विष्णुधर्मः/अध्यायाः ०११-०२०

श्री विष्णुधर्मः अध्यायः 11-20
एकादशतमोऽध्यायः
जयन्त्यष्टमी
पुलस्त्य उवाच –
रोहिण्याश्च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम |
जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः (०१०–००१)
यद्बाल्ये यच्च कौमारे यौवने वार्ध के च यत् |
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु || २ ||
तत्क्षालयति गोविन्दं तस्यामभ्यर्च्य भक्तितः |
होमजप्यादिदानानां फलं च शतसंमितम् || ३ ||
संप्राप्नोति न संदेहो यच्चान्यन्मनसेच्छति |
उपवासश्च तत्रोक्तो महापातकनाशनः || ४ ||
इति विष्णुधर्मे रोहिणीजयन्त्यष्टमीनाम एकादशतमोऽध्यायः
द्वादशोऽध्यायः
अतिविजयैकादशी
पुलस्त्य उवाच –
एकदश्यां शुक्लपक्षे यदार्क्षं वै पुनर्वसुः |
नाम्ना साऽतिजयाऽऽख्याता तिथीनामुत्तमा तिथिः || १ ||
यो ददाति तिलप्रस्थं तृष्कालं वत्सरं नरः |
उपवासं च तस्यां यः करोत्येतत्समं स्मृतम् || २ ||
तस्यां जगत्पतिर्देवः सर्वः सर्वेश्वरो हरिः |
प्रत्यक्षतां प्रयात्यल्पं तदानन्तफलं स्मृतम् || ३ ||
सगरेण ककुत्स्थेन दुंधुमारेण गाधिना |
तस्यामाराधितः कृष्णो दत्तवान्निखिलां भुवम् || ४ ||
इति विष्णुधर्मे अतिविजयैकादशी नाम द्वादशोऽध्यायः
त्रयोदशोऽध्यायः
उत्तरायणव्रतं
पुलस्त्य उवाच –
अयने चोत्तरे प्राप्ते यः स्नापयति केशवम् |
घृतप्रस्थेन पापं सः सकलं वै व्यपोहति || १ ||
कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः |
घृतस्नानं च देवस्य तस्मिन् काले समं हि तत् || २ ||
स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे |
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः || ३ ||
इति विष्णुधर्मे (उत्तरायणव्रतं) घृतप्रस्थम् नाम त्रयोदशोऽध्यायः
चतुर्दशोऽध्यायः
विष्णुव्रतविधिः
पुलस्त्य उवाच –
मैत्रेयी ब्राह्मणी पूर्वं याज्ञवल्क्यमपृच्छत |
प्रणिपत्य महाभागं योगेश्वरमकल्मषम् || १ ||
पापप्रशमनायालं यत् पुण्यस्योपबृंहकम् |
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम || २ ||
कानि दानानि शस्तानि स्नानानि च यतव्रत |
प्रशस्तास्तिथयः काश्च प्राशनानि च शंस मे || ३ ||
याज्ञवल्क्य उवाच –
सर्वदानानि शस्तानि यान्युद्दिश्य जनार्दनम् |
दीयन्ते विप्रमुख्येभ्यः श्रद्धापूतेन चेतसा || ४ ||
ता एव तिथयः शस्ता यास्वभ्यर्च्य जनार्दनम् |
क्रियन्ते श्रधया सम्यगुपवासव्रताः सदा || ५ ||
प्राप्यते विविधैर्यज्ञैर्यत्फलं साध्वसाधुभिः |
उपवासैस्तदाप्नोति समभ्यर्च्य जनार्दनम् || ६ ||
0मनोरथानां संप्राप्तिकारकं पापनाशनम् |
श्रूयतां मम धर्मज्ञे व्रतानामुत्तमं व्रतम् || ७ ||
यत्कृत्वा न जडो नान्धो बधिरो न च दुःखितः |
न चैवेष्टवियोगार्तिं कश्चित् प्राप्नोति मानवः || ८ ||
न चाप्रियोऽस्य लोकस्य न दरिद्रो न दुर्गतिः |
(न मानुषस्य लोकस्य न दरिद्रो न दुर्भगः |
न मानुषस्य लोकस्य कदाचिदपि जायते |)
सप्त जन्मानि भवति सर्वपापैः प्रमुच्यते || ९ ||
विष्णुव्रतमिदं ख्यातं भाषितं विष्णुना स्वयम् |
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयम् || १० ||
षण्मासपारणप्रायं गृह्णीयात् परमं व्रतम् || ११ ||
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः स्मृतम् |
यवैस्थ तृतीयेऽह्नि सर्वौषध्या ततः परम् || १२ ||
नाम्ना कृष्णाच्युताख्येन तथाऽनन्तेन पूजयेत् |
तथैव च चतुर्थेऽह्नि हृषीकेशेन केशवम् |
देवमभ्यर्च्य पुष्पैश्च पत्त्रैर्धूपानुलेपनैः || १३ ||
उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः |
पुष्पैः पत्त्रैः फलैश्चैव सर्वधान्यैश्च भक्तितः || १४ ||
दिनक्रमेण चैतानि चन्द्रनामानि कीर्तयेत् |
शशिचन्द्रशशाङ्केन्दुसंज्ञानि ब्रह्मवादिनि || १५ ||
नक्तं भुञ्जीत मतिमान् यावत् तिष्ठति चन्द्रमाः |
अस्तंगते न भुञ्जीत व्रतभङ्गभयाच्छुभे || १६ ||
एवं सर्वेषु मासेषु ज्येष्ठान्तेषु यशस्विनि |
कर्तव्यं वै व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् || १७ ||
विप्राय दक्षिणां दद्यात् पञ्चम्यां च स्वशक्तितः |
एवं समापयेन्मासैः षड्भिः प्रथमपारणाम् || १८ ||
पारणान्ते च देवस्य प्रीणनं भक्तितः शुभे |
यथाशक्त्या तु कर्तव्यं वित्तशाठ्यं विवर्जयेत् || १९ ||
आषाढादिद्वितीयं तु षण्मासेन तपोधने |
पारणं वै समाख्यातं व्रतस्यास्य शुभप्रदम् || २० ||
व्रतमेतद्दिलीपेन दुष्यन्तेन ययातिना |
तथाऽन्यैः पृथिवीपालैरुपवासविधानतः || २१ ||
चरितं मुनिमुख्यैश्च ऋचीकच्यवनादिभिः |
सुरम्भया सुकैकेय्या शाण्डिल्या धूम्रपिङ्गया |
सुदेष्णयाऽथ वारिण्या मतिमत्या कृताशया || २२ ||
सावित्र्या पौर्णमास्या च वैरिण्या च सुभद्रया |
ब्राह्मणक्षत्रियविशामिति स्त्रीभिरनुष्ठितम् || २३ ||
उर्वश्या रम्भया चैव सौरभेय्या तथा व्रतम् |
वराप्सरोभिर्धर्मज्ञे चरितं धर्मवांछया || २४ ||
प्रथमे पादपूजा स्याद्द्वितीये नाभिपूजनम् |
तृतीये वक्षसः पूजा चतुर्थे शिरसो हरेः || २५ ||
एतच्चीर्त्वा समस्तेभ्यः पापेभ्यः श्रद्धयाऽन्वितः |
मुच्यते सकलांश्चैव संप्राप्नोति मनोरथान् || २६ ||
व्रतानामुत्तमं ह्येतत् स्वयं देवेन भाषितम् |
पापप्रशमनं शस्तं मनोरथफलप्रदम् || २७ ||
यं च काममभिध्यायन् क्रियते नियतव्रतैः |
व्रतमेतन्महाभागे तं तु पूरयते नृणाम् || २८ ||
मनोरथान् पूरयति सर्वपापं व्यपोहति |
अव्याहतेन्द्रियत्वं च सप्त जन्मानि यच्छति || २९ ||
माघे स्नातस्य यत्पुण्यं प्रयागे पापनाशनम् |
सकलं तदवाप्नोति श्रुत्वा विष्णुव्रतं त्विदम् || ३० ||
इति विष्णुधर्मे दानप्रशंसा विष्णुपूजा नाम चतुर्दशोऽध्यायः
पञ्चदशोऽध्यायः
संप्राप्तिद्वादशी
याज्ञवल्क्य उवाच –
(साक्षाद्भगवता प्रोक्तं परमं पापनाशनम् |)
शुक्लपक्षे तु पौषस्य संप्राप्तिद्वादशीं शृणु |
यामुपोष्य समाप्नोति सर्वानेव मनोरथान् || १ ||
पाषण्डादिभिरालापमकुर्वन् विष्णुतत्परः |
पूजयेत् प्रणतो देवमेकाग्रमतिरच्युतम् || २ ||
पौषादिपारणं मासैः षड्भिर्ज्येष्ठान्तकं स्मृतम् |
प्रथमे पुण्डरीकाक्षं नाम देवस्य गीयते || ३ ||
द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने |
पुरुषोत्तमाख्यं च ततः पञ्चमे चाच्युतेति च || ४ ||
षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्त्यते |
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस्तिलाः || ५ ||
आषाढादिषु मासेषु पञ्चगव्यमुदाहृतम् |
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् || ६ ||
प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि |
विप्राय दक्षिणां दद्याच्छृद्दधानः स्वशक्तितः || ७ ||
पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् |
कुर्वीत शक्त्या गोविन्दे सद्भावाभ्यर्चनो यतः || ८ ||
नक्तं भुञ्जीत च ततस्तैलक्षारविवर्जितं |
एकादश्यामुषित्वैवं द्वादश्यामथवा दिने || ९ ||
एतामुषित्वा धर्मज्ञे प्रीणनं देवतत्परः |
सर्वकामानवाप्नोति सर्वपापैः प्रमुच्यते || १० ||
यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा |
ततो लोकेषु विख्याता संप्राप्तिद्वादशीति वै || ११ ||
कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः |
पूरयत्यखिलान् कामान् संश्रुता च दिने दिने || १२ ||
इति विष्णुधर्मे संप्राप्ति द्वादशीनाम पञ्चदशोऽध्यायः
षोडशोऽध्यायः
गोविन्दद्वादशी
याज्ञवल्क्य उवाच –
तस्मिन्नेव दिने पुण्ये गोविन्दद्वादशीं शृणु |
यस्यां सम्यगनुष्ठानात् प्राप्नोत्यभिमतं फलम् || १ ||
पौषमासे सिते पक्षे द्वादश्यां समुपोषितः |
संयक् संपूज्य गोविन्दं नाम्ना देवमधोक्षजम् |
पुष्पधूपोपहाराद्यैरुपवासैः समाहितः || २ ||
गोविन्देति जपन्नाम पुनस्तद्गतमानसः |
विप्राय दक्षिणां दद्याद्यथाशक्ति तपोधने || ३ ||
स्वपन् विबुद्धः स्खलितो गोविन्देति च कीर्तयेत् |
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् || ४ ||
गोमूत्रं गोमयं वाऽपि दधि क्षीरमथापि वा |
गोदेहतः समुत्पन्नं संप्राश्नीतात्मशुद्धये || ५ ||
द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्च्य तं प्रभुम् |
तेनैव नाम्ना संस्तूय दत्त्वा विप्राय दक्षिणाम् |
ततो भुञ्जीत गोदेहसंभूतेन समन्वितम् || ६ ||
एवमेवाखिलान् मासानुपोष्य प्रयतः शुचिः |
दद्याद्गवाह्निकं भक्त्या प्रतिमासं स्वशक्तितः || ७ ||
पारिते च पुनर्वर्षे यथाशक्ति गवाह्निकम् |
दत्त्वा परगवे भूयः शृणु यत्फलमश्नुते || ८ ||
सुवर्णशृङ्गाः पञ्च गाः षष्ठं च वृषभं नरः |
प्रतिमासं द्विजाग्रेभ्यो यद्दत्त्वा फलमश्नुते || ९ ||
तदाप्नोत्यखिलं सम्यग् व्रतमेतदुपोषितः |
तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति || १० ||
गोविन्दद्वादशीमेतामुपोष्य दिवि तारकाः |
विद्योतमाना दृश्यन्ते लोकैरद्यापि शोभने || ११ ||
इति विष्णुधर्मे गोविन्दद्वादशी नाम षोडशोऽध्यायः
सप्तदशोऽध्यायः
अखण्डद्वादशीव्रतं
मैत्रेय्युवाच –
उपवासव्रतानां तु वैकल्यं यन्महामुने |
दानकर्मकृते तस्य विपाको वद यादृशः || १ ||
याज्ञवल्क्य उवाच –
यज्ञानामुपवासानां व्रतानां च यतव्रते |
(चैवसुव्रते देवस्य विपाकं वद तादृशं |)
वैकल्यात् फलवैकल्यं यादृशं यच्छृणुष्व मे || २ ||
उपवासादिना राज्यं संप्राप्य ते तथा वसु |
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः || ३ ||
रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः |
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः || ४ ||
उपवासान्नरः पत्नीं नारीं प्राप्य तथा पतिम् |
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते || ५ ||
ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः |
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये || ६ ||
वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः |
विरूपरूपाश्च तदा प्रसाधनगुणान्विताः || ७ ||
ते सर्वे व्रतवैकल्यात् फलवैकल्यमागताः |
(गुणिनोऽपि हि दोषेण संयुक्ताः संभवन्ति ते || ८ ||)
तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा |
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् || ९ ||
मैत्रेय्युवाच –
कथंचिद्यदि वैकल्यमुपवासादिके भवेत् |
किं तत्र वद कर्तव्यमच्छिद्रं येन जायते || १० ||
याज्ञवल्क्य उवाच –
अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु |
वैकल्यप्रशमायालं शृणुष्व गदतो मम || ११ ||
मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः |
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् || १२ ||
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः |
यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः |
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः || १३ ||
सप्त जन्मानि यत्किंचिद् मया खण्डव्रतं कृतम् |
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु ते || १४ ||
यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम |
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै || १५ ||
एवमेवानुमासं वै चातुर्मास्यविधिः स्मृतः || १६ ||
चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम् |
प्रीणनं च हरेः कुर्यात् पारिते पारणे ततः || १७ ||
चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम् |
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः || १८ ||
श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम् |
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः || १९ ||
एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः |
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते || २० ||
सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित् कृतम् |
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् || २१ ||
तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते |
अखण्डद्वादशी सम्यगुपोष्या फलकांक्षिभिः || २२ ||
इति विष्णुधर्मे अखण्डद्वादशीव्रतं नाम सप्तदशोऽध्यायः
अष्टादशोऽध्यायः
पुष्यर्क्षैकादशी
पुलस्त्य उवाच –
एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः |
आचष्ट पुण्यफलदमुपवासविधिं परम् || १ ||
तथा त्वमपि विप्रर्षे केशवाराधने रतः |
व्रतोपवासपरमो भवेथा नान्यमानसः || २ ||
पुनश्चैतन्महाभाग श्रूयतां गदतो मम |
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् || ३ ||
विजयातिजया चैव जयन्ती पापनाशनी |
तथोत्तरायणं शस्तं सर्वदा केशवार्चने || ४ ||
यदन्यकाले वर्षेण केशवाल्लभ्यते फलम् |
सकृदेवार्चिते कृष्णे तदेवास्वपि लभ्यते || ५ ||
[देवस्त्विति (तत्र तल्लभ्यते फलम्)]
दाल्भ्य उवाच –
विजयातिजया चैव जयन्ती पापनाशिनी |
त्वत्तः श्रुता महाभाग कथ्यतां पापनाशिनी
तथोत्तरायणं चैव यच्छस्तं केशवार्चने || ६ ||
(तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम् |)
यत्र संपूजितः कृष्णः सर्वपापं व्यपोहति || ७ ||
पुलस्त्य उवाच –
एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम |
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशिनी || ८ ||
तस्यां संपूज्य गोविन्दं जगतामीश्वरेश्वरम् |
सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः || ९ ||
यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम |
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते || १० ||
दानं यद्दीयते किंचित् समुद्दिश्य जनार्दनम् |
होमो वा क्रियते तस्यामक्षयं लभते फलम् || ११ ||
एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा |
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् || १२ ||
सामवेदफलं साम यजुर्वेदफलं यजुः |
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः || १३ ||
तारका दिवि राजन्ते द्योतमाना द्विजोत्तम |
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् || १४ ||
यतः पापमशेषं वै नाशयत्यत्र केशवः |
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशिनी || १५ ||
इति विष्णुधर्मे पापनाशिनीव्रतं नाम अष्टादशोऽध्यायः
एकोनविंशोऽध्यायः
पदद्वयव्रतं
पुलस्त्य उवाच –
तथान्यदपि धर्मज्ञ श्रूयतां गदतो मम |
पदद्वयं जगद्धातुर्देवदेवस्य शार्ङ्गिणः || १ ||
संवत्सरः पादपीठं तत्र न्यस्तं पदद्वयम् |
वासुदेवेन विप्रेन्द्र ! भूतानां हितकाम्यया || २ ||
वाममस्य पदं ब्रह्म न् ! उत्तरायणसंज्ञितम् |
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् || ३ ||
तस्मिन् यः प्रयतः सम्यग्देवदेवस्य मानवः |
करोत्याराधनं तस्य तोषमायाति केशवः || ४ ||
दाल्भ्य उवाच –
कथमाराधनं तस्य देवदेवस्य शार्ङ्गिणः |
क्रियते मुनिशार्दूल तन्ममाख्यातुमर्हसि || ५ ||
पुलस्त्य उवाच –
उत्तरे त्वयने दाल्भ्य ! स्नातो नियतमानसः |
घृतक्षीरादिना देवं स्नापयेद्धरणीधरम् || ६ ||
चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः |
समभ्यर्च्य ततः सम्यग् ब्राह्मणानां च तर्पणैः |
पदद्वयव्रतं सम्यग्गृह्णीयाद्विष्णुतत्परः || ७ ||
स्नातो नारायणं वक्ष्ये भुञ्जन्नारायणं तथा |
भुङ्क्त्वा नारायणं चाहं गच्छन्नारायणं तथा || ८ ||
स्वपन् विबुद्धः प्रणमन् होमं कुर्वंस्तथार्चनम् |
नारायणस्यानुदिनं करिष्ये नामकीर्तनम् || ९ ||
यावदद्यदिनात्प्राप्तं क्रमशो दक्षिणायनम् |
स्खलितेऽहं क्षुते चैव वेदनार्तोऽथवा सदा |
तावन्नारायणं वक्ष्ये सर्वमेवोत्तरायणम् || १० ||
यावज्जीववधं किंचिद् ज्ञानतोऽज्ञानतोऽपि वा |
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् || ११ ||
यदा तदानृतं किंचिदथ वक्ष्यामि दुर्वचः |
अज्ञानादथवा ज्ञानात् कीर्तयिष्यामि तं प्रभुम् || १२ ||
षण्मासमेष मे जापो नारायणमयः परः |
तं स्मरन् मरणे याति यां गतिं सास्तु मे गतिः || १३ ||
षण्मासाभ्यन्तरे मृत्युर्यद्यकस्माद्भवेन्मम |
तन्मया वासुदेवाय स्वयमात्मा निवेदितः || १४ ||
(परमार्थमयं ब्रह्म वासुदेवमयं परम् |
यमन्ते संस्मरन् याति स मे विष्णुः परा गतिः || १५ ||)
यदा प्रातस्तदा सायं मध्याह्ने वा म्रिये ह्यहम् |
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया || १६ ||
तथा कुरु जगन्नाथ ! सर्वलोकपरायण ! |
नारायण! यथा नान्यं त्वत्तो यामि मृते गतिम् || १७ ||
एवमुच्चार्य षण्मासपारणं प्रवरं व्रतम् |
तावन्निष्पादयेद्यावत्संप्राप्तं दक्षिणायनम् || १८ ||
ततश्च प्रीणनं कुर्याद्यथाशक्त्या जगद्गुरुः |
भोजयेद्ब्राह्मणान् सम्यग्दद्यात्तेभ्यश्च दक्षिणाम् || १९ ||
एवं व्रतमिदं दाल्भ्य यः पारयति मानवः |
नारी वा सर्वपापेभ्यः षण्मासाद्विप्र मुच्यते || २० ||
षण्मासाभ्यन्तरे चास्य मरणं यदि जायते |
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् || २१ ||
(प्रोक्तं फलं यत्तत् असंशयम्)
पदद्वयं च कृष्णस्य सम्यक् तेन तथाऽर्चितम् |
(हरेर्नाम जपन् भक्त्या स पुरा न जनेश्वर |)
भगवानुज्जगौ विष्णुः पुरा गार्ग्याय पृच्छते || २२ ||
भजत्येतत् जगौ विष्णुः पुरा गर्गाय धीमते
इति विष्णुधर्मे षण्मासपर्यन्तं भगवत्स्मरणमेव नाम एकोनविंशोऽध्यायः
विंशोऽध्यायः
मनोरथद्वादशीकल्पः
पुलस्त्य उवाच –
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः |
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् || १ ||
हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर |
उत्तिष्ठन् प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् || २ ||
ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम् |
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् || ३ ||
हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः |
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् || ४ ||
पातालसंस्था वसुधा यं प्रसाद्य मनोरथान् |
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् || ५ ||
यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान् |
पुत्रांश्चैवेप्सितान् देवः प्रददातु मनोरथान् || ६ ||
भ्रष्टराज्यश्च देवेन्द्रो यमभ्यर्च्य जगत्पतिम् |
मनोरथानवापाग्र्यान् प्रददातु मनोरथान् || ७ ||
एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः |
भुञ्जीत प्रयतः सम्यग् हविष्यं मनुजर्षभ || ८ ||
फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव |
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् || ९ ||
रक्तपुष्पैस्तु चतुरो मासान् कुर्वीत चार्चनम् |
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् || १० ||
हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम् |
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया || ११ ||
जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप |
(धूपं चा शस्तं द्विजसरोजलम्)
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् || १२ ||
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् |
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् || १३ ||
सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च |
कासारं चात्र नैवेद्यमश्नीयात्तच् च वै स्वयम् || १४ ||
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा |
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते || १५ ||
यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत् |
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः || १६ ||
पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः |
प्रीणितश्चेप्सितान् कामान् ददात्यव्याहतान्नृप || १७ ||
एषा धन्या पापहरा द्वादशी फलमिच्छताम् |
यथाभिलषितान् कामान् ददाति मनुजेश्वर || १८ ||
पूरयेदखिलान् भक्त्या यतश्चैषा मनोरथान् |
मनोरथद्वादशीयं ततो लोकेषु विश्रुता || १९ ||
उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा |
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप || २० ||
धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम् |
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते ! || २१ ||
यं यं काममभिध्यायेद् व्रतमेतदुपोषितः |
तं तमाप्नोत्यसंदिग्धं विष्णोराराधनोद्यतः || २२ ||
अपुत्रो लभते पुत्रमधनो लभते धनम् |
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् || २३ ||
समागमं प्रवसितैरुपोष्यैतामवाप्नुते |
सर्वान् कामानवाप्नोति मृतः स्वर्गे च मोदते || २४ ||
नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः |
उपोष्यैतद् व्रतं मर्त्यः स्त्री जनो वापि जायते || २५ ||
(य एव व्रतसंचीर्णो विष्णुलोके महीयते |
स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप! |
भोगानभिमतान् भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् || २६ ||
इह पुण्यवतां नॄणां धनिनां साधुशालिनाम् |
गृहेषु जायते राजन् सर्वव्याधिविवर्जितः || २७ ||
इति विष्णुधर्मे मनोरथद्वादशी व्रतंनाम विंशोऽध्यायः