श्रीगणेशाय नमः
अथ विश्वामित्रस्मृतिः
अथ प्रथमोऽध्यायः
नित्यनैमित्तिककर्मणां वर्णनम्
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभे
वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणं
स्मरेच्छिरसिपावनं तदविधानपूर्वं गुरुम् १
आह्निकम्
चतुःपञ्चघटीमानं मुहूर्तं ब्रह्मसंज्ञितम्
पञ्चपञ्चघटी ज्ञेया उषःकाल इतीष्यते २
ऋतुबाणघटीमानमरुणोदयसंज्ञितम्
उषः पञ्चघटीमानं प्रातःकाल इति स्मृतः ३
एवं ज्ञात्वां प्रभाते तु नित्यकर्म समाचरेत्
नित्यनैमित्तिके काम्ये कृते काले तु सत्फलम् ४
ब्राह्मे मुहूर्त उत्थाय कृत्वा शौचं समाहितः
स्नानं कुर्यादुषःकाले आत्मार्थमरुणोदये ५
प्रातःकाल जपं कुर्यान्नित्यनैमित्तिकं विदुः
रश्मिमन्तं समालोक्य उपस्थानं समाचरेत् ६
सन्ध्यायां मुख्यकालातिक्रमे दोषः ।
कालातीतं न कर्तव्यं कर्तव्यं कालसंयुतम्
तस्मात्सर्वप्रयत्नेन काले कर्म समाचरेत् ७
उक्तकाले तु यत्कर्म प्रमादादकृतं यदि ८
त्रिसहस्रजपं कुर्यात्प्रायश्चित्तं विधीयते
तथा प्रोक्तं प्राणायामद्वयत्रिकम् ९
अथवा जपमात्रेण कालातीतेन दोषभाक्
त्रिसहस्रं सहस्रं वा त्रिशतं शतमेव वा १०
अनुलोमविलोमाभ्यां जप्त्वादपाप क्षयो भवेत्
उक्तकाले व्यतीते तु उपाधिश्च प्रमाणकम् ११
अनुलोमविलोमाभ्यां सहस्रजपमाचरेत्
देहस्वस्थवतायेन स्वस्थचित्तवताऽपि च १२
कालोऽतिक्रम्यते नित्यं तस्य पापो न गण्यते
स सर्वमार्गविभ्रष्टस्तिर्यक्त्वं समवाप्नुयात् १३
तस्य दर्शनमात्रेण सचैलः स्नानमाचरेत्
असम्बद्धप्रलापेन दुःसङ्गेनापि निद्र या १४
अतिक्रामन्ति ये कालं ते नरा ब्रह्मघातिनः
नित्यकर्माखिलं यस्तु उक्तकाले समाचरेत् १५
जित्वा स सकलांल्लोकान् अन्ते विष्णुपुरं व्रजेत्
प्रत्यहं प्रातरुत्थाय स्नानं सन्ध्यां समाप्य च १६
यथाशक्ति जपेद्विद्वान् स मुक्तो नात्र संशयः
यामे चान्त्ये च सर्वर्यां नाडीनां पञ्चकं द्विजः १७
प्रातःकाल इति ज्ञात्वा नित्यकर्म समाचरेत्
कर्मकालो दिनान्ते तु पादं न्यूनं घटीत्रयम् १८
बिम्बं दृष्ट्वा त्यजेदर्घ्यं जपेदातारकोदये
षण्मतेषु समाप्तेषु तत्तन्मन्त्रानुसारतः १९
नित्यकर्माणि यः कुर्यात्कर्मसिद्धिं लभेन्नरः
अनुक्तकाले कृतकर्म निष्फलं
अकालवृष्टिः पतिता यथा भुवि ।
उप्तानि बीजानि विनिष्फलानि वा-
करोत्यकालः कृतकर्मनिष्फलः २०
नियुक्तकर्माणि नियुक्तकाले कृतानि सद्यस्सुखसिद्धिदानि
यथोप्तबीजानि यथा फलानि काले हि वृष्टिर्भुवि जीवनानि २१
सन्ध्यात्रितयलक्षणम्
उत्तमा तारकोपेता मध्यमा लुप्ततारका
अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता २२
उत्तमा पूर्वसूर्या च मध्यमा मध्यसूर्यका
अधमा पश्चिमादित्या मध्यसन्ध्या त्रिधा मता २३
उत्तमा सूर्यसहिता मध्यमा लुप्रभास्करा
अधमा तारकोपेता सायं सन्ध्या त्रिधा मता २४
शुचिर्वाप्यशुचिर्वापि नित्यं कर्म न सन्त्यजेत्
तत्रापि कालनियमादर्घ्यदानं विशिष्यते २५
सन्ध्यात्रये पूर्वमुखो द्विजन्मा त्रिधैवशुद्धाचमनं प्रकुर्यात्
उदङ्मुखोवापि समाचरेन्न तद्दक्षिणापश्चिमयोःकदापि २६
सन्ध्यास्नानं परित्यज्य विद्याभ्यासं करोति यः
तस्य विद्याविनाशःस्यादधर्मो भवति ध्रुवम् २७
गुरूपदेशविधिना स्नानं सन्ध्यां समाचरेत्
वेदादिसर्वविद्यार्थज्ञानसंपत्तिसाधनम् २८
इत्येषाद्विजवर्णानां विद्याभ्यासविधिःक्रमात्
अन्यथा योऽभ्यसेद्विद्यां तस्य विद्या न सिध्यति २९
यस्सन्ध्यां कालतः प्राप्तां अतिक्रमति दुर्मतिः
भ्रूणहत्यामवाप्नोति काकयोनौ प्रजायते ३०
यथाशक्त्याचरेत्सन्ध्यां कालेऽह्नाफलमाप्नुयात्
काले तस्मात्प्रयत्नेन नित्यकर्म समाचरेत् ३१
आचारो द्विविधः प्रोक्तः सोपाधिरनुपाधिकः
सोपाधिर्गुणमात्रः स्यान्मुख्यःस्यादनुपाधिकः ३२
उपाधौ समनुप्राप्ते गौणाचारं समाचरेत्
अनुपाधौ च दुर्बुद्ध्या गौणाचारं करोति यः ३३
स दारिद्र मवाप्नोति महारोगः प्रजायते
अपवादो महान् दोषो सम्भवेज्जन्मजन्मनि ३४
मुख्याचारं परित्यज्य गौणाचारं करोति यः
तस्य कर्मणि धर्माश्च निर्जिताः स्युर्न संशयः ३५
मुख्याचारो महान् श्रेष्ठो मुमुक्षोरुपपादकः
यथाकालं द्विजः कुर्यान्मुख्याचारं विधीयते ३६
स्वगुरुं पूजयत्येवमुपचारैश्च पञ्चभिः
सद्भक्त्या संहितामेतां विश्वामित्रस्प्रकल्पयेत् ३७
प्रातरुत्थाय यो विप्रः स्वात्ममूलस्थकुण्डलीम्
प्रबोध्यो सु प्रभाताया गायत्री तत्र चिन्तयेत् ३८
कुण्डलिन्यां समुद्भूतां गायत्रीं प्राणधारिणीम्
प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ३९
अष्टधा कुण्डलीज्ञेया द्वात्रिंशद्वर्णसंख्यया
एवं ज्ञात्वा प्रभातायां षडाधारे तथा न्यसेत् ४०
षडाधारेषु षट्कुक्षिं विन्यसेच्चतुरक्षरम्
आदिप्रणवसंयुक्तं षट्कुक्षिं विन्यसेत्क्रमात् ४१
सहस्रदलमध्यस्था सफला स चतुर्थका
सोऽहं हंसेति विज्ञेया संकल्पज्ञानपूर्वकम् ४२
अस्य संकल्पमात्रेण सर्व पापैः प्रमुच्यते
अनया सदृशी विद्या अनया सदृशोजपः ४३
अनया सदृशं ज्ञानं न भूतो न भविष्यति
समुद्र वसने देवि पर्वतस्तनमण्डले ४४
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे
अतितीक्ष्णमहाकाय कल्पान्तदहनोपमः ४५
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि
अथोत्थाय बहिर्गत्वा विण्मूत्रादि त्यजेद्द्विजः ४६
ग्रामाद्दक्षिणदिग्भागे शतधन्वन्तरावधि
देशाश्च ऋषयश्चैव गणनाथाश्च योगिनः ४७
गच्छन्तु देवताः सर्वा अत्र शौचं करोम्यहम्
प्रथमं च शिरोवेष्टं निवीतं च द्वितीयकम् ४८
दिग्दर्शनं तृतीयं स्यात् अन्तर्धानं चतुर्थकम्
मौनन्तु पञ्चकं ज्ञेयं पुरीषं षष्ठमेव च
सप्तमं मृत्तिकाधानं उदकं चाष्टमं स्मृतम् ४९
मुष्टिमात्रतृणं दत्त्वा रात्रौ चेद्दक्षिणामुखः
दिवाचोदङ्मुखः कुर्याच्छौचं कर्म समाहितः ५०
वामदक्षिणकर्णस्य उपवीतं च धारयेत्
क्रमान्मूत्र पुरीषे च कुर्याच्छौचं द्विजोत्तमः ५१
यथाविध्युक्तमार्गेण कुर्यादुद्धृतवारिणा
कूपकुल्या तटाकादिजलैः शौचं करोति यः ५२
कल्पकोटिशतैर्वापि नरकान्न निवर्तते
एकालिङ्गे करे तिस्रः पञ्चापाने तथैव च ५३
पादद्वये चतुः संख्या एतच्छौचं विधीयते
एतद्धर्मो गृहस्थस्य इतरेषां पृथक्पृथक् ५४
स्मार्तानां द्विगुणं कुर्यात् वनस्थस्त्रिगुणं तथा
चतुर्गुणं यतीनां च त्रेयाणां भेद ईरतिः ५५
दुर्गन्धत्यागपर्यन्तं कृत्वा शौचं समाहितः ५६
दन्तधावनम्
क्षीरकाष्ठेन कुर्वीत दन्तधावनमग्रजः
तृणपर्णैस्सदा कुर्यादमा एकादशीं विना ५७
तयोरपि च कुर्वीत जम्बूप्लक्षाम्लपणकैः
आयुबलं यशो वचः प्रजाः पशुवसूनि च ५८
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते
निष्ठीवनं च गण्डूषं वायव्याभिमुखो नरः ५९
ईशानाभिमुखो भूत्वा वायव्यान्ते समुत्सृजेत्
अङ्गारवालुकाभिश्च भस्मांगुलिनखैरपि ६०
इष्टकालोष्टपाषाणैर्न कुर्याद्दन्तधावनम्
स्वदिरश्च करञ्जश्च कदम्बश्च वटस्तथा ६१
वेणुश्च तिन्तिडीप्लक्षा वाम्रनिम्बे तथैव च
अपामार्गश्च बिल्वश्च अर्कश्चौदुम्बरस्तथा ६२
एते प्रशस्ताः कथिता दन्तधावनकर्मणि
यथाशक्त्यनुसारेण दन्तधावनमाचरेत् ६३
ततो नदीं समागम्य गङ्गाध्यानपुरस्सरम्
आचमनम्
स्वसूत्रोक्तविधानेन कुर्यादाचमनत्रयम्
वामहस्ते जलं नीत्वा त्रिर्व्याहृत्याभिमन्त्रितम् ६४
आकृष्य दक्षिणे भागे रेचयेद्वाममार्गतः
स्ववामभागमालोक्य वज्रपाषाणतस्त्यजेत् ६५
पुनः शुद्धाम्बुनाचम्य ततः स्नानं समाचरेत्
नाभिमात्रे जले स्थित्वा त्रिवारं स्नानमाचरेत् ६६
स्नानभेदाः
प्राणायामत्रयं कुर्यात् दशप्रणवसंयुतम्
उल्लिखेन्मार्जनं यन्त्रं स्नानयन्त्रं समुल्लिखेत् ६७
गङ्गामंत्रेण चावाह्य सलिलोपरि मुद्र या
वह्निमण्डलमालिख्य जलमध्ये सबिन्दुकम् ६८
मायाबीजं समुल्लिख्य दण्डेषु व्याहृतित्रयम्
ततश्शुद्धाम्बुनाचम्य प्राणायामत्रयं तथा ६९
देशकालौ च सङ्कीर्त्य गायत्रीध्यानपूर्वकम्
सूक्तेन मार्जनं कुर्याद्यथाशास्त्रोक्तमार्गतः ७०
अघमर्षणमन्त्रण स्नायात्पञ्चाङ्गपूर्वकम्
सङ्कल्पं सूक्तपाठं च मार्जनं चाघमर्षणम् ७१
देवादितर्पणं चैव स्नानं पञ्चाङ्गलक्षणम्
शिरःस्नानं गलस्नानं कटिस्नानं तथैव च ७२
आजानुपादपर्यन्तं मन्त्रस्नानं चतुर्विधम्
तकाराद्यष्टभिर्वर्णैः शिरसि प्रोक्ष्यमान सैः ७३
भकाराद्यष्टभिर्वर्णैः कण्ठस्नानं समाचरेत्
सकाराद्यष्टभिर्वर्णैः कटिस्नानं समाचरेत् ७४
पकाराद्यष्टभिर्वर्णैः जानुपादे समाचरेत्
एवं विज्ञानमात्रेण गङ्गास्नानशतं फलम् ७५
मन्त्रस्नानं विना विप्रो जलस्नानं करोति यः
मनोनिर्मलता तस्य नास्ति हि श्रुतिचोदितम् ७६
श्रोत्रे नासाक्षिणी बद्ध्वा सहसान्तर्जले प्लुतः
मग्नं कृत्वा पठेन्मन्त्रं यावद्वायुनिरोधनम् ७७
ततः स्नानत्रयं कुर्याच्छिरोव्याहृतिपूर्वकम्
त्रिकालं त्रिविधं स्नायाद्वारुणं मृत्तिकायुतम् ७८
पञ्चार्द्र कमिति प्रोक्तं क्रमात्स्थानत्रयं बुधैः
शिरस्तनुर्द्वादशधा प्रोक्षयेच्छङ्खमुद्र या ७९
व्याहृत्यादिशिरोऽन्त्येन मनुना द्विजसत्तमः
षट्संख्यं ब्रह्मरन्ध्रे तु त्रित्रिसंख्यं भुजद्वये ८०
मूलमन्त्रं च मनसा पजयेत्पञ्चपजनैः
ब्रह्मर्षिपितृतुष्ट्यर्थं त्रिश्चतुर्धैव तर्पयेत् ८१
व्याहृत्यैककया युक्तैः प्रणवादिनमोऽन्तकैः
तत्तन्छब्दैस्तर्पयेत् तुर्यैस्त्रिलोक्यसंयुतैः ८२
यस्तर्पणं विना स्नायात्सलिले मत्स्यवद्भवेत्
तस्मान्सर्वप्रयत्नेन यथोक्तं स्नानमाचरेत् ८३
यन्मया दूषितं तोयं शारीरमलनाशनात्
तस्य पापविशुद्ध्यर्थं यक्ष्माणं तर्पयाम्यहम् ८४
इति त्रिरञ्जलिं दत्वा यक्ष्मप्रियकरं बहिः
ततस्तीरं समागम्य गायत्रीकवचं पठेत् ८५
गुणा दशम्नानकृतो हि पुंसो रूपं च तेजश्च बलं च शौचम्
आयुष्यमारोग्यमलोलुपत्वं दुःस्वप्ननाशं च तपश्च मेधा ८६
स्नानार्थं प्रस्थितं विप्रं देवा पितृगणैस्सह
तृष्णार्ताश्च समायान्ति न स्नायान्नरकं व्रजेत् ८७
मध्याह्ने मृत्तिकास्नानं कुर्यान्नित्यमतन्द्रि तः
प्रातस्सायाह्नसमये न कुर्यान्मृत्तिकाक्रियाम् ८८
वस्त्रधारणम्
सूत्रेण ग्रथितं सूच्या खण्डं चित्रं तथैव च
विचित्रपुत्तलीवस्त्रमन्यवस्त्रं न धारयेत् ८९
एतत्समस्तमित्युक्तं पट्टवस्त्रं न दोषभाक्
और्णवस्त्राणि सर्वाणि न दोषो धारयेद्बुधः ९०
प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः
यतेस्त्रिषवणं स्नानमसकृत्तु ब्रह्मचारिणाम् ९१
प्रोक्ष्य वासोपसंयोज्य प्रणवादिषडक्षरैः
शुद्धधौतं परिग्राह्यं षट्कच्छविधिधर्मकम् ९२
कच्छद्वयं वस्त्रमध्ये तच्छृङ्गेषु चतुष्टयम्
एवं क्रमेण बध्नीयाल्लक्षणं श्रुतिचोदितम् ९३
भोजनोत्तरनिर्माल्यं प्रक्षाल्यद्विजसत्तमः
सायं सन्ध्यां प्रकुर्वीत अन्यथा ब्रह्मघातकः ९४
प्रातर्मध्याह्नयोः स्नात्वा पृथक्सन्ध्यां समाचरेत्
एष धर्मो गृहस्थस्य योगिनां प्रातरेव हि ९५
प्राणायामः
उषःकाले प्रशस्तं स्याद्योगिनां वायुधारणम्
गङ्गाद्वारे ततःस्नात्वा स्थित्वा ब्रह्मदिनत्रयम्
तत्फलं समवाप्नोति द्विजो वायुनिरःधकः ९६
तत्रापि कुम्भकं कृत्वा प्राणायामं समाचरेत्
सूर्योदयं समारभ्य घटिकाद्वादशोपरि ९७
ब्रह्मयज्ञाङ्गकस्नानं अपराह्णे तु तर्पयेत्
सङ्कल्प्य ब्रह्मयज्ञं च यथाशक्ति समाचरेत् ९८
माध्याह्निकं प्रकुर्वीत जपान्ते तर्पयेत्तथा
यन्त्रहीनं जलस्नानं बीजहीनं तु यन्त्रकम् ९९
बिन्दुहीनं तु यद्बीजं वृथा स्नानं न संशयः
मन्त्रहीनो जले स्नात्वा सन्ध्यावन्दनमाचरेत् १००
अशुचेस्तस्यमनसो मलिनं नैव गच्छति
मन्त्रयन्त्रविहीनो यः स्नानं सन्ध्यां करोति चेत् १०१
विफलं मन्त्रतेजस्स्यात्सत्यं सत्यं न संशयः
पञ्चस्नानं विना येन सायं सन्ध्या कृता यदि १०२
तस्य पापं न गच्छेत यथा सूर्येऽस्तगे तमः
परिधाय शुभं वस्त्रं तिलकं धारयेत्ततः १०३
पुण्ड्रधारणम्
गुरूपदेशमार्गेण अन्यथा धर्मघातकः
मृद्वारिचन्दनं भस्म वामहस्ते निधापयेत् १०४
त्रिकोणयन्त्रं संलेख्य मध्ये मायां स बिन्दुकाम्
कोणाग्रे प्रणवं लेख्यं दण्डेषु व्याहृतित्रयम् १०५
अभिमन्त्र्! य तु गायत्रं मन्त्रराजं दशावधि
ललाटे तिलकं कुर्याद्गुरुपूजापुरस्सरम् १०७
मन्त्रयन्त्रविहीनं यत्तिलकं यदि धारयेत्
तन्मुखं शववद्भाति ब्रह्मतेजो न विद्यते १०८
तिलकं यत्र संयुक्तं मन्त्रसंयुक्तमेव च
ललाटे यत्र दृश्येत तत्तेजो ब्रह्मनामकम् १०९
प्रणवं चोर्ध्वपुण्ड्रं च त्रिपदा च त्रिपुण्ड्रकम्
ललाटे यस्य दृश्यन्ते तेजस्वि ब्रह्मदो भवेत् ११०
ओमापोज्योतिमन्त्रेण शिखाबन्धनमाचरेत्
स्वसूत्रोक्तविधानेन सन्ध्यावन्दनमाचरेत्
अन्यथा यस्तु कुरुते आसुरीं तनुमाप्नुयात् १११
मयाकृते मूत्रपुरीषशौचप्रक्षाल्यगण्डूषणमेहने च
वस्त्रस्य संक्षालनके च दुष्कृतं क्षमस्व गङ्गे मम सुप्रसन्ना ११२
त्रिकोणमध्ये ह्रींकारं कोणाग्रे प्रणवं लिखेत्
दण्डेषु व्याहृतिश्चैव उल्लिखेदुदके तथा ११३
प्रणवेनबहिर्वेष्ट्य जलं पीत्वाऽथ मार्जयेत्
तथैवविन्यसेत्संन्ध्यां अन्यथा शूद्र वद्भवेत् ११४
इति श्रीविश्वामित्रसंहितायां आह्निकविधियोगो नाम प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः
आचमनविधिवर्णनम्
जलमध्ये वामकरे दक्षिणे कर्णवत्कृती
आदौ गुरुं नमस्कृत्य पश्चादाचमनं चरेत् १
प्रागाचामेदमृतं स्यात् सोम्यायां सोमपाभवेत्
पश्चान्मुखोरक्तपा स्यात् सुरापो दक्षिणामुखः २
चतुर्विंशतिनामानि तत्तदंगानि संस्पृशेत्
विन्यसेत्केशवादीनि पौराणाचमनं भवेत् ३
तकारादियकारान्तैः चतुर्विंशति वर्णकैः
संस्पृशेत्तत्तदंगानि स्मार्तमाचमनं चरेत् ४
देव्यापादैस्त्रिराचम्य अब्लिंगैर्नवभिः स्पृशेत्
सप्तव्याहृतिगायत्री शिरस्तुर्यस्तदागमम् ५
त्रिधाचाचमनं प्रोक्तं पौराणं स्मार्तमागमं
श्रौतं च मानसं चेति पंचधा प्रोच्यते पुनः ६
संध्याप्रारम्भकालेषु कुर्यादाचमनत्रयं
संहृताङ्गुलिहस्तेन ब्रह्मतीर्थे पिबेज्जलं ७
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं भवेत्
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् ८
न्यूनातिरिक्तमात्रेण तज्जलं सुरयासमं
आदौचान्ते च मंत्रैश्च क्रमादाचमनं चरेत् ९
श्रुतिस्मृतिपुराणानि पर्यायेणविलोमतः
अङ्गुलित्रयसंयुक्तं मुक्ताङ्गुष्ठकनिष्ठकं १०
गोकर्णाकृतिरित्याहुः ब्राह्मकर्म प्रकीर्तितं
हस्तमध्यस्थ सलिलं पीतशेषं न संत्यजेत् ११
क्वचित्त्यागं क्वचित्पानं कुर्याद्दुर्ब्राह्मणं विदुः
केशवादित्रयेणापो माषदध्नं पिबेत्क्रमात् १२
गोविन्दमग्रतोन्यस्य सौषुम्ने विष्णुमेव च
मधुसूदनमादित्ये सुधांशौ च त्रिविक्रमं १३
अग्रतो वामनं चैव श्रीधरं हस्तयोस्तथा
हृषीकेशं पद्मनाभं उभयोः पादयोर्न्यसेत् १४
दामोदरं ब्रह्मरन्ध्रे नामसंकर्षणस्य च
न्यसेद्वा नासिकामध्ये चास्यान्ते वा विनिर्दिशेत् १५
विन्यसेद्दक्षणासायां वासुदेवं तथैव च
प्रद्युम्नं विन्न्यसेद्वामे अनिरुद्धं तु दक्षिणे १६
पुरुषोत्तमं वामनेत्रे दक्षकर्णे अधोक्षजम्
नारसिंहं वामकर्णे नाभावच्युतमेव वा १७
जनार्दनं हृदि न्यस्य ब्रह्मरंन्ध्रेत्युपेन्द्र कं
विन्न्यसेच्च हरिं कृष्णं भुजे दक्षे च वामके १८
पौराणं स्मार्तमित्येतत्क्षत्रियाणां विधीयते १९
परित्वागिर्वणोगिर इमा भवन्तु विश्वतो
वृद्धायुमनुवृद्धयो तुष्टाभवन्तु जुष्टयः २०
पुण्यस्त्रीणां तथा ज्ञेयं शूद्रा णां नाममात्रकं
शुद्धाचमानां त्रिविधं प्रकारं
कुर्यात्त्रिसंध्यापि समस्तकर्मसु
आरम्भणं केशवनाम युक्तं
श्रुति स्मृतिभ्यां द्विविधं तथोच्यते २१
देवतीर्थेन संगृह्य ब्रह्मतीर्थे जलं पिबेत्
मुक्ताङ्गुष्ठकनिष्ठाभ्यां गोकर्णाकृतिरुच्यते २२
वर्तमादौ विधिपूर्वकर्मनित्य त्रिकालं प्रयतैश्च नित्यं
श्रुतिस्मृतिप्रोक्त पुराणमार्गं तस्माद्विशुद्धाचमनं विशिष्टं २३
नाम्नामादौ च वर्णानां पादादौ ॐ समुच्चरेत्
नमॐऽतं विन्यसेन्मंत्र कुर्याच्छुद्धो भवेत्त्रिधा २४
चतुर्विंशति पादानि चतुर्विंशतिवर्णकं
चतुर्विंशति नामानि प्रणवादिनमोन्तकं २५
वैश्यानां तु नमोन्तस्य अन्येषां वर्णमात्रकं
पुण्यस्त्रीणां नमोऽन्तं स्यात् विशेषात्केशवादिषु २६
शूद्रा णां विधवानां च नाममात्रं जलक्रिया
सुवासिन्यां नमोन्तं च द्विराचम्य विशुद्ध्यति २७
नमॐतं त्रिविधं ज्ञेयं प्रणवं त्रिविधं तथा
एवमेव त्रिराचम्य कर्मादौ तत्समाचरेत् २८
अन्यथा हि कृतं यत्तु आचमनं तु निष्फलं
कराग्रपंचांगुलि पूर्ण मुद्रा सकेशवाद्यैरनुवर्तनीया
निष्ठीवने प्रसुप्ते च परिधानेऽश्रुपातने
पञ्चश्रोत्रेषु चाचामेञ्छ्रोत्रं वा दक्षिणं स्पृशेत् २९
भोजनादौ च भुक्त्यन्ते गोकर्णाकृतिपाणिना
आपोऽशनं पिबेन्नित्यमन्यथा चेन्नदर्भकम् ३०
नासापुटे अक्षकर्णं प्रजपद्व्याहृतित्रयम्
विस्पृशेच्छ्रोत्रमानं च इत्येवं श्रुतिचोदितम् ३१
ह्रस्वदीर्घप्लुतैर्युक्ता प्रणवं मनसा स्मरेत्
मानसाचमनं कुर्यान्मनोद्देशविधिक्रमात् ३२
त्रिभिः पादैरपः पीत्वा आपोहिष्ठाग्रतोन्यसेत्
मार्जनम्
ता न ऊर्जे च सौषुम्ने रदन्महेरणाय च
यो वः शिवतमस्सोमे तस्य भाजयतोऽग्रतः ३३
उशतीर्हस्तयोश्चैव वक्षे तस्माअरंन्यसेत्
यस्य क्षयाय वामे वा ह्यापो जनयथा शिरः ३४
नासान्ते भूपदं न्यस्य भुवः पादं तु दक्षिणे
सुवः पादं वामभागे महः पादं तु दक्षिणे ३५
जनः पादं वामनेत्रे तपः पादं तु दक्षिणे
सत्यं पादं वामकरे नाभौ देव्यादिपादकम् ३६
न्यसेद्द्वितीयं हृदये ब्रह्मरन्ध्रे तृतीयकम्
विन्यसेद्दक्षिणभुजे खमापो ज्योतिरेव च ३७
तुर्यपादं न्यसेद्वामे भुजे श्रुत्युक्ततः क्रमात्
श्रुत्याचमनमेभिर्यो हरेः कुर्याद्द्विजोत्तमः ३८
स सर्वपापमुक्तः स्यात्स्पृष्टास्पृष्टिर्न विद्यते
पादत्रयं नवपदं सप्तलोकास्तथैव च ३९
पुनः पादत्रयं शीर्षं तुर्यं श्रौतमितीरितम्
तुर्यपादं शिरः पादं गायत्री त्रिपदा सह ४०
सप्तव्याहृतयश्चैव नवपादं त्रिपादकम्
चतुर्विंशतिपादानि न तत्स्थानेषु विन्यसेत् ४१
त्रीण्यादौ नव सप्तधा त्रीणिद्वे च श्रुतीरितम्
गायत्रीं बद्ध्वापोहिष्ठा नवभिः स्पृशेत् ४२
सप्तव्याहृतिभिश्चैव गायत्रीत्रिपदैः स्पृशेत्
शिरः पदा तु व्यपदा चतुर्विंशतिभिः स्पृशेत् ४३
श्रुत्याचमनमेतद्धि विश्वामित्रादिभिः स्मृतम्
नाम वर्णं च पादं च भूर्भुवः स्वरोमिति ४४
पञ्चाचमनं चैतानि प्रोक्तं स्वच्छन्दसां गणैः
तिसृभिश्च व्याहृतिभिः शिरश्चक्षूंषि नासिके ४५
श्रोत्रद्वयं च हृदये संस्पृशेच्चाथ वारिणा
आचमनम्
त्रिराचामेदिति त्रेधा परिमृद्वेति च त्रिधा
एकः सकृदुपस्पृशेदित्येवं श्रुतिचोदितम् ४६
ब्रह्मयज्ञे त्रिधाचामेच्छ्रुतिस्मृतिपुराणकैः
द्विर्ज्ञेया परिमृज्यात्र ताल्वोर्हस्तेन मार्जयेत् ४७
सकृज्जलं तु प्रणवेनांगुष्ठेनोपस्पृशेत्
अन्याः कुल्योपसंस्पृष्टाः निष्फलं कर्म तद्भवेत् ४८
चतुर्विंशति पादानि चतुर्विंशति वर्णकम्
चतुर्विंशतिनामानि त्रिधाचामेद्यथाविधि ४९
तथा द्विः परिमृज्येति चन्द्र सूर्यौ स्वरौ स्पृशेत्
उपस्पृशेत्सुषुम्ना च ब्रह्मयज्ञे सकृज्जनैः ५०
ब्रह्मयज्ञे त्रिराचामेच्छ्रौतं स्मार्तं पुराणकम्
परिमृज्य त्रिधाताल्वोर्हस्तेन परिमार्जने ५१
उपस्पृशेत्प्रधानाङ्गं प्रणवेन सकृज्जपेत्
भोजने भवने दाने स्नाने दाने प्रतिग्रहे ५२
सन्ध्यात्रये च निद्रा यां तथा वस्त्रस्य धारणे
पूर्वः पञ्चभिराचामेत्तथा रथ्योपसर्पणे ५३
आदौ श्रौतं तथाचामे ततः स्मार्ताचमानकम्
ततः पौराणमाचामे नित्यं श्राद्धे विधीयते ५४
पुराणं श्राद्धकाले च श्राद्धान्ते स्मार्तमुच्यते
पार्वणि श्रौतमाचामे न्यासः श्राद्धे विलोमतः ५५
पुरश्चर्यां च दीक्षायां मूलमन्त्रेण केवलम्
दुर्दानं दुष्प्रतिग्राहं दुरन्नं दुष्टभाषणम् ५६
दुरालापादिकथनं दुष्टस्त्रीभिश्च सङ्गमम्
चाण्डालजातिसंस्पर्शं मलिनीकरणादिकम् ५७
सद्यो हरति सर्वं च विधानाचान्तमात्रतः
इति विश्वामित्र स्मृतौ शुद्धाचमनयोगो नाम द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः
प्राणायामविधिवर्णनम्
प्राणायामः
देहिनां चैव सर्वेषां देहे ध्यानं समं न्यसेत्
तत्रापि द्विजवर्णानां प्राणायामं समं न्यसेत् १
प्राणायामत्रयं प्रातः सन्ध्याकाले समाचरेत्
प्राणापानसमायुक्तं प्राणायाम इति स्मृतम् २
उत्तमं नवधा चैव षोढा मध्यममुच्यते
अभिमन्त्रीयमित्याहुः प्राणायामस्य लक्षणम् ३
सप्तव्याहृतिभिश्चापि प्रणवादिरनुक्रमात्
गायत्र्! या शिरसा चैव प्राणायामो विधीयते ४
बिन्दुप्राणविसर्गैक्यं गायत्रं बिन्दुसंहितम्
शिरोव्याहृतिसंयुक्तं प्राणायामे स्पृशेत्तथा ५
आदौ कुम्भकमाश्रित्य रेचपूरकवर्जितम्
व्याहृत्यादिशिरोऽन्तं च प्राणायामं समाचरेत् ६
नित्ये नैमित्तिके काम्ये सर्वदा सर्वकर्मसु
आदौ कुम्भकमाश्रित्य रेचपूरे विसर्जयेत् ७
सन्ध्याकाले होमकाले ब्रह्मयज्ञे तथैव च
आदौ कुम्भकविज्ञेयं प्राणायामं समाचरेत् ८
प्राणापानसमानबिन्दुसहितं बन्धत्रये संयुतं
सप्तव्याहृतिबिन्दु संपुटपरं देवादिपादत्रयम् ९
गायत्रीं शिरसा त्रिनाडिसहितामूढाद्वयर्द्धे परं
शुद्धं केवलकुम्भकं प्रतिदिनं ध्यायामि तत्त्वं परम् १०
दश प्रणवगायत्र्! या इडा पिङ्गलवर्जितम्
कुम्भं सुषुम्नया कुर्यान्मन्त्रस्मरणपूर्वकम् ११
अधमे द्वादशी मात्रा मध्यमे द्विगुणा मता
उत्तमे त्रिगुणा प्रोक्ता प्राणायामविधिः स्मृतः १२
आयासो रेचकः पूरो ह्यनायासस्तु कुम्भकः
अनभ्यासे विषं शास्त्रं अभ्यासे त्वमृतं भवेत् १३
उत्तमं त्रिगुणं प्रोक्तं मध्यमं द्विगुणं तथा
अधमं न वदेत्यार्यैः प्राणायाम इतीरितः १४
प्रणवादि नमोऽन्तं च मात्रा चेत्यभिधीयते
पञ्चद्वादशसंयुक्तां मात्रां मात्राविदो विदुः १५
अंगुष्ठानामिकाभ्यां तु प्राणायामं यतिश्चरेत्
नासिकं वननं चैव वानस्थस्य तथैव हि १६
वकार इति पञ्चैते वर्णाः पञ्च च नोदिता
लं पृथिव्यात्मने गन्धान् हमाकाशात्मने सुमम् १७
यं वाय्वात्मने धूपं दीपमग्न्यात्मने नमः
निवेदयेच्च नैवेद्यं वकारममृतात्मने १८
पञ्चभूतात्मिकामेतां पूजां मानसिकीं यजेत्
सिद्धासनसमं नास्ति न कुम्भकेवलात्परम् १९
नन्द दृष्टि समानास्ति प्राणवायुनिरोधने
अन्तश्चक्षुर्बहिस्तेजो अधस्थाप्य सुखासनं
कृत्वा साम्यं शरीरस्य प्राणायामं समाचरेत् २०
सर्वेषामेव जन्तूनां कर्तव्यं सुखमासनम्
तत्रापि मानसः श्रेष्ठस्तत्रापि द्विज उच्यते २१
सन्ध्या प्राचैव ध्येया च वनस्थस्य तथैव हि
सम्यक्पञ्चांगुलीभिश्च बद्ध्वा नासापुटं गृही
शनैश्शनैश्च निश्शब्दं प्राणायामं समाचरेत् २२
पञ्चांगुलीभिर्नासां च बद्ध्वा वायुं निरुध्य च
आकृष्यधारयेदग्निं प्राणायामं समभ्यसेत् २३
प्राणायामं तथा ज्ञात्वा स्नापयेच्चिन्मयं शिवम्
तदादौ मानसं कुर्यात्सम्यक्केवलकुम्भकम् २४
पञ्चभूतात्मिकां चैव पूजां मानसिकीं स्मरेत्
पूजामानससंयुक्तः प्राणायामफलं लभेत् २५
पञ्चपूजां विना यस्तु प्राणायामं करोति चेत्
तस्य निष्फलितं कर्म विश्वामित्रेण भाषितम् २६
लकारश्च भकारश्चयकारो रेफ एव च
वकार इति पञ्चैते वर्णाः पञ्चार्चनोदिताः २७
लं पृथिव्यात्मने गन्धान् हमाकाशात्मने सुमम्
यं वाय्वात्मने धूपं दीपमग्न्यात्मने चरम् २८
निवेदयेच्च नैवेद्यं वकारममृतात्मने
पञ्चभूतात्मिकामेतां पूजां मानसिकीं यजेत् २९
सिद्धासनसमं नास्ति न कुम्भात्केवलात्परम्
नन्ददृष्टिसमा नास्ति प्राणवायुनिरोधने ३०
अन्तस्तेजो बहिश्चक्षुरधः स्थाप्य सुखासनम्
कृत्वा साम्यं शरीरस्य प्राणायामं समभ्यसेत् ३१
सर्वेषामेव जन्तूनां कर्तव्यं सुखमासनम्
तत्रापि मानसः श्रेष्ठस्तत्रापि द्विज उच्यते ३२
सन्ध्याप्रारम्भसमये कुक्कुटासनमुच्यते
जानुमध्यस्थबाहुस्सन् प्राणायामं समाचरेत् ३३
चन्द्रा सने समासीनः चन्द्र बिम्बसमप्रभे
पूर्णदृष्टिस्तु कुर्वीत प्राणायामं हृदम्बुजे ३४
त्रिकोणमध्ये बिन्दुश्च प्रणवस्त्रिपदान्वितः
स्त्रीपुमान्मार्जयेन्नित्यं पञ्चपूजाविधानतः ३५
पञ्चपूजानुसारेण प्राणायामफलं लभेत्
पञ्चपूजां न कुर्वीत निष्फलं श्रुतिघातकम् ३६
प्राणायामे च संप्राप्ते पूजां मानसिकीं यजेत्
विशेषां सिद्धिमाप्नोति न कुर्यान्निष्फलं भवेत् ३७
अस्त्रप्रयोगकाण्डे तु प्राणायामबलं बलम्
प्राणायामं बलं कुर्यादुपसंहारकर्मणि ३८
प्रयोगे चोपसंहारे प्राणायामं तु कुम्भकम्
तस्मात्सर्वप्रयत्नेन प्राणायामं समाचरेत् ३९
प्राणायामं विना यस्तु सन्ध्यावन्दनमाचरेत्
सर्वधर्मपरित्यागी स महापातकी भवेत् ४०
निगमागममन्त्राणां प्राणायामस्तु साधकम्
निगमागममन्त्रेषु मूलमन्त्रैश्च केवलम् ४१
मनसा गणनापूर्वं प्राणायामविदो विदुः
स्थूलस्थूलादिवर्णं च युक्तायुक्तादिवर्णकम् ४२
प्राणापानादिसंयुक्तं प्राणायामं समभ्यसेत्
ब्रह्मविद्या महाविद्या सप्तकोट्यमृता भुवि ४३
तज्जपेन्मूलमनुभिः प्राणायामो विधीयते
भूरादिव्याहृतिस्सप्तप्रजल्पस्सार्ववर्त्मना ४४
तथा विलोममार्गेण प्राणायामं समाचरेत्
व्याहृतिः सप्तगायत्रीं शिरसा शिखयायुताम् ४५
अनुलोमविलोमाभ्यां प्राणायामं जपेद्द्विजः
ॐ सुव र्भुव र्भू ह्मब्रं तं मृ सो र ती ज्यो पो मां
ॐ त्यादचोप्र नः यो यो धि । हि म धी स्य
व दे र्गो भ यं णी रे र्व तु वि सत् त । त्यं स
ॐ पः त ॐ नः ज ॐ हः म ॐ हं म ॐ
वः सु ॐ वः भूः ॐ भूः ओम् ।
मन्त्रराजं महातत्त्वमनुलोमविलोमतः
प्राणायामं प्रकुर्वीत महापातकनाशनम् ४६
महापातकनाशाय महारोगहराय च
दुःखदारिद्र य्नाशाय प्राणायामफलं विदुः ४७
दशप्रणवगायत्रीमनुलोमविलोमतः
स्मरन् शतद्वयं सम्यक्प्राणायामं समाचरेत् ४८
अविहितकृतदोषं राजसेवातिदोषं
करकृतमपिदोषं क्रूरकर्मादिदोषम्
हृदिकृतपरदोषं पापसंसर्गदोषं
हरति सकलदोषं मन्त्रराजं विलोमम् ४९
ब्रह्महत्यादिपापानि अगम्यागमनादिकम्
अभोज्यभोजनादीनि अग्राह्यग्रहणादिकम् ५०
तत्सर्वं नाशमाप्नोति पूर्वोक्तैर्वायुरोधनैः
किमत्र बहुनोक्तेन मन्त्रराजोऽमितप्रदः ५१
दशप्रणवगायत्र्! या विनियोगरतो द्विजः
प्राणायाममकुर्वाणो अवकीर्णी भवेत्तु सः ५२
सर्वाण्यसंभावितानि विपरीतान्यनेकशः
नियमेन कृतैः काले प्राणायामैर्व्यपोहति ५३
मन्त्रराजं चतुष्षष्टिं द्वात्रिंशच्च तदर्धकम्
तदर्धमधमं ज्ञेयं प्राणायामं समाचरेत् ५४
मन्त्रराजं परार्धं च प्राणायामं करोति यः
तस्य निष्फलितं मन्त्रं पुनस्संस्कारमर्हति ५५
षष्टिवर्णात्मकं मन्त्रं परार्धं यो निरोधयेत्
इह जन्मनि शूद्र त्वं जन्मन्यग्रे वियोनिजः ५६
अनुक्तविधिनामन्त्रं प्राणायामं करोति यः
तस्यायुष्यविनाशाय जन्मनीह दरिद्र ता ५७
तत्तन्मूलं विनामन्त्रं प्राणायामं चरेद्यदि
सङ्कल्पा निष्फलं यान्ति विघ्नं कुर्वन्ति देवताः ५८
उपक्रमोपसंहारकारिपादो द्विधाकृतः
नित्यं नैमित्तिकं काम्यं त्रिविधं निष्फलं भवेत् ५९
प्राणायामं स्मरेदन्यं जपमन्यद्वृथा क्रिया
यः करोति समूढात्मा द्विविधे निष्फलो मनुः ६०
पादार्धं पादमात्रं च द्विपादं च त्रिपादकम्
चतुः पादं पञ्चपादं षट्पादं सप्तपादकम् ६१
अष्टपादं नवपदमशीतिं च शतं तथा
तत्तन्मूलं समाश्रित्य प्राणायामो विधीयते ६२
निगमादिषु सर्वेषु आगमादौ तथैव च
तत्तन्मूलं प्रतिग्राह्यं प्राणायामं प्रकल्पयेत् ६३
एकाक्षरं द्व्यक्षरं च त्र्! यक्षरं चाधिकं च वा
सर्वथा मूलमन्त्रेण प्राणायामं समाचरेत् ६४
चार्वाकशैवगाणेश वैष्णवशाक्तिकाः
तेषां जपे तन्मूलैश्च प्राणायामान् समाचरेत् ६५
श्रौतहोमे दशावृत्तिः सायं प्रातस्तथैव च
पक्षहोमे पञ्चदश पशुबन्धे च विंशतिः ६६
प्रायश्चित्ते चतुर्विंशदृत्विजश्चैकविंशतिः
यत्र कुत्र प्रमादश्च प्राणायामास्त्रयोदशः ६७
औपासनद्वये चैव प्राणायामाश्चतुर्दश
सायं प्रातश्च मध्याह्णे प्राणायामास्तु षोडश ६८
वैश्वदेवं प्रकुर्वीत दशपूर्वान् दशापरान्
यत्र यत्रैव सङ्कल्पः तत्र तत्र द्वयान्वितम् ६९
प्राणायामं प्रकुर्वीत दशपूर्वान् दशापरान्
गर्भाधानं समारभ्य आधानान्तं विधीयते ७०
विक्रीणीते परार्थं यो जपं वै दैवतार्चनम्
परार्थं प्रतिघातं च कुर्याद्दुर्ब्राह्मणं विदुः ७१
प्रमादेनाप्रयत्नेन कदाचित्क्रियते यदि
अनुलोमविलोमाभ्यां मन्त्रराजं शतावधि ७२
दशप्रणवगायत्री द्विषट्कं प्राणरोधनम्
वर्णमालां जपेन्मत्रं शान्तिपाठं समाचरेत् ७३
अनृतवचनदोषं दुष्टसंसर्गदोषं
अविहितकृतदोषं दुर्दुरान्नादिदोषम्
अहमिति दुरहं चासद्द्विजानामयूयं
हरति सकलदोषं मन्त्रराजो विलोमः ७४
स्नानं सन्ध्या मुक्तकाले द्विजो यः
कुर्यान्नित्यं सर्वदोषं निहन्यात्
त्रयस्त्रिंशत्कोटिदेव प्रभावः
तेनावश्यं प्राप्यते सद्विवेकः ७५
शतं त्रिलोकं त्रिशतं त्रिलोकं
पादं त्रिलोकं त्रिपदं त्रिलोकम्
तारं त्रिलोकं त्रिशतं तुरीयं
सव्यापसव्यावदनस्य रोधम् ७६
इति विश्वामित्रस्मृतौ प्राणायामविधानं नाम तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः
मार्जनम्
पादं पादं क्षिपेन्मूर्ध्ना प्रीतिप्रणवसंयुताम्
निक्षिपेदष्टपादं तु अधो यस्य क्षयाय च १
अष्टाक्षरं नवपदं पादादौ ब्रह्महा भवेत्
पादान्तं मार्जनं कुर्यादश्वमेधफलं लभेत् २
यस्य क्षयाय पादं तु आपश्शुन्धन्तु यत्पदम्
भूमौ पदो विनिक्षिप्य इतरं मूर्ध्निचाचरेत् ३
पादादौ प्रणवं चोक्त्वा पादान्ते मार्जनं भवेत्
ऋगादौ प्रणवं चोक्त्वा ऋगन्तं मार्जनं भवेत् ४
आपोहीति द्विनवकं दधिमात्रे द्विमार्जनम्
अङ्गुष्ठेनोदकं स्पृष्ट्वा पादमात्रेण मार्जयेत् ५
अर्धमन्त्रं पूर्णमन्त्रं मार्जनं द्विविधं विदुः
रजस्सत्त्वतमोजातान् मनोवाक्कायजांस्तथा ६
जाग्रत्स्वप्नसुषुप्त्याथ नवैतान्नवभिर्दहेत्
दधि द्विमार्जनं मन्त्रं हिरण्यादिचतुष्टयम् ७
कामक्रोधादिषड्वर्गं यद्यत्सर्वं विनाशनम्
पादमन्त्रं चार्घ्यमन्त्रं पूर्णमन्त्रं विशेषतः ८
सर्वेषामेव वर्णानां त्रिविधं मार्जनं यजेत्
चतुर्विंशति गायत्री वर्णसंख्यानुसारतः ९
ऋक्शाखोक्तेन मार्गेण मार्जनानि समाचरेत्
ऋग्यजुस्सामशाखानामेवं मार्जनलक्षणम् १०
आश्वलायनशाखानां मार्जनक्रम उच्यते
आपो हिष्ठादिनवकं शंनोदेवी द्विमार्जनम् ११
अप्सुमे त्रीणि चोक्तानि ऋतं चेत्येवमेव हि
त्र्! यृचस्य च नवर्चस्य अब्लिङ्गं द्विविधं भवेत् १२
पादादौ प्रणवं चोक्त्वा पादान्ते मार्जयेद्द्विजः
ऋतं च मन्त्रस्यादौ च मार्जनानि समाचरेत् १३
शन्नो देवी समारभ्य गायत्री शिरसः क्रमात्
ऋगादौ प्रणवञ्चोक्त्वा मार्जनम्परिकल्पयेत् १४
अप्सुमे च समारभ्य भुवैन्तं मार्जनत्रयम्
तत्रापि प्रणवं चोक्त्वा मार्जनानि समाचरेत् १६
सुरान्तं मार्जयेद्भूमौ चतुर्विंशतिमार्जनम्
पादशोऽष्टादशोक्तानि त्रिपदाभ्यां द्विमार्जने १७
षड्विधे क्रमशस्त्राणि ऋक्त्रयेणैव मार्जनम्
यस्य क्षयाय च पदोअधोऽर्ध्वं भुवि निक्षिपेत् १८
एकविंशति मूर्ध्नित्यात् त्रिपादो भुवि मार्जयेत्
अङ्गुष्ठाज्जलमादाय मन्त्रान्ते मार्जनं यजेत् १८
पादौ भूमौ त्रिवारं स्यान्मूर्ध्नि स्यादेकविंशतिः
अष्टाक्षरं नवपदं पादादौ ब्रह्महा भवेत् १९
पादान्ते मार्जनं कुर्यादश्वमेधफलं लभेत्
रजस्सत्त्वं तमोजातं मनोवाक्कायजं तथा २०
जाग्रत्स्वप्नसुषुप्त्यर्थं नवैतान्नवभिर्दहेत्
नवप्रणवयुक्तेन आपिओ!हीतित्यृचेन च २१
संवत्सरकृतं पापं पुनर्मार्जनतो दहेत्
शन्नोदेवी समारभ्य षड्भिश्चाथोसुवोऽन्तकैः २२
अरिषड्वर्गपापानि नाशयेन्मार्जनानि च
अप्सुमे च समारभ्य ज्योक्चसूर्यान्तमार्जनम् २३
इदमापस्समारभ्य ऋषभं मेह्यन्तमार्जनम्
पयस्वानग्न आरभ्य हुवेऽन्तं मार्जनं तथा २४
ऋतं च सत्यमारभ्य अन्तरिक्षमथो सुवः
पर्यन्तं मार्जयेद्भूमौ गृह्योक्तविधिना द्विजः २५
इत्येवं मार्जनं कृत्वा सन्ध्यावन्दनमाचरेत्
मन्त्रलिङ्गं विना प्रोक्तं मार्जनं यः करोति हि २६
तस्य पापमगण्यं स्यान्मार्जनं निष्फलं भवेत्
मन्त्रलिङ्गं यथाशास्त्रं मार्जनं परिकल्पयेत् २७
सर्वपापविनिर्मुक्तः स्पृष्ट्वा स्पृष्टिर्न विद्यते
इति विश्वामित्रस्मृतौ मार्जनयोगो नाम चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः
सार्घ्यदानगायत्रीमाहात्म्यवर्णनम्
अर्घ्यदानम्
सन्ध्यावन्दनवेलायां दद्यादर्घ्यत्रयं द्विजः
सायंप्रातः समानं स्यान्मध्याह्ने तु पृथक्क्रया १
एकं मध्याह्नकाले च सायंप्रातस्त्रयस्त्रयः
एवं ज्ञात्वा त्यजेदर्घ्य लुप्तनक्षत्रपूर्वकम् २
एकं शस्त्रास्त्रनाशाय चिरं वाहननाशने
असुराणां वधायैकं दद्यादर्घ्यत्रयं क्रमात् ३
असुराणां वधादूर्ध्वं प्रायश्चित्तार्घ्यकं परम्
पृथ्वीप्रदक्षिणं कृत्वा सर्वपापैः प्रमुच्यते ४
सन्ध्यावन्दनवेलायां प्रायश्चित्तार्घ्यमीरितम्
दद्यात्केवलगायत्र्! या मूढो ह्यर्घ्यं तु यो द्विजः ५
स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः
ब्रह्मास्त्रं यो न जानाति स विप्रश्शूद्र एव हि ६
तस्य कर्मादिकं ज्ञानं तत्सर्वं निष्फलं भवेत्
बीजमन्त्रं तु गायत्र्! याः प्राण इत्यभिधीयते ७
देहस्तु पिण्ड इत्युक्तो संज्ञाकवच एव हि
सर्वाङ्गानि पदो मन्त्रः सर्वमन्त्रेष्वयं विधिः ८
अस्त्रं वृष्टिरिति प्रोक्तं गायत्रीन्याप्तिरुच्यते
एतत्षण्मन्त्रकं ज्ञात्वा दद्यादर्घ्यं विधानतः ९
प्रणवो बीजमन्त्रः स्याद् गायत्र्! यास्सर्वदा मतः
पिण्डमन्त्रं तुरीयं स्याद्गायत्रीसंज्ञितं परम् १०
नारायणं मूलमन्त्रं संज्ञामन्त्रं भवेत्सदा
ओमापो ज्योतिरित्येतत्पदमन्त्रमितीरितम् ११
ॐ तत्सवितुरित्येषा गायत्रीहृन्महामुने
एतदेव हि गायत्री विप्राणां मुक्तिदायिनी १२
ब्रह्मास्त्रं बीजमित्याहुः शर्म स्याद्ब्रह्मदण्डकम्
कीलकं ब्रह्मशीर्षं स्यादृष्यादिन्यासपूर्वकम् १३
भान्तं वह्निसमायुक्तं व्योमानलसमन्वितम्
मेषद्वयं दन्तयुक्तं हालाहलमतः परम् १४
खनाद्यं वायुपूर्वं स्याद्दत्तयुग्ममथापरम्
सरसामक्षपर्यायहान्तं भूर्भुवस्तमतः परम् १५
अम्बरं वायुसंयुक्तं अरिं मर्दय मर्दय
प्रज्वलेति द्विरुच्चार्य परमेतत्परं ततः १६
तन्त्रिपादं प्रयोक्तव्यं गायत्रीमध्यमन्त्रतः
पदत्रयं प्रयोक्तव्यमेतद्ब्रह्मस्मृतीरितम् १७
असुराणां वधार्थाय अर्घ्यकाले द्विजन्मनाम्
प्रोक्तं ब्रह्मास्त्रमेतद्वै सन्ध्यावन्दनकर्मसु १८
कर्मार्थं काममोक्षादि ब्रह्मास्त्रेणैव लभ्यते
ब्रह्मदण्डं तथा वक्ष्ये सर्वशस्त्रास्त्रनाशनम् १९
गायत्रीं सम्यगुच्चार्य परोरजसि संयुतम्
एतद्वै ब्रह्मदण्डं स्यात्सर्वशस्त्रास्त्रभक्षणम् २०
सर्ववाहननाशार्थं वच्म्यस्त्रं ब्रह्मशीर्षकम्
गायत्रीं पूर्णमुच्चार्य मूलमन्त्रं ततो वदेत् २१
ब्रह्मशीर्षकमेतद्धि सर्ववाहननाशनम्
आधारादि समुद्धृत्य सुषुम्नामार्गनिर्गमे २२
सम्यगाचम्य तां देवं ब्रह्मब्रह्माण्डभेदिनीम्
ब्रह्मा विष्णुश्च रुद्र श्च ईश्वरश्च सदाशिवः २३
परमात्मेति गायत्रीमनुलोमक्रमान्न्यसेत्
अघोरास्त्राय शार्ङ्गाय नाराचाय सुदर्शन २४
प्रतिलोमक्रमान्यसेत्
प्रायश्चित्तार्घ्यम्
एकं मध्याह्नकाले च प्रायश्चित्तार्घ्यमुच्यते
अर्घ्यद्वयं तु मध्याह्ने तथ्यमेतन्महामुने २५
अर्घ्यत्रयप्रयोगार्थं प्रायश्चित्तं चतुष्टयम्
सायंप्रातर्द्विजातीनामेवमेष विधिः क्रमात् २६
ब्रह्मास्त्रं ब्रह्मदण्डं च ब्रह्मशीर्षं तथैव च
अर्घ्यत्रयप्रयोगार्थमेवमेतदुदाहृतम् २७
शीर्षं चेति मनुत्रयम्
पर्यायेण समुच्चार्य पिबेदञ्जलिना जलम्
विलोमेन च गायत्रीं बीजयुक्तां सतुर्यकाम् २८
शिरसा शिरसा युक्तं चतुर्धार्घ्यं विनिक्षिपेत्
अस्त्रदण्डशिरोयुक्तं हंसमन्त्रं समुच्चरेत् २९
शस्त्रवाहनरक्षोघ्नं एकाञ्जलिजलं क्षिपेत्
प्रायश्चित्तद्वितीयार्घ्यमसुराणां वधाय च ३०
प्रदक्षिणं चरेत्पृथ्व्याः सर्वपापैः प्रमुच्यते
हंसस्येति मनुं विप्रो ब्रह्मदत्तं समाचरेत् ३१
शिरोदण्डास्त्रसंयुक्तं निक्षिपेद्र विसंमुखे
उपमन्त्रं वदन् पूर्वमस्त्रदण्डंशिरस्तथा ३२
चतुर्मन्त्रं सम्यगुच्चार्य अर्घ्यमेकं विनिक्षिपेत्
उपमन्त्रं समुच्चार्य शिरोऽन्तं श्रेयसंयुतम् ३३
अर्घ्यमेकं तु मध्याह्ने सत्यमुक्तं महामुने
तर्जन्यङ्गुष्ठसंयोगो राक्षसी मुद्रि का भवेत् ३४
राक्षसीमुद्रि कादत्तं तत्तोयं रुधिरं भवेत्
निक्षिपेद्यदि मूढात्मा रौरवं नरकं व्रजेत् ३५
अङ्गुष्ठच्छायया तोयं देवतामुद्रि का भवेत्
इत्थं करणेन लोकस्य सर्वपापक्षयो भवेत्
एवं विज्ञाय यो दद्यादर्घ्यं सम्यक्सुधीरितम् ३६
अन्तरिक्षमथो स्वाहा आपश्शुन्धन्तु मैनसः
इति मन्त्रेण यो भागे मार्जयित्वाचमेत् ३७
वायव्यास्त्रेण नववारं प्राणायामं कुर्यात्
उत्तमं नववारं स्यान्मध्यमं ऋतुसंख्यकम् ३८
अधमं त्रयमित्याहुः प्राणायामस्य लक्षणम्
प्राणायामबलोपेतमुपसंहारमाचरेत् ३९
ततस्सर्वप्रयत्नेन प्राणायामं समाचरेत्
अस्य श्रीवायव्यास्त्रमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः महाभूतवायुर्देवता । यं बीजं स्वाहा शक्तिः जगत्सृष्टिरिति कीलकम् । ब्रह्मास्त्रप्रयोगार्थं वायव्यास्त्रप्रयोगे विनियोगः । यामङ्गुष्ठाभ्यां नमः । यीं तर्जनीभ्यां स्वाहा । यूं मध्यमाभ्यां वषट् । यैं अनामिकाभ्यां हुम् । यः ॐ कनिष्ठिकाभ्यां वौषट् । यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । लोकत्रयेण दिग्बन्धः ॥
ध्यानम्
चञ्चत्करं कृष्णमृगाधिरूढं बाणेषुधी चापगदे दधानम् ।
भुजैश्चतुर्भिर्जगदादिकारणं चैतन्यरूपं प्रणमामि वायुम् ४०
आवायव्यया वायव्योर्वा वायया वा हन हन हुं फट् स्वाहा इति त्रिवारं जपेत् ।
पुनर्मन्त्रंवादि नव वा प्राणानायम्य पञ्चोपचारैरभ्यर्च्य श्रीसूर्यनारायणप्रीत्यर्थं अर्घ्यप्रदानं करिष्ये इति सङ्कल्प्य अर्घ्य- प्रदानमन्त्रस्य सवितृ भगवानृषिः अनुष्टुप्छन्दः श्रीसूर्यनारायणो देवता ब्रह्मास्त्रं बीजं ब्रह्मदण्डं शक्तिः । ब्रह्मशीर्षं कीलकं श्रीसूर्यनारायणप्रीत्यर्थे अर्घ्यप्रदाने विनियोगः । तत्सवितुः ब्रह्मात्मनेऽङ्गुष्ठाभ्यां नमः । वरेण्यं विष्ण्वात्मने तर्जनीभ्यां स्वाहा भर्गो देवस्य रुद्रा त्मने मध्यमाभ्यां वषट् । धीमहि ईश्वरात्मने अनामिकाभ्यां हुम् । धियो योनस्सदाशिवात्मने कनिष्ठिकाभ्यां वौषट् । प्रचोदयात् परमात्मने करतलकरपृष्ठाभ्यां फट् । लोकत्रयेणेति दिग्बन्धः । ध्यानम्
सर्वतोरणमध्यस्थं मण्डलान्तर्व्यवस्थितम्
ब्रह्मायुतसहस्रस्य सत्सन्तानकारणम् ४१
चिन्तयेत्परमात्मानमिवोर्ध्वं न च निक्षिपेत्
उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च ४२
अञ्जलिना जलमादाय गायत्रीं मालादारभ्य नासापुटे वा उत्तीर्याञ्जलौ निक्षिप्यार्घ्यप्रयोगं कुर्यात् ।
धाम्नो धाम्नो राजन्नितो च्च हरोऽसि पाप्मानं मे विद्धि आश्वलायनं यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य सर्वन्तदिन्द्र ते वशे इति प्रातः । आपस्तम्बस्य हिरण्यगर्भस्स--म इति प्रातः । गर्भोऽसि पाप्मानं मे विद्धि । आश्वलायनस्य प्रातः देवीमदिति जोहवीमि मध्यंदिन उदिता सूर्यस्य राये मित्रवारुणा सर्वताते शं तोकाय तनयाय शंयोः । आपस्तम्बस्य यः प्राणतो--मेति मध्याह्ने । उक्ते तदभश्रुत् । मघं वृषभं न सूर्यापनं अस्तारमेषि सूर्य । आपस्तम्बस्य य आत्मदामेति । सायाह्ने । पुनर्नववारं प्राणानायम्य पञ्चोपचारैरभ्यर्च्य असुरवधप्रायश्चित्तार्थं चतुर्थार्घ्यप्रदानं करिष्ये इति सङ्कल्प्य वाग्भवकामराजशक्तिबीजसहितं विलोमगायत्रीसहितं शिरःशिखासहितं सतुरीयं चतुर्थार्घ्यं दद्यात् । पुनर्नववारं प्राणानायम्य पञ्चोपचारमभ्यर्च्य । अस्य श्री अस्त्रोपसंहारमन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः विलोमगायत्री देवता ब्रह्म बीजं ह्रीं शक्तिः ह्रूं कीलकम् अस्त्रोपसंहरणार्थे विनियोगः । अघोरास्त्राय शार्ङ्गाय नाराचाय सुदर्शनाय ह्रां धियो यो नः अङ्गुष्ठाभ्यां नमः । अघोरादि चतुष्टय परियुक्तं तर्जनीभ्यां शिरसे स्वाहा । अघोरादिचतुष्टयसहितं ह्रूं मध्यमाभ्यां वषट् । अघोरादिचतुष्टयसहितं ह्रैं भर्गो देवस्य ॐ अनामिकाभ्यां ह्रुंम् । अघोरादिचतुष्टय सहितं ह्रें वरेण्यं ह्रीं कनिष्ठिकाभ्यां वौषट् । अघोरादिचतुष्टयसहितं तत्सवितुरॐ करतलकरपृष्ठाभ्यां ह्रुं फटः । एवं हृदयादिन्यासः । ॐ भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम्
सोऽहमर्कमहं ज्योतिरर्कज्योतिरहं शिवः ।
आत्मज्योतिरहं शुक्रः सर्वज्योतिरसो महिम् ४३
आगत्य देवि तिष्ठ त्वं प्रविश्य हृदयं मम
अङ्कुशं मुद्र या नासा पुटं हृदयेनाभिस्पृशेत्
विलोमगायत्रीं त्रिवारं जपेत् । असावादित्यो ब्रह्म पञ्चोपचारैरभ्यर्च्य पुनर्वायव्यास्त्रं न्यसेत् । इति त्रिकाले समानमन्त्रं अघोरास्त्राय शार्ङ्गाय नाराचाय सुदर्शनम् ।
मायाषड्दीर्घगायत्री प्रतिलोम न्यसेत् क्रमात्
लकारं च हकारं च यकारं रेफसंज्ञकं ४४
वकारमिति विख्यातं पञ्चभूतात्मकं यजेत्
इति पञ्चमोऽध्यायः

अथ षष्ठोऽध्यायः
द्विविधजपलक्षणम्
ओमित्येकाक्षरं ब्रह्मन्यासध्यानपुरस्सरम्
यथाशक्ति जपं कुर्यात्सन्ध्याङ्गो जपईरितः १
नदीतीरे सरित्कोष्ठे पर्वताग्रे विशेषतः
शिवविष्णुसमं देवा गायत्रीजपमाचरेत् २
नैमित्तिकं च काम्यं च द्विविधं जपलक्षणम्
भूशुद्धिः
भूशुद्ध्याधारशुद्धिं च विलिखेद्गुरुमार्गतः
शुद्धो भूमौ लिखेद्यन्त्रं प्रणवादिषडक्षरैः ३
आधाराख्यं च संप्रोक्तं प्रार्थयेत्पृथिवीमिमाम्
अपसर्पन्तु ये भूता ये भूता दिवि संस्थिताः ४
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया
पृथिवित्वया धृता लोका देवि त्वं विष्णुनाधृता ५
त्वं च धारय मां देवि पवित्रं कुरु चासनम्
प्रणवाद्यैश्च षड्वर्णैर्दशवाराभिमन्त्रितम् ६
शुद्धभूमौ जलं प्रोक्ष्य विलिखेद्यन्त्रमुत्तमम्
त्रिकोणाग्रे वह्निबीजं मध्ये मायां सबिन्दुकम् ७
युतं तन्त्रं जपस्थाने लिखेत्क्रमात्
चतुरश्रं हस्तमानं सुदृढं मृदु निर्मलम्
तस्योपरि समासीनो गायत्रीजपमाचरेत् ८
कृत्वा मूलेन भूशुद्धिं भूतशुद्धिं समाचरेत्
शोषदाहप्लवं कुर्यात्प्रणवादिषडक्षरैः ९
पार्थिवं शतमेकं च वकारं द्विशतं तथा
त्रिशतं वह्निबीजं च वायुबीजं चतुश्शतम् १०
आकाशं पञ्चशतकं भूतशुद्धिरिति क्रमात्
प्रणवादि नमोऽन्तं च वृद्धिरेकोत्तरं शतम् ११
प्राणायामं च पञ्चार्णैः कुर्याद्भूभूतशोधनम्
मूलाधारं समारभ्य गायत्रीं तुर्यया सह १२
ऊर्ध्वनास्यां समायोज्य गायत्रीं तत्र विन्यसेत्
अस्त्रमन्त्रेण कुर्वीत रक्षादिबन्धनं दिशाम् १३
उपपातकरोगाणां महापातकनाशनम्
कामक्रोधादिषड्वर्गं पापं कुक्षौ विचिन्तयेत् १४
खङ्गचर्मधरं कृष्णं पिङ्गलश्मश्रुलोचनम्
उकारान्तःस्थितद्वीपं ज्वालाकार हुताशनम् १५
प्रतिष्ठाप्य ततः कामं शक्तिना वायुना सह
शक्तिबीजात्मकं ज्वाला त्रितयेन विनिर्दहेत् १६
कर्पूरमिव सुज्वालाशेषं कुर्यात्समाहितः
ॐ यं नमः शोषणं कुर्यात् । ॐ इं नमः इत्यग्निबीजेन दहनं कृत्वा । ॐ वं नमः इत्यमृतबीजेन प्लावनं कृत्वा लं नमः इति षण्णवत्यङ्गुलप्रमाणेनावयवादिकं त्यक्त्वा । ॐ हं नमः इत्याकाशबीजेन सर्वसंज्ञाभासप्रतिष्ठापनं कुर्यात् ।
पादादिजानुपर्यन्तं पृथ्वीमण्डलसंज्ञितम्
जान्वादिकटिपर्यन्तं जलमण्डलसंज्ञितम् १७
कद्यादिकटिपर्यन्तं वह्निमण्डल संज्ञितम्
हृदादिकर्णपर्यन्तं वायुमण्डलसंज्ञितम् १८
कर्णादिब्रह्मरन्ध्रान्तं नभोमण्डलसंज्ञितम्
पाञ्चभौतिकमित्येतच्छोधनं समुदाहृतम् १९
गुदादिद्व्यङ्गुलादूर्ध्वं मेढ्यादिद्व्यङ्गुलादतः
सुषुम्नामूलमन्त्रेण वा दि चतुरक्षरैः २०
विलसितकनकप्रभं पद्यं ध्यात्वा तत्र विद्युल्लतायां
कुलकुण्डलिनीं सुषुम्नावर्तषट्पत्रभेदक्रमेण ब्रह्मरन्ध्रं नीत्वा तत्र कुलसहस्रकर्णिकामध्यस्थितसंपूर्णगायत्रीं ओङ्कारस्वरूपपरमात्मनि शिवे लीनां कुर्यात् ।
पाशभायाङ्कुशैर्बीजप्रणवादिनमोऽन्तकैः
प्राणायामं प्रकुर्वीत एवमष्टोत्तरं शतम् २१
पञ्चपूजां प्रकुर्वीत स्वात्मनो हंसरूपिणः
सोऽहं भावेन युञ्जीयादाकाशाद्र विमंडले २२
आकृष्य धारयेद्देवीं प्राणस्नापनमाचरेत्
हृदिस्थजीवं चैतन्यं हंस इत्यक्षरद्वयम् २३
सोऽहं भावेन संपूज्य पञ्चपूजानुसारतः
उक्तसंख्याप्रकारेण प्राणायामं समाचरेत् २४
प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वराः
ऋषयः कथितास्तस्य छन्दांसि निगमत्रयम् २५
देवता प्राणशक्तिःस्याद्बीजं शक्तिश्च कीलकम्
पाशादित्रितयं प्राणस्थाने विनियुज्यते २६
बीजराजं पाशबीजं चैतन्यं चाङ्कुशं तथा
हंसद्वयं ततः पश्चात्पञ्चाशद्वर्णमन्त्रतः २७
नादैस्संपुटितैः क्रमात्
वर्गैश्च यादिक्षान्तार्णैः नत्याभ्यां संपुटीकृतैः
पञ्चविंशतितत्त्वैश्च कराङ्गन्यासमाचरेत् २८
प्रणवं प्राणशक्तिं च पाशमायाङ्कुशानि च
तृतीयस्वरसंयुक्तं यादिहान्तं समुच्चरन् २९
मम प्राणा इरात्यादि वह्निजायान्तमुच्चरेत्
पाशादित्रितयं प्राणशक्तिं तारं समुच्चरन् ३०
इमं मन्त्रं सकृज्जप्त्वा प्राणस्थापनमाचरेत्
अङ्गन्यासः
करेण हृदयं स्पृष्ट्वा गुरोराज्ञानुसारतः
जपेन्मन्त्रमिदं सम्यग्दशवारं यथाविधि ३१
स्वस्य शाखोदितं प्राणसूक्तं वास्त्रयं जपेत्
प्राणसूक्तं त्रिरावृत्त्या आद्यन्तं प्रणवं युतम् ३२
प्राणायामं प्रकुर्वीत पिण्डब्रह्माण्डसंयमे
मूलादिब्रह्मरन्ध्रान्तं प्रवालपद्मरागमयदण्डानुकारिणीम् अखण्डमुज्ज्वलन्तीं सविस्मयां अखिलदुरिततिमिरनिरस्तपटीयसीं ज्योतिर्मयीं त्रिपदां सतुरीयमन्त्रराजानुवर्तितेजः पुञ्जपञ्जरीकृतज्योतिर्मयस्वरूपिणीं यावच्छ्वांसस्पृशशरीरदृशासनं कुर्यात् ।
हकारं प्रणवो ज्ञेयः सकारं प्रकृतिस्तथा ३३
प्राणायामं प्रकुर्वीत मातृकावर्णकैः क्रमात्
करशुद्धिश्च कर्तव्या षड्दीर्घस्वरसंयुतैः ३४
ऋष्यादिषट्कं विन्यस्य कराङ्गन्यासमाचरेत्
ऋषिं मूर्ध्नि न्यसेत्पूर्वं मुखे छन्द उदीरितम् ३५
देवता हृदि विन्यस्य नाभौ बीजमिति स्मृतम्
आधारे विन्यसेच्छक्तिं कीलकं पादयोर्न्यसेत् ३६
ऋषिर्ब्रह्मा समाख्यातो गायत्री छन्द उच्यते
देवो बहिर्मातृका स्याद्धलो बीजानि च स्वरा ३७
शक्तयश्च समाख्याता नमः कीलकमुच्यते
द्वाभ्यां द्वाभ्यां हकारादिवर्णाभ्यां संपुटीकृतैः ३८
कादिवर्णैस्तत्त्वयुक्तैः कराङ्गन्यासमाचरेत्
त्रिलोकैर्बन्धनं ध्यानं योनिमुद्रा ं! प्रदर्शयेत् ३९
पञ्चादशाक्षरविनिर्मितदेहयष्टिं फालेक्षणां दृतहिमांशुकलाभिरामाम्
मुद्रा क्षसूत्रमणिपुस्तकयोनिहस्तां वर्णेश्वरीं नमत कुण्डहिमांशुगौरीम् ४०
केशान्ते मुखमण्डले नयनयोः श्रोत्रद्वये नासयोः
दन्तोष्ठद्वयदन्तपङ्क्तियुगले मूÞर्यासने तु स्वरान् ४१
दोः पत्सन्धितदग्रपादयुगले पृष्ठे च नाभ्यन्तरे
याद्यर्णानपि सप्तधातुषु तथा प्राणेषु जातानि तु ४२
ततोऽन्तर्मातृकान्यासं कुर्याद्विध्युक्तमार्गतः
तारत्रयेण कुर्वीत प्राणायामं समाहितः ३३
ऋषिश्छन्दो देवता च बीजं शक्तिश्च कीलकम्
ब्रह्मा च लिपिर्गायत्री ततोऽन्तर्मातृका मता ४४
वाग्भवं शक्तिबीजं च श्रीबीजं च त्रयं तथा
तारत्रयमिति ख्यातं ज्ञात्वा न्यासं समाचरेत् ४५
करन्यासं हृदिन्यासं कुर्यात्तारत्रयेण च
अनुलोमविलोमाभ्यां त्रिलोकैर्बन्धनं दिशाम् ४६
मुद्रा ः!
कृत्वा ध्यात्वा महायोनिमुद्रा ं! सन्दर्शयेत्ततः
पञ्चाशन्निजदेहजाक्षर भवैर्नानाविधैः कर्मभिः ४७
बह्वर्थैः पदवाक्यनजनकैरङ्गैश्च संभावितैः
साभिप्रायचिदर्थकर्मफलदानन्तैरसज्ञैरिदं ४८
विश्वन्याप्यचिदात्मनाहमहमित्युज्जृम्भसे मात्रके
एवमुक्तविधानेन विन्यसेन्मातृकाद्वयम् ४९
आवाहनादिभेदैश्च दश मुद्रा ः! प्रदर्शयेत्
आवाहनासने यो जुहुयाद्धविष्यं घृतसंयुतम् ५०
अथवा तण्डुलेनापि नित्यकर्म समाचरेत्
अनाज्ञातत्रयं कृत्वा गायत्रीदशकं जपेत् ५१
प्रणवाद्यन्तमध्यस्थं होमान्ते च विधीयते
चतुर्विंशतिवर्णानि जपेत् पारायणे मनुः ५२
जपे पारायणे चैव युक्तं च विरलं क्रमात्
चतुरक्षरसंयुक्तं कराङ्गन्यासमाचरेत् ५३
तुर्यपादं विनान्यासमाद्यन्तं प्रणवैस्सह
व्याहृतित्रयमुच्चार्यगायत्रीचतुरक्षरम् ५४
पुनर्व्याहृतिमुच्चार्य कराङ्गन्यासमाचरेत्
पादं पादं द्विभागं च प्रतिप्रणवसंपुटम् ५५
कराङ्गन्याससंयोगे षट्पदा त्रिपदा भवेत्
अङ्गुष्ठादिचतुर्वर्णमनुलोमक्रमेण च ५६
हृदयादिचतुर्वर्णं क्रमेणैव विलोमता
चतुर्वर्णं विना यस्तु विपर्यासं न्यसेद्यदि ५७
स विपत्तिं समाप्नोति सत्यं सत्यं न संशयः
अस्त्राय फडिति न्यासमापादतलमस्तकम् ५८
षष्णवत्यात्मके देहे प्रकाशार्थं प्रचोदयात्
लोकत्रयेण दिग्बन्धं ततो मन्त्राः प्रदर्शयेत् ५९
हंससिंहासनं वह्निर्विश्वयोनिस्तथैव च
खेचरी कुण्डलीकुण्डं सप्तव्याहृतिमुद्रि का ६०
सुमुखं संपुटं चैव विततं विस्तृतं तथा
द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ६१
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा
शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखम् ६२
प्रलम्बं मुष्टिकं चैव मत्स्यकूर्मवराहकौ
सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा ६३
एते मुद्रा श्चतुर्विंशा गायत्री सुप्रतिष्ठिता
इति मुद्रा ं! न जानाति गायत्री निष्फला भवेत् ६४
ध्यानं मुक्ताविद्रुम हेमनीलधवलच्छायैर्मुखैः --भजे
तारं तुर्यपादं चोक्त्वा बीजशक्तिं च कीलकम् ६५
त्रीणि त्रीणि त्रिधाप्रोक्तं क्रमादृष्यादिकं न्यसेत्
पूर्णगायत्रिया देव्याः प्रसादे विनियुज्यते ६६
बीजशक्त्यादिकीलानां अनुलोमविलोमतः
आदौ प्रणवसंयुक्तं कराङ्गन्यासमाचरेत् ६७
प्रणवान्तस्त्रिलोकैश्च कुर्याद्दिग्बन्धनं ततः
ध्यानं--यद्देवास्सुरपूजितारुणनिभं हेमार्कतारागणैः पुन्नागाम्बुजनागपुष्पवकुलैः वासादिभिः पूजितम् ।
नित्यं धातृसमस्तदीप्तिकरणं कालाग्निरुद्रो पमं
तत्संहारकरं नमामि सततं पातालषष्ठं मुखम् ।
शिखायोनिर्महायोगी सुरश्चाप्युपमस्तके ।
लिङ्गमुद्रा महामुद्रा ञ्जलिरित्यष्टमुद्रि का ६८
प्रातर्मध्याह्नकाले तु तुर्यपादं दशांशकम्
सायंकाले चतुष्पादसहितं जपमाचरेत् ६९
सुरभिर्ज्ञानवैराग्ये योनिः शङ्खोऽथपङ्कजम्
लिङ्गं निर्वाणमुद्रा ऽष्टौ जपान्ते परिकल्पयेत् ६०
ऋक्शाखोक्तेन विधिना योगे तु विलोमतः
विना प्रयोगजाप्ये तु अनुलोम न विद्यते ७१
इति विश्वामित्रस्मृतौ नानाप्रयोगविधानं नाम षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः
उपस्थानविधिवर्णनम्
उपस्थानम्
अथातस्संप्रवक्ष्यामि उपस्थानविधिं क्रमात्
ऋक्शाखोक्तेन विधिना जातवेदस इत्यृचम् १
प्रातःकाले च सायाह्ने जपेच्चेत्युक्तमार्गतः
मध्याह्ने च पृथक्सन्ध्या योदित्यं जातवेदसम् २
सहस्रपरमां देवीं मध्याह्ने च जले द्विजः
सूर्यावलोकनं कुर्वन् दुर्गोपस्थानमाचरेत् ३
सायाह्न सूर्यमालोक्य दद्यादर्घ्यचतुष्टयम्
ऋक्षप्रकाशपर्यन्तं जपेदेवं चतुष्पदाम ४
जातवेदस इत्येषां प्रातस्सायमृचं जपेत्
जलान्ते विधिवत्कुर्यात् उपस्थानं समाहितः ५
हंसमन्त्रं समुच्चार्य गायत्रीं त्रिपदां वदन्
अर्घ्यमेकं तु मध्याह्ने ऋग्यजुस्सामवेदिनाम् ६
प्रायश्चित्तं द्वितीयार्घ्यं असुराणां वधाय च
अर्घ्यद्वयं तु मध्याह्ने सर्वेषामेवमेव हि ७
अर्घ्यप्रदानात्परतो गायत्रीं पूर्ववज्जपेत्
आवर्तनं गते सूर्ये उपस्थानं समाचरेत् ८
उदित्यमिति मन्त्रेण ऋक्शाखोक्तविधिक्रमात्
मध्यंदिने रविध्याने प्रातस्सायाह्नवद्भवेत् ९
कृत्वा माध्याह्निकीं सन्ध्यां त्रयोदशघटीपरम्
आवर्तनान्तं प्रजपेदुपस्थानं ततः परम् १०
नित्यं जाप्यं विना यस्तु उपस्थानं करोति चेत्
सौरमन्त्रैश्च सकलैः गायत्रीजपपूर्वकम् ११
प्रत्यगासूर्यमालोक्य उपस्थानं समाचरेत्
उदयेऽस्तमये जप्त्वा दुर्गोपस्थानमाचरेत् १२
मध्यन्दिने जपान्ते च सूर्योपस्थानमाचरेत्
आश्वलायनगृह्योक्तमृग्यजुस्सामशाखिनाम् १३
जपोपस्थानयोरन्ते सौरं पञ्चार्चनं यजेत्
प्रभान्तमुद्यत्प्रतिभास्यमानो बिम्बं समालोक्य कृतोदितो वदेत् ।
मन्त्रस्य चार्षादिऋचं च याजुषैः शाखान्तरोक्तास्तु उपासनीयाः १४
त्रिपदाजपसाद्गुण्यं तुर्याजाप्यं दशांशकम्
तुर्यपादं विना जाप्यं कुरुते निष्फलं भवेत् १५
मित्रस्य चर्षणीमन्त्रं याजुषोपासनक्रमात्
प्रातर्जपान्ते गायत्र्! याः सूर्योपस्थानमाचरेत् १६
आसत्येनेति मन्त्रेण षडृचोक्तविधानतः
मध्यन्दिने रविं ध्यायेज्जपान्ते विधिवत्क्रमात् १७
सायं भानोरस्तमयाद्द्विघटी कर्मसंयमे
ऋक्षप्रकाशपर्यन्तं जपन् देवीं मनोहराम् १८
लुप्तं सूर्यं समालोक्य दिगुपस्थानमाचरेत्
सूक्तं वारुणमस्ते च इमंमादि पठेन्मनुम् १९
प्रियासूक्तं समुच्चार्य देवीं ध्यायेच्चतुष्पदाम्
पञ्चोपचारैरभ्यर्च्य गायत्रीं तुर्यया सह २०
इति विश्वामित्रस्मृतौ उपस्थानं नाम सप्तमोऽध्यायः

अथ अष्टमोऽध्यायः
देवयज्ञादिविधानवर्णनम्
वैश्वदेवम्
देवयज्ञादिकं वक्ष्ये गृह्योक्तविधिना ततः
कोद्र वान्मासुरान्माषान् मसूरांश्च कुलुत्थजान् १
लवणं च कटुद्र व्यं वैश्वदेवे विवर्जयेत्
नीवारान्वंशजं धान्यं गोधूमान् तण्डुलांस्तदा २
कन्दमूलफलादीनि दधिक्षीरघृतादिकम्
प्रत्यहं वैश्वदेवार्थं कुर्यान्नित्यमतन्द्रि तः ३
गृहस्थो वैश्वदेवस्य कर्म प्रारभते यदा
गृहे सिद्धान्नमादाय दधिक्षीरघृतान्वितम् ४
जपासने स्वकार्यार्थं सर्वेभ्यः पचने द्विजः
यो हि यत्तद्धुनेदग्नौ गायत्रीमंत्रपूर्वकम् ५
दिवा सूर्याय रात्रौ चेदग्नये च हुवेद्धविः
प्रजापतय इत्येकामुभयोराहुतिं हुनेत् ६
प्रणवव्याहृतिभिश्च हुत्वामन्त्रैः स्वशाखिभिः
भूतेभ्यश्चबलिंदद्यात्
आयुष्कामो दिवारात्रौ शूपाकारं बलिं हरे
मृत्युरोगविनाशार्थं नराकारं बलिं हरेत् ८
काम्ये कर्मणि वाक्ये च बलिं वल्मीकवद्धरेत्
आयुरारोग्यमैश्वर्यं पुत्रान्पौत्रान्पशूंश्च यः ९
काङ्क्षते स च मोक्षार्थी चक्राकारं बलिं हरेत्
धर्मार्थकाममोक्षार्थं व्यजने च बलिं हरेत् १०
पञ्चवैतेषु विप्राणां मुख्यमेतच्चतुर्थकम्
प्रथमं चोपवीतं स्याद्द्वितीयं च निवीतिकम् ११
तृतीयं पितृमेधार्थं वैश्वदेवे विधीयते
तण्डुलोदकसंयुक्तं पाकं कुर्याद्विशेषतः १२
तप्तोदकस्य मध्ये तु तण्डुलं नैव पाचयेत्
तप्तोदकस्य मध्ये तु तण्डुलं पाचयेद्यदि १३
तण्डुलं गरलं ज्ञेयं तुल्यं गोमांसभक्षणम्
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् १४
अस्नेहा अपि गोधूमा यवा गोरसमिश्रिताः
पाकमध्ये घृतं दत्वा पाकादुत्तीर्य यत्नतः १५
तस्योपरि घृतं क्षिप्त्वा भागान्कुर्याद्विशेषतः
यज्ञार्थे देवपूजार्थे विप्रार्थे बलिकर्मणि १६
पृथक्पाकं न कुर्वीत वैश्वदेवे विशेषतः
हविष्यान्नं कुशैः कार्यं पञ्चभागान्द्विजोत्तम १७
अभिघार्य च तान् भागान् पूर्वं पश्चाद्धुतेन च
प्राणायामान्प्रकुर्वीत पञ्चपूजापुरस्सरम् १८
देशकालौ च संकीर्त्य ततः कर्म समाचरेत्
षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्ततः १९
मनःस्था स्थिरां कृत्वा स्वयं ज्ञानाग्निनापचेत्
स्वधर्मनिरतो यस्तु स्वयंपाकी स उच्यते २०
अमन्त्रं वा समन्त्रं वा वैश्वदेवं न सन्त्यजेत्
वैश्वदेवस्य करणादन्नदोषैर्न लिप्यते २१
प्रातर्मध्याह्नकाले च होमं कुर्याद्यथाविधि
सायंकाले तथा कुर्याद्धविष्यं तण्डुलं द्विधा २२
विधाय प्रत्यहं पाकं हुत्वा देवार्पणं हविः
हुत्वा दत्वा च यो भुङ्क्ते स्वयंपाकी स उच्यते २३
पञ्चसूनापनुत्त्यर्थं प्रायश्चित्ते हुनेद्धविः
पवित्रमन्यं तज्जातं नास्ति चेदपवित्रता २४
एकपार्श्वेद्विधा होमौ न कुर्याद्वैश्वदैविकम्
कदाचित्कुरुते यस्तु उपोष्य व्रतमाचरेत् २५
परेऽहनि समुत्थाय स्नानं कृत्वा यथाविधि
पाकं कुर्याद्विधानेन होमं कुर्यात्षडक्षरैः २६
भूर्भुर्वस्सुवरित्येतैः हुनेत्प्रणवपूर्वकम्
अष्टोत्तरशतं चैव स्वसूत्रोक्तविधानतः २७
वैश्वदेवं ततः कुर्यात्क्रमेणैव यथाविधि
बलिदानं ततः कुर्यात्प्रायश्चित्तं विधीयते २८
सूतकद्वयसंप्राप्तौ नित्यहोमं परित्यजेत्
पारायणं प्रकुर्वीत वाचकोपांशुवर्जितम् २९
एकादशेऽह्नि संप्राप्ते पृथक्पाकं प्रकल्पयेत्
वैश्वदेवं प्रकुर्वीत बलिकर्म यथाविधि ३०
प्रेतश्राद्धे पृथक्पाकं वैश्वदेवं समाचरेत्
क्षये दर्शे च पक्षे च एकपाको विधीयते ३१
प्रेतश्राद्धे विना येन पृथक्पाकः कृतो यदि
राक्षसाः प्रतिगृह्णन्ति पाककर्ता पतत्यधः ३२
वैश्वदेवप्रकरणस्य कालस्यात्र विनिर्णयम्
सूर्योदयं समारभ्य घटिकाः स्युश्चतुर्दश ३३
घटिका पञ्चदश च षोडश स्युः ततः परम्
ततस्सप्तदश प्रोक्ताः ततश्चाष्टादश स्मृताः ३४
सङ्गमान्ते ब्रह्मयज्ञं कुर्यात्स्नानपुरस्सरम्
मध्यसन्ध्यां तर्पणं च वैश्वदेवमिति क्रमात् ३५
मध्यकाले तु मध्याह्ने दक्षिणायनगे रवौ
वैश्वदेवं प्रकुर्वीत मध्यकालाच्च पूर्वतः ३६
मध्याह्नान्ते वैश्वदेवं घटिकानवकात्परम्
उत्तरायणगे सूर्ये वैश्वदेवं समाचरेत् ३७
चतुर्दशघटीभ्यस्तु मार्तण्डस्योदयावधि
परतस्तर्पणं कृत्वा वैश्वदेवं समाचरेत् ३८
ऋतुत्रयाख्यविधिना दक्षिणोत्तरमार्गयोः
सूर्योदयं समारभ्य घटिकाद्व्यष्टकात्परम् ३९
तर्पणान्तेऽस्य विधिना वैश्वदेवं समाचरेत्
योगिनां वैश्वदेवस्य कालनिर्णय उच्यते ४०
याममध्ये न होतव्यं यामयुग्मं न लङ्घयेत्
योगिनां वैश्वदेवस्य काल एष उदाहृतः ४१
अन्यथा यस्तु कुरुते योगी भ्रष्टोऽभिजायते
योगिनां वैश्वदेवस्य मुख्यो विधिरुदाहृतः ४२
बलिक्रियां समुत्सृज्य कुर्यान्नित्यं षडाहुतिम्
नान्तर्बलिक्रियां कुर्याद्बाह्य एको बलिःस्मृतः ४३
षड्भिराद्यैर्हुनेदन्नं इति कौषातकिस्मृतः
तस्माद्धुनेद्विधानेन वैश्वदेवं श्रुतीरितम् ४४
वैश्वदेवस्याकरणाद्दोषं भिक्षुर्व्यपोहति
भिक्षोर्नदानं दोषं तु वैश्वदेवं व्यपोहति ४५
अकृत्वा वैश्वदेवं तु भिक्षौ भिक्षार्थमागते
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् ४६
काष्ठभारगतेनापि घृतकुम्भशतेन च
अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः ४७
दूरादतिथयो यस्य गृहं प्राप्य सुतोषिताः
सद्गृहस्थ इति प्रोक्तश्शेषाः स्नुर्गृहरक्षकाः ४८
वैश्वदेवं विना पाको यस्तु सप्रत्यनामकः
तं पाकं ब्राह्मणो भुङ्क्ते स सद्यः पतितो भवेत् ४९
वैश्वदेवाकृताद्दोषाच्छक्तो भिक्षुर्व्यपोहितुम्
पादुकायोगपट्टं च पवित्रं चित्रकम्बलम् ५०
स्वाहां स्वधां वैश्वदेवे तर्जन्यां रजतं तथा
वर्जयेज्जीवपितृकः कुर्यान्नित्यं षडाहुतीः ५१
यदि पित्रा समाज्ञप्तो वैश्वदेवं समाचरेत्
असंस्कृतान्ननैवेद्यं स्थावरेषु गृहेषु च ५२
स्वाहाकारं विना यस्तु कुरुते ब्रह्मराक्षसः
चराचरादिदेवानां हविष्यान्नं निवेदयेत् ५३
पञ्चसूनापनुत्त्यर्थं वैश्वदेवं विधाय च
पञ्चसूनापनुत्त्यर्थं प्रायश्चित्तं हुनेद्धविः ५४
तत्परं देवताभ्यस्तु नैवेद्यं परिकल्पयेत्
वैश्वदेवार्पणं येन द्विजदेवार्पणं हविः ५५
कुर्वन्ति ते महापापात्तद्धविः क्रिमिसङ्कुलम्
रण्डावन्ध्याकृतः पाको बधिरामूकयोस्तथा ५६
निष्फलायाश्च गुर्विण्या न भोक्तव्यं कदाचन
रण्डापञ्चविधं ज्ञात्वा प्रयत्नेन परित्यजेत् ५७
श्मशाने चितिसंयुक्ते प्रज्वाल्याभीष्टकाष्ठवत्
कन्या वैधव्यमापन्ना वीरेत्याचक्षते बुधैः ५८
रोहिणी विधवा भर्ता सा रण्डेत्यभिधीयते
दुर्भगा दशवर्षा या सा कन्या समुदीरिता ५९
रजसः परतस्सा तु यातुकी विधवा भवेत्
असन्ततिश्च या नारी सा रण्डेत्यभिधीयते ६०
नानाभावैः प्रयत्नेन रण्डापाकं परित्यजेत्
वीररण्डा कुण्डरण्डा बालपुत्राह्यपुत्रिणी ६१
तासां पाको न भोक्तव्यो भुक्त्वा चान्द्रा यणं चरेत्
अस्नाता विधवा चण्डी पक्वाशी माससूतकी ६२
पञ्चपक्वान्त्यजेद्विप्रः तत्प्रेष्यं च परित्यजेत्
पाकं कृत्वा प्रयत्नेन ह्यभुक्त्वा भोजने विषम् ६३
रण्डापाकं महापापं वैश्वदेवे परित्यजेत्
नाहुतं पाकमश्नीयादनैवेद्यं स मन्यते ६४
रण्डापाकं विषं क्रूरं अहुत्वान्नं तथा विषम्
द्विविधं यन्त्रसंयुक्तं तदन्नं कालकूटकम्
नाना भावैः प्रयत्नेन रण्डापाकं परित्यजेत्
प्रमादात्प्राप्यते चान्नं प्राणायामांश्चतुर्दश ६६
कुर्यात्कुम्भकमार्गेण न्यासध्यानपुरस्सरम्
मन्त्रराजहविर्भागं प्रथमं वैश्वदेविकम् ६७
कृत्वा श्राद्धं प्रकुर्वीत नित्यनैमित्तिकं चरेत्
श्राद्धाग्नौ करणात्पूर्वं वैश्वदेवं विधाय च ६८
ततोऽग्नौ करणं कुर्यादन्यथा श्राद्धघातकः
वैश्वदेवं विना यस्तु श्राद्धकर्म समाचरेत् ६९
वृथा श्राद्धं भवेत्तच्च रौरवं नरकं व्रजेत्
नित्यनैमित्तिके श्राद्धे पक्त्वा चान्नं प्रयत्नतः ७०
ततो होमं प्रकुर्वीत ब्राह्मणान् भोजयेत्ततः
यदग्नौ करणं कुर्याद्वैश्वदेवपुरस्सरम् ७१
ब्रह्मार्पणं हविस्तत्स्यात्पितॄणां दत्तमक्षयम्
देवेभ्यश्च पितृभ्यश्च ऋषिभ्यश्च तथा हविः ७२
आदौ वह्निमुखे दत्तं तृप्त्यै भवति नान्यथा
यस्त्वग्नौ न हुतं चान्नं दैवे पित्र्! ये प्रयच्छति ७३
गोत्रपान्नं भवत्येव वृथा श्राद्धं न संशयः
नित्यश्राद्धे गयाश्राद्धे तीर्थश्राद्धे तथैव च ७४
वैश्वदेवं हुनेदादौ ततः श्राद्धं समाचरेत्
स्वाहाकारेण हुत्वादौ स्वधाकारेण वै ततः ७५
एवं होमत्रयं कृत्वा ततः श्राद्धं समाचरेत्
वैश्वदेवविषयेः--
हविष्यमन्नं घृतसङ्कुलं च वह्नौ समांशं जुहुयात्त्रियामम् ।
द्वयोत्तरं त्रिजति युग्मसंज्ञं ॐङ्कारमादौ प्रतिमन्त्रयुक्तम् ७६
रसयुक्तं हविष्यं स्याद्घृतयुक्तं तथौदनम्
ब्राह्मणो वैश्वदेवार्थं कुर्यान्नित्यमतन्द्रि तः ७७
अन्यस्य चेद्र सं त्यक्त्वा वैश्वदेवं करोति यः
देवेभ्यश्शापमाप्नोति दरिद्रो भवति ध्रुवम् ७८
सुपक्वं रससंयुक्तं राजान्नं घृतसंयुतम्
तद्धविष्यमिति ज्ञातं सुप्रीतास्त्रिदशादशः ७९
पर्वद्वये समायोगे
श्राद्धान्ते वैश्वदेवार्थं पाकं कृत्वाप्रयत्नतः ८०
हुत्वा दत्वा च भुक्त्वा च द्विजश्चान्द्रा यणं चरेत्
देवानां च ऋषीणां च पितॄणां च विशेषतः ८१
पर्यायेण प्रदातव्यं श्राद्धकाले हविर्द्विजैः
देवर्षिपितृतुष्ट्यर्थमेकपाको विधीयते ८२
पृथक्पाको न कर्तव्यः कृतश्चेत्पतितो भवेत्
अकृत्वान्नं तु नैवेद्यं यः कुर्यात्क्रिमिसङ्कुलम् ८३
होमं कृत्वा प्रयत्नेन वैश्वदेवं प्रकल्पयेत्
इति विश्वामित्रस्मृतौ वैश्वदेव प्रकरणं नाम अष्टमोऽध्यायः समाप्त

"https://sa.wikisource.org/w/index.php?title=विश्वामित्रस्मृतिः&oldid=399635" इत्यस्माद् प्रतिप्राप्तम्