या श्रिये सदा ८
- ६ कृष्णा देवी-
- अक्षसूत्रं कमंडलुहृदयेतपुटाजलिः
- पंचाग्नयश्च कुंडेषु कृष्णा नाम सुशोभना ९
- ७ हिमवती देवी-
- हिमवंती शैलराजी तस्यावत्या गिरिसुता
- पद्मदर्पणाभयतु विवाहेतु महेश्वरी १०
- ८ रंभा देवी-
- कमंडल्वक्षवज्रांकुश गजासनं संस्थिता
- सांप्रतितोद्भवद्रू पा रंभा च सर्वकामदा ११
- ९ सावित्री देवी-
- अक्षसूत्रं पुस्तकं च धत्ते पद्मकमंडलु
- चतुर्वक्त्रातु सावित्री श्रोत्रियाणां गृहे हिता १२
- १० त्रिखंडा देवी-
- अक्षसूत्रवज्रशक्ति तस्याधश्च कमंडलु
- त्रिखंडा पूज्येन्नित्यं सर्वकामफलप्रदाम् १३
- ११ तोतला देवी-
- शुलाक्षसूत्रं दंड च श्वेतयामरकं तथा
- श्वेतदेहा भवेत् देवी तोतला पापनाशिनी १४
- १२ त्रिपुरा देवी-
- पाशांकुशाभयवरं चतुर्हस्तेष्वनुक्रमात्
- त्रिपूरानाम संपूज्या वंदिता त्रिदशैरपि १५
- इति द्वादश गौरि स्वरूप
- इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरि स्वरूपाध्याय क्रमांक अध्याय १६
सरस्वती स्वरूपाध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृते वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६
- अथातः संप्रवक्ष्यामि द्वादश वाणी लक्षणम्
- चतुर्भुजाश्चैकवक्त्रा मुकुटेन विराजिताः १
- प्रभामंडल संयुक्ता कुंडलान्वितन्वरभूषिता
- वस्त्रालंकार संयुक्ताः सुरूपा नवयौवनान्विता २
- सुप्नसन्ना तेजाढ्या नित्यं च भक्तवत्सला
- १ श्रिया देवी-
- दक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम् ३
- परमामुत्तमा वीणां वामे ध पुस्तकं भवेत्
- २ सरस्वती देवी-
- दक्षिणाधक्षसूत्रं तदूर्ध्वे पुस्तकं तथा ४
- वीणा वामकरे ज्ञेया तदधःपद्मपुस्तकम्
- द्वितीया सरस्वती नाम हंसवाहनसंस्थितं ५
- ३ कमलारुक्षिणी देवी-
- वरदं दक्षिणे हस्ते पद्मपत्र तदूर्ध्वतः
- पद्मं वामकरे ज्ञेयं वामाधः पुस्तकं भवेत् ७
- ४ जया देवी-
- दक्षिणे वरदं ज्ञेयं तदर्धे पद्ममुत्तमं
- पुस्तकं वामहस्ते तु अधोवामे क्षमालिका ८
- ५ विजया देवी-
- वरदं दक्षिणे हस्ते अक्षसूत्रं तदूर्ध्वतः
- पुस्तकं वामहस्ते तु तस्याध पद्ममुत्तमं ९
- ६ सारंगी देवी-
- वरददक्षिणे हस्ते पुस्तकं च तदूर्ध्वतः
- अक्षसूत्रं करे वामे वामाधः पद्ममुत्तम १०
- ७ तुंबरी देवी-
- अभय च दक्षिणे हस्ते तदूर्ध्वे अक्षमालिका
- वीणा वामकरे ज्ञेया तस्याध पुस्तकं भवेत् १०
- ८ भारती देवी-
- वरदं दक्षिणे हस्ते तदूर्ध्वे कमलं भवेत्
- वीणा वाम करे ज्ञेया तस्याधः पुस्तक भवेत् ११
- ९ सुमंगला देवी-
- दक्षिणे वरदसूत्रं च पद्मतस्यो परिस्थितं
- वीणा च वामोर्ध्वे स्यात् वामाधः पुस्तकं भवेत् १२
- १० विद्याधरी देवी-
- पद्मं च दक्षिणे हस्ते ऊर्ध्वं चाक्षमालिकाम्
- वीणा वाम हस्ते तु पुस्तकं स्यात्तदधःत १२
- ११ सर्वविधा देवी-
- दक्षिणे चाक्षसूत्रं तु पद्म तस्योर्धः स्थिति
- पुस्तकं वाम हस्ते च चाभयं तस्योदधःत १३
- १२ शारदा देवी-
- अभयं दक्षिणे हस्ते ऊर्ध्वे पद्मं च दृश्यते
- पुस्तकं वामहस्ते तु तस्याधश्चाक्षमालिकाम् १४
- द्वादश शारदानाम इति शास्त्रस्य निर्णयः
- इति श्री विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे पद्मासन संस्थिता हंसारूढा प्रसन्ना च पूजिता सरस्वती द्वादशमूर्ति ।
- श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती स्वरूपाध्याय क्रमांक अध्याय १६
अध्याय १७ सम्पाद्यताम्
- अथ द्वादश सरस्वती स्वरूप
- देवतामूर्ति प्रकरणे
- एक वक्त्र चतुर्भुजा मुकुटेन विशजितः
- प्रभामंडल संयुक्ता कुंडलान्वित शेखरः १ इति सरस्वती स्वरूप लक्षण
- अक्ष पद्मं विणापुस्तक महाविद्या प्रकीर्तिता । इति महाविद्या १
- अक्ष पुस्तकवीणा पद्म महावीणा च नामत २ इति महावीणा २
- वराक्ष पद्मपुस्तक शुभावहा च भारती । इति भारती ३
- वराम्बुअक्ष पुस्तक सरस्वती प्रकीर्तिता ३ इति सरस्वती ४
- वराक्षं पुस्तकं पद्मं आर्यानाम प्रकीर्तिता इत्यार्या ५
- वरपुस्तकाक्ष पद्म ब्राह्मी नाम सुखावहा ४ इति ब्राह्मी ६
- वर पद्मवीणा पुस्तक महाधेनुश्च नामतः । इति महाधेनु ७
- वर च पुस्तक वीणा वेदजर्भा तथाम्बुजम् ५ इति वेदजर्भा ८
- अक्ष तथाऽभये पद्मपुस्तके मेश्वरीभवेत् । इत्येश्वरी ९
- अक्ष पद्मवीणाश्चैव महालक्ष्मी च आगमे ६ इति महालक्ष्मी १०
- अक्ष पद्म पुस्तकं च महाकाल्याऽभयं तथा । इति महाकाली ११
- अक्ष पुस्तक वीणा च पद्म महासरस्वती ७ इति महासरस्वती १२
- इति द्वादश सरस्वती स्वरूप
- श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य
- द्विभुज स्वरूपाध्याय क्रमांक अध्याय १७
- अथातः संप्रवक्ष्यामि आदित्याश्च द्वयंकरा
- त्रयोदशादित्यान् प्रोक्तं रूप शृणु विचक्षण १
- १ आदित्य देव-
- प्रथमे हस्ते शंखं च वामे पद्मकं हस्तके
- प्रथमं च भवेन्नाम आदित्यास्तु विधीयते २
- २ रवि देव-
- प्रथम हस्ते शंख च वामे वज्रदंडकम्
- द्वितीयं तु भवेदस्य रविर्नाम विधीयते ३
- ३ गौतम देव-
- प्रथमं पद्महस्ते च वामे पद्मं दंडकम्
- तृतीयस्तु भवेद्देवो गौतमस्तु विधीयते ४
- ४ भानुप्तान देव-
- प्रथमे पद्महस्ते च वामे शदल हस्तके
- चतुर्थस्तु भवेन्नाम भानुप्तानो विधीयते ५
- ५ शाचित्त देव-
- प्रथमे पद्महस्ते च वामे शंखतु हस्तके
- पंचमंस्तु भवेत् देवः शाचितनाम धार्यते ६
- ६ दिवाकर देव-
- प्रथमे वज्रदंड च वामे वज्रदंडकम्
- षष्टमस्तु भवेद्देवो दिवाकरो विधीयते ७
- ७ धूमकेतु देव-
- प्रथमे वज्रदंडा च वामे पद्मं च हस्तके
- सप्तमं तु भवेन्नाम धूम्रकेतुर्विधीयते ८
- ८ संभव देव-
- प्रथमे वज्रदंडा तु वामे शंख च हस्तके
- अष्टमस्तु भवेन्नाम संभवस्तु विधीयते ९
- ९ भास्कर देव-
- प्रथमे फलं हस्ते च वामे शंख तु हस्तके
- नवमस्तु भवेन्नाम भास्करस्तु विधीयते १०
- १० सूर्य देव-
- प्रथमे फलं च हस्ते वामे दंडं च हस्तके
- दशमस्तु भवेन्नाम सूर्यदेवो विधीयते ११
- ११ संतुष्ट देव-
- प्रथमे चक्रं हस्ते च वामे पद्म तु हस्तके
- एकादशमो भवेन्नाम संतुष्टस्तु विधीयते १२
- १२ सुवर्णकेतु देव-
- प्रथमे फलं हस्ते च वामे पद्मं तु हस्तके
- द्वादशमो भवेन्नाम सुवर्णकेतुर्विधीयते १३
- १३ मार्कंड देव-
- उभयोर्हस्तयोः पद्ममे स्थारुढश्च संस्थितः
- त्रयोदशमो भवेन्नाम मार्कंडस्तु विधीयते १४
- इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य स्वरूपाध्याय क्रमांक अध्याय १७
वास्तुलक्षणाध्याय सम्पाद्यताम्
- श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां वास्तुलक्षणाध्याय क्रमांक अध्याय १८
- पुरान्धकवधे रुद्र ललाटपतिपतितंनक्षितो
- स्वेदस्तनोद्भुतं जातं पुरुषो वै सुदुःखह १
- अधोमुखेन सौख्यश्च कुरुते हन्ति चान्यथा
- नैव तस्य विना शांति श्रीदः सुविहितो बली २
- ६४ पदतो वास्तु
- अथवास्तु देवता भाग निर्णय चोसठ पद
- चतुषष्टि पदोवास्तु मध्ये ब्रह्मवेदे पदे भवेत् ३
- अर्यमाच्चतुर्भाग ब्रह्मकर्णष्टयुग्मांश स
- शेषा एकपदा बाह्ये त्वष्टा विशतिदेवा ४
- ब्रह्मा चतुर्देवो अर्यमा विवरवान् मैत्रगण
- पृथ्वीधरस्तथा चतुष्कोणे अष्टदेवो
- ब्राह्मपंक्ति द्वित्रया देवो स्वाप्याय च पूजयो ५
- ८१ पदनो वास्तु
- वास्तुक्षेत्रे एकाशिपदे नव नव भाजिते
- मध्ये नवब्रह्मा नवभागे षट् पट् पद अर्यमादिदय ६
- द्वीपद मध्यमध्ये कोणस्यो बाह्ये सर्धे द्विभागिकाः
- बाह्यपंक्ति कैकदेवा एकाशिपद वास्तुन ७
- सो पदनो वास्तु
- चतुरसी कृते क्षेत्रे दश दश विभाजिते
- शतपदे वास्तु कलाशेषदे ब्रह्मा ८
- वरस्येशा अर्यमादय चतुष्कोणे आपवत्सादि
- बाह्यपदमेकैकदेवा स्थाप्य शतपदवास्तुन ९
- हजार पदनो वास्तु
- चतुरश्री कृते क्षेत्रे द्वात्रिंशद्विभाजिते
- षट्पंचाशत्पदैर्युक्तान्येकादश शतानि च १०
- मध्यस्थाने लिखेत्पद्मं वेदगर्भ इति स्मृतम्
- ब्रह्मान्ते च भवेद्वीथी चत्वारिंशत्पदैः क्रमात् ११
- अर्यम्मोऽस्ते भवेद्वीथी शतं च द्वादशोत्तमम्
- वीथीकर्णे समस्तेवं पदमुक्तिः क्रमोदित १२
- अप्तदंश मंडलेषु चाद्ये पद्मं निपातयेत्
- तदनन्तरपंक्तौ च ब्रह्माषण्ण वतिपदः १३
- तदन्ते वीथीकाकार्या चत्वारिंशत्पदान्विता
- सशितिभिश्च चत्वारोऽर्यमाद्याश्च चतुर्दिशम् १४
- चत्वारिंश पदैरथैरष्टौ स्युर्ब्रह्मकर्णत्
- तदन्तवीथीका कार्या शतं च द्वादशोत्तरम् १५
- तदबाह्ये च भवेद्वीथी द्वात्रिंशदधिकं शतम्
- कौणे लोप्याश्च षट्पादाश्चतुर्षु चतुर्विंशतिः १६
- इशाघ्ना रुद्र दासान्ता लता वीथ्यन्तरे गता
- एवं पदानि आयन्ते षट्त्रिंशदधिकं शतम् १७
- बाह्य कर्णे तु चत्वारः प्रस्थाप्या नवभिः पदैः
- सप्त सप्त तदाश्चिता योज्या अष्टाष्टाभिः पदैः १८
- तन्मानानुक्रमाद्योज्या शेषा अष्टपदास्तथा
- एवं सहस्रपदैर्युक्तं सर्वतोभद्र लक्षणं । इति सहस्रपदं सर्वतोभद्र वास्तु १९
- अधासणे वास्तु प्रपूज्यते यजमान से
- वास्तुपूजा विनावास्तु प्रारंभे न भवेशने । इति वास्तु
- इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां वास्तुलक्षणाध्याय क्रमांक अध्याय १८