विषापहारस्तोत्रम् (धनञ्जयप्रणीतम्)

विषापहारस्तोत्रम्
धनञ्जयः
१९२६

श्रीधनंजयप्रणीतं विषापहारस्तोत्रम् । स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः । प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ १॥ परैरचिन्त्य युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ २ ॥ तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धन् । स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरूपयामि ॥३॥ त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥ व्यापीडितं बालमिवात्मदोषैरुल्लापतां लोकमवापिपस्त्वम् । हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि वालवैद्यः ॥ ५ ॥ विषापहारस्तोत्रम् । दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः । संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ ६॥ उपैति भक्त्या सुमुखः सुखानि त्वयि सभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ ८॥ तवानवस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैपीर्विरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ ९ ॥ स्मरः सुदग्धो भवतैव तस्मिन्नुद्भूलितात्मा यदि नाम शंभुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥ १० ॥ स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीर्त्यैव न ते गुणित्वम् । खतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ।। ११ ॥ कर्मस्थितिं जन्तुरनेकभूमिं नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥ १२ ॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमैत्वदीयाः ॥ १३ ॥ विषापहारं मणिमोषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राभ्यन्त्यहो न त्वमिति सरन्ति पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ १५ ॥ १. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशां दर्शयनशक्तः सन्सव्याज दिवस गमयति, केवलं कालक्षेपं करोतीत्यर्थः. अन्यत्राशा दिशः. २. यत्र स मेरुवर्तते तत्रैव तुझा प्रकृतिनान्यत्र. ३. तत्र मतेऽनवस्था परमार्थतत्त्वं वर्तते. ४. पुनरावृत्तिः. ५. वाञ्छितवानसि. ६. पापरहितः स प्रमादिदेवसमूहः, ७. सरोवरादेः स्तोकापवादेन खल्पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते, स तु खभावेनैव महान्, ८. जी. वक्रमगोरन्योन्यस्य नेतृभावं भवाब्वौ लमाख्यः कथितवानसि, प्रथा समुन्द्रे नौका नाविक नयति नाविकच नौकां तद्वत्. ६, स्वत्तः पराञ्चुलाः २४ काव्यमाला। त्रिकालतत्त्वं त्वमवैस्त्रिलोकीखामीति संख्यानियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यस्तेऽन्येऽपि चेव्द्याप्स्यदमूनपीदम् ॥ १६ ॥ नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकार । तस्यैव हेतुः स्वसुखस्य भानोरुद्विम्रतश्छत्रमिवादरेण ॥ १७ ॥ क्वोपेक्षकस्त्वं व सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः । क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते ॥ १८ ॥ तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्न घनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः ॥ १९ ॥ त्रैलोक्यसेवानियमाय दण्डं दधे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥२०॥ श्रिया परं पश्यति साधु निःखः श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम् ॥ २१ ॥ स्ववृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः । किं चाखिलज्ञेयविवर्तिबोधस्वरूपमध्यक्षमवैति लोकः ॥ २२ ॥ तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ।। २३ ॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः ॥ २४ मार्गस्त्वयैको ददृशे विमुक्तेश्चतुर्गतीनां गहनं परेण । सर्वं मया दृष्टमिति स्मयेन त्वं मा कदाचिद्भुजमालुलोक ॥ २५ ॥ स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विधातः । संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥२६॥ अजानतस्त्वां नमतः फलं यत्तजानतोऽन्यं न तु देवतेति । हरिन्मणि काचघिया दधानस्तं तस्य बुद्ध्या वहतो न रिक्तः ॥ २७ ॥ १. अवजानन्ति.२. पाषाणोद्भवम् ३. नरदेवतिर्यगादीनाम्. ४. काचम् ५. हरिन्मणेः विषापहारस्तोत्रम् । २५ प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ।। २८ ।। नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः । निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण ॥ २९ ॥ न क्वापि वाञ्छा ववृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः । न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि र्शातद्युतिरभ्युदेति ॥ ३० ॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ ३१ ॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥ ततस्त्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ।। ३३ ।। अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि ॥ ३४ ॥ अगाधमन्यैर्मनसायलङ्घ्यं निष्किचनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपार पतिं जनानां शरणं व्रजामि ॥ ३५॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६॥ स्वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् । न लाघवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ॥ ३७॥ इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि । छायातरुं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः ॥ ३८॥ १. पूर्वापरविरोधरहितार्थम्. २. प्रवृत्ता. ३. उत्कृष्टाः. ४. स्वयमेवोन्नतः, न तु क्रमेण वर्धमानः. वर्धमान इति च महावीरस्वामिनो नामान्तरम्. यथा मेरुः पूर्वं गण्ड- शैलतुल्यस्तदनन्तरं पर्वतकल्यस्ततः कुलपर्वतोऽभूदिति न क्रमः, उत्पत्तिसमकालमेव कुलपर्वतत्वं मेरोः, एवं जिनोऽपि जन्मनैवोन्नतो न तु नामानुरूपं क्रमेण वर्धमान इति तात्पर्यम्, ३ का०स०गु० काव्यमाला। अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९ ॥ वितरति विहिता यथाकथंचिजिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषाद्दिशति सुखानि यशो धनं जयं च ॥४०॥ इति श्रीधनंजयकृतं विषापहारस्तोत्रम् ॥