विष्णुतत्त्वविनिर्णय:

विष्णुतत्त्वविनिर्णय:
[[लेखकः :|]]

॥ श्रीः ॥
श्रीमदानन्दतीर्थभगवत्पादप्रणूतसर्वमूलग्रन्थाः
-----------------------------

विष्णुतत्त्वविनिर्णयः

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ॥

प्रथमः परिच्छेदः

सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।
नारायणं सदा वन्दे निर्देशाशेषसद्गुणम् ॥

विशेषणानि यानीह कथितानि सदुक्तिभिः ।
साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ॥

(1)ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ।
मूलरामायणं चैव पुराणं चैतदात्मकम् ॥

ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः ।
(2)दुराहमस्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥

ज्ञेय एतैः सदायुक्तैः भक्तिमद्भिः सनिष्ठितैः ।
न च (3)केवलतर्केण नाक्षजेन न केनचित् ।
(4)केवलागमविज्ञेयो भक्तैरेव न चान्यथा॥ इति ब्रह्माण्डे ।
(5)`नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं (6)साम्पराये'
इति तैत्तिरीयश्रुतिः ।

(7)`नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ'
(8)इत च कठश्रुतिः ।

`नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदाः'
(9)इति च पिप्पलादश्रुतिः ।

न चैतेषां वचनानामेवाप्रामाण्यम्। अपौरुषेयत्वाद् वेदस्य।
`इतिहासपुराणः (10)पञ्चमो वेदानां वेदः' इति तद्गृहीतत्वाच्च ।

न चापौरुषेयं वाक्यमेव नास्तीति वाच्यम्। तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः। (11)यस्य तौ नाभिमतौ नासौ समयी । समयप्रयोजनाभावात्। न च तेन लोकोपकारः (12)धर्माद्यभावज्ञाने (13)परस्परहिंसादिना अपकारस्यैव प्राप्तेः । न चोपकारेण तस्य प्रयोजनम्। अदृष्टाभावात्। अतो धर्माद्यभावं वदता स्वसमयस्यानर्थक्यमङ्गीकृतमेवेति नासौ समयी(14) ।

म च पौरुषेयेण वाक्येन तत्सिद्धिः, अज्ञानविप्रलम्भयोः प्राप्तेः। न च तदर्थत्वेन सर्वज्ञः कल्प्येत । अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनं तस्याविप्रलम्भकत्वकल्पनं(15) तस्य तत्कृतत्वकल्पनं चेति कल्पनागौरवप्राप्तेः ।

(16)अपौरुषेयवाक्याङ्गीकारे न किञ्चत् कल्प्यम्(17)। अपौरुषेयत्वं च स्वत एव सिद्धम् । वेदकर्तुरप्रसिद्धेः। अप्रसिद्धौ च तत्कर्तुस्तत्कल्पने कल्पनागौरवम्। अकल्पने चाकर्तृत्व सिद्धमेव। न च लौकिकवाक्यवत् सकर्तृकत्वम्। तस्य अकर्तृकत्वप्रसिद्द्यभावात्। न च केनचित् कृत्वा वेद इत्युक्तं वेदसमम्। परम्पराऽभावात्। न च स्वयंप्रतिभातवेदैः दृष्टमवेदवाक्यं भवति। परम्परासिद्धवेदवाक्यानुसासित्वात्। वेदद्रष्टॄणामुक्तगुमवत्वाच्च तेषाम्। उक्तं च ब्रह्माण्डे ---

विंशल्लक्षणतोऽनूनः तपस्वी बहुवेदवित् ।
वेद इत्येव यं पस्येत् स वेदो ज्ञानदर्शनात् ॥ इति ।

प्रामाण्यं च स्वत एव। अन्यथाऽनवस्थानात् । न चोक्तयुक्त्यधीनत्वं प्रामाण्यस्य। बुद्धिदोषनिरासमात्रकारणत्वाद्युक्तीनाम्। अदुष्टबुद्धीनां स्वत एव सिद्धत्वात् च प्रामाण्यस्य। न चाकाङ्क्षयामेव प्रमाणान्तरापेक्षत्वात् अनवस्थाभाव इति वाच्यम्। आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात्। (18)दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यम्। प्रामाण्यं च (19)स्वत एव सिद्धम् ।

(20)न चोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्यम्। तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात्। न च सादृश्यात् प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम्। सोऽयं देवदत्त इत्यादेरपि तथात्वप्राप्तेः। सर्वक्षणिकत्वं (21)वतदाऽपि बौद्धेन सेयं दिगित्यादिप्रत्यभिज्ञायाः न (22)भ्रान्तिक्क। वाच्यम् पञ्चस्कन्धेभ्यः अन्यत्वात्। न च दिश एव भ्रान्तिकल्पिताः विज्ञानशून्ययोरपि साम्यात्। न च (23)आदित्योदयादिनैव दिक्कल्पना, अन्धकारेऽपि दिङ्मात्रप्रतीतेः। कादाचित्कभ्रान्तिरेव (24)आदित्योदयादि दर्शनान्निवार्यते। सा च विज्ञानशून्ययोरपि भवतीति तेषां मतम्। वादिविप्रतिपत्तेः। अतो दिशः स्थिरा एवेति सिद्ध्यति शून्यवदेव। अतस्तद्वद्वेदस्यापि स्थैर्यं सिद्धम्। तदेवेदं वाक्यमिति प्रत्यभिज्ञानात्।

न चानुमानादीनामागमं विना प्रामाणं धर्मादिषु। तदगोचरत्वात्।

(25)अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्वावादिनामपि तदङ्गीकार्यम्।

(26)तत्प्रामाण्यं(27) च स्वत एव सिद्धम्। अप्रामाण्यस्य च परस्त्वानङ्गीकारे दुष्टेन्द्रियादेरप्यप्रामाण्यहेतुत्वं न स्यात्। तदनङ्गीकारे च अनुभवविरोधः। अतः प्रामाण्यं स्वतः परतोऽप्रामाण्यमिति सिद्धम्(28)।

(29)`वाचा विरूप नित्याया'(30)

`नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम्' इति।
`श्रुतर्वाव नित्या अनित्यावाव स्मृतयो याश्चान्या वाचः'
इति पैङ्गिश्रुतिः ।

(31)विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः।
अनादिनित्या सा तच्च विना तां न स गम्यते ॥'
इति (32)कात्यायनश्रुतिः।

`सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक्'।
कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रतिवाचं पपाद ॥
(33)इति च ।

नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः ।
(34)सर्गे सर्गेऽमुनैवैत उग्दीर्यन्ते तथैव च ।
(35)तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा ।
अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः ।
जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रासादतः ।
मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः ॥
यतस्ताः हरिणा दृष्टाः श्रुता एवापरैर्जनैः ।
श्रुतयो दृष्ट्यश्चेति तेनोच्यन्ते पुरातनैः ॥
तदुत्पत्तिवचश्चैव भवेद्य्वक्तिमपेक्ष्य तु ।
चेतनस्य जनिर्यद्वदुच्यते सर्वलौकिकैः ॥
पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु ।
क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत्॥
(36)वेदानां (37)सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया
अवान्तराभिमानानां देवानां वा व्यपेक्षया ।
नानित्यत्वात् कुतस्तेषामनित्यत्वं स्थिरात्मनाम्॥ इति ब्रह्माण्डे ।
न चानित्यत्वे श्रुतिर्वेद इत्यादि विशेषशब्दो युज्यते(38) ।

(39)वेदास्ते नित्यविन्नत्वात् श्रतुयश्चाखिलैः श्रुतेः ।
आम्नायोऽनन्यथापाठादीशबुद्धिस्थिताः सदा ॥
इति (40)महावाराहे ।

न च नित्यत्वं विना वेदानां दर्शनव्यवहारो युज्यते ।

न च वर्णपदादीनामनित्यत्वं वक्तुं युक्तम् । सर्वज्ञतावादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्। न च घटादिवत् संस्कारमात्रत्वं वक्तुं युक्तम्। प्रत्यभिज्ञाविरोधस्योक्तत्वात्। न च घटादिवत् संस्कारमात्रत्वं वक्तुं युक्तम्। प्रत्यभिज्ञाविरोधस्योक्तत्वात्। पुराणानामप्यन्यथा शब्दरचनमेवानित्यत्वम्(41)।

अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयस्तत्क्रमात्मको वेदश्च नित्य एवेति सिद्धम् ।
न च केवलसिद्धेऽर्थे (42) व्युत्पत्त्यभावादप्रमाण्यम्। सिद्धान्वित एव व्यत्पत्तिगृहितेः । इयं माता, अयं पितेत्यादौ अङ्गुलिप्रसारणादिपूर्वकनिर्देशेनैव हि तज्जानाति। (43)कार्यान्वित(44) एव व्यपत्पत्तिरिति वदतः कार्यस्य कार्यानवयाभावात् कल्पनागौरवम्। (45)इयं माता अयं पिता सुरूपोऽसीत्यादौ सिद्धमात्रज्ञापनेन पर्यवसितत्वाद् वाक्यस्य। तस्य तत्र प्रामाण्यानुभवाच्च। न च कुत्रचित् सिद्धज्ञापनादन्यद् (46)वाक्यस्य प्रयोजनम्। ज्ञात्वैव हीष्टसाधनतां प्रवर्तते निवर्तते च विपर्ययेण। अतः सिद्ध एव सर्ववाक्यानां प्रामाण्यं सिद्धम्।

प्रसिद्धं च व्याकरणनिरुक्तादीनां सिद्धमात्रे प्रामाण्यं सर्ववादिनाम्। तदनङ्गीकारे च सर्वशाब्दव्यवहारासिद्धिः । उक्तं न नारदीये--

"सर्वज्ञं सर्वकर्तारं नारायणमनामयम्।
सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ॥
सर्वेषामपि वेदानामितिहासपुराण्योः ।
प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते" इति ॥

न च जीवेश्वराभेदः सिद्धः, इत्यनुवादतक्वं भेदवाक्यानाम्। आगमं विना ईश्वरस्यैव असिद्धेः। न च अनुमानात् तत्सिद्धिः विपर्येयेमापि अनुमातुं शक्यत्वात्। (47)विमतं सकर्तृकं कार्यत्वाद् घटवत्, इत्युक्ते विमतं विकर्तृकं अस्मत्संमतकर्तृरहितत्वादात्मवदित्यनिमानविरोधात्(48)। अकार्यत्वमुपाधिरित्युक्ते शरीरिजन्यत्वमितरत्रापि उपाधिः इत्युत्तमरम्।

प्रत्यक्षानुमानसिद्धत्वे च भेदस्य तद्निरोधादेवाप्रामाण्यमभेदागमस्य। (49)तेनाभेदवाक्यास्यास्याप्रामाण्याभावे नानुवादकत्वं भेदवाक्यानाम्। नहि बलवतोऽनुवादकत्वम् दार्ढ्यहेतुत्वात्।

प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम्। विषयाभावे स्वस्यैवाप्रामाण्यप्राप्तेः। तेनैव ह्यनुमानादिना आगमस्य विषयः सिद्ध्यति तत्पक्षेऽपि ।

अनुमानेन ह्यनुवादित्वपक्ष ईश्वरो बोद्धव्यः प्रत्यक्षेण च आगमः । अतस्तयोर्विरोधे प्रामाण्यं न स्यात्। अनुमानसिद्धेश्वराच्च भेदोऽअनुभवत् एव सिद्धः। जीवस्यासर्वकर्तृत्वेनानुभावात्।

न चानुभवविरोधे आगमस्य प्रामाण्यम्। आगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्राप्तेः ।
बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव। बहूवां वचने तस्यैव दर्शने दैर्ढ्यस्यैव दृष्टेः ।


सर्वाविवादस्थल एव कछञ्चिदनुवादकत्वम्। न चात्र सर्वाविवादः एकत्वादिनमेव विवाददर्शनाम्। बहुप्रमामविरोधे च एकस्याप्रामाण्यं(50) दृष्टं शुक्तिरजातादौ। न च दोषजन्यत्वादेव दुर्बलत्वमिति विरोधः। बहुप्रमाणविरुद्धानां दोषजन्यत्वनियमात्। दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते।

अदुष्टमिन्द्रियं (51)तर्कोऽदुष्टस्तथाऽनुमा ।
आहमोऽदुष्टवाक्यं च स्वदृवाक्यं च स्वदृक् चानुभवः स्मृतः ॥
बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा ।
द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ॥
तयोः स्वबावो बलवानुपजीव्यादिकश्च सः ।
याथार्थ्यमेव प्रमाण्यं तन्मुख्यं ज्ञानशब्दयोः ॥
ज्ञानं च द्विविधं बाह्यं (52)तथाऽनुभवारूपकम्।
(53)बल्येवानुभवस्तत्र निर्दोषं त्वक्षजादिकम्॥
अनुप्रमाणतां याति तथाऽक्षादित्रयं ततः ।
  (54)प्राबल्यमागमस्यैव जात्य तेषु त्रिषु स्मृतम् ।
(55)उपजीव्यविरोधे तु न प्रामाम्यममुष्य च ॥
यामाहुरनुमां केचित् (56)च्कियाद्यवयवात्मिकाम् ।
सा व्यर्था नोपपत्त्या हि विना साऽपि प्रमाणताम् ॥
यात्यतो युक्तिरेवौका प्रामाणमनुमात्मकम् ।
युक्तिः प्रतिज्ञारूपा च (57)हेतुदृष्टान्तरूपिका ॥
तथोपनयरूपा च परा निगमनात्मिका ।
पृथक् पृथक् प्रमाणत्वं याति युक्तितयैव तु ।
प्रतिज्ञा हेतुगर्भैव पृथक् प्रामाम्यमेष्यति ॥
सिद्धत्वेन प्रतिज्ञाया हेतुर्मानं पृथग् भवेत् ।
प्रतिज्ञावयवत्वात्तु स्वातन्त्रेयेणैव मानताम् ॥
दृष्टान्तो यात्युपनयो व्याप्तिमाश्रित्य केवलम् ।
वयाप्तिस्तु केवलाऽपि स्यात् प्रमाणं नियमाश्रयात् ॥
तथा निगमनं चोपसंहारैकस्वरूपतः ।
प्रमाण्यं यात्यनुभवो ज्ञापयत्युपपत्तिताम् ॥
विरोधश्च तथाऽधिक्यं न्यूनताऽसङ्गतिस्तथा ।
उपपत्तिदोषा विज्ञेया विरोधश्च स्वतोऽन्तः ॥
जनकस्यात्ययो जातिः स्वस्य वाऽन्यस्य वा भवेत् ॥
जनकं प्रमाणमुद्दिष्टें स्वस्यार्थस्य प्रकाशनात्॥
निग्रहा एत एव स्युः संवादानुक्तिसंयुताः ॥
अर्थतः प्राप्तिरेवार्थापत्तिरित्यभिधीयते ।
दृष्ट्वा सदृशमेवान्यं पूर्वदृष्टे तु वस्तुनि ॥
एतत्सदृशताज्ञानमुपमानं प्रकीर्तितम् ।
अभावस्य परिज्ञां द्विविधं समुदाहृतम् ॥
एकं तत्रानुभवतो योगयस्यानुपलब्धितः ।
द्वितीयमपि विज्ञेयं सुखाद्ये च घटादिके ॥
एकं प्रत्यक्षरूपं स्याद्द्वितीयमनुमात्मकम् ।
क्वचिद् घटाद्यभावोऽपि प्रत्यक्षेणावगम्यते ॥
झटित्येव परिज्ञानात् न लिङ्गोद्भवता मता ।
अर्था पत्तिश्चोपमाच ह्यनुमाभेद एव तु ।
आगमो द्विविधो ज्ञेयो नित्योऽनित्यस्तथैव च ॥
प्रत्यक्षं त्रिविधं ज्ञेविधं ज्ञेयमैश्वरं यौगिकं तथा ।
अयौगिकं चेति तथा स्रवमाक्षात्मकं मतम् ॥
अक्षाणि च स्वरूपाणि नित्यज्ञानात्मकानि च ।
विष्णोः श्रीयस्तथैवोक्तान्यन्येषां द्विविधानि तु ॥
स्वरूपाणि च भिन्नानि भिन्नानि त्रिविधानि च ।
देवासुराणि मध्यानीत्येतत्प्रत्यक्षमीरितम् ॥
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति कीर्तितम् ।
अक्षयं पुरुषस्याक्षं स्वरूपे मुख्यमेव तु ॥
उपचारस्तद्न्यत्र सृष्टावुपचयो यतः ।
उपपत्तिस्वरूपत्वादनुमा सम्भवादिकम् ॥
प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणताम् ।
याति नैवान्यथा तस्य नियतत्वं क्वचिद्भवेत् ॥ (58)इति ब्रह्मतर्के ।

अत्र चोपजीव्यत्वेन प्रमामप्राबल्यात् भेद एव तात्पर्यं युक्तम् । कथञ्चानुवादक्तं भेदस्य प्रमाणेनासिद्धौ । सिद्धौ च कथमभेदवाक्यस्या बाधः। न चाप्रमाणसिद्धेनानुवादकत्वं(59) प्रमाणस्य भवति । दुर्बलत्वे च भेदप्रमामस्याभासत्वात्, न भेदवाक्यनामनुवादित्वम्। अतश्च भेदवाक्यानामेव प्राबल्यम् ।

  (60)सर्वप्रमाणविरुद्धवचनानामेव प्राबल्याङ्गीकारे `इदं वा अग्रे नैव किञ्चनासीत्, असतः सदजायत' इत्यादीनामेवाविचारेम प्रतीयमानस्यार्थस्य सर्वप्रमामविरुद्धत्वात् तत्र सर्वागमानां महातात्पर्यं प्रसज्येत ।

न च तत्र युक्तिविरोध इति वाच्यम्। तस्मिन् पक्षे (61)युक्तिविरुद्धत्वेनाननुवादित्वमिति गुण एव स्यात्। युक्तिसिद्धत्वे ह्यनुवादित्वं स्यात्। अतः प्रमाणसिद्दत्वे तदपलापायुक्तेरप्रमाणसिद्धत्वे च (62)प्रमाणस्य अनुवादित्वाभावाच्च न भेदवाक्यानां दौर्बल्यम् ।

न च प्रमाणबहुत्वे दौर्बल्यम्। दाढर्यमेव हि बहुवाक्यसंवादे दृष्टम्। तथा सति (63)अब्यसादेरप्यप्रमाम्यहेतुत्वं स्यात्। अभ्यासस्य च तात्पर्यलिङ्गत्वं सर्वेषां सिद्धम् । तदनङ्गीकारे तत्पक्षेऽपि नवकृत्वः `तत्वमसि' इति नवकृत्वो अभ्यासाद्यनुवादकत्वेनाप्रामाण्यं स्यात्। प्रथमवाक्येनैव स्यासिद्धं तदर्थमपरमित्युक्ते प्रत्यक्षादिना भेदो(64)येनानिश्चितस्तदर्थमपरं वाक्यमित्युत्तरम् । तस्मात् (65)बहुप्रमाणसंवादित्वे प्रबल्यमेव ।
अतः सर्वप्रमाणविरुद्धत्वान्नाभेदे तात्पर्यं वाक्यस्यः किन्तु विष्णोः सर्वोत्तमत्व (66)एव महातात्पर्यं सर्वागमानाम् ।

तथा चोक्तं भगवता---

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतो।ञस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।
यो मामेवमसंमूढो जानाति पुरुषोत्तमम्।
स सर्वविदं बजति मां सर्वभावेन भारत ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत(67) ॥ इति ।
सर्वोत्कर्षे देवदेवस्य (68)विष्णोर्महातात्वर्यं नैव चानयत्र सत्सम् ।
अवान्तरं तत्परत्वं तदन्यत्सर्वागमानां पुरुशार्थस्ततोऽतः ॥
इति पैङ्गिश्रुतिः ॥

मुख्यं च सर्ववेदानां तात्पर्यं श्रीपतेः परम् ।
उत्कर्षे तु तदन्यत्र तात्पर्यं स्यादवान्तरम् ॥ इति महावरादे ।

युक्तश्च विष्णोः सर्वोत्कर्षे(69) एवं (70)महातात्पर्यं सर्वागमानाम्।
(71)मोक्षो हि सर्वपुरुषार्थोत्तमः--

धर्मार्थकामाः सर्वेऽपि न नित्या मोक्ष(72) एव हि ।
नित्यस्तस्मात् तदर्थाय यतेत मतिमान् नरः ॥ इति(73) भास्सवेयश्रुतिः ॥
अनित्यत्वात् सदुःखत्वान्न धर्माद्याः परं सुखम् ।
मोक्ष एव परानन्दः संसारे परिवर्तताम् ॥ इति च भारते ।
(74)मोक्षश्च विष्णुप्रसादेन(75) विना न लभ्यते ।

यस्य प्रसादात् परमार्तिरूपादस्मातं संसारान्मुच्यते नापरेण ।
नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात् ॥
(76)इति च नारायणश्रुतिः ।

नायामात्मा प्रवचनेन लक्ष्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लसभ्यस्तस्यैष आत्मा विवृणुते (77)तनूं स्वाम् ॥
इति कठश्रुतिः ॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् ॥
(78)इति भगवद्वचनम् ।

(79)उत्पत्तिस्थितिसंहारा नियतिर्रज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट् ॥
(80)इति स्कान्दे ।

अज्ञानां ज्ञानदोस विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ इति च ।
बन्धको भवपाशेन भवपाशाच्च मोचकः(81)।
कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ॥ इति च ।

(82)प्रीतिश्च गुणोक्तर्षज्ञानादेव विशेषतो गृष्टाः नाभेदज्ञानात्। अभेदज्ञानादप्रीतिरेवोत्तमानां भवति। घातयन्ति हि राजानो राजाऽहमिति वदन्तम्। ददति च सर्वमभिप्रेतं गुणोत्कर्षं वदतः ।

न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् ॥
तत्प्रीणनान्मोक्षमान्पोति सर्वस्ततो वेदास्तत्पराः सर्व एव ॥
इति सौपर्णश्रुतिः ।

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वबावेन भारत(83) ॥

इति गुमोत्कर्षज्ञानादेव परमा प्रीतिर्भगवता स्वयमेवाभिहिता । अतो विष्णोर्गुणोत्कर्ष एव सर्वश्रुतिस्मृतीनां महातात्पर्यम् ।

न चाभेदे तात्पर्यमित्यत्र किञ्चन्मानम् ।

न च विशेषणविशेष्यतया भेदसिद्धिः । विशेषणविशेष्यभावश्च बेदापेक्षः । धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः। भेदापेक्षं च धर्मिप्रतियोगित्वमित्यन्योन्याश्रयतया भेदस्यायुक्तिः। पदार्थस्वरूपत्वाद्भेदस्य(84) । न च धर्मिप्रतियोग्यपेक्षया भेदस्यास्वरूपत्वम्। ऐक्यवत् स्वरूपस्यैव तथात्वात्। स्वरूपसिद्धिश्च र्जीवेश्वरैक्यं वदतः सिद्धैव । भेदस्तु स्वरूपदर्शन एव सिद्धः। प्रायः सर्वतो विलक्षणं हि पदार्थस्य स्वरूपमितिवत्। यदि न स्वरूपं भेदस्तदा पदार्थै दृष्टे प्रायः सर्वतो वैलक्षण्यं तस्य न ज्ञायेत । अज्ञाते च वैलक्षण्ये आत्मनि घट इत्यपि संशयः स्यात्। (85)न हि कश्चित् तथा संशयं करोति। ज्ञात्वैव (86)प्रायः सर्वतो वैलक्षण्यं कस्मिंश्चिदेव सदृशे संशयं करोति। न ह्यात्मनि `अहं देवदत्तो न वा' इति कस्यचित् संशयो भवति। सामान्यतः सर्ववैलक्षण्ये ज्ञात एव घटत्वादिज्ञानम् । अतो नान्योन्याश्रयता ।

न च युगपज्ज्ञानानुत्पत्तिर्दोषः(87)। यथा युगपदेव (88)दीपसहस्रदर्शने सामान्यतः सर्वे ज्ञायन्त एव तथा स्यात्। एकस्मिन्नेव वस्तुनि विशेषस्तैरप्यङ्गीकृत एव। `नेति नेति' इत्यत्र (89)सर्ववैलक्षण्याङ्गीकारात्। विशेषानङ्गीकारे च पुनरुक्तेः। न च घटाद् वैलक्षण्यमेव पटाद् वैलक्षण्यम्। अनुभवविरोधात् । तस्माद् भेददर्शनं युक्तमेव । यच्च प्रमाणदृष्टानामपि पदार्थानां मिथ्यात्वकल्पनम्, तच्च प्रमामविरुद्धत्वादेव प्रकाशतस्करत्वम् ।

(90)न हि प्रमाणदृष्टस्य तर्कबाध्यत्वम्, प्रत्यक्षादिविरुद्धानां तर्काभासत्वनियमात्(91)। शुक्त्यादेः (92)रजतादिप्रतीतेरपि बलवत्प्रत्यक्षविरुद्धत्वादेव भ्रमत्वं न तर्कमात्रात्।

तर्कमात्रेण प्रत्यक्षबाधने भूतचतुष्टयस्याबादेः पृथिवीत्वादृष्टेः। पृथिव्या अपि पृथिवीत्वं न स्यात्। अतो न तर्कमात्रत एव दृष्टस्य भ्रान्तित्वं कल्प्यम्। ्तः (93)सर्वभेदनिरासकतर्कस्यसर्वश्रुतिस्मृतिप्रत्यक्षानुमानविरुद्धत्वात् (94)निरतामाभासत्वमेव।

न च परमार्थतो भेदाभावः, व्याहारिकः सोऽस्तीति वाच्यम्। सदसद्वैलक्षण्ये प्रमाणाभावात्। (95)असतः ख्यात्ययोगादिति (96)वदतोऽसतः ख्यातिरभूतः, न वा। यदि नाभूत् न तत्ख्यातिनिराकरणम्। यद्यभूत्, नतथापि । (97)न चासतो वैलक्षण्यं तत्प्रतीतिं विना ज्ञायते ।

न च शुक्ते रजतत्वं सद्विलक्षणम्। (98)`असदेव रजतं प्रत्यभात्' इत्यनुभवात्। न च प्रतीतत्वादसत्त्वाभावः। असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव (99)भ्रान्तित्वात्।

न चासतौ भ्रान्तावपि प्रतीतिर्नास्तीति वाच्यम्। अनिर्वचनीयपरमार्थत्वस्य असत एव दृष्ट्यङ्गीकारात्। न च तदपि अनिर्वाच्यमनवस्थितेः । (100)प्रथमानिर्वचनीयासिद्ध्या (101)सवासिद्धिरिति मूलक्षतिः। अनिर्वचनीयत्वे रजतस्यानिर्वचनीयमिदं रजतमिति बाधकज्ञानमुत्पद्येत। मिथ्याशब्दस्त्वभाववाची ।

न च (102)सदसद्विलक्षणं नामास्तीत्यत्र किञ्चिन्मानम्(103) । अनुभवविरोधश्च तत्पक्षे। सदसतोर्द्वयोरेव सर्वैरनुभूयमानत्वात्।

अतोऽनिर्वचनीयाभावादसतः प्रतीत्यनङ्गीकारात्(104) प्रतीयमानत्वाच्च भेदस्य सत्त्वप्राप्तेर्नाद्वितीयत्वं युज्यते ।

कथञ्च श्रुतिसिद्धो (105)जीवपरभेदो निराक्रियते। मिथ्यावादित्वे च श्रुतेः कथमैक्यस्य सत्यत्वम्। कथञ्चैवंवादिनां वेदवादित्वम्। वेदोक्तस्य मिथ्यात्वाङ्गीकारादेव ह्यवेदवादित्वं बोद्धादीनामपि ।

अतो विष्णोः सर्वोत्तमत्म एव महातात्पर्यं सर्वागमानाम् ।

कथञ्च जीवपरमात्मैक्ये सर्वश्रुतीनां तात्पर्यं युज्यते । सर्वप्रमाणविरुद्धत्वात्। तथा ह्यनुभवविरोधः। न हि `अहं सर्वज्ञः सर्वेश्वरः निर्दुःखः निर्दोषः' इति कस्यचिदनुभवः (106)अस्ति च तद्विपर्ययेणानुभवः । न च मिथ्यानुभवोऽयम् । तद्विपरीतप्रमाणाभावात्।

न चाभेदे कश्चिदागमः। सन्ति च भेदे सर्वागमाः। तथाहि

अतत्वामसीति नवकृत्व उपदेशः सदृष्टन्तकः। न चायमभेदोपदेशः ।

स यथा शकुनिः सूत्रेण प्रबद्धः(107).....सन्मूलाः सोम्येमाः सर्वाः प्रदाः सदायतनाः सत्प्रतिष्ठाः ॥ 1 ॥

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति ते यथा तत्र न विवकं लभन्तेऽमुष्याहं वृक्षसस्य रसोऽस्मि अमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः स्रवाः प्रदाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति। त इह व्याघ्रो वा सिंहा वा वृको वा वराहो वा कीटा वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत्तदा भवन्ति ॥ 2 ॥

यथा सोम्येमा नद्यः पुरस्तात् प्राच्यः स्यन्तन्ते पश्चात् प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति। स समुद्र एव भवति। ता यथा तत्र न विवेकं लभन्ते न विदुरियमहमस्मि, इयमहमस्मीतित्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति। त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत्तदा भवन्ति ॥ 3 ॥

स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठतिः । अस्य यदैकां शाखां जीवो जहाति अथ सा शुष्यति ॥ 4 ॥

न्यग्रोधफलमत आहरेति इदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीति अण्व्य इव इमा धाना भगव इति आसां अङ्ग एकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति। तं होवाच यं वै सोम्य एतमणिमानं न निभालयसेऽस्य सोम्यैषोऽणिम्न एवं महान् न्यग्राधस्तिष्ठति ॥ 5 ॥


लवणमेतदुदकेऽवधाय मा प्रातरुपसीदथा इति तद्ध तथा चकार तं होवाच यद्दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमिति अन्त्यादाचामेति कथमिति लवणमिति अभिप्रास्यैतदथ मा उपसीदथा इति तद्ध तथा चकार तच्छश्वत् संवर्तते । तं होवाचात्र वाव सोम्येतमणिमानं न निभालयसे अत्रैव किलेति ॥ 6 ॥

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् ॥ 7 ॥

अथ यदाऽस्य वाङ मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावन्न विजानाति ॥ 8 ॥

पुरुषं सोम्योत हस्तगृहीतमानयन्ति अपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति। स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते, अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते। स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं पत्पं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते॥ एवमेव खलु सोम्य आचार्यवान्(108) पुरुषो वेद- इति स्थाननवकेऽपि भेद एव दृष्टानताभिधानात्।

नहि शकुनिसूत्रयोः, नानावृक्षरसानां, नदीसमुद्रयोः जीववृक्षयोः, अणिमधानयोः, लवणोदकयोः, गन्धारपुरुषयोः, (109)अज्ञप्राणादिनियामकयोः, स्तेनापहार्ययोश्चैक्यम्।

सति सम्पद्य न विदुः सति सम्पत्स्यामह इति, त इह व्याघ्रो वा सिंहो(110) वेति, सत आगम्य न विदुः सत आगच्छमह इति, त इह वयाघ्रो वा सिंहो नेति भेदापरिज्ञानेनानर्थवचनाच्च ।

न हि गृहादागतस्य गृहे प्रविष्टस्य च तदैक्यम्। `ताः समुद्रात् समुद्रमेवापियन्ति स समुद्र एव भवति' इत्यत्रापि भेद एवोच्यते, अन्यथा ताः समुद्र एव भवन्तीति व्यपदेशः स्यात्। अतो नद्यः समुद्रादगच्छन्ति तं प्रविशन्ति च समुद्रस्तु स एव नैतासां समुद्रत्वं भवतीत्यर्थः ।

न हि भिन्नानां नदीजलपरमाणूनां समुद्राणुभिरैक्यं(111) युज्यते। तथा सति महाजनसमितौ प्रविष्टानां द्वित्राणां तद्वैक्यं स्यात्। न च तद्युज्यते (112)भेदानुभवात्।

स्वं ह्यपीतो भवतीत्यत्रापि स्व इति परमात्मनोऽभिधानम्। `स्वात्मना चोत्तरयोः'(113) इति सूत्रात्---

स्वातन्त्र्यात् (114)स्व इति प्रोक्त आत्माऽयं चाततत्वतः ।
बरह्मायं गुणपूर्णत्वाद्भगवान् विष्णुरव्ययः ॥
इति परमोपनिषदि(115)।

अपीत इत्यत्रापि प्रवेशमात्रम्। स्वमिति द्वितीयानिर्देशात्। एकीभावविवक्षायां स्वेनेति निर्देशः स्यात्।

स्वं कुलायं यथाऽपीतः पक्षी स्यादेमीश्वरम् ।
अप्येति जीवः प्रस्वापे मुक्तौ चान्योऽपि सन् सदा॥ इति च ।

(116)`एवमेव खलु सोम्य एतन्मनो दिशं दिशं पतित्वा अन्यत्रायतनमलब्ध्वा प्राणमेवोपाश्रयते'(117) इत्यत्रापि मन इति जीवः प्राण इति परमात्मा। यत्रायं पुरुषः स्वपिति नाम इति तयोरेव प्रस्तुत्त्वात्।

मननान्मन उद्दिष्टः पुद्गलो निरयं गिरन् ।
कर्मानुशयनाच्चैव संसार्यनुशयी स्मृतः ॥ इति च परमोपनिषदि ।
प्राणः प्रमयनादेषः साधुत्वात् सन् हरिः स्मृतः । इति च ।

सन्मूलाः सोम्येमाः (118)सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यत्रापि भेद एव प्रतीयते ।

स्रष्टृत्वादाश्रयत्वाच्च मुक्तानां च प्रति प्रति। स्थापनाच्च विभुर्विष्णुरन्यः संसारिणो मतः ॥ इति च ।

अनेन जीवनात्माऽनुप्रविश्य नामरूपे व्याकरवाणीति स एष जीवनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठतीत्यत्रापि जीवशब्देन परमात्माऽभिहितः । जीव इति भगवतोऽनिरुद्धस्याख्या इति श्रुतेः ।

विष्णुर्जीव(119) इति प्रोक्तेः सततं प्राणधारणात्।
स प्रविश्य शरीरं च स्थावरं जङ्गमं तथा ॥
महाभूतानि च विभुस्त्रिवृत्करणपूर्वकम् ।
संसारिणं भ्रामयति सदैवान्यत्वलक्षणम् ॥
तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपिन सन् ॥ इति च ।

`तेत्तेज ऐक्षत', `ता आप ऐक्षन्त', `इमास्तिस्रो देवता' इति पूर्वमेव चेतनत्वसिद्धेः, `अनेन जीवेनात्मना' इति संसारिणः पुनः प्रवेशो न युक्तः। अतस्तत्र जीवशब्देन (120)परमात्मैवाभिहितः ।

जीवेनात्मनाऽनुप्रभूतः पेपीयमानो (121)मोदमानस्तिष्ठतीत्यत्रापि जीवशब्दोदितः पर एव ।

पेपीयमानो मोदमानस्तु संसारी। (122)नहि चेतनादन्यस्य मोदभोगादिकं युज्यते।

सुखस्य चाप्यायतनं शरीरं दुःखस्यचापययतनं शरीरम्(123) ।
अचेतनं प्रकृतमेतदाहुर्भोक्ता तयोश्चेतनकः शरीरी। इति भारते ।
`जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते' इत्यत्रापि जीवशब्दः परे। नहि संसारिणो मुख्यतः प्राणधारकत्वं (124)युज्यते ।

ब्रह्मणा त्यक्तदेहस्तु मृत इत्युच्यते नरः । इति च

`यं वै सोम्य एतमणिमानं न निभालयसे, अस्य सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति' इत्यत्रापि अणिमशब्देन पर एवाभिहितः ।

`स य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो' इत्युक्तत्वात् ।

धानासु तु `अण्व्य इव इमा धानाः' इति स्त्रीलिङ्गप्रयोगात् (125)इवशब्दाच्च नाणिमत्वम्। न च ता न (126)निभालयते ।

`ऐतदात्म्यमित्येतदीयम्। स (127)आत्मेत्यात्मशब्दश्च पर एव ।
(128)`द्युभ्वाद्यायतनं स्वशब्दात्'। (129)`नानुमानमतच्छब्दात्'। (130)`प्राणभृच्च'

इत्यत्र तमेवैकं जानथ आत्मानमिति स्वशब्दपर्यायात्मशब्दात् न प्रकृतिजीवावभिधीयेते किन्तु पर एवेति(131) भगवता व्यासेनाभिहितम्। अत आत्मशब्दस्तस्मिन्नेव मुख्यः।

आततत्वाच्च मातृत्वादात्मेति (132)परमो हरिः ।

आत्माभासास्तदन्ये ये न ह्येतेषां तता गुणाः ॥
इति परमोपनिषदि(134)।

तेजः परस्यां देवतायां तावन्न जानाति इत्यत्र च यदाऽस्य प्राणादीन् परो ग्रसति तदा न जानाति यदा ददाति तदा जानाति इति तद्वशत्वमेवोक्तम् ।

यदा प्राणान् ददातीशस्तदा चेतनकोखिलम्।
जानाति ग्रस्तकरणस्तेन वेत्ति न किञ्चन ॥ इति च ।

`अपहार्षीत् स्तेयमकार्षीत्' इत्यत्र चान्याभिमतस्यैव वस्तुनोऽपहार्यत्वात् भेद एवायं दृष्टान्तः। अन्यं सन्तं परमात्मानं स्वयमिति मन्यमानः स्तेन एवेति। न हि स्वकीयं परित्यजन् स्तेनो भवति ।

ऐकान्म्यं नाम यदिदं केचिद्ब्रूयरनैपुणाः ।
शास्त्रातत्त्वमविज्ञाय तथा वादबलाज्जनाः ॥
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रादस्यवः ॥
ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः ।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
तेषां तमःशरीरणां तम एव परायणम् ।
(135)यतः (136)स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ॥
कथमस्मि(137) स इत्येव सम्बन्धः(138) स्यादसंहितः(139) । इति मोक्षधर्मे ।

यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।
यथा नद्यः समुद्रश्च शुद्धोदलवणे यथा ।
(140)यथा चोरपहार्यौ च यथा पुंविषयावपि ।
तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ।
तथाऽपि सूक्ष्मरूपत्वान्न जीवात् परमो हरिः ॥
भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन्।
(141)वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्ध्यतेऽन्यथा ॥
इति च परमोपनिषदि ।

प्रेरकः (142)सर्वजीवानां(143) प्राणीधीचोदितो च सः ।
विष्णुः संसारिणोऽन्यो यस्तमविज्ञाय मूढधीः ॥
देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यते त्मनः ।
अतः संसारपदवीं याति जीवेशयोः सदा ।
वैलक्ष्ण्यं परं ज्ञात्वा मुच्यते बद्ध्यतेऽन्यथा ॥ इति च ।

`सर्वान् वेदानधीत्य महामना अनुचानमानी स्तब्ध एयाय'

इत्यात्मनोऽन्यमनूचानत्वादिगुणप्रदं परमविज्ञाय स्तब्धस्य पराधीनत्वज्ञापनेन स्तब्धतां निरस्य तन्निष्ठा ह्यत्रोपदिश्यते। तद्धैक आहुरसदेवेदमग्र (144)आसीदित्यादिवादिपरसिद्धमपि निराक्रियते ।

(145)इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ॥

इत्यादिनच्छुतितात्पर्यापरिज्ञानप्राप्तं च ।

दर्शितं च `ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणाः' इति ।
तद्धशत्वज्ञापनार्थं च `सदेव सोम्येदमग्र आसीत्' इत्यादिसृष्टिकथनम् ।

एकविज्ञानेन सर्वविज्ञानं च प्राधान्यात् किञ्चित् सादृश्यात्(146) कारणत्वाच्च । न तु तदन्यस्य मिथ्यात्वात् ।

(147)न हि सत्यज्ञानेन मिथ्याज्ञानं भवति। नहि शुक्तिज्ञो रजतज्ञ इत्युच्यते। विरोधात् तयोर्ज्ञानयोः। नेदं रजतमित्यरजतज्ञो हि शुक्तिज्ञो भवति। रजतज्ञस्चेन्न शुक्तिज्ञः। नहि तज्ज्ञस्तदभावज्ञो भवति। तदभावस्य तज्ज्ञानपूर्वकत्वं चान्यत्र तस्य सत्त्वादेव दृष्टम् । तदनङ्गीकारे तदेव न युज्यते। प्रधानज्ञानादप्रधानस्य ज्ञातवद्व्यपदेशोऽस्त्येव। यथा परधानपुरुषणां ज्ञानाह्वाननाशनैर्ग्रामो ज्ञात आहूतो नाशित इति व्यपदेशः। कारणे च पितरि ज्ञाते(148) पुत्रो ज्ञात इति। जानाम्येनमस्य पुत्रोऽयमिति (149)व्यपदेश इति । (150)एवमात्रप्येतत्सृष्टं सर्वमित्यादि।

सादृश्याच्चैकस्त्राज्ञानमिति। तदेव सादृश्यमत्रापि विवक्षितं यथा `सोम्यैकेन मृत्पिण्डेन सर्वं (151)मृण्मयं विज्ञातं स्यात्' इत्यादिना। अन्यथा `एक' शब्दः `पिण्ड' शब्दश्च व्यर्थः। स्यात्। `मृदा विज्ञा तया इत्येतावता' पूर्णत्वात्। न हि एकमृत्पिण्डात्मकान्यन्यमृण्मयानि(152)। सादृश्यमेव हि तेषाम् ।

`यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्'। `यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्' इत्यादिकमपि व्यर्थं स्यात् ।

नहि एकमण्यात्मकमन्यल्लोहमयम् । न चैकनखनिकृन्तनात्मकं (153)सर्वं कार्ष्णायसम् ।

वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यत्र च वाचा नाम्नामारम्भणं विकारो विकृतं नित्यं नामधेयं (154)मृत्तिकेत्यादिवैदिकमेवैतद्वचनं (155)सत्यमिति श्रुत्यर्थः ।

(156)न च वाचारम्भणशब्दोऽपि मिथ्यात्वे प्रसिद्धः । वाचारम्भणमात्रमिति चाश्रुतकल्पनम्। तस्मिन् पक्षे नामधेयशब्द इति शब्दश्च व्यर्थः स्यात्। अतो न कुत्रापि जगतो मिथ्यात्वमुच्यते ॥

`कविर्मनीषी परिभूः स्वयंर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः '।
`यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता ।
विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम्'।

प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।

`अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति।
न चान्यथा क्वापि च कस्य चेदमभूत् पुरा नापि तथाऽभविष्यत् ।'

`असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि ।
यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा ।'

`असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् (157)कामहैतुकम् ।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जदतोऽहिताः' ॥ इत्यादेश्च ।
`अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः(158) ।
स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता ॥
सर्वज्ञस्य यतो विष्णोः सर्वदैतत् प्रतीयते ।
बोधासहं ततो नैतत् किन्त्वाज्ञावशमस्य हि ॥'
इति परमोपनिषदि ।

`प्रज्ञाविनिर्मितं यस्मादतो मायामयं जगत् ।
अनेनानुगतं यस्मादनृतं तेन कथ्यते ॥
बोधानिवर्त्यमपि तु नित्यमेव प्रवाहतः ।
अ इत्युक्तः परो वेदस्तेन सत्यमिदं जगत् ॥
तदधीनस्वरूपत्वादसत्यं तेन कथ्यते ।
सत्यस्य सत्यः स विभुरिन्द्रचापस्य सूर्यवत्' इति च ॥
`तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ।'
इति च ।

(159)`महामायेत्यविद्यते (160)नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते ॥
प्रकृतिः प्रकष्टकरणाद् वासना वासयेद् यतः ।
अ इत्युक्तो हरिस्तस्य विद्याऽविद्येति संज्ञिता ॥
मायेत्युक्त्वा प्रकृष्टत्वात् प्रकृष्टं हि मयाभिधम् ।
विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते ।
प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा ॥ इति च ।

`सर्वे वेदा हरेर्बेदं सर्वस्माज्ज्ञापयन्ति हि ।
भेदः स्वातन्त्र्यसार्वज्ञ्यसर्वैश्वर्यादिकश्च सः ।
स्वरूपमेव (161)भेदोऽयं व्यावृत्तिश्च स्वरूपता ।
सर्वव्यावृत्तये यस्मात् स्वशब्दोऽयं प्रयुज्यते ।
सर्वव्यावृत्ततामेव नेति नेत्यादिका श्रुतिः ।
विष्णोरतो वदेदन्या अपि सर्वा न संशयः ॥'
इति च नारायणश्रुतिः ।

`अहं ब्रह्मास्मि' `तद्योऽहं सोऽसौ योऽसौ सोऽहम्'
`योऽसावादित्ये पुरुषः'(162)सेऽहमस्मि स एवाहमस्मि'
इत्यादि तु अन्तर्याम्यपेक्षया ।

`स यश्चायं पुरुषे यश्‌चासावादित्ये स एकः।'
`अः इति ब्रह्म तत्रागतमहमति तस्योपनिषदहमिति'
(163)अहंनामा हरिर्नित्यमहेयत्वात् प्रकीर्तितः।
त्वं चासौ प्रतियोगित्वात् परोक्षत्वात् स इत्यपि ।
सर्वानतर्यामिणि हरावस्मच्छब्दविभक्तयः ।
युष्मच्छब्दगताश्चैव सर्वास्तच्छब्दविभक्तयः ।
युष्मच्छब्दगाताश्चैव वचनान्यखिलान्यपि ।
स्वतनत्रत्वात् प्रवर्तन्ते व्यावृत्तेऽप्यखिलात्(164) सदा ।
तत्सम्बन्धात्तु जीवेषु तत्सम्बन्धादचित्स्वपि ।
वर्तन्त उपचारेण तिङ्पदान्यखिलान्यपि ।
तस्मात् सर्वगतो विष्णुरेको भिच्च ततो बहुः ।'
इति नारायणश्रुतिः ।

`सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तषु तज्ज्ञानं विद्धि सात्त्विकम्'
इति (165)भगवद्वचनम् ।

न चासत्यो भेदः ।

सत्यमेनमनु वश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ।
सत्यः सोऽस्य महिमा दृणे शवो यज्ञेषु विप्रराज्ये ।
`सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा ।
मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः'।
`आत्मा हि परमस्वतन्त्रः(166) सर्ववित् सर्वशक्तिः परमसुखः परमो जीवस्तु तद्वशोऽस्पज्ञोऽल्पशक्तिरार्तोऽल्पकः' इत्यादिश्रुतिभ्यः ।

न चावान्तरसत्यत्वमिदम्।

यो वेद निहितं गुहायां परमे व्योमन्।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ।

`एतमानन्दमयमात्मानमुपसङ्कम्य इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्। एतत् सामगायन्नास्ते'।

ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उत्वः ॥

`परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते'।

`स तत्र पर्येति जक्षन क्रीडन् रममाणः
स्त्रीभिर्वा यानैर्वा (167)ज्ञातिभिर्वाऽज्ञातिभिर्वा'।

`यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेत् तत् केन कं विजानीयात् येनेदं सर्वं विजानाति तं च केन विजानीयात, विज्ञातारमरे केन (168)विजानीयात्'(169)।

`यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति'

`तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति'

`अमृतस्यैष सेतुः'।

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे हृदा इव स्नात्वा इ त्वे ददृश्रे ॥

ईशमाश्रित्य तिष्ठन्ति मुक्ताः संसारसागरात्।
यथेष्टभोगभोक्तारो ब्रह्मान्ता उत्तरोत्तरम्॥
(170)इत्यादि मोक्षानन्तरं भेदश्रुतिभ्यः ।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ति प्रलये न व्यथन्ति च ॥ इति भगवद्वचनम् ।
`जगद्व्यापारवर्ज्यम्'। `प्रकारणादसन्निहितत्वाच्च' इति।

अविनाशी वाऽरेयमात्माऽनुच्छित्तिधर्मेति तद्धर्माणामप्यनुच्छित्तेः प्रस्तुतत्वात्। अत्रैव मा भगवान् मोहान्तमापिपनन प्रेत्य संज्ञाऽस्तीति संज्ञानाशस्य दोषत्वेनोक्तत्वात्।

यत्र त्वस्य सर्वमात्मैवाभूत् (171)तत् केन कं पश्येत् (172)इति ह्याक्षेपि एव। न हि भोगाभावो विज्ञातारमरे केन विजानीयदिति विज्ञातुरविज्ञानं चापेक्षितम् ।

अहमित्येव यो वेद्यः स जीव इति कीर्तितः।
स (173)दुःखी (174)स सुखी चैव स पात्रं बन्धमोक्षयोः ॥
इति च परमश्रुतिः ।

`मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्' (175) इति मोक्षधर्मे ।

न तु तद् द्वितीयमस्ति इति च । यत्तद् ब्रह्म द्वैतत्वेन न पश्यति तदेव द्वितीयं नेत्याह । `यत्ततोऽन्यद् (176)विभक्तत्वेनैव पश्येत्' इति वाक्यशेषात्। नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते इति हेतोश्च ।

`कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति'

(177)इत्यत्रापि एकीभावो मत्यैक्यं क्षीराब्ध्यादिस्थिततद्रूपापेक्षया स्थानैक्यं वा ।

`कामेन मे काम आगाद् हृदयाद् हृगयं मृत्योः।
यदमीषामदः प्रियं तदैतूप मामभिः'।
ब्रह्ममत्यनुकूला मे मतिर्मुक्तौ भविष्यति ।
अतः प्रायोऽनुकूलत्वमिदानीमपि मे स्थितम्॥

`येनाक्रमन्ति ऋषयो ह्याप्तकामा यत्र तत सत्यस्य परमं निधानम्'
`एतमानन्दमयमात्मानमुपसङ्कामति' (178)इत्यादिश्रुतिभ्यः ।

स्वरूपैक्याभिप्राये `कर्माणि विज्ञानमयश्च' इति न युज्यते। नहि तत्पक्षेऽपि कर्मणां ब्रह्मैक्यं मुक्तावस्ति।

निवृत्त्यभिप्राये पञ्चदशकलानामपि समत्वात् `गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु' इत्यान्यासां कलानां गमनमुक्त्वा कर्मणां विज्ञानात्मनश्चैकीभावकथनं व्यर्थं स्यात्। विशेषाभावात्।

`न च ज्ञाननिवृत्तस्य रजतस्य शुक्त्या एकीभावव्यवहारोऽस्ति ।

(179)`परेऽव्यये' इत्यधिकरमत्वकथनं च भेदज्ञापकम्। अन्यथा पर एव भवन्तीति निर्देशः स्यात्।

जीवस्य (180)परमैक्यं तु बुद्धिसारूप्यमेव तु ।
एकस्थाननिवासो वा व्यक्तिस्थानमपेक्ष्य सः ॥
न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः।
स्वातन्त्र्यपूर्णते।ञल्पत्वापारतन्त्र्ये विरूपता(181) ॥ (182)इति परमश्रुतिः ।

`ब्रहें वेद ब्रह्मैव भवति' इत्यादि च

`सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवते' इतिवत्। बृंहितो (183)भवतीत्यर्थः ।

न हि ब्राह्मणपूजकः स एव ब्राह्मणो भवति।
`ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः ।
प्रकृतिः (184)परमं ब्रह्म परमं महदच्युतः।
तस्मान्न मुक्ता न च सा न क्वचिद् विष्णुवैभवम।
(185)आप्नुवन्ति स एवैकः स्वतन्त्रः पूर्णसद्गुणः'(186)इति परमश्रुतिः।
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति।
ब्रह्मोशानादिभिर्देशैर्यत्प्राप्तुं नैव शक्यते।
तद्यस्त्वभावः कैवल्यं स भवान् केवलो हरे(187) ॥ (188)इति च ।
यथाऽपियन्ति तेजांसि महातेजसि भास्करे ।
पृथक् पृकत् स्थितान्यह्नि स्वरूपैरपि सर्वशः।
परे ब्रह्मणि जीवाख्यब्रह्माण्यपयपियन्ति हि ।
मुक्तौ पृथक् स्थितान्येव तदन्येषामदर्शनम्।
अप्ययोऽयं समुद्धिष्टो न स्वरूपैकता क्वचित् ॥
इति नारायणश्रुतिः ।

अतः सर्वागमविरुद्धमेव (189)जीवपरमैक्यम्।
तथैव सर्वयुक्तिविरुद्धं च ।
(190)न तावदेकजीववादो युज्यते। एकाज्ञानपरिकल्पितत्वे (191)च सर्वस्य सर्वमिदं परिकल्पितमिति जानतः पुनः शिष्यादिबोधनं न युज्यते। नहि स्वप्नोऽयमिति निश्चित्य (192)स्वप्नपुत्रदायार्थं यतते। स्वप्ने तु स्वप्नत्वाज्ञानादेव यतते। न च बहूनां दृश्यमानत्वादस्याज्ञानपरिकल्पितमिदमिति निश्चयो युज्यते। स्वप्ने तु प्रबोधानन्तरमेकस्यावशिष्टत्वात् निश्चयः। न चात्र तथास्ति। तस्य तस्य(193) तथेति प्रतिपत्तव्यमित्यङ्गीकारे वस्तुनि विकल्पासम्भवादकल्पितमित्येव स्यात्। न च तथा प्रतिपत्तव्यमित्यत्र प्रमाणमस्ति। शिष्याज्ञानपरिकल्पितमित्यङअगीकारे तस्यैवाचार्यभावे स्वयमेव कल्पितो भवतीति सम्यग् (194)ग्रन्थाधिगमस्यानर्थहेतुत्वं स्यात्। न च (195)कस्यचिन्मुक्तिः। ग्रन्थाधिगमे तस्यैवस्व (196)शिष्याज्ञानपरिकल्पितत्वप्राप्तेः।

(197)स चैकजीवो यदि भेदवादी भवति तस्य तत्रैव दार्ढ्यान्न कदाचिद् भेदनिवृत्तिरिति न कस्यापि मुक्तिः स्यात्। तेन यथा कल्पितं तथैव भवतीति तेन एकजीववादिनां नित्यनिरयकल्पने स एव स्यात्। न च एकजीवाज्ञानपरिकल्पितं समस्तमित्यत्र किञ्चिन्मानलसमस्ति।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥

इत्यस्य च अयमर्थः -- प्रपञ्चो यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत न च निवर्तते तस्मादनादिरेवायम्।

प्रकृष्टः पञ्चविधो भेदः प्रपञ्चः। न चाविद्यमानोऽयं, मायामात्रत्वात्। मायेति भगवत्प्रज्ञा सैव (198)मानत्राणकर्त्री यस्य तन्मायामात्रम्। परमेश्वरेण ज्ञातत्वात् रक्षितत्वाच्च न द्वैतं भ्रान्तकिल्पितमित्यर्थः। नहीश्वरस्य भ्रान्तिः । रत्रि `अद्वैतः सर्वभावानाम्' इति (199)व्यपदेशः कथमित्यत आह `अद्वैतं परमार्थतः'इति। परमार्थापेक्षया हि (200)अद्वैतत्वम्। सर्वस्मादुत्तमः अर्थः स एक एवेत्यर्थः। अन्यथा अद्वैतः सर्वभावानामिति व्यर्थं स्यात्। सर्वभावानां मध्ये तस्य (201)एकस्याद्वैतत्वामित्युक्ते समाधिकराहित्यमेवोक्तं स्यात्। अनयेषां सर्वबावानां च समाधिकभावः। `विकल्पो विनिवर्तेत कल्पितो यदि केनचित्' इति वाक्योशेषाच्च न कल्पितत्वमस्येति (202)ज्ञायते। निवर्तते (203)इत्यर्थाङ्गीकारे निवर्तेत विद्येतेति च प्रसङ्गरूपेण कथनं यदिशब्दौ च न युज्यन्ते। विद्येतेत्यस्य च उत्पत्त्यर्थानङ्गीकारे यद्यदस्ति तत्तन्निवर्तते इति व्याप्त्यभावात् निवर्तेत इति न युज्यते। अतः प्रपञ्चस्यअनादिनित्यत्वपरमिदं वाक्यम्।

अत `उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते' इत्याह। अज्ञात एव द्वैतं न विद्यते.ष अज्ञानिनां पक्ष एव द्वैतं न विद्यत इत्यर्थः(204) ॥

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥
मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ।
सोऽयं सत्यो ह्यनादिश्च (205)सादिश्चेन्नाशमाप्नुयात्।
न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ॥
कल्पितश्चेमन्निवर्तेत न चासौ विनिवर्तते।
द्वैतं न विद्यत इति तस्मादज्ञानिनाम मतम्॥
मतं हि ज्ञानिनामेतन्मितं त्रातं च विष्णुना ।
तस्मात् सत्यमिति प्रोक्तं परमो हरिरेव तु ॥ (206)इति परमश्रुतिः ।

(207)मैत्रेयीशाखायां च(208) ।

`अथ ज्ञानोपसर्गाः' `इत्युक्त्वा अथ' ये चान्ये मिथ्यातर्कैर्दृष्टान्तैः कुहकेनद्रजालैर्वैदिकैषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् प्राकाश्या ह्येते तस्करा अस्वर्ग्या इति ह्याह ।

नैरात्म्यवादकुरहैर्मिथ्यदृष्टान्तहेतुभिः ।
भ्राम्यन् लोको न जानाति व्दविद्यान्तरं तु यत् ॥ इति

आत्मसम्बन्धि किमपि नास्तीतिवादो नैरात्म्यवादः ।

(209)भ्रान्तिकल्पितत्वे न जगतः सत्यं जगद्दूयमपेक्षितम्। नहि सत्यशुक्तेः सत्यरजतस्य तयोः सादृश्ययस्य चाभावे भ्रान्तिर्भवति।

स्वप्नेऽपि वासनारूपं सत्यमेव जगन्मनसि स्थितं बहिष्ठत्वेन दृश्यते। देहात्मनोरपि एकदेशस्थत्वादि सादृश्यमस्त्येव।

शङ्खः पीतो नभो नीलमित्यादिष्विपि (210)पीतादयोऽन्यत्र विद्यन्त एव। (211)सादृश्यं च द्रव्यत्वादिकं किञ्चित् (212)शङ्खादीनां चास्त्येव। अतो न कुत्रापि सदृशसत्यवस्तुद्वयं विना भ्रमः ।

(213)न चात्मन्यनात्मभ्रमः (214)क्वापि दृष्टः। न हि कश्चिद् अहमहं न भवामीति भ्रान्तो दृष्यते। आत्मन्यनात्मब्रम एवायं प्रपञ्च (215)इति तैरुच्यते। तं विनैव अनात्मन्यात्मभ्रमकल्पनेऽनात्मनः सत्यत्वं स्यात्। तदा चाद्वितीयत्वकल्पनेऽनामैवास्ति नात्मेति भवति।

आत्माज्ञानात्मकत्वे (216)च जगत आत्मनो भिन्नत्वेन न दृश्येत। न हि शुक्तेर्भेदेन रजतं दृश्यते भ्रान्तौ। न चैकमेव युगपद्(217)बहुधा दृश्यते भ्रान्तौ। न चात्मनि भेदभ्रमः क्वापि दृष्टः ।

न च कुत्रापि मिथ्योपाधिकृतो भेदो दृष्टः न च ज्ञानाज्ञानयोरपि मिथ्याकस्पितत्वं दृष्टम्। तद्विषयस्यैवान्यथात्वं भ्रान्तौ। एवमाद्यनन्तयुक्तिविरुद्धोऽयं पक्षः। (218)ग्रन्थबहुत्वं स्यादित्येवोपरम्यते।

न च सत्यत्वाङ्गीकारे कश्चिद् दोषः ।

बहुजीववादिपक्षेपि भेदस्य मिथ्यात्वाङ्गीकारे एते दोषा भवन्त्येव। मिथ्योपाधिकृतं हि तेषामपि बहुत्वम्। न च मिथ्योपाधिकृतो भेदः क्वापि दृष्टः। आत्मनि (219)अनात्मकल्पनारूपत्वान्मिथ्योपाधिरेव न युज्यते।

मायामयीसृष्टिरपि (220)तत्सदृशस्यान्यस्य विद्यमानत्व एव दृष्टा । द्वव्यत्वादिसादृष्ययुक्तं(221) किञ्चिदधिष्ठानमाश्रित्यैव च ।

अधिष्ठानं च सदृशं सत्यवस्तुद्वयं विना ।
न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपिष ॥
मानस्यां वासनायां तु बहिर्वस्तुत्वकल्पनम् ।
(222)स्वाप्नो भ्रमश्च मायायां कर्तृदेहादिवस्तुषु ॥
चतुरङ्गबलत्वादिकल्पनं भ्रम इष्यते।
न भ्रान्तिकल्पितं विश्वमतो विष्णुबलाश्रितम्॥ इति ब्रह्मवैवर्ते।
न च मायावनना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥ इति च(223)।
(224)अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद् भवेत्।
सर्वापरोक्षविद्विष्णुर्विश्वदृक् तन्न तन्मृषा ॥ इति च(223) ।

यदि चैकमेव ब्रह्मोपाधिभेदात् संसरति मुच्यते च तदा संसारिणां सर्वदा विद्यमानत्वात् सर्वदा संसार्येव ब्रह्म। अतस्तद्भावोऽपि न मुक्तिः सर्वदोपाधिसम्बद्धत्वात् तस्य। न च शुद्धस्य नोपाधिसम्बन्ध इति वाच्यम्। उपाधिसम्बद्धस्योपाधिकम्बन्धकल्ुनेऽनवस्थाप्रसङ्गात्। न च तेनैव सम्बन्धेन सम्बद्धस्य। (225)आत्माश्रयत्वप्रसङ्गात्।

इतष्च मिथ्योपाधिर्न युज्यते। अज्ञानसिद्धौ मिथ्योपाधिसिद्धिः । अज्ञानं विना मिथ्यात्वासिद्धेः। न च मिथ्योपाधिं विनाऽज्ञानसिद्धिः। मिथ्योपाधिभिन्नस्यैव अज्ञत्वात्।

(226)शुद्धस्यैवाज्ञत्वे मुक्तस्याप्यज्ञत्वप्रसक्तेः। स्वाभाविकत्वात् सत्यत्वात् सद्वितीयत्वप्रसक्तेश्च। (227)स्वाभाविकस्य चानिवृत्त्यङ्गीकारादनिवृत्तिप्रसक्तेश्च। (228)सत्यस्यानिवृत्तिरिति तत्पक्षः । अतश्चान्योन्याश्रयता।

(229)अज्ञानसिद्दौ मिथ्योपाधिसिद्धिर्मिथ्योपाधिसिद्धौ जीवसिद्धिः जीवसिद्धौ तदाश्रयाज्ञानसिद्धिरिति चक्रकं वा। न च शुद्धमेव भ्रान्त्या, अज्ञमिति युक्तम्। अज्ञानसिद्धौ भ्रमसिद्धिः तत्सिद्धौ अज्ञानसिद्धिरित्यन्योन्याश्रयत्वात्।

अनागता अतीताश्च यावन्तः सहिताः क्षणाः ।
अतीतानागताश्चैव यावन्तः परमाणवः ।
ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक ।
-इति वत्सश्रुतेः न संसारिणां (230)परिसमाप्तिरस्मत्पक्षे(231) ।

परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः।
(232)सूक्ष्मत्वादीशशक्त्यैव स्थूला अपि हि संस्थिताः ॥(233)इति च ।

सहस्रयोजनसभां प्रभावाद्विश्वकर्मणः ।
अनन्ता राशयोऽनन्ताः प्रजानामधिसंस्थिताः ॥ इति स्कान्दे ।

न च मिथ्यावस्तुनो दुर्घटत्वमेव भूषणम्। दृष्टस्य वस्तुनो मिथ्यात्वकल्पनस्य दृष्टिसकाशाब्दलवत्प्रमाणयुक्त्यपेक्षत्वात्। तदभावे (234)सत्यत्वं दृष्ट्यैव सिद्ध्यति।

(235)न ह्यन्नादिकं भोग्यं दृष्ट्वा भोक्तुं सत्यत्वे प्रमाणान्तरमपेक्षते। किन्तु नेदमन्नमिति केनचिदुक्ते कथमिदमन्नत्वेन दृश्यमानमन्नं न भवतीतिन प्रमाणान्तरमपेक्षते। न च प्रत्यक्षदृष्टस्य ततो बलवत्प्रत्यक्षमागमं विनाऽनुमानादिनैव बाधो दृष्टः। दूरस्थवृक्षह्रस्वत्वादौ (236)(प्रत्यक्षापटुत्वस्यैव निश्चितत्वात् युक्त्या तत्र दीर्घत्वनिश्चयः। प्रत्यक्षस्य हि दूरे मन्दग्राहित्वं परिमाणादावन्यथात्वं च तोत बलवत्प्रत्यक्षेणैव निश्चितम्।

(237)न च जगत्प्रत्यक्षस्य मिथ्यात्वं केनापि प्रमाणेन निश्चितम्। विशेषतश्च (238)ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य न मिथ्यात्वं दृष्टम्।

अतश्चं संसारस्य सत्यत्वात् सत्यस्य (239)चानिवृत्त्यङ्गीकारान्न मोक्षः स्यात्।

अनुभवसिद्धस्य बलवदनुभवं विना युक्तित एव मिथ्यात्वाङ्गीकारे आत्मनोऽपि मिथ्यात्वं स्यात्। युक्तिश्च सर्वस्यान्यस्य मिथ्यात्वाङ्गीकारात्। द्विधाकल्पने कल्पनागौरवमिति।

(240)आत्माधिष्ठानस्य भ्रमस्यैवासिद्धेस्तस्याधिष्ठानत्वमपि न युज्यते। दुर्घटत्वस्य च भूषणत्वे दुर्घटमप्यात्ममिथ्यात्वं स्यादेव(241)।

(242)प्रतीतेरप्यविद्याकार्यत्वाङ्गीकारात्। तस्याश्च दुर्घटत्वस्य भूषणत्वात् सत्यस्य च युक्त्यपेक्षत्वात् घटादीनां द्रष्टृत्वमात्मनो जडत्वं द्रष्टुरभावेऽपि च प्रतीतिरधिष्ठानं विनैव भ्रमः, इत्यादि विरुद्धं सर्वमपि स्यात्।

उपाधिभेदाङ्गीकारे (243)हस्तपादाद्युपाधिभेदेऽपि तद्गतसुखःदुखादिभोक्तुर्यथा भेदो न प्रतीयते एवमेव शरीरादिभेदेऽपि भोक्तुर्भोदो न दृश्येत। सर्वदेहगतसुखदुःखादिकमेकेनैव भुज्येत।

यथा च एकाङ्गुल्याद्यपगमे।ञपि न मुक्तिः। एवमेकोपाध्यपगमेऽपि तस्यैवानन्तोपाधिसम्बद्धत्वान्न मुक्तिः स्यात्।

(244)उद्यतायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः ।
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ।
-इति भारतवचनान्न विश्लेषाद्विशेषः ।

(245)किञ्चोपाधिरात्मन (246)एकदेशं ग्रसति उत सर्वमात्मानम्। एकदेशाङ्गीकारे सावयवत्वम्। सावयवस्य चानित्यत्वं तैरङ्गीकृतम् । सर्वग्रासे च नोपाधिः भेदकः स्यात्। उपाधिकृतांशकल्पने तदुपाधिकृतत्वे आत्माश्रयत्वम्। उपाध्यन्तरकल्पनेऽनवस्था ।

न चेश्वरस्य सर्वगतत्वादौपाधिकभेदो(247) ब्रह्मणा भवति। न हि देशतः कलताश्चापरिच्छिन्नयोरौपादिकभेदो दृष्टः ।

सर्वोपाधिगत्वाच्चैकस्यैश्वरस्य भेदस्य (248)मिथ्यात्वाच्च हस्तपादादिभेदेऽपि भोक्तुरेकत्ववत् सर्वसुखदुःखादिबोक्तृत्वामीश्वरस्यैव स्यात्।

देश्तः (249)कालतश्चापरिच्छिन्नयो(250)रौपाधिकभेदाभावादेव दुःखिनोऽन्यच्छुशुद्धं ब्रह्म न सिद्ध्यति। अतः स्वाभाविकः संसार इति अनिवृत्तिरेव स्यात्।

किञ्च विशिष्टस्य शुद्धस्य वा संसारः। शुद्धस्य संसार इत्युक्ते स्वव्याहतिः। विषिष्टस्येत्युक्ते विशिष्टोऽन्यः स एव वा। स एव चेदुक्तो दोषः। अन्यश्चेन्नित्यो, नित्यो वा। अनित्यश्चेन्नाश एव तस्य न मोक्षः। नित्यत्वे च भेदस्य सत्यत्वं मोक्षेऽपि तस्य भावात्।

स्वरूपमात्रस्याभेदः उपाधिभिन्न एवेत्यङ्गीकारे स्वरूपमेव उपाधिसम्बद्धमिति न तस्य शुद्धत्वम्। (251)अशुद्धस्वभावस्य न कदाचिच्छुद्धत्वमिति च तत्पक्षः। उपाधिमिथ्यात्वाङ्गीकारे च (252)अन्योन्याश्रयत्वादयो दोषाः उक्ताः ।

न चानादिकर्मभेदाद्भेदः। (253)औपाधिकभेदसिद्धौ कर्मभेदसिद्धिः तत्सिद्धौ (254)च तत्सिद्धिरित्यन्योन्याश्रयत्वात्।

्तोऽनन्तदोषदुष्टत्वाद् ग्रन्थबहुत्वं स्यादित्येवोपसम्यते(255)। अतः सर्वप्रमाणविरुद्धत्वान्नाभेदे श्रुतितात्पर्यम्।

सर्वशब्दावाच्यस्य लक्षणाऽपि (256)न दृष्टेति न तस्य शास्त्रगम्यत्वम्। अतोऽनाच्यत्वादज्ञेयतद्वाच्छून्यमेव तदिति प्राप्तम्।

न च स्वेनापि ज्ञेयत्वं तैरुच्यते। (257)कर्तृकर्मविरोध (258)इति हि ते वदन्ति(259)। न च स्वरूपमन्यद्वा ज्ञेयं ज्ञातारं च विना ज्ञानं दृष्टम्। अतो ज्ञातृज्ञेयाभावात्, ज्ञानस्यापि शून्यतैव। अतः शून्यवादान्न कश्चिद् विशेषः। (260)न च (261)ज्ञातृज्ञेयरहितं ज्ञानं क्वापि दृष्टम् ।

अप्राप्तत्वाच्चेश्वरभेदस्य नाभेदे (262)श्रुतितात्पर्यं युज्यते ।

सर्वोत्तमं सर्वदोषव्यपेतं गुणैरशेषैः पूर्णमन्यं समस्तात्।
वैलक्षण्याज्ज्ञापयितुं प्रवृत्ताः सर्वे वेदा मुख्यतो नैव चान्यत् ।
इति महोपनिषदि।

अतः सर्वागमैरेव सर्वस्माद् (263)भिन्नत्वेन सर्वस्माद् विशिष्टत्वेन च विज्ञेयो भगवान् नारायण इति सिद्धम् ।

॥ इति श्रीमदानन्दतीर्थभगत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वविनिर्णये (264)प्रधमः परिच्छेदः समाप्तः ॥ 1 ॥

*...........*


F.N.

1. न वेदेष्वल्पप्रबुद्धीनां बरह्मतत्त्वं समीक्ष्यते ।
महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम् ॥
-भा.ता.5/11/2
यथा दारुषु सूक्ष्मः सन् मथितोऽग्निः समिध्यते ।
तथा वेदादिषु हरिर्मथितः सम्प्रदृश्यते ॥
व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदः ॥
-तन्त्रभागवते(भा.ता.11/12/20)
`निर्दुःखत्वं हरेः साम्यं न तादृशसुखात्मता ।
सर्वोत्तमः सदानन्दः कथं कस्य कदाऽऽप्यते' इति प्रवृत्ते ॥
-भा.तां.11/27/51,52

`ये जगत्प्रवदन्त्यज्ञा जीवादन्येषवर्जितम् ।
तेषामपि तुं तां वाचमीश एव ददात्यजः ।
न च तर्कैर्भवेदीशो जीवो वेदविरोधतः ।
व्यभिचारिणो यतस्तर्का इष्टसाधनगा अपि ।
क्वचित्क्वचिन्मृषातर्काः कणादादिप्रदर्शिताः ।
तत्वनिर्णयभीरूणां व्यवधानकरास्ततः ।
नैव तु स्थिरबुद्धीनां कुर्युस्ते बुद्धिचालनम् ।
पारम्पर्येण चाज्ञानामुक्त्या लोकेषु विस्तृतम् ।
पठ्यते चाप्यहरहर्न तु विद्वन्मुखोद्गतम् ।
अनन्तगुणकर्मत्वादीशस्योक्तौ सुवेगिता ।
वक्त्यभेदमिवाज्ञानां नाभेदं कुत्रचिच्छुतिः ।
एक आत्माऽद्वयेत्यादिपदानामर्थनिर्णये ।
न वर्तेत श्रुतिर्यस्माद्गुणान्तरकुतूहलात् ।
अथवा मोहनार्थाय सुरारीणामनर्हतः ।
कुत्रचिन्निर्णयवचः सुराणामर्थसिद्धये ।
नहिशितृत्वं गर्भस्थे नाप्यसौ निरयोपगे ।
मृषैव ईश्वराभेदः सर्वोत्कर्षश्च जीवगः ।
धनवत्त्वं च कर्तृत्व बलवत्वं च विष्णवि ।
अतो जीवेश्वराभेदं मिथ्येति कवयो विदुः' इति तनत्रभागवते ॥
-भा.ता.10/94/37-38

वेदाश्चैवेतिहासाश्च पुराणं भागवतं तथा ।
मूलप्रमाममुद्दिष्टं मीमांसा च तथोत्तरा ।
एतेषामविरोधे तु मानमन्यदुदूरितम् ।
एतेषां तु विरुद्धं यदप्रमाणं विदो विदुः' इति वायसस्मतौ ।
-बृहदार्यकोपनिषद्भाष्ये

`अनुमाया विरोधश्चेत्प्रत्यक्षेणागमेन वा ।
सैवाप्रमाणतां गच्छेदाहमद्विट् तथाऽक्षजम् ।
तस्मादागम एवैको मानानामुत्तमोत्तमः ।
धर्मार्थकाममोक्षाणां साक्षदेव प्रदायकः'
इति वायुप्रोक्तवचन्नानुमानविरोधो वक्तुं युज्यते। सर्वत्रानिवार्यत्वाच्च प्रत्यनुमानस्य ।

`निर्णयस्त्वागमेनैव नानुमाऽऽगमवर्जिता ।
क्वचिन्निर्णीतिहेतुः स्यादतः शास्त्राद्विनिर्णय' इति भारते।
-बृहद्भाष्ये
न च वेदात्मकेतिहासपुराणोक्तन्यायं परित्यज्य येन केनचित् क्लृप्तन्यायो युदज्यते -
-बृहदारण्यकोपनमिषद्भाष्ये
`पञ्चरात्रं भारतं च मूलरामायणं तथा ।
इतिहास इति प्रोक्तो ब्राह्माद्यं च पुराणकम्' इति प्रकाशिकायाम् ।
-बृहदारण्यकोपनिषद्भाष्ये

2. `आन्वीक्षिकी तन्त्रविद्या सा च वेदानुसारिणा ।
विष्णुप्रोक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्तृता ।
दण्डनीति राजधर्मस्त्रयी वेदाः प्रकीर्तिताः ।
वार्ता वाणिज्यकादिः स्यादेताभिर्यत्तु जीवनम् ।
तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा' इति च ।
भा.ता.3/13/44

`अक्षपादकणादानां साङ्ख्ययोगजटाभृताम् ।
मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः' इति निन्दनात्।
-गीताभाष्ये 2/72

`कृत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः ।
चकार शास्त्राणि विभुर्ऋषस्यस्तत्प्रचोदिताः ।'
दधीच्याद्यः पुराणानि तच्छास्त्रसमयेन तु ।
चक्रुर्वेदैश्च ब्रह्माणि वैष्णवान् विष्णुवेदतः ।
पञ्चरात्रं भारतं च मूलरामायणं तथा ।
तथा पुराणं भागवतं विष्णुवेद इतीरितः ।
अतः शैवपुराणानि योज्यान्यन्याविरोधतः' इति च नारदीये ।
-गी.भा. 2/72

`अक्षपादकणादौ च साङ्ख्ययोगार्हतास्तथा ।
शिवशक्तिमहायानलोकायतपुरःसराः ।
गाणपत्याश्च सौराश्च सर्वे प्रोक्ता दुरागमाः ।
ऋग्यजुः सामाथर्वाश्चेतिहासपुराणकौ ।
स्वागमा इति सम्प्रोक्ता मीमांसा धर्म एव च' इति पाद्मे ।
-बृहद्भाष

3. प्रमाणन्यायसच्छिक्षा क्रियते तक्रशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् ॥
-अनुव्याख्याने 1/1/75

4. शास्त्रयोनित्वात् (ब्रह्मसूत्रम् 1/1/3)
शास्त्रयोनित्वमेतेन कारणस्य बलाद्भावेत्।
`नावेदवित्' `न तर्केण मति'त्यिदिवाक्यतः ॥
तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥
किञ्चिज्ज्ञत्वं हि पुस्त्वेन शक्यं साधयितुं सुखम् ।
-अनुव्याख्याने 1/1/115-117

5. `नावेदविन्मनुतेदम् (पा.)'

6. सम्पराये (पा.)

7. आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ॥
-अनुव्याख्याने 2/1/81

वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः।
यतस्तर्का व्यभिचारिणः। मृषैव क्वचित्तर्कः
-भा.ता.10/94/37

`वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत्' ॥
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तिं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥
-अनुव्याख्याने 1/1/115-118

8. इति (पा.)

9. इति पिप्पलादश्रुतिः ।

10. अमिताक्षरं पञ्चरात्रं विद्येत्याहुर्मनीषिणः ।
मिताक्षरं श्लोकवाच्यमुभयं वेद ईर्यते' इति ब्रह्माण्डे ।
-इति बृहदारण्यकोपनिषद्भाष्यम्

भारतं पञ्चरात्रं च मूलरामायणं तथा ।
पुराणं भागवतं चैव पञ्चमो वेद उच्यते' इति च ।
-छान्दोग्योपनिषद्भाष्ये

11. लोकायतिकपक्षं निराकरोति -- अभ्युपगमेऽप्यर्थाभावात् ॥ -(ब्रह्मसूत्रम् 2/2/6) यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किं प्रयोजनम्। अतः स्ववयाहतेरेवोपेक्ष्यः ॥
-इति ब्रह्मसूत्रभाष्ये

दृश्यन्ते पुरुषा लोके परापरविदोऽपि च ।
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ॥
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ।
ज्ञानविज्ञानपारज्ञा निषिध्द्यन्ते कथं नृभिः ॥
दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ।
यदि तेऽपि निषिद्ध्यन्ते किं नोक्तिस्ते निषिध्द्यते ॥
-अनुव्याख्याने 3/3/126-128

12. धर्माधर्माभावज्ञाने। (पा.)

13. परस्परं हिसादिनां इति क्वचित् ।

14. सर्वनास्तिकवादी वा स्वमनीषामतोऽपि वा ।
तस्यापि पक्षं संश्रित्य दूषयेद्वाक्ययुक्तितः ।
यस्य नैवागमो मानं तं ब्रूयादागमाश्रयः ।
धर्मार्थोऽथ वृथैवायं तव पक्षस्य संग्रहः ।
धर्मार्थश्चेन्न धर्मो हि शक्यो द्रष्टुं विनाऽगमात् ।
यथाऽनुमीयते हिंसा पापहेतुस्तथैव हि ।
धर्महेतुत्वमप्यस्या अनुमातुं सुशक्यते ।
वृथा पक्षं वृथा हन्यद्यदि कश्चित्किमुत्तरम् । (ब्रह्मतर्के)
-बृहद्भाष्ये

15. तस्याविपर्लम्भकल्पनम् (पा.)

16. प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥
अनवस्थाऽन्यथा हि स्यादप्रामाण्यं तथाऽन्यतः ।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥
न मानमपि वेदानामङ्गीकार्यां हि नित्यता ।
न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ॥
अविप्रलम्भस्तज्ज्ञानम तत्कृतत्वादयोऽपि च ।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥
प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
न बुद्धो धर्मधर्शी स्यात् पुंस्त्वादित्यनुमाहतिः ॥
अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा ॥
-अनुव्याख्याने 1/2/66-72

17. न चागमस्याप्रामाण्यं वक्तुं युक्तं तत्प्रमाणाभावात्। स्वतः प्रामाण्याच्च। तदनङ्गीकारे चानवस्थानात्। आगमप्रामाण्यसाधकानुमानादेरप्यागमवदप्रामाण्यप्राप्तेश्च। विशेषप्रमाणाभावाता। स्वीकृतत्वाच्च तैरपि स्वागमप्रामाण्यस्य। न ह्यनुमानादिना सप्तमलधारणचैत्यवन्दनादेः स्वर्गसाधनत्वं ज्ञातुं शक्यम्। न च प्रत्यक्षमात्रामाण्यवादिनस्तत्सिद्धमागमाप्रामाण्यम्। अतस्तेषां प्रत्यक्षवदनुमानवच्चाङ्गीकर्तव्यमागमप्रामाण्यम्।
-बृहदारण्यकोपनिषद्भाष्ये

`येनोक्तमागमामात्वं कुतस्तदिति तं वदेत् ।
प्रत्यक्षादेर्यदि ब्रूयन्तन्मात्वं क्वेति तं वदेत्।
तत्स्वतश्चेदाहमस्य प्रामाण्यं न स्वतः कुतः ।
परतशेचत्प्रमाणस्य न कस्यापि स्थितिर्भवेत् ।
अङ्गीकृतं च प्रामाण्यं सर्वैरप्यागमस्य तु ।
यतः स्वपक्षप्रमाण्यं विरोधेऽप्यक्षजादिना ।
अङ्गीकुर्वन्ति तत्पक्षः प्रत्यक्षादिविरोधकः ।
-बृहदारण्यकोनिषद्भाष्ये

18. दुष्टबुद्धीनामेवाप्रामाण्याशङ्का (पा.)

19. स्वत एवेति सिद्धम् (पा.)

20. शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः।
आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते।
स एव व्यज्यमानस्तु भवेत्कर्णैकगोचरः' इति च ॥
-भा.ता.3/27/35

21. वदता बौद्धेन (पा.)

22. ...भ्रान्तित्वं न वाच्यम्। (पा.)

23. आदित्योदयेनैव (पा.)

24. आदित्यदर्शनात् (पा.)

25. "नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः ।
अविद्यमानं ध्यायन्तो यानति स र्वेऽधरं तमः ।
तस्मात् सत्यार्थतां ब्रूयाद् वेदानामपि सर्वशः ।
य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत्" ॥
इति वेदार्थविवेकेः -तैत्तिरियोपनिषद्भाष्ये

26. तत्प्रामाण्यं च सिद्धम् (पा.)

27. प्रामाण्यं च प्रत्यक्षादिवत् । न च बौद्धादिवाक्यवत्। अपौरुषेयत्वात्। नह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितुं शक्याः। विना च क्स्यचिद् वाक्यस्या पौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिद्धिः। यश्च तौ नाङ्गीकृरुते नासौ समयी। अप्रयोजकत्वात्। माऽस्तु धर्मोऽनिरूप्यत्वादिति चेत्, न । सर्वाभिमतस्य प्रमाणं विना निषेद्धुमशक्यत्वात् । न च सिद्धिरप्रमाणिकस्येति चेत्, न । सर्वाभिमतेरेव प्रमाणत्वात्। अन्यथा सर्ववाचिकव्यवहाकासिद्धेश्च न च मया श्रुतमिति तव ज्ञातुं शक्यम्। अन्यथा वा प्रत्युत्तरं स्यात्। भ्रान्तिर्वा तव स्यात्। सर्वदुःखकारणत्वं वा स्यात्। एको वाऽन्वयथा स्यात्। रचितत्वे च धर्मप्रमाण्स्य कर्तुरज्ञानादिदोषशङ्का स्यात्। न चादोषत्वं स्ववाक्येनैव सिद्ध्यति। न च येन केनचिदपौरुषेयमित्युक्तमुक्तवाक्यसमम्। अनादिकालपरिग्रहसिद्धत्वात्। अतः प्रामाण्यं श्रुतेः ।
-गी.भा.2/13

न परीक्षाऽनवस्था स्यात्साक्षिसिद्धे त्वसंशयात्।
मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ॥
सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।
इच्छा ज्ञानं सुखं दुःखं भयाबयकृपादयः ॥
साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचिन् ।
यत्क्वचिव्द्यभिचारि स्याद्दर्शनं मानसं हि तत् ॥
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रमाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।
ज्ञानस्य ग्राहकैमैव साक्षिणा मानतामितेः ॥
दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥
अतो न सर्वमानानां प्रमाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत्प्रमाण्यं स्वलक्ष्णम् ॥
-अनुव्याख्याने 3/4/153-160

28. इति च सिद्धम् (पा.)

29. न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥
-ब्रह्मसूत्रम्(2/1/4)
नैनं श्रुतेस्तदनिसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रमाण्यम्। विलक्षणत्वात् नित्यत्वात्तदनुसारित्वाच्च । न हि नित्ये दोषाः कल्प्याः। स्वतश्च प्रामाण्यम्। अन्यथाऽनवस्थितेः ।

`न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वादा ह्येवैनं वेदयन्ति' इति भाल्लवेयश्रुतेश्च।
नित्यत्वं च शब्दादेव प्रतीयते `वाचा विरूप नित्यया' इत्यादेः।

`अनादिनिधना नित्या' इति च स्मृतिः॥
दृश्यते तु॥ ब्रह्मसूत्रम् (2/1/5)
अधिकारिणां फलम्। भविष्यत्पुराणे च --
`ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा।
भारतं पञ्चसात्रं च वेदा इत्येव शब्दिताः॥
पुराणानि च यानीह वैष्णवानि विदो विदुः ।
स्वतःप्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते॥
यत्तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम्।
नाप्रमाण्यं भवेत्तेषां दृश्यते ह्यधिकारतः॥
इतः प्रामाम्यमन्येषां न स्वतस्तु कथञ्चन ।
अदृशोक्तौ ततस्तेषामप्रामाण्यं न संशयः' इति॥
-इति तद्भाष्ये 2/1/5

"विरूप नित्यया वाचा" "नित्ययाऽनित्यया सदा" ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते॥
-अनुव्यख्याने 2/1/14

30. तस्मै नूनमिभिद्यवे वाचा विरूप नित्यया। वृष्णे चोदस्व सुष्टतिम्।
-ऋ 9/75/6 (विरूपदृष्टमग्रिसूक्तम्)

31. न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसितः। `मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम्। मोक्षो न शक्यतेऽदैर्यात्ततः स्वर्गादिकं वदेत्। स्वर्गादिष्वल्पफलतां ज्ञापयित्वा विमोक्षदम्। एवं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते। इक्षुदण्डं ददानीति तथा भैषज्यरोचनम्। एवं मन्दषूत्तमेषु मोक्षमाहात्म्यमुच्यते। नह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः' इति विचारे। -भा.ता 11/21/25

32. काद्ययनश्रुतिः। (पा.)

33. इत्यादि च (पा.)

34. `सर्गे सर्गे तु यो नैव शब्दतोऽप्यन्यथा भवेत्।
श्रुत्याख्यः स तु विज्ञेय इतिहासादिरर्थतः ।
भगवद्दृष्टमेवान्यैर्ब्रह्माद्यैर्दृश्यते यदि।
ऋषिभेदस्तु तत्र स्याद्वेदो नाविष्णुनिर्गतः।
वेद इत्येव विष्णूक्तस्तपसा दृश्यते परैः' इति च ॥
-बृहद्भाष्ये

35. तत्क्रम्ण च (पा.)

36. ऋचस्सामानीत्यादिवाक्यव्याख्यानपरं ब्रह्माण्डपुराणान्तर्गतमेव प्रदेशान्तसस्थं वाक्यान्तरमपि पठति। -टीका

37. नचाबुद्धिपूर्वमुत्पन्नानि। तत्प्रमाणाभावात्। निश्वसितशब्दस्त्वक्लेशाभिप्रायः। नाबुद्धिपूर्वाभिप्रायः। उत्पत्तिवनचान्यभिव्यक्त्यर्थान्यभिमानिदेवताविषयाणिच। `नित्याः' इत्युक्त्वा `उत्सृष्टाः' इति वचनात्। अभिव्यञ्जके कर्तृवचनं चास्ति। `कृत्स्नं शतपथं चक्रे' इति। कथमादित्यस्था वेदास्तेनैव क्रियन्ते । वचनामात्राच्च निर्णयात्मकशारीरकोक्तं बलवत्। शास्त्रं योनिर्यस्येति तु शास्त्रयोनित्वम्। `जन्माद्यस्य यतः' इत्युक्ते प्रमामं हि तत्रापेक्षितम्। न तु तस्य जातत्वं वेदकारणत्वं वा। नहि वेदकारणत्वं जगत्कारणत्वे हेतुः। नहि विचित्रजगत्सृष्टेर्वैदसृष्टिरशक्या सृज्यत्वे। न च सर्वज्ञत्वे। यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा? तस्माद् वेदप्रमाणकत्वमेवात्र विवक्षितम्। अतो नित्यान्तक्षराणि ।
-गीताभाष्ये 3/15

38. शब्द उपपद्यते(पा.)

39. `त्रयी श्रुतिर्नित्यवाक्य वेदोऽनुवचनं तथा' इति ह्यभिधानम्॥
-भा.ता.
`आनुपूर्वी श्रुतिश्चैव त्रयी चाम्नाय उच्यते' इत्याभिधानम्॥

`'

40. महावराहे (पा.)

41. नन्वेवं वेदपुराणयोर्नित्यत्वे पुराणानां पुनारचनं न वेदस्य इत्येत्कुत इति चेत्। प्रमाणप्रश्नश्चेदुक्तादेव पुराणवाक्यादेरिति ब्रूमः। प्रयोजनप्रश्नस्त्वयुक्तः। ईश्वरप्रवृत्तेः सर्वत्र स्वप्रयोजनहीनत्वात्। परप्रयोदनानि तु सूक्ष्माण्युत्प्रेक्षितुं वयं न प्रभवामः। भगवानाचार्योऽपि इदानीं प्रयोजनाभावान्नावादीदीति।
-टीका

42. न च सिद्धेऽर्थे तात्पर्याभावो वक्तु युक्तः। अस्त्यत्र तव पिता राजेत्यादिषु सिद्ध एव तात्पर्यदर्शनात् । न च तत्र कार्ये तात्पर्यं कल्पयितुं युक्तम्। सुखसाधनत्वविज्ञानेनैव प्रवृत्त्युपपत्तेः। वाक्यस्य स्वार्थमात्रे तात्पर्यपर्यवसानात्। अधिककल्पनायामश्रुतकल्पनाप्रसक्तिः। यजेतेत्यादिष्वपि यजनादेः सुखसाधनतामात्रं प्रतीयते। न शब्दस्य प्रेरकतावाक्यमात्रस्य प्रेरकत्वे सर्वैर्विहितमनिष्टसाधनमपि क्रियेत। व्युत्पत्तिरपि सिद्धे साङ्गुलिनिर्देशादिना युज्यते। न च कुत्रचित्सुखसाधनं विना कार्यान्वितं विद्यते। लिङाद्यर्थोऽपि सुखसाधनत्वमेव। न च कार्यान्वित एव तात्पर्यमित्यत्र किञ्चिन्मानम् ।

`सुखसाधनमेवैकं नृणां वेदः प्रदर्शयेत्।
न कुर्विति नरं क्वापि प्रेरयत्यत्र कञ्चन ।
सुखसाधनताज्ञानात्सुखप्राप्त्यर्थमिच्छया ।
प्रवर्तते ततो वेदः सिद्धस्यैव प्रदर्शकः ।
न तु कारकता क्वापि वेदः प्राप्नोति कस्यचित्'इति ब्राह्मे ।

अतस्तद्विरोधिकथनं मोहत एव। कार्यान्विते शक्तिरिति वदता सिद्धवाक्यानां प्रामाण्यमङ्गीकृतं च। अनयता वसन्ते वसन्ते ज्योतिषा यजेतेत्यादौ वसन्तादिलक्षणवाक्यानां स्थानान्तरस्थानां स्वर्थे प्रामाण्याभावाद्वसन्ताद्यसिद्धेर्यागाद्यसिद्धः। कार्यन्विते शक्तिरित्युक्ते कार्यपदस्य कार्यानवयाभावादशक्त्या विध्यादेरसिद्धिश्च। कार्यपदस्य स्वत एव शक्तिरनयेषां कार्यान्वितत्वेनेत्यङ्गीकारे कल्पनागौरवम्। स्वार्थे शक्तिरित्याङ्गीकारे न कश्चिद्विरोधः। कर्तव्यतामात्रे वाक्यप्रामाण्याङ्गीकारे कर्मप्रयोजने प्रमामाभावात्तत्रापि तात्पर्यमङ्गीकर्तवयमेवेति सिद्धमेव सिद्धं तात्पर्यम् ।
-बृहद्भाष्ये

43. कार्यान्विते व्युत्पत्तिः । (पा.)

44. कार्यता च काचित् स्यादिष्टसाधनतां विना ॥ कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः। न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि॥ कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते। साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥ कार्यं साधनमिष्टस्य भगवानिष्टदेवता। मुख्येष्टं वा सुमनसां `प्रेयस्तदि'ति च श्रुतिः ॥ `प्राणबुद्धिमनःखात्मदेहापत्यधनादयः। यत्संपर्कात् प्रिया आसंस्ततः को न्वपरः प्रियः' ॥ इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता यतः। तस्मिन्नेव समस्तस्येतीष्टे व्युत्पत्तिरिष्यते॥ अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च। उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ बालो व्यत्पत्तिमप्येति नानयेत्यादिवाक्यतः। आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति॥ एष्यदानयनायायं कुत एव प्रतीक्षते। व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ पुनर्दृष्ट्यैव शब्दश्रुत् पश्चादद्व्युत्पत्तिमेष्यति। वर्तमानमतीतञ्च भविष्यदिति च क्रमात्। आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः। दृष्ट्या ज्ञातपदार्थस्य स्या(प)दाकाङ्क्षा भविष्यति॥ व्युत्पत्तिः प्रथमा तस्माद्वर्तमानेऽगते ततः। इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते॥ अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम्। क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये॥ वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि। न च स्रुक्स्रुववह्न्यादावतात्पर्यं च स्वार्थे तात्पर्यवद्भवेत्॥ इतीशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत्। इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम्॥ आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम्। एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ वाक्यभेदो न युक्तस्स्याद्योगश्च स्यान्महाफले। इति ब्रूयादिति वचो गतमग्नौ समीपगम्॥ कल्पनागौरवं चेत् स्यात् पृथक्तात्पर्यकल्पने। कल्पनागौरवागेव पदार्था न स्युरेव हि ॥ प्रमाणावगतत्वं चेत्तात्पर्याणां तथैव हि । तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च॥ पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत्। अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ अङ्गीकृतत्वादपि तैः पदानां तु पृथक् पृथक्। क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम्॥ प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात्। अतात्पर्थं पदार्थेऽपि न कलस्प्यमविरोधतः॥ अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि। मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत्॥
-अनुव्याख्याने 1/1/42-65

न च सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः। सिद्धातिरिक्तकार्याभावात्। लिङाद्यर्थस्त्विष्टसाधनत्वमेव। न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चि-त्तन्मानाभावात्। शब्दस्तु न तद्वक्तीत्युक्तम्। लिङादेरिष्ट साधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवम्। न च तत्कल्पकं किञ्चित्। विप्रतुपत्तौ चानयन्मानं वक्तव्यं तद्भावे। न चानुमा। अप्रसिद्धविशेषणत्वात्। न चार्थापत्तिः। अनुपपत्त्यभावात्। कार्याभावादेव कार्यान्वयिनि व्युत्पत्तिरित्यादि दूरतो निरस्तम्। कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यन्विते व्युत्पत्तिरित्यादि दूरतो निरस्तम्। कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम्। अध्याहार इत्युक्ते लोप इत्युत्तरम्। अशेषसिद्धपदानामर्थ लोपाल्लिङाद्यर्थमात्रलोप एव वरीयान्। हससि हसामीत्यादि सिद्धार्थं एव बालानां व्युत्पत्तेः। प्रथमप्राप्तत्वाच्च न्न तत्त्यागे कारण्। तथैव व्यपत्पत्तिदर्शनाच्च। अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुमावत्त्वं विष्णोः ॥
-कर्मनिर्णये

न च क्रियायामेव प्रयोजनं न सिद्ध इति युक्तम्। ज्ञानमातेरऽपि महाप्रयोजनदर्शनात्पितृदीननादिवाक्ये।
-इति च कर्मनिर्णये

न चैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः। सिद्धार्थे प्रमाण्यस्य साधितत्वात्। अविरोधाच्च। न च बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम्। वचनेनैव प्रतीयमानत्वादर्थस्य कल्पनाभावात्। न च वाचनिकार्थस्तात्पर्यार्थ इति विशेषः । तन्मानाभावात्।
-इत्यादि च कर्मनिर्णये

वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने श्रुतहानिरश्रुतकल्पनेति सर्वदोषाधिकौ तस्य व्यर्थमाप्येते। एवं च वदतो विधिशब्दा निरर्थकाः सिद्धार्था वा सिद्धशब्दाः स्वार्थे प्रमाणभूता इत्युक्ते किमुत्तरम्।
-इति च तत्रैव

45. अनेनैतां वेदवाक्यानां योजनां सूचयति। यो हि सात्विकप्रकृतिः लोकप्रवादात् कार्यत्वादिलिङ्गानुसन्धानाद्वा स्वतनुभवनादेः कर्तारं सामान्यतो जानन् स्नेहमाहात्म्यज्ञानाभ्यां तद्विशेषज्ञानार्थमुत्कण्ठितमानसस्तत्संस्कारवशाच्चान्यदगमयन्वर्तते तं प्रत्याप्तो बन्धीयते बन्धुरिवायं वेदः तत्स्वरूपं स्वप्रधानमेव प्रतिपादयति विज्ञानमानन्दं ब्रह्मेत्यादि। ततो वाक्यार्थज्ञानादवाप्तपरमानन्दः तत्साक्षात्कारं कामयते तं प्रति तदुपासना विधीयते। सा च प्रक्षीणान्तः करणमलस्यैव सम्भवति। तदर्थं कर्मविधयः प्रवर्तन्त इत्येवं समस्तोऽपि वेदः परमेस्वरस्वरूपज्ञापन एव पर्यवसितः। अथवा शरीरेनद्रियान्तःकरणादिसन्निधानेन स्वात्मनो विवधदुःखं पश्यन् निष्कण्टकं च सुखमलभमानोऽयं संशेते किं ममेदं दुःखादिकं शरीरादिम्बन्धनिमित्तमेव उत स्वाभाविकमिति। तं प्रति वेदः प्रवर्तते तत्त्वमसीत्यादिः परमात्मेव निर्दुःस्वपरमानन्दस्वभाव एव त्वमसि किं तु ईश्वराधीनाविद्याद्युपस्थापितशरीरादिनिमित्तेनान्यथारूपेणोपेत इति। ततः पुनरसौ जिज्ञासते केनोपायेनाहमिदमस्वाभाविकं रूपं तत्स्वरूपं निरूप्यते। ततः कथमसौ प्रसीदतीत्यपेक्षायां तत्साक्षात्कारस्तदर्थं श्रवणादिकं तदङ्गतया कर्माणि च विधीयन्त इत्येवं समस्तस्यापि देवस्य परमेश्वरस्वरूप एव पर्यवसानमिति। एतच्चान्यार्थं तु जैमिनिरित्यादिना सूत्रकृतैवोक्तम्॥
-टीका

46. वाक्यप्रयोजनं दृष्टम् । (पा.)

47. इतःप परं `प्रत्यक्षानुमानसिद्धत्वे च'इत्यतः पूर्वं वाक्यद्वयं मूलकोशेष्वदर्शनात् प्रक्षिप्तमित्याहुः। तथाऽपि गङ्गाजलानुप्रविष्टक्षुग्रनदीजलस्येव तस्याप्युपादेयत्वाद्व्याख्यानं क्रियते।
-टीका

48. तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥
किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम्।
`वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत्' ॥
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥
वस्तुत्वात् तरगः शृङ्गी, पुष्पवत् स्वं, सुतैर्युता ।
चित्रिणी च, रसः षष्टो रसत्वात् सोत्तरो भवेत् ॥
-अनुव्याख्याने 1/1/116-119

49. तेनाभेदागमस्याप्रामाण्याभावे (पा.)

50. बहुमानविरुद्धं यन्न तन्मानं विदो विदुः ।
गुणसाम्येऽपि किमुत गुणाधिकविरोधि यत् ।
-इति बृहद्भाष्यम्

51. `आन्वीक्षिकी कृतर्काख्या तथैवान्वीक्षिकी परा'इति मास्त्ये ॥
-भा.ता.1/3/11

52. तथाऽनुभवात्मकम् (प्र.)

53. न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ।
न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥
तस्मादनुभवारूढं किमर्थमपलप्यते ।
दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥
-अनुव्याख्याने 3/4/161-162

54. तत्परीक्षितमानेन न दोषो विष्णवि क्वचित्।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥
तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥
लौकिकव्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ॥
-अनुव्याख्याने 3/4/163-165

55. उपजीव्यविरोधे च (प्र.)

56. त्र्यद्यावयावात्मिकाम् (पा.)

57. हेतुर्दृष्टान्तरूपिका (पा.)

58. इत्यादि ब्रह्मतर्के (पा.)

59. .....अनुवादित्वं (पा.)

60. सर्वनिरुद्धवचनानामेव (पा.)

61. युक्तेरपि विरुद्धते...(पा.)

62. भेदप्रमाणस्य (पा.)

63. अभ्यासादेरप्रामाण्यहेतुत्वं (प्र.)

64. येन निश्चित....(पा.)

65. ब्रह्मप्रमाणसंवादित्त्वं (पा.)

66. `विष्णोः सर्वोत्तमत्वस्य ज्ञानार्थ शास्त्रमिष्यते ।
अतस्तत्साधकं शास्त्रं दुःशास्त्रं तद्विरोधि यत्' इति ब्रह्माण्डे ।
`विष्मोः सर्वोत्तमत्वं च तद्भक्त्या मोक्ष एव च ।
शास्त्रार्थ इति निर्दिष्टः सर्वशास्तारर्थनिर्णयात्' इति पाद्मे ।
-बृहद्भाष्ये

67. गीता (15/16-20)

68. विष्णोमहत्तात्पर्यम् (पा.)

69. सर्वोत्तमत्वे (पा.)

70. महातात्पर्यमागमानाम् (पा.)

71. मोक्षो हि महापुरुषार्थः-

`तत्रापि मोक्ष एवार्थः'
`अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमेतयोः॥'
`पुण्यचितो लोकः क्षीयते' इत्यादिश्रुतिस्मृतिभ्यः ।
-गीताभाष्ये 2/24
72. यत्प्राप्य न विवर्तते तस्मान्मोक्ष उदाहृतः।
मोक्षं परं पदं लिङ्गममृतं विष्मुमन्दिरम्॥
अक्षरं परमं धाम वैकुष्ठं शाश्वतं पदम् ।
नित्यं च परमं व्योम सर्वोत्कृष्टं सनातनम् ।
पर्यायवाचकान्यस्य परधाम्नोऽच्युतस्य हि ॥-पाद्मे उ.खं.255/73-79

73. भाल्लविश्रुतिः । (पा.)

74. स च विष्णुप्रसादादेव सिद्ध्यति --
`वासुदेवमनाराध्य को मोक्षं समवाप्नुयात्'
`तेष्टे तु तत्र किमलभ्यमनन्त ईशे'
`तत्प्रसादादवाप्नोति परां सिद्धिं न संशयः'
`यषां स एव भगवान् दययेदनन्तः सर्वात्मना श्रितपदो यदि निर्व्यलीकम्। ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये'

`तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम्'
`धर्मार्थकामैरलमल्पकास्ते'
`ऋते यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म ।'
आत्मन् लभन्ते भगवंस्तवाङ्घ्रिच्छायांशविद्यामत आश्रयेम'
`ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह',
`तमेवं विद्धान्' इत्यादिश्रुतिस्मृतिभ्यः ।
-इति गीताभाष्ये 2/24

75. विष्णुप्रसादं (पा.)

76. पैङ्गिश्रुतिः (पा.)

77. तनुम् (पा.)

78. इति च भगवद्वचनम् (पा.)

79. उत्पत्तिस्थितिसंहारा ह्यावृतिर्नियमस्तथा। प्रकाशो वन्धमोक्षश्च वृत्तिर्यस्माद्भवन्त्यमी ॥ स विष्णुर्ब्रहसञ्ज्ञोऽसौ कवीनां सम्मतो विभुः ॥ -स्कन्दे II,7,19,8

80. इति च स्कान्दे (पा.)

81. महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति
अतः सन्तो विजानन्ति हरिं ते त्वनहंकृताः ॥
-स्कान्दे भा.ता.10/94/36
स्वगुणोत्कर्षविज्ञानात् यथा प्रीतिर्निजे हरे ।
न तादृशी प्रीतिरस्ति ह्यज्ञानादन्यथा मतौ ॥
-आदित्यपुरुणे वेङ्कटेशमाहात्मे

82. स चोत्कर्षज्ञानादेव भवति। लोकप्रसिद्धेः। लोकसिद्धमविरुद्धमन्यत्राप्यङ्गीकार्यम् ।
-गीताभाष्ये 2/2

83. गीता (15/19)

84. नच भेददर्शनमसुकरम्। स्वरूपत्वाद् भेदस्य। सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते। अन्यथाऽहं वा दृष्टोऽन्यो वा दृष्ट इत्यपि संशयः स्यात् । नच पश्चाद् भेदो ज्ञायत इत्यत्र किञ्चिन्मानम्। नहि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः। नच सर्वतो व्यवृत्त्यनुभवं भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम्। नहि ज्ञाताद् वस्तुनोऽव्यावृत्तिः केनचिच्छङ्क्यते। यदा तु संशीयते तदाऽपि कुतश्चिद् व्यावृत्तमेव ज्ञायते। नहि सर्वमिदं भवति वा न वेति कस्याचित् संशयः। अतो व्यावृत्तिरेव स्वरूपम्।

अस्य भेद इति विशेष्यत्वमस्य स्वरूपमितिवात्। यथाऽस्तीति वर्तमानः कालो वस्तुना सहैवानुभूयते, एवमन्यस्माद् व्यवृत्तमित्यत्रान्यदपि सामान्यतः सहेवानुभूयते। नह्यस्तीति वर्तमानकालापेक्षयाऽनुभूयत इत्येतावता विद्यमानता नाम वस्तुनोऽन्या। सहित्यपि शत्रन्तत्वात् कालसम्बन्ध्येवानुभूयते तिष्ठन्नितिवत्। एवमन्यस्माद् व्यावृत्तिमित्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत।

अस्माद् व्यावृत्तिरन्यस्य स्वरूपमन्यस्माद् व्यावृत्तिरस्य स्वरूपमिति नैकस्वरूपत्वेन। ज्ञानानन्दादिवत्। स्वरूपत्वेऽपि व्यवहारविशेषो भवति। नच स्वरूपत्वेन भेदस्याभावो भवति। ज्ञानानन्दादिवदेव। अन्यप्रतियोगिकत्वाद्भेदस्य न स्वस्मादपि भवति।

"भेदस्तु सर्ववल्तूनां स्वरूपं नैजमव्ययम्।
नष्टानामपि वस्तूनां भेदो नैव विनश्यति ॥
अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा ।
विशेषरूपनाशेन भेदमात्रावसायिता ॥
नाश इत्युच्यते सद्भिर्भेदो नहि विनश्यति।
इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः ॥
सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः ।
तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित् ॥
अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः ।
एवं बावादभावस्य न भेदो भावरूपवान्॥
अभावाद् भावरूपस्य स्वरूपं भाव इष्यते।
नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः ॥
स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्याचित् ।
सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते ॥
तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते ।
प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम् ॥
नह्यभावोऽप्यधर्मो स्यान्न तु स्याद् भावधर्मयुक्।
अभावस्यास्तिता नाम स्यादेवाभावरूपिणी ॥
अभावताऽपि सैव स्यान्न तु स्याद् भावरूपिणी ॥
अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः ॥
येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः"। इति तत्त्वनिर्णये ॥
-तैत्तिरियोपनिषद्भाष्ये

85. न हि तथा कश्चित्........(पा.)

86. प्रायशः (पा.)

87. युगपज्ज्ञानानुत्पत्तिरिति दोषः (पा.)

88. सहस्रदर्शने ते.....(पा.)

89. सर्वपदार्थवैलक्षण्याङ्गीकारात् (पा.)

90. न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम्। न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति। बलवदृष्ट्यबाधे। न चान्नत्वे दुर्घटे तस्यानन्नत्वं भवति। दृष्ट्यबाधितदृशष्टस्य। न चान्नानन्नवैलक्षण्यमनुभूयते। न च तथा व्यवहारः। न च तत्र किञअचिन्मानम् । -इति तत्वोद्योते

91. तर्काभासत्वात् (पा.)

92. रजतत्वादिप्रतीतेरपि (पा.)

93. सर्वभेदनिरासतर्कस्य (पा.)

94. नितरामाभासत्वम् (पा.)

95. न चार्थापत्त्याऽनिर्वचनियसिद्धिः ।..तत्वोद्योते

96. वदतः ख्याति....(पा.)

97. नितरामाभासत्वम् ( पा.)

98. इदं क्वचिनन पठ्यते (पा.)

99. अन्यथात्वमसत्तस्माद्भ्रान्तावेव प्रतीयते।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता॥
-इत्यनिव्याख्याने 1/1/28

100. प्रथमानिर्वचनीयत्वासिद्ध्या (पा)

101. सर्वानिर्वचनीयासिद्धिः (पा.)

102. सदसद्वैलक्षण्यं (पा.)

103. न च सदसद्विलक्षणं किञ्चदस्तीत्यत्र किञ्चन्मानम्। न चासतः ख्यात्ययोगात्सतो बाधायोगादुभ्यविलक्षणं भ्रान्तिविषयम्। असतः ख्यात्ययोगादिति वदतोऽसतः क्यातिरभून्न वा। यदि नाभून्न तत्ख्यातिनिकारकणम्। यद्यभूत्तथाऽपि । न चासतोऽसत्वेन भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम्। असद्व्यवहारलोपप्रसङ्ग्च्च। यदविद्यामानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च। अनिर्वचनीयत्वपक्षेऽपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम्। भ्रान्तिसत्त्वाङ्गीकारेऽप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्वप्रतीतौ हि प्रवर्तते। तस्मादपभयविलक्षणं न किञ्चित्।
-गीतातात्पर्ये 2/16

104. प्रतीत्यनङ्गीकाराच्च (पा.)

105. जीवपरमात्मभेदो (पा.)

106. `त्रिविधं जीवसङ्गं च परमात्मानमनव्ययम् ।
तेषां भेदं च ये सत्यं विदुर्मोहविवर्जिताः ।
ते यान्ति परमं स्थानं विष्णोरेवाचलं ध्रवम् ।
जीवेश्वरभिदां भ्रान्तिं केचिदाहुरपण्डिताः ।
अनारतं तमो यान्ति परमात्मविनिन्दनात्।
पराधीनश्च बद्धश्च स्वल्पज्ञानसुखेहितः ।
अल्पशक्तिः सदोषश्च स्वल्पज्ञानसुखेहितः ।
वदता तु तयोरैक्यं किं तेनादुष्कृतं कृतम् ।
अन्तर्याम्यैक्यवाचीनि वचनानीह यानि तु ।
तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोऽल्पचेतसः ।
अस्यास्मि त्वमहं स्वात्मेत्यभिधागोचरो यतः ।
सर्वान्तरत्वात्पुरुषस्त्वन्तर्यामी नियामयन् ।
अतो भ्रमन्ते वचनैरासुरा मोहतत्परैः ।
तन्मोहने परा प्रीतिर्देवानां परमस्य च ।
अतो महान्धकारेषु तपन्त्यज्ञानमोहिताः' इत्यादि ॥ -भा.ता.1/2/22

107. `दिशं दिशं पतित्वाऽन्यत्रायतनलब्ध्वा बन्धनमेवोपाश्र्यते'
-इत्यधिकं क्वचित् ।

108. आलोक्य सर्वशास्त्राणि पुराणानि च वैष्णवः ।
तदर्थमाचरेद्यस्तु स आचार्य उदाहृतः ॥
-वृद्धहारीतस्मृतिः

109. अज्ञा जीवास्तु कथ्यन्ते मुक्ता अप्यन्यवेदनात्।


110. सिङ्गो वा (पा.)

111. `स्वकीयमुदकं नद्यः समुद्रे नैव जानते ।
वायुस्तु तत् पृथग् ज्ञात्वा मेघे कृत्वा प्रवर्षति ॥' इति च ।
-आथर्वणोपनिषद्भाष्ये

112. भेदेनानुभवात् (पा.)

113. ब्रह्मसूत्रम् (2/3/21)

114. परः स्वो हरिरुद्दामा इति नामचतुष्टयम् ।

115. इति हि परमोपनिषदि (पा.)

116. एवमेव खलु सोम्येदं मनो (पा.)

117. प्राणमेवोपश्रयते (पा.)

118. क्वचित् `सर्वाः' इति न पठ्ते (पा.)

119. जीवो विनयिता साक्षी (वि.स.)

120. पर एवाभिहितः । (पा.)


121. मोदमान इत्यत्रापि (पा.)

122. नहि जहस्य शरीरस्य कौमाराद्यनुभवः सम्भवति। मृतस्यादर्शनात्। मृतस्य वाय्वाद्यपगमादनुभवाभावः, अहं मनुष्य इत्याद्यनुभवाच्चैतत् सिद्धमिति चेत्, न । सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात्। समश्चाभिमानो मनसि। काष्ठादिवच्च। श्रुतेश्च ।
-गीताभाष्ये 2/13

123. देहादिष्वसङ्गिनो जीवस्य तन्निमित्तसुखदुःखादयो न सन्ति किमुत देहस्याचेतनत्वात्।
-भा.ता.3/32/50

124. क्वचित् `युज्यते' इति न पठ्यते ।

125. इवाशब्दप्रयोगाच्च (प्र.)

126. निभालयसे (प्र.)

127. आत्मेत्यात्मशब्दस्तु (पा.)

128. ब्रह्मसूत्रम् (1/3/1)

129. ब्रह्मसूत्रम् (1/3/3)

130. ब्रह्मसूत्रम् (1/3/4)

131. एवेति हि (पा.)

132. आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते।
गुमपूर्त्यभिधायी स नान्यस्य गुमपूर्णता ॥
-ऐतरेयोपनषद्भाष्यम् ।

133. आत्माभासास्तदन्ये तु (पा.)

134. इति च परमोपनिषदि (पा.)

135. यतः स रूपतश्चान्यो (पा.)

136. नैसर्गिकं हि सर्वेषां दास्यमेव हरेः सदा ।
स्वाम्यं परस्वरूपं स्याद्दास्यं जीवस्य सर्वदा ॥
-वृद्धहारीतस्मृतिः (1/16)

137. `म देहो नेन्द्रियप्राणमनोबुध्द्यहमादयः।
विष्णुश्चिदानन्दतनुः स हि जीवाधिपः सदा'(सत्तत्वो)
-भा.ता.11/28/25

138. सम्बद्धः (पा.)

139. नैवैक एव पुरुषः पुरुषोत्तमोऽसावेकः कुतः स पुरुषो यत एव जात्या ।
अर्थाच्छ्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्॥
-म.भा.ता.नि. 1/28

140. यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा ।
भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् ।
-गीतातात्पर्ये 2/18

141. `भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते।
भ्रान्तिर्देहाद्यभिमतिरीशज्ञानाद्विनश्यति' (ब्रह्माण्डे)
-भा.ता.3/8/10-12

142. सर्वदेहानां (पा.)

143. सर्वोच्चो भगवान्विष्णुर्न स्तम्भोऽस्यापि हि क्वचित्।
अतो न विद्वन्मानी स्या महानस्मीति वा मनः ।
न ते स्यान्नैव च स्तम्भो ज्ञात्वा विष्णोः परं बलम् ।
न हि विष्णोर्बलं ज्ञात्वा स्तम्भहेतुः कथञ्चन' इत्यादि ।
-छान्दोग्योपनिषद्भाष्ये

144. आसीदित्यादिवत्....(पा.)

145. अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम्।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते।
वापीकूपतटाकाश्च देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते॥
-तत्त्वमञ्जर्यां तत्त्वनिर्णयटीकायां ।

146. `सदृशे वा प्रधाने वा कारणे वा तदित्ययम्।
शब्दः सङ्घटते भेदे विद्यमानऽपि तत्त्वतः' इति ब्रह्मतर्के।
-भा.ता.1/14/21
`सर्वं पुरुष एवेति भण्यते भेदवज्जगत्।
तदधीनं तु सत्तादि यतो ह्यस्य सदा भवेत्'इति ब्रह्मतर्के ।
-भा.ता.2/6/15
`एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते ।
अभेदेन परामर्शः सादृश्येनापि वस्तुनोः'इति प्रयोगे ॥
-भा.ता.11/23/49


147. न हि सत्यज्ञानेन मिथ्याज्ञानं भवति। -इति तत्त्वोद्द्योते

148. पुत्रा ज्ञाता इति (पा.)

149. व्यपदिशन्ति। (पा.)

150. `मयः प्रधान उद्दिष्टो माया तद्वश उच्यते' इति षाड्गुण्ये ।
-भा.ता.3/32/40
`मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा ।
ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः ।
एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते' इति वाराहे ॥
-भा.ता.4/22/41

151. मृन्मयम् (पा.)

152. .....मृन्मयानि (पा.)

153. सर्वकार्ष्णायसम् (पा.)

154. मृत्तिकेत्यव इत्येतद्वचनम् । (पा.)मृत्तिकेत्येवैतद्वचनम् इति क्वचित् ।

155. सत्यमित्यर्थः ।(पा.)

156. वाचाऽऽसम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ॥
एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च ।
विकारित्वविवक्षायां न चैकनखकृन्तनम् ॥
सर्वं कार्ष्णायसं च स्यादतः सादृश्य एव च ।
विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ॥
प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैष विस्तरः ।
तस्मात्केनापि मार्गेम न विवर्तमतं भवेत् ॥
-अनुव्याखाने 1/4/123-126

एकपिण्डानामधेयेतिशब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे। न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः। नवकृत्वोऽपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते। ऐतदात्म्यमित्येतदात्मसम्बन्धि। तत्स्वामिकम्। त्वमपि तदैतदात्म्यमैवासि न सोऽसीति वा। तदिति लिङ्गसाम्यं चात्र। अविद्यम्नमेवेश्वरं सष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवनाक्यत्वं न स्यात्? अनुवादोऽपि `यदितं वदन्ति तन्न युज्यते' इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः। अतिप्रसङ्गश्चान्यथा। अभेदानुवादेन भेदोपदेशः किमिति न स्यात्? सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् ।
-गी.ता.2/18

157. `अज्ञानहेतवः कामाः काममूलाः प्रवृत्तयः ।
प्रवृत्तिनिर्मितं सर्वं जगदेतच्चाराचरम्' इति हि तन्मतम्
-इति तत्वमञ्जर्याम् ।

158. अनित्यत्वविकारित्वपारतन्त्र्यादिरबपता (पा.)

159. `मिख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मता ।
अथामुख्यतमा चैव माया हीना प्रकीर्तिता' ॥
-भा.ता.2/5/12,13
द्वेधा वावात्ममाया तद्रूपा तद्वशां चेति । तद्वशयां संसारयति ।
`स्वरूपया विमोचयत्युदास्ते तद्वशां विमुक्तस्य इतरयैनं रमयति य एष
आत्मैष आनन्दः' इति सौकारायणश्रुतिः ॥
-भा.ता.2/8/23
`मुख्यतो विष्णुशक्तिर्हि मायाशब्देन भण्यते ।
उपचारतस्तु प्रकृतिर्जीवश्चैव हि भण्यते' इति च ॥
-भा.ता.2/9/34
`मुख्यतो विष्णुमागात्म्यं मायाशब्दोदितं भवेत् ।
प्रधानत्वाच्च मातृत्वान्मेयत्वं चैव तस्य हि' इति च ॥
-भा.ता.2/9/42
`माया तु महिमा प्रोक्ता प्राचुर्ये तु मयड्यतः' इति पाद्मे ।
-भा.ता.3/7/39,40
मोहकारणणबूतां तु मायेत्याहुर्मनीषिणः ।
अविद्यमानं मेत्युक्तं तज्ज्ञापयति यस्त्वयम् ।
कुत्रचिज्ज्ञानरूपं सल्लाभरूपं च भण्यते ।
मयं प्राचुर्यमुद्दुष्टं माया स्यात्प्रचुरेत्यापि' इति तन्त्रनिरुक्ते ॥
-भा.ता.11/8/7
`स्वतन्त्रं परमार्थाख्यं स्वतन्त्रैवका हरेर्मतिः ।
सैव माया समुद्दिष्टा मुख्यतस्तत्स्वरूपिका ।
मतिमन्मतिभेदोऽपि न विष्णोः क्वचिदिष्यते ।
पारमार्थ्येन नास्त्येव तदन्यत्तद्वशं यतः ।
अनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम् ।
अतो मायामयं प्राहुः सर्वं तद्वशगं यतः' इति मायावैभवे ॥
-भा.ता.11/8/7

160. नियतिर्मोहनीति च (पा.)

161. भेदो यद्...(पा.)

162. सोऽहमस्मीत्यादि त्वन्तर्याम्यैक्यापेक्षया । (पा.)

163. अहेयत्वादहंनामा भगवान्हरिरव्ययः। ब्रह्मासौ गुणपूर्मत्वादस्म्यसावसनान्मितेः । असनादसिनामाऽसौ तेजस्त्वात्त्वमितीरितः । सर्वैः क्रियापदैश्चैवं सर्वैर्द्रव्यपदैरपि। सर्वैर्गुणपदैश्चैव वाच्य एको हरिः। स्वयम्। युष्मत्पदैः प्रातियोग्यात्तद्युतैश्च क्रियापदैः। अस्मत्पदैरान्तरत्वात्क्रियार्थैश्च तदन्वयैः । परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु ।
-गीतातात्पर्ये 2/18
`हंनाम हन्यमानत्वाज्जीवस्य समुदाहृतम्। जीवादन्यो यतो विष्णुरहनामा ततः स्मृतः। समीति जीवः समुद्दिष्टः स्मीत्यल्पं सुमितत्वतः। पूर्णत्वादस्मिनामाऽसौ पूर्णपूर्णत्वहेतुतः। ब्रह्मास्मीत्युच्यते विष्णुर्बृहत्पूर्मो यतः सदा। असौ सूर्यगतो विष्णुर्दूरस्थत्वात्प्रकीर्तितः। अहमनामा जीवगतो नित्याहेयत्वहेतुतः' इति ब्रह्माण्डे।
-छान्दोग्योपनिषद्भाष्ये

164. `हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया ।'
तिङ्पदानयपि सर्वाणि सुप्पदानि तथैव च ।
तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः' इति च ॥
-भा.ता. 6/16/51

165. इति च भगवद्वचनम् (पा.)

166. आत्मा हि स्वतन्त्रः (पा.)

167. `ज्ञातिभिर्वाऽज्ञातिभिर्वा' इति क्वचिन्न पठ्यते । (पा.)

168. मुक्ताश्चाधीयते नित्यं जडज्ञानबहिष्कृताः ।
स्वरूपभूतज्ञानेन पश्यन्तः सर्वमञ्जसा ॥ तात्विके ।
-भा.ता.11/1/37

169. यत्र त्वस्य सर्वमात्मैवाभूत्....तत् केन कं जिघ्रेत् ।
`विज्ञातारमरे केन विजानीयात्' - इति क्वचित् ।

170. इति मोक्षानन्तरं (पा.)

171. न चैकीभूतस्य पृथज्ञाने मानं पश्यमः । `आंस दुःखी नासम्' इति ज्ञानविरोधाचेचेश्वरस्य। अनेन रूपेणेति च । भेदाभावात्। न च प्रतिबिम्बस्य विम्बैक्यं लोके पश्यामः। उपाधिनाशे मानं वा। `मग्नस्य हि परेऽज्ञाने' इति दुःखात्मकत्वोक्तश्च। `यावदात्मभावित्वात्' इत्युपाधिनित्यताभिधानाच्च। अतोऽन्यवचनं प्रतीयमानमप्यौपचारिकम्। दृष्टाश्च ते भगवतो भिन्ना नारदेन। प्रतिशाखं च `स एकधा' इत्यादिषु भेदेन प्रतीयन्ते। विरोधे तु युक्तिमतामेव बलवत्त्वम्। अतो जले जलैकीभाववदेकीभावः ।
-गीताभाष्ये 2/50

172. इत्याद्याक्षेप एव (पा.)

173. दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति ।
सुखज्ञाने तु जीवस्य भक्तिः स्नेहस्तथैव च ॥
विपर्ययेणासुरणां जीवबुद्धिगुणा इति ॥
-भा.ता.11/22/52

174. यथा कौमारादिदैहहानेन जरादिप्राप्तावशोकः, एवं जीर्णादिदेहहानेन देहान्तरप्राप्तावपि॥ ....नह्यात्मनः स्वतः सुखदुःखादि सम्भवति। कुतः ? आगमापायित्वात्। यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः। अत आत्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम्। अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न भवति।
-गी.भा.2/13,13

175. इति मोक्षधर्मे (पा.)

176. यतोऽन्यत तद् विभक्तत्वेनैव (पा.)

177. इत्यादावपि (पा.)

178. इत्यादुश्रुतेः । (पा.)

179. द्वितीयार्थे तृतीयार्थे चतुथ्यर्थे च सप्तमी ।
पञ्चम्यर्थे च सम्प्रोक्ता विषयेति च तां विदुः ॥
(भा.ता.10/94/16)

180. स्वानन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ॥
सादृश्ये चैक्यवाक् सम्यक् सावकाशा थथेष्टतः। अनुव्याख्याने 1/1/38,39

181. `अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन ।
वदन्ति शाश्वतावेतावत एव महाजनाः' महाविष्णुपुराणे ।
-गी.ता.2/20

182. इति च परमश्रुतिः ॥ (पा.)

183. `ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता ।
अस्वतदन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता॥' स्कान्दे।
-ष्टप्रश्नभाषअये

184. मम योनिर्महद्ब्रह्म...। -इति गीता 14/3

185. प्राप्नुवन्ति (प्र.)

186. पूर्मषङ्गुणः । (पा.)

187. स्कान्दवचनत्वेनोद्धृतं भागवततात्पर्ये (6/15/36)


188. इत्यादेश्च (पा.)

189. जीवपरैक्यम् (पा.)

190. एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि विश्वस्यानिवृत्तत्वाद्भेदनिष्ठ एवैकजीव इत्यापतति। तस्य च तत्रैवाग्रहान्न कदाचिद्भेदानिवृत्तिरित्यनिवृत्तिरेव बवति। न चैकजीवाज्ञानपरिकल्पितास्समस्ता इत्यत्र किञ्चिन्मानम्।
-इति तत्वोद्द्योते

191. हि सर्वस्य (पा.)

192. न च स्वप्नवदेकजीवकल्पिकतत्वे मानं पश्यामः। विपर्यये मा चोक्ता द्वितीये। उक्तं चायास्यशाखायाम् - `स्वप्नो हवा अयं चञ्चलत्वान्न च स्वप्नो नहि विच्छेद एतदिति' इति ।
-गीताभाष्ये 13/24

193. तस्य तस्य तथा प्रतिपत्तव्यमित्यङ्गीकारे (पा.)

194. ग्रनथाधिगमस्यैवानर्थहेतुत्वं (पा.)

195. कस्यापि मुक्तिः । (पा.)

196. स्वशिष्याज्ञान.....(पा.)

197. स चैको जीवो (पा.)

198. मानं त्राणकर्त्री च (पा.)

199. तस्य व्यपदेशः (पा.)

200. अद्वैतम् (पा.)

201. एकस्यैवाद्वैतत्वमित्युक्ते (पा.)

202. विज्ञायते (पा.)

203. इत्यङ्गीकारे (पा.)

204. `भेदेनैव जगत्सर्वं भेदेनेशं गुणैः सह ।
भेदेन जीवानन्योन्यं मुक्ताः पश्यन्ति सर्वशः ।
निःशेषदुःखहीनाश्च केवलं सुखभोगिनः ।
जन्ममृत्युविहीनाश्च कालसम्बन्धवर्जिताः ।
रजस्तमःसत्वहीनाः प्रकृत्यादिविवर्जिताः'
-इत्यादि गारुहवचनान्न ज्ञाननिवर्त्यता वक्तुं युक्ता। - बृहद्भाष्ये

205. सादित्वे नाशमाप्नुयात् (पा.)

206. इति ह् परमश्रुतिः (पा.)

207. मैत्रशाखायां च (पा.)

208. मैत्रायणीय- आरण्यके सप्तमप्रपाठके

209. `न भ्रन्तिर्जगतो हृष्टिर्न भ्रान्तिर्हरिदर्शनम् ।
अन्योन्यात्मतया दृष्टिर्भ्रान्तिरित्यवधार्यताम्'ति च ।
-भा.ता.4/22/41

210. पीतत्वादयो (पा.)

211. तत्सादृश्यं च (पा.)

212. पीतादीनां (पा.)

213. `देहमात्रं स्वमात्मानं यः परं चाभिपश्यति।
अन्धे तमसि मग्नस्य नोत्तारस्तस्य कुत्रचित्' इति चा ॥ -भा.ता.11/23/50
देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित्।
मम देह इति ह्येव न देहो।ञहमिति प्रमा ॥
उपचारश्च कृ ष्णोऽहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्याद्यद्युपाधिकृतं तदा ॥
स्वतः शुक्लत्ववत् काष्णर्यं न ममेति प्रतीयते ।
कथं च भेदो देहादेरात्मनो न प्रतीयते॥
जातामात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ।
भयाभयस्वभोगादौ कारणानि विजानते ॥
अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत्।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात्॥
-अनुव्याख्याने 1038-43

214. कुत्रापि (पा.)

215. इति च तैरुच्यते (पा.)

216. `च' इति न पठ्यते ।

217. बहुजातित्वेन भ्रान्तौ दृश्यते (पा.)

218. प्रधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैष विस्तरः ।
तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ॥
तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः ।
असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ॥
उपरम्यते.........॥
-अनुव्याख्याने 1/4/123-128

219. अनात्मत्व ......। (पा.)

220. तत्सदृशस्य सत्यस्यान्यस्य (पा.)

221. द्रव्यत्वादिसाहश्ययुतं (पा.)

222. `मनोमात्रस्वरूपत्त्वात्स्वप्नो मायेति कथ्यते' इति च॥
-भा.ता.11/28/31

224. अपरोक्षविदो (पा.)

225. आत्माश्रयप्रसङ्गात् (पा.)

226. शुद्धस्याज्ञत्वे (पा.)

227. स्वाभाविकस्यानिवृत्ति........(पा.)

228. सत्यस्य चानिवृत्तिरितिः तत्पक्षः (पा.)

229. उपाधिभेदाद्धटत इति चेत्स स्वभावतः ॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् ।
अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः ।
-इत्युपाधिखण्डने 2-4

230. समाप्तिरस्मात्पक्षे (पा.)

231. एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः॥ पूर्तिश्च नैव नियमाद्बविता हि यस्मात्तस्मात्समाप्तिमपि यान्ति न जीवसङ्घाः। आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः ॥
-महाभारततात्पर्यनिर्णये 1/18,19/

232. अवकाशवन्तो दिव्यत्वात्पूर्यन्ते न कदाचन।
सर्वकामसुखैः पूर्णाः दिव्यस्त्रीपुरुषोज्ज्वलाः ॥ 21/61


233. इति (पा.)

234. सत्यत्वं तु (पा.)

235. न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम्। न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति। बलवद्दृष्ट्यबाधे। न चाननत्वे दुर्घटे तस्यानन्नत्वं भवति। दृष्ट्यबाधितदृष्टस्य। न चान्नानन्नवैलक्षण्यमनुभूयते । न च तथा व्यवहारः न च तत्र किञ्चिन्मानम् ।
-इति तत्त्वोद्द्योते

236. प्रत्यक्षपटुत्वस्य (पा.)

237. न च प्रत्यक्षसिद्धमनयेन केनापि बाध्यं दृष्टम्। चन्द्रप्रदेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वादपटु। न च जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम् ।
-तत्त्वोद्द्योते

238. न हि ज्ञानाज्ञानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद् दृष्टम्। न चास्य मिथ्यात्वे किञ्चिन्मानम्। शरीरमारभ्यैव हियरोक्षभ्रमो दृष्टः। तत्रापि बसवत्प्रमामविरोधादेव भ्रान्तित्वं कल्प्यम्। साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोऽवगतं तदपि प्रमाणमात्मैव। व्यवहारतोऽप्यस्तीत्यत्र प्रमाणाभावाद् भ्रान्तिरभ्रान्तिर्वा न किञ्चित् सिद्ध्यति। अनुभवो भ्रान्त इत्युक्ते भ्रान्तित्वे प्रमाणं, तत्प्रमाम्यं च कुतः सिद्ध्येत्? व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः? प्रतीतित इत्युक्ते सैव कुतः ? स्व इत्युक्ते स्वस्याभ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात्। स्वाभावोऽपि स्यात्। स्वयमस्तीति च भ्रमः स्यात्। निरालब्मनो भ्रामो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः। तत्प्रमाणमप्यप्रमाणमेव। प्रमाणत्वभ्रम इति न सिद्धमिति न किञ्चित् सिद्ध्यति। भ्रम इत्यस्यैव भ्रमत्वेऽन्यस्याभ्रमत्वमेव भवति।
-गीतातात्पर्ये 13/22

239. नित्यत्वाङ्गीकारात् (पा.)

240. आत्माधिष्ठानभ्रमस्यैव (पा.)

241. दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ।
अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥
-अति उपादिखण्डने 17

242. प्रतीतेरप्यविद्यात्वाङ्गीकारात् (पा.)

243. सुखदुःखादिभोगश्च स्वरूपैक्यं न भेदतः ।
दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥
नानादेहगभोगानुसन्धानं योगिनो यथा ।
न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा ।
सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ।
तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ।
प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसाः ॥
-इति उपाधिखण्डने 7-11

244. कबन्धस्तत्र चोत्पेतुः पतितस्वशिसोऽक्षिभिः ।
उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥
-भागवते 8/10/40

245. किं वोपाधिरात्मनः (पा.)

246. न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।
एकदेशेऽनवस्था स्यात्सर्वगश्चेन भेदकः ॥ - इति उपाधिखण्डेन 6

247. ...दौपाधिको भेदो....(पा.)

248. मिथ्यात्वात् (पा.)

249. कालतोऽपरिच्छिन्न.....(पा.)

250. ...रौपचारिक.....(पा.)

251. अशुद्धस्वभवस्य च (पा.)

252. अन्योन्याश्रयत्वादिदोषाः (पा.)

253. उपाधिभेदसिद्धौ (पा.)

254. च इति न पठ्यते । (पा.)

255. अस्पास्यायुरनस्पश्रोतव्यवद्भिरधिकारिभिरभ्यसनीयस्य ग्रन्थस्य बहुत्वं स्यात्तर्हि इति हेतोरेव ह्युपरम्यते । -इति तत्त्वमञ्जर्याम् ।

256. न दृष्टेति च (पा.)

257. स्वविषयत्वं हि कर्तृकर्मविरोधात्तैर्नाङ्गीक्रियते। मिथ्याभूतपरविषयत्वं चानिर्वचनीयनिरासादेव निरस्तम्। विषयवर्जितः प्रकाश एव न भवति घटवत्। तत्प्रमाणाभावात्।
-इति तत्वोद्द्योते
न ज्ञेयज्ञातृहीनं ज्ञानं नाम क्वचिद्भवेत्।
ज्ञेयानविहीनश्च ज्ञ इत्यत्र न च प्रमा ॥
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः ।
हीनं भोजनमेव स्यात्ताडनं कर्तृताड्यतः ॥ -अनुव्याख्याने 3/4/186,187

258. इति हि वदन्ति (पा.)

259. स्वविषयत्वं हि कर्तृकर्मविरोधात्तैर्नाङ्गीक्रियते। मिथ्याभूतपरविषयत्वं चानिर्वचनीयनिरासादेव निरस्तम्। विषयवर्जितः प्रकाश एव न भवति घटवत्। तत्प्रमाणाभावात्। -इति तत्त्वोद्द्योते

260. न हि....(पा.)

261. न हि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित्।
ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत्॥
न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥ - अनुव्याख्याने3/4190,191

262. श्रुतितात्पर्यं युज्यते। (पा.)


263. विभिन्नत्वेन (पा.)

264. प्रथमं विशेषणम् (पा.)



द्वितीयः परिच्छेदः
-----------

ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः ।
लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ॥

स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः ।
निस्सीमत्वेन ते सर्वे तद्वशाः। सर्वदैव च ॥


सर्गस्थितिक्षययतिप्रकाशावृतिबन्धनम्।
सर्वक्षराणामेकः स कुर्यात् सात्विकमोक्षणम् ॥

सर्गस्थितियतिद्योतिर्नित्यानन्दप्रदोऽक्षरे ।
चेष्टाप्रदश्च सर्वेषामेक एव परो हरिः ॥
(1)तस्य नान्योऽस्ति सर्गादिकर्ता निर्दोषकश्च सः ॥
इति परमश्रुतिः ।

ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः।
सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः ॥ इति स्कान्दे ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं ते सुमेधाम्
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ।

अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश
अहं सुवे पितरमस्य मूर्धन् मम् योनिरप्स्वन्तस्समुद्रे ॥

यमन्तः समुद्रे कवयो वयन्ति (2)तदक्षरे परमे प्रजाः
यतः पर्सूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्।
यदोषधीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि।
अतः परं नान्दणीयसं हि परात् परं यन्महतो महान्तम् ॥

यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात्।
`तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्'।
`अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो महित्वं यासिष्टं वर्तिरश्वनाविरावत्'।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ।
एको नारायण आसीन्न ब्रह्म नेशानो नाग्नीषोमौ नेमे द्यावापृथिवी ।

एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
स मुनिर्भूत्वा (3)समचिन्तयत् तत एते व्यजायन्त।
(4)विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा इति ।

वासिदवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ।
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः। इत्यादिश्रुतिभ्यस्च ।

(5)`यस्मात् परं नापरमस्ति किञ्चित्' इत्यत्रापि अपरमस्तीत्येवार्थः ।

अन्यथा `तेनेदंम पूर्ण ततो यदुत्तरतरं तदरूपमामयम्' इति वाक्यशेषविरोधात्। तेनेदमित्युक्तमेव तत इति परामृश्यते। अन्यथा यस्मात् परं (6)नेत्युक्तिविरोधात्।

(7)नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ।

(8)तस्यैव (9)सर्वनामानि व्यतिरिक्तस्य सर्वतः ।
यः स्वतन्त्रः सदैवैकः स विष्णुः परमो मतः ॥

इत्यादि श्रुतिभ्यः (10)अन्यनामान्यस्यैवेति नान्येषां सर्वेश्वरत्वादिकमुच्यते।

(11)सर्ववेदेष्वप्यस्यादोषवचनादादावभावावचनाच्च, तद्वचनाच्चान्येषां सर्वेषां वेदेषु (12)सर्वेषु(13) । तेषां सर्वनामत्वानुक्तेश्च ।

उत्पत्तिर्वासिदेवस्य प्रादुर्भावो न चापरः ।
देहोत्पत्तिस्तदन्येषां ब्रह्मादीनां तदीरणात् ।
देहोऽनादिर्हरेर्नित्यो ब्रह्मादीनामनित्यकाः ।
(14)मुख्योत्पत्तिस्तदन्येषां प्रादुर्भावो हेरर्जनिः ॥ इति परमशुतेश्च ।

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वाविनिर्णये (15)द्वितीयः परिच्छेदः समाप्तः ॥ 2 ॥

F.N.


1. ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः।
श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः।
चेतनाचेतनस्यास्य राशेः संस्थापरकत्वतः।
कूटस्थ आत्मा स ज्ञेया परमात्मा हरिः स्वयम् ॥
-गीतातात्पर्ये 15/16,17

`क्षराक्षरात्मनोर्यस्मादुत्तमः स सदाऽनयोः।
पुरुषोत्तमनाम्नाऽतः प्रसिद्धो लोकवेदयोः' इति नारायणश्रुतिः ॥
-गीतातात्पर्ये 15/18

2. यस्मिन् - तदक्षरे । इति श्रीटीकाकृत्पादाः ।

3. समाचिन्तयत् (पा.)

4. इदं वाक्यं कोशान्तरे न पठ्यते।

5. यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्(1.श्वेताश्वतरोपनिषत् (3/9)) ॥

-इत्यस्मिन्मन्त्रे परमात्मनोऽन्यस्य सर्वस्यासत्त्वमुच्यते। तत्कथं तस्य सर्वोत्तमत्वमुपपद्यते उत्तमत्वस्य प्रतियोगिसत्तासापेक्षत्वादित्यत आह यस्मादिति ॥ -टीका

6. नेत्याक्तविरोधात् (पा.)

7. ब्रह्मोशानादिसन्नाम्नां येऽर्थभूता गुणा मताः ।
पूर्तिशितृत्वद्रष्टुत्वप्रमुखस्ते हरेः सदा ॥
अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशवः। पाद्मे -भा.ता.10/94/33

8. यस्यैव (पा.)

9. सर्ववाचश्च घोषाश्च विष्णोर्नामेति कीर्तिताः।
तज्ज्ञानां तत्फलं च स्यादज्ञानां तत्फलं न तु । -बृहद्भाष्ये

10. अन्यनामान्यप्यस्यैवेति (पा.)

11. दोषावचनात् (पा.)

12. क्वचित् `सर्वेषु' इति न पठ्यते ।

13. इत्यादिश्रुतिसामर्थ्यात्पारतन्त्रयं जनिर्मृतिः ।
पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः ॥......
प्रतीयन्ते सदोषत्वान्नैशः पशुपतिस्ततः ।
अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विषअमुवाचकाः ॥
नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥
न नारायणनामानि तदन्येष्वरपे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥
समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥
स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥
-अनुव्याख्याने 2/2/273,285-292

14. मुख्योत्पत्तिस्ततस्तेषामाविर्भावो हरेर्जनिः (पा.)

15. द्वितीयं विशेषणम् (पा.)



तृतीयः परिच्छेदः
-----------

वर्जितः सर्वदोषैर्यो गुमसर्वस्वमूर्तिमान् ।
स्वतन्त्रो यद्वशाः सर्वे स विष्णुः परमो मतः ॥
इति (1)परमोपनिषदि ।

नित्यपूर्णाखिलगुणो (2)विदोषः सर्वदैव यः ।
स्वतन्त्रः (3)परमो विष्णुर्जन्ममृत्यादिवर्जितः ॥

(4)नारद उवाच-

निर्दोषश्चेत् कथं विष्णुर्मानुषेषूदपद्यत।
चिनताश्रमव्रणाज्ञानदुःखयुग् दृश्यते कथम् ॥
एष मे संशयो बरह्मन् हृदि शल्य इवार्पितः ।
अनुद्धार्योऽपरैर्मर्त्यैः सूक्तिशक्त्या तमुद्धर ॥

ब्रह्मोवाच-

स्त्रीपुंमलाभियोगात्मदेहो(5) विष्णोर्न जायते(6)।
किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् ॥

प्रकाशयति सैवंयं जनिर्विष्णोर्न चापरा ।
तथाऽप्यसुरमोहाय (7)परेषां च क्वचित् क्वचित् ॥
दुःखाज्ञानभ्रमादीन् स दर्शयेच्छुद्धसद्गुणः ।
क्व व्राणादि क्व चाज्ञानं स्वतन्त्राचिन्त्यमग्दगुणे ।
दोर्लभ्यायैव मोक्षस्य दर्शयेत् तान्यजो हरिः ॥
मिथ्यादर्शनदोषेण तेन मुक्तिं (8)न यान्ति च ।
(9)तमो यान्ति च तेनैव तस्माद् दोषविवर्जितम् ।
प्रादुर्भावगतं चैव जानीयाद् विष्णुमञ्जसा ॥ इति ब्रह्माण्डे ।

गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यते ।
अतो मिथोऽपि भेदो न तेषां कश्चित् कदाचन ॥
स्वरूपेऽपि विशेषोऽस्ति स्वरूपत्ववदेव ति ।
भेदाभावेऽपि तेनैव व्यवहारश्च सर्वतः ॥ (10)इति महोपनिषदि ।

अभिन्नत्वमभेदश्च यथा भेदविवर्‌जितम् ।
व्यवहार्यं पृथत् च स्यादेवं सर्वे गुणा हरेः ॥
अभेदाभिन्नयोर्भेदो यदि वा भेदभिन्नयोः ।
अनवस्थितिरेव स्यान्न विशेषणतामति ॥
मूलसम्बन्धमज्ञात्वा तस्मादेकमनन्तधा ।
व्यवहार्यं विशेषेम (11)दुस्तर्कबलतो हरेः ॥
(12)विशेषोऽपि स्वरूपं स स्वनिर्वाहकताऽस्य च । इति ब्रह्मतर्के ।

(13)`एतमेवाद्वितीयं तत्' `नेह नानास्ति किञ्चन'
`मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति'
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यन् तानेवानु विधावति। इत्यादिश्रुतेश्च ॥

देशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यता ।
इत्यादिषु स्वमम्बन्धो यथैव गुणरूपिणः ॥
गुणित्वं गुणभोक्तृत्वं स्याद् विष्णोस्तच्च स स्वयम्' इति ब्रह्मतर्के ।

विष्णुं सर्वगुणैः पूर्म ज्ञात्वा संसारवर्जितः ।
निर्दुःखानन्दभुङ् नित्यं तत्समीपे स मोदते ।
मुक्तानां चाश्रयो विष्णुरधिकोऽधिपतिस्तथा ॥

तद्वशा एव ते सर्वे सर्वदैव स ईश्वरः । इति परमश्रुतिः ।

`अमृतस्यैष सेतुः' `सोऽश्नुते सर्वान् कामान सह(14)ब्रह्मणा विपश्चिता' इत्यादि च ।

(15)नृपाद्यः शतधृत्यन्ताः मुक्तिगा उत्तरोत्तरम् ।
गुणैः सर्वैः शतगुणा मोदन्त इति हि श्रुतिः ॥ इति पाद्मे ।

अतो (16)निश्शेषदोषवर्जितः पूर्णाऽनन्तगुणो नारायण इति सिद्धम् ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानयलं
बट् तद्दर्सतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु--
र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥

स्वतन्त्रायाखिलेशाय निर्दोषागुमरूपिणे ।
प्रेयसे मे सुपूर्णाय नमो नारायणाय ते ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विषअणुतत्त्वविनिर्णये तृतीयः परिच्छेदः समाप्तः ॥ 3 ॥

॥ इति (17)विष्णुतत्त्वविनिर्णयः(18) ॥

॥ श्रीकृष्णार्पणमस्तु ॥

F.N.

1. महोपनिषदि (पा.)

2. निर्दोषः (पा.)

3. स्वतन्त्रः स परो (पा.) यः सस्वतन्त्रः परो (पा.)

4. श्रीनारद उवाच (पा.)

5. .....योगात्मा देहो (पा.)

6. `उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः ।
उत्पत्तिरेव जीवानां देहोत्पत्तिरितीर्यते' इति तत्त्वनिर्णये ।
-भा.ता.4/8/26

7. दुष्टानां मोहनार्थाय सतामपि तु कुत्रचित् ।
यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः ॥ - इति म.भा.ता.निर्णये 2/84
परेषा सज्जनानां च मोहाय......परेषां विलम्बाय। - इति टीका
परेषां स्वयोग्यतातिरिक्तशुभवतां सतां च मोहाय । -तत्वमञ्जर्याम् ।

8. न याति च(पा.)

9. तमो याति च(पा.)

10. इति परमोपनिषदि (प्र.)

11. दुस्तर्क्यबलतो (पा.)

12. `एकं रूपं हरेर्निरुमचिन्त्यैश्वर्ययोगतः । बहुसङ्ख्यागोचरं च विशेषादेव केवलम्। अभावो यत्र भेदस्य प्रमाणावसितो भवेत्। विशेषोनामा तत्रैव विशेषव्यवहारवान्। विशेषोऽपि स्वरूपं स स्वनिर्वाहक एव च । द्वव्यात्मना स नित्योऽपि विशेषात्मैव जायते। नित्या एव विशेषाश्च केचिदेवं द्विधैव सः । वस्तुस्वरूपमस्त्येवेत्येवमादिष्वभेदिनः। विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु । न चाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम्। विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः। नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत्। स्वयमित्यपि हि स्वत्वविशेषेम विवर्जितम्। न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः। अभेदे न विरोदोऽस्ति ज्ञाताज्ञातं यतोऽखिलम्। तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा। अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत। एकत्वानुभवाच्चैव विशेषानुभवादपि। चज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः। भेदाभेदौ च तौ नैव कर्तृभोक्तृविशोषणे। मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित्। भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवत्। शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात्। अपृथग्दृष्टिनियमाद् बलज्ञानादिकस्य च । ऐक्यं बाह्यविशेषाणां पृथग्हृष्ट्यैव तन्न तु। विशेषहेत्वभावे।ञपि द्वैविध्यं कल्प्यते इदि। कल्पानागौरवाद्यस्तु दोषास्तत्रातिसङ्गताः। नैकत्वं नापि नानात्वं नियमादस्त्यचेतने। भेदाभेदावनुभावादतस्तत्रान्यथागतेः । एकोऽहमन्यतोऽनयश्चेत्येवमेव व्यवस्थितौ। भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता । एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः। पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत्। तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः। अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत्। न चात्मनि विशेषोऽत्र दृष्टान्तत्वं गमिष्यति। शुद्धोऽहम्प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः। अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः। न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम्। पूर्वापरादिभेदेन यतोंऽशोऽस्यावगम्यते। उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि । ज्ञापयेद् बेदमखिलं ग्रसन् स विभजेत् कथम्। तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित्। भावाभावव्यवहृतेर्विद्यमानऽपि वस्तुनि। भेदाभेदौ गुणादेश्च डहे वस्तुनि संस्थितौ। चेतने शक्तिरूपेण गुमादेर्भाव इष्यते। सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः। न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित्। एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति। इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा। सर्वं तु घटते विष्णौ यत् कल्याणगुणात्मकम्' इत्यादि ब्रह्मतर्के ॥
-गीतातात्पर्ये 11/9

13. तथैव सर्वप्रधान्यादद्वितीयो हरिः स्मृतः ।
एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः ।
अनन्तकालं पश्यन्तो जगदेतच्चाराचरम् ।
तस्यैतस्य ह्यविज्ञानात्केवलभ्रान्तिरूपकम् ।
जगदुक्त्वा तमो यान्ति ईशितव्येशशापतः' इति च ॥

-भा.ता.11/8/7

14. न च जीवेश्वरैक्यं मिक्तावपि । -- `इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायनते प्रलये न व्यथन्ति च'। `यो वेद निहितं गुहाया परमे व्योमन् । सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता'। `एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्सामगायन्नास्ते' । `सर्वे नन्दन्ति यशसा(ऽऽ)गतेन सभासाहेन सख्या सखायः। किल्बिषस्पृत्पितुषणिर्हेषामरं हितो भवति वाजि-नाय' । `ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः'। `परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' `स तत्र पर्येति जक्षन् क्रीडन् रममाणः'। `तदा विद्बान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति'।
-गीतातात्पर्ये 2/18

15. `मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि ।
तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ।
भूपा मनुष्यगन्धर्वा देवाः पितर एव च ।
आजानेयाः कर्मदेवास्तत्त्वदेवाः पुरन्दरः ।
शिवो विरिञ्च इत्येते क्रमाच्छतगुणोत्तराः ।
मुक्तावपि तदन्ये ये भूपाच्छतगुणोत्तराः ।
न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन ।
ततः सहस्रगिमिता श्रीस्ततः परमो हरिः ।
अनन्तगुमितत्वेन तत्समः परमोऽपि न'।
`अक्षण्वन्तः कर्णवन्तः सखायो मनोजनेष्वसमा बभूवुः ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि' ।
-इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः । -गीतातात्पर्ये 2/18

न मुक्तानामपि हरेः साम्यं विष्मोरभिन्नताम् ।
नैव प्रचिन्तयेत्तस्माद् ब्रह्मादेः साम्यमेव वा ॥
मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम् ।
ततो विष्णोः परोत्कर्षं सम्यग्ज्ञात्वा विमुच्यते ॥" इति कौर्म ॥
-तलवकारोपनिषद्भाष्ये 14

16. निःशेषदोषवर्जितपूर्णानन्तगुणो (पा.)
निश्शेषदोषवर्जितः पूर्णोऽनन्तगुणो (पा.)- इति क्वचित् ।

17. विष्णुतत्त्वनिर्णयः (पा.)

18. एकाकी किल यश्चक्रे पदं मौलिषु विद्विषाम् ।
तत्त्वनिर्णयपार्थोऽयं केन नाम न पूज्यते ॥
-इति सुमध्वविजये 15/80