विष्णुधर्मः/अध्यायाः ०५१-०६०


श्री विष्णुधर्मः अध्यायः 51-60
एकपञ्चाशोऽध्यायः
वृथादानानि
युधिष्ठिर उवाच –
कीदृग्विधास्ववस्थासु दत्तम् दानम् जनार्दन! |
इहलोकेष्वनुभवेत् पुरुषस्तद्ब्रवीहि मे || १ ||
गर्भस्थास्याथवा बाल्ये यौवने वार्द्धकेऽपि वा |
अवस्थाम् कृष्ण! कथय परम् कौतूहलम् हि मे || २ ||
भगवानुवाच –
वृथाजन्मानि चत्वारि वृथादानानि षोडश |
अपुत्राणाम् वृथा जन्म ये च धर्मबहिष्कृताः |
परपाकम् च येऽश्नन्ति परदाररताश्च ये || ३ ||
पर्यस्थानम् वृथा दानम् सदोषम् परिकीर्तितम् |
आरूढपतिते चैव अन्यायोपार्जितम् च यत् || ४ ||
व्यर्थम् चाब्राह्मणे दानम् पतिते तस्करे तथा |
गुरोश्चाप्रीतिजनके कृतघ्ने ग्रामयाजके || ५ ||
ब्रह्मबन्धौ च यद्दत्तम् यद्दत्तम् वृषलीपतौ |
वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे || ६ ||
स्त्रीनिर्जितेषु यद्दत्तम् व्यालग्राहे तथैव च |
परिचारके च यद्दत्तम् वृथादानानि षोडश || ७ ||
तमोवृतस्तु यो दद्याद्भयात् क्रोधात्तथैव च |
वृथा दानम् तु तत्सर्वम् भुङ्क्ते गर्भस्थ एव तु || ८ ||
सेर्ष्यो मन्युमनाश्चैव दम्भार्थम् चार्थकारणात् |
यो ददाति द्विजातिभ्यः स बालत्वे तदश्नुते || ९ ||
(यः शुद्धिः प्रयतो भूत्वा प्रसन्नमानसेन्द्रियः |
प्रददाति द्विजातिभ्यो यौवनस्थस्तदश्नुते || १० ||)
देशे देशे च पात्रे च यो ददाति द्विजातिषु |
मनसा परितुष्टेन यौवनस्थस्तदश्नुते |
तस्मात् सर्वास्ववस्थासु सर्वदानानि पार्थिव |
दातव्यानि द्विजातिभ्यः स्वर्गमर्गमभीप्सता || ११ ||
इति विष्णुधर्मे वृथादानानि नाम एकपञ्चाशोऽध्यायः
द्विपञ्चाशोऽध्यायः
विप्रबाधाफलम्
युधिष्ठिर उवाच –
त्रैलोक्यम् कृष्ण! भूतानाम् सर्वलोकात्मको ह्यसि |
नृणाम् यदुवरश्रेष्ठ! तुष्यसे केन कर्मणा || १ ||
भगवानुवाच –
ब्राह्मणैः पूजितैर्नित्यम् पूजितोऽहम् न सम्शयः |
निर्भर्त्सितैश्च निर्भग्नस्तस्याहम् सर्वकर्मसु || २ ||
विप्रा परा गतिर्मह्यम् यस्तान् पूजयते नृप |
तमहम् तेन रूपेण प्रपश्यामि युधिष्ठिर || ३ ||
काणाः कुब्जाश्च खञ्जाश्च दरिद्रा व्याधिताश्च ये |
नावमन्येद् द्विजान् प्राज्ञो मम रूपम् हितम् तथा || ४ ||
बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः |
यथाहम् द्विजरूपेण चरामि पृथिवीतले || ५ ||
ये केचित् सागरान्तायाम् पृथिव्याम् कीर्तिता द्विजाः |
तद्रूपम् हि परम् मह्यम् योऽर्चयेदर्चयेत्तु सः || ६ ||
तद्रूपान् घ्नन्ति ये विप्रान् विकर्मसु च युञ्जते |
अप्रेषणे प्रेषयन्तो दासत्वम् कारयन्ति हि || ७ ||
मृताम्स्तान् करपत्त्रेन यमदूता महाबलाः |
निकृन्तन्ति यथा काष्ठम् सूत्रमार्गेण शिल्पिनः || ८ ||
ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः |
वदन्ति क्रोधनिःस्पर्शम् पादेनाभिहनन्ति च || ९ ||
मृताम्स्तान् यमलोकेषु निहत्य धरणीतले |
उरः पादेन चाक्रम्य क्रोधसम्रक्तलोचनः |
अग्निवर्णैश्च सन्दम्शैर्जिह्वामुद्धरते यमः || १० ||
(पापाश्च नारके वह्नौ धास्यन्ते यमकिङ्करैः |
ये तु विप्रान्निरीक्षन्ति पापाः पापेन चक्षुषा |
अब्रह्मण्याः श्रुतेर्बाह्या नित्यम् ब्रह्मद्विषो नराः || ११ ||
तेषाम् घोरा महाकाया वज्रतुण्डा भयानकाः |
उद्धरन्ति मुहूर्तेन चक्षुः काका यमाज्ञया || १२ ||
यस्ताडयति विप्राम्स्तु क्षतम् कुर्यात् सशोणितम् |
अस्थिभङ्गम् च यः कुर्यात् प्राणैर्वापि वियोजयेत् || १३ ||
ब्रह्मघ्नः सोऽनुपूर्वेण नरके वसुधाधिप! |
कीलैर्विनिहतः पापो मीरायाम् पच्यते भृशम् || १४ ||
सुबहूनि सहस्राणि वर्षाणाम् क्लेशभाग् भवेत् |
रवान् मुञ्चति दुर्बुद्धिर्न तस्मै निष्कृतिः स्मृता || १५ ||
तस्माद्विप्रा नरश्रेष्ठ नमस्कार्याश्च नित्यशः |
अन्नपानप्रदानैस्तु पूजार्हाः सततम् द्विजाः || १६ ||
आमन्त्रयित्वा यो विप्रान् गन्धैर्माल्यैश्च मानवः |
तर्पयेच्छ्रद्धया युक्तः स मामर्चयते सदा |
स माम् प्रसादयेच्चैव सदा स च माम् परितोषयेत् || १७ ||
ब्राह्मणान् अर्चयेत् यस्तु स माम् अर्चयते सदा
…….. च्छाभिः अन्नैश्च स्रक् गन्धैश्च स्वशक्तिः
स तुष्टो…… नो यस्य तस्य तुष्टोस्मि अहम् सदा
तपोदमान्वितेष्वेव नित्यम् पूजाम् प्रयोजयेत् |)
ये ब्राह्मणाः सोऽहमसम्शयम् नृप तेष्वर्चितेष्वर्चितोऽहम् यथावत् |
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरम् च तैर्यस्य ममापि वैरम् || १८ ||
सुगन्धिधूपादिभिरभ्यर्च्य विप्रम् तमच्युतम् नार्चयते सदैव |
यो भक्षतोयादिभिरन्नपानैरनुलेपाचमनप्रदानैः |
सुभक्षभोज्यादिभिरन्न दानैरनुलापचदन सम्प्रदानैः
यः पूजयेद्भोजयित्वा द्विजाग्र्यान् सम्पूजयित्वा परितोषयेच्च |
अर्घ्यादिना येऽभिपूज्य पूजयन्ति सदाऽच्युतम् |
तेनैव मामेव सदा पूजयन्ति न सम्शयः |
विरूपाश्च सुरूपाश्च विजनान्निष्कलानपि |
कृपया भावितात्मानो येऽर्चयन्ति द्विजोत्तमान् |
अनसूया हितात्मानो विप्रानाराधते क्वचित् |
अनसूयुर्जितात्मा यो विप्रानाराधयेत्क्वचित्
असम्शयम् सदा भक्त्या मामेवार्चयते हि सः |
ततः पवित्रमतुलम् न पुण्यमधिकम् ततः |
ये पूजयेयुः द्विजसन्घमेति ते प्र….परितोषयन्ति
अर्चयेत्सततम् भक्त्या….. तान् क्षितिदेवताः
हविषा पयसा चैव कन्दमूल……..
शाकेनान्नेव वासोभिः पूजयेत् सततम् द्विजान्
…….. ऽतः स्वर्गे….दर्गेषु विषमेषु च
अन्नपानैश्च सत्कार्यैश्च…..सर्वम् उपतिष्ठति
ऋग्यजुस्सामदम् विप्रम् यस्तु भोजयते क्वचित्
पूर्णाहुतिम् समाप्नोति हूयन्ते वाऽत्र….अग्नयः |
यश्चन्दनैः सागरुगन्धमाल्यैरभ्यर्चयेद्दारुमयीम् ममार्चाम् |
नासौ ममार्चामर्चयतेऽर्चयन् वै विप्रार्चनादर्चित एव चाहम् || १९ ||
विप्रप्रसादान्मध एव चाहम् विप्रप्रसादादसुराञ्जयामि |
विप्रप्रसादात् पुरुषोत्तमत्वम् विप्रप्रसादादजितोऽस्मि नित्यम् || २० ||
इति विष्णुधर्मे विप्रबाधाफलम् नाम द्विपञ्चाशोऽध्यायः
त्रिपञ्चाशोऽध्यायः
विप्रमाहात्म्यम्
भगवानुवाच –
सायम् प्रातश्च यः सन्ध्यामुपास्तेऽस्कन्नमानसः |
जपन् हि पावनीम् देवीम् गायत्रीम् वेदमातरम् || १ ||
स तया पावितो देव्या ब्राह्मणः पूतकिल्बिषः |
न सीदेत् प्रतिगृह्णानः पृथिवीम् तु ससागराम् || २ ||
ये चान्ये दारुणाः केचिद्ग्रहाः सूर्यादयो दिवि |
ते चास्य सौम्या जायन्ते शिवाः शिवतमाः सदा || ३ ||
यत्रतत्रगतम् चैनम् दारुणाः पिशिताशनाः |
घोररूपा महाकाया न कर्षन्ति द्विजोत्तमम् || ४ ||
यावन्तश्च पृथिव्याम् हि चीर्णवेदव्रतः द्विजाः |
अचीर्णव्रतवेदा वा विकर्मपथमाश्रितः || ५ ||
तेषाम् तु पावनार्थम् हि नित्यमेव युधिष्ठिर |
द्वे सन्ध्ये ह्युपतिष्ठेत तदस्कन्नम् महाव्रतम् || ६ ||
नास्ति किञ्चिन्नरव्याघ्र! दुष्कृतन्ये ब्राह्मणस्य तु |
यत्र स्थितः सदाऽध्यात्मे द्वे सन्ध्ये ह्युपतिष्ठति || ७ ||
पूर्णाहुतिम् वा प्राप्नोति जुहुते च त्रयोऽग्नयः |
दहन्ति दुष्कृतम् तस्य अग्नयो नात्र सम्शयः || ८ ||
एवम् सर्वस्य विप्रस्य किल्बिषम् निर्दहाम्यहम् |
उभे सन्ध्ये ह्युपासीनस्तस्मात् सर्वशुचिर्द्विजः || ९ ||
दैवे पित्र्ये च यत्नेन नियोक्तव्योऽजुगुप्सितः |
जुगुप्सितस्तु तच्छ्राद्धम् दहत्यग्निरिवेन्धनम् || १० ||
इति विष्णुधर्मे विप्रमाहात्म्यम् नाम त्रिपञ्चाशोऽध्यायः
चतुष्पञ्चाशोऽध्यायः
कुलावाप्तिद्वादशी
पुराणम् मानवा धर्माः साङ्गो वेदश्चिकित्सितम् |
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः || १ ||
हत्वा ह्येतानि सम्मूढः कल्पम् तमसि पच्यते |
न ब्राह्मणम् परीक्षेत श्राद्धकाले ह्युपस्थिते |
सुमहान् परिवादो हि ब्राह्मणानाम् परीक्षणे || २ ||
काणाः कुण्ठाश्च षण्डाश्च दरिद्रा व्याधितास्तथा |
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः || ३ ||
अक्षयम् तु भवेच् छ्राद्धमेतद् धर्मविदो विदुः
ब्राह्मणो हि महद्भूतम् जन्मना सह जायते |
लोका लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः || ४ ||
ब्राह्मणाः कुपिता हन्युर्भस्म कुर्युश्च तेजसा |
लोकान् अन्यान् सृजेयुश्च लोकपालाम्स्तथापरान् || ५ ||
ब्राह्मणा हि महात्मानो विरजाः स्वर्गसम् क्रमाः |
ब्राह्मणानाम् परीवादादसुराः सलिलेशयाः || ६ ||
अपेयः सागरो यैस्तु कृतः कोपान्महात्मभिः |
येषाम् कोपाग्निरद्यापि दण्डके नोपशाम्यति || ७ ||
एते स्वर्गस्य नेतारो भूमिदेवाः सनातनाः |
एभिश्चाधिकृतः पन्था देवयानः स उच्यते || ८ ||
ते पूज्यास्ते नमस्कार्यास्तेषु सर्वम् प्रतिष्ठितम् |
ते वै लोकानिमान् सर्वान् धारयन्ति परस्परम् || ९ ||
प्रमाणम् सर्वलोकानाम् नियता ब्रह्मचारिणः |
तानपाश्रित्य तिष्ठन्ते त्रयो लोकाः सनातनाः || १० ||
गूढस्वाध्यायतपसो ब्राह्मणः सम्शितव्रताः |
विद्यास्नाता व्रतस्नाता अनपाश्रित्यजीविनः || ११ ||
आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः |
तपसा दीप्यमानास्ते दहेयुः सागरानपि || १२ ||
ब्राह्मणेषु च तुष्टेषु तुष्यन्ते सर्वदेवताः |
(ब्राह्मणानाम् नमस्कारैः सूर्यो दिवि विराजते |)
ब्राह्मणाना म्ह परीवादात् पतेयुरपि देवताः || १३ ||
धुरि ये नावसीदन्ति प्रणीते यज्ञवह्नयः |
भोजनाच्छादनैर्दानैस्तारयन्ति तपोधनाः || १४ ||
ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः |
आदिमध्यावसानानाम् ज्ञानानाम् छिन्नसम्शयाः || १५ ||
परापरविशेषज्ञा नेतारः परमाम् गतिम् |
अवध्या ब्राह्मणास्तस्मात् पापेष्वपि रताः सदा || १६ ||
यश्च सर्वमिदम् हन्याद्ब्राह्मणम् वापि तत्समम् |
सोऽग्निः सोऽर्को महातेजा विषम् भवति कोपितः || १७ ||
भूतानाम् अग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः || १८ ||
न स्कन्दते न व्यथते न च नश्यति कर्हिचित् |
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् || १९ ||
अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम् |
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतम् महत् || २० ||
(एवम् विद्वानविद्वान् वा ब्राह्मणो दैवतम् महत् |)
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति |
(हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति || २१ ||)
सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतम् महत् |
तस्मात्सर्वप्रयत्नेन रक्षेदापत्सु ब्राह्मणान् |
शवरनोऽपि हि द्विजेन्द्राणाम् बिभेति विबुधाधिपः || २२ ||
इति विष्णुधर्मे ब्राह्मणमहिमा नाम चतुष्पञ्चाशोऽध्यायः
पञ्चपञ्चाशोऽध्यायः
दानप्रशम्सा
भगवानुवाच –
दानम् देवाः प्रशम्सन्ति इति धर्मविदो विदुः |
नानादानविधिम् तस्माच्छ्रुणुष्व सुसमाहितः || १ ||
हिरण्यदानम् गोदानम् पृथिवीदानमेव च |
एतानि वै पवित्राणि तारयन्ति परत्र च || २ ||
यद्यदिष्टतमम् लोके यच्चास्ति दयितम् गृहे |
तत्तद्गुणवते देयम् तदेवाक्षयमिच्छता || ३ ||
सुवर्णदानम् गोदानम् पृथिवीदानमेव च |
एतत् प्रयच्छमानो वै सर्वपापैः प्रमुच्यते || ४ ||
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने |
तत्ते वित्तमहम् मन्ये शेषम् कस्यापि रक्षसि || ५ ||
तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च |
नित्यम् देयानि राजेन्द्र! गावः पृथ्वी सरस्वती || ६ ||
तद्वज्जलममित्रघ्नम् तत्तुल्यफलनामतः |
दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते || ७ ||
संकल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते |
अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते || ८ ||
सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति |
अनर्थे सति दुर्बुद्धिर्नरकायोपपद्यते || ९ ||
धेनवोऽनडुहश्चैव छत्त्रम् वस्त्रमुपानहौ |
देयानि याचमानेभ्यः पानमन्नम् तथैव च |
एवम् दानम् समुद्दिष्टम् व्युष्टिमत्तारकम् परम् || १० ||
एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः |
विशिष्टः स च यज्ञेषु ददतामनसूयया || ११ ||
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः |
यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् || १२ ||
यथा हि सुकृते क्षेत्रे फलम् विन्दति क्षेत्रिकः |
एवम् दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते || १३ ||
ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः |
न ददाति च दानानि मोघम् तस्य धनार्जनम् || १४ ||
उत्थायोत्थाय बोद्धव्यम् किमद्य सुकृतम् मया |
(दत्तम् वा दापितम् वापि वोत्सह्यमपि वा कृतम् || १५ ||)
उत्थायोत्थाय दातव्यम् ब्राह्मणेभ्यो युधिष्ठिर! |
आगमिष्यति यत्पात्रम् तत्पात्रम् तारयिष्यति || १६ ||
(यच्च वेदमयम् पात्रम् यच्च पात्रम् तपोमयम् |
असङ्कीर्णम् च यत्पात्रम् तत्पात्रम् तारयिष्यति || १७ ||)
इति विष्णुधर्मे दानप्रशम्सा नाम पञ्चपञ्चाशोऽध्यायः
षट्पञ्चाशोऽध्यायः
तपः प्रशम्सा
भगवानुवाच –
अध्यायम् तपसो वक्ष्ये तन्मे निगदतः शृणु |
तपसो हि परम् नास्ति तपसा विन्दते फलम् || १ ||
ऋषयस्तप आस्थाय मोदन्ते दैवतैः सह |
तपसा प्राप्यते स्वर्गम् तपसा प्राप्यते यशः || २ ||
आयुःप्रकर्षम् भोगाम्श्च तपसा विन्दते नरः |
ज्ञानम् विज्ञानमास्तिक्यम् सौभाग्यम् रूपमुत्तमम् || ३ ||
तपसा लभ्यते सर्वम् मनसा यद्यदिच्छति |
नातप्ततपसो यान्ति ब्रह्मलोकम् कदाचन || ४ ||
यत्कार्यम् किञ्चिदास्थाय पुरुषस्तप्यते तपः |
सर्वम् तत्समवाप्नोति परत्रेह च मानवः || ५ ||
सुरापः पारदारी च भ्रूणहा गुरुतल्पगः |
तपसा तरते सर्वम् सर्वतश्च विमुच्यते || ६ ||
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः |
ब्रह्मा हुताशनः शक्रस्तपस्यन्ति सनातनाः || ७ ||
षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् |
तपसा दिवि मोदन्ते समेता दैवतैः सह || ८ ||
तपसा प्राप्यते राज्यम् शक्रः सर्वसुरेश्वरः |
तपसा पालयन् सर्वमहन्यहनि वृत्रहा || ९ ||
सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ |
तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा || १० ||
न चास्ति तत्सुखम् लोके यद्विना तपसा किल |
तपसैव सुखम् सर्वमिति धर्मविदो विदुः || ११ ||
(विश्वामित्रश्च तपसा ब्राह्मणत्वमुपागतः |)
सर्वम् च तपसाऽभ्येति सर्वम् च सुखमश्नुते |
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः |
ऋचमेकाम् अपि पठन् स याति परमाम् गतिम् || १२ ||
तस्मात्तपः समास्थाय प्रार्थयेद्यदभीप्सितम् || १३ ||
इति विष्णुधर्मे तपः प्रशम्सा नाम षट्पञ्चाशोऽध्यायः
सप्तपञ्चाशोऽध्यायः
सत्यप्रशम्सा
भगवानुवाच –
सत्यमेव परम् ब्रह्म सत्यमेव परम् तपः |
सत्यमेव परो यज्ञः सत्यमेव परम् श्रुतम् |
सत्यम् देवेषु जागर्ति मुक्तिः सत्यतरोः फलम् || १ ||
तपो यशश्च पुण्यम् च पितृदेवर्षिपूजनम् |
आद्यो विधिश्च विद्या च सर्वम् सत्ये प्रतिष्ठितम् || २ ||
सत्यम् यज्ञस्तथा वेदा मन्त्रा देवी सरस्वती |
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च || ३ ||
सत्येन वायुरभ्येति सत्येन तपते रविः |
सत्येन अग्निर्दहेत् सर्वम् स्वर्गम् सत्येन गच्छति
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले || ४ ||
पारणम् सर्ववेदानाम् सर्वतीर्थावगहनः |
सत्यम् च वदतो लोके तत्समम् स्यान्न सम्शयः || ५ ||
अश्वमेधसहस्रम् च सत्यम् च तुलया धृतम् |
अश्वमेधसहस्राद्धि सत्यमेतद्विशिष्यते || ६ ||
(मुनयः सत्यनिरता मुनयः सत्यविक्रमाः |
मुनयः सत्यप्रपथाः पराम् सिद्धिमितो गताः || ७ ||
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा |
सत्यमाहुः परम् धर्मम् तस्मात्सत्यम् न लोपयेत् || ८ ||
मुनयः सत्यनिरतास्तस्मात्सत्यम् विशिष्यते |
स्वर्गे सत्यपरा म्मोदन्ते देवता इव || ९ ||
अप्सरोगणसङ्कीर्णैर्विमानैरुपयान्ति ते |
वक्तव्यम् हि सदा सत्यम् न सत्याद्विद्यते परम् || १० ||
(एतत्प्रमाणम् यः कुर्यात् सर्वयज्ञफलम् लभेत् |
अगाधे विमले शुद्धे सत्यतीर्थे ह्रदे शुभे |)
स्नातव्यम् मनसा युक्तैः स्नानम् तत्परमम् स्मृतम् || ११ ||
आत्मार्थे च परार्थे वा पुत्रार्थे वापि पार्थिव! |
येऽनृतम् नाभिभाषन्ते ते नराः स्वर्गगामिनः || १२ ||
अपि चेदम् पुरा गीतम् धर्मविद्भिर्युधिष्ठिर |
यः सत्यवादी पुरुषो नानृत ङ्क परिभाषते || १३ ||
सम्प्राप्य विरजान्ल्लोकानुषित्वा शाश्वतीः समाः |
शुचीनाम् श्रीमता ङ्क गेहे जायते सुमहामतिः || १४ ||
(विद्यारोग्यसुखैश्वर्यैर्युक्तो योगपरो भवेत् |)
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयम् यमश्च |
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् || १५ ||
तस्मान्न वाच्यमनृतम् हि सद्भिरेवम्विधैर्धर्मविदो वदन्ति |
(सत्यम् वदम्स्तेजसा दीप्यमानो न हीयते धर्मयशोऽर्थकामैः || १६ ||
एष वाणीकृतो धर्मो वैदिको धर्मनिश्चये |
एवमेतद्यथान्यायम् सत्याध्याये प्रकीर्तितम् |
तत्प्रमाणम् बुधः कुर्या न सत्याद्विद्यते परम् || १७ ||
इति विष्णुधर्मे सत्यप्रशम्सा नाम सप्तपञ्चाशोऽध्यायः
अष्टपञ्चाशोऽध्यायः
उपवासप्रशम्सा
भगवानुवाच –
सर्वेषामेव वर्णानाम् प्रवक्ष्यामि युधिष्ठिर! |
उपोषितैश्च कौन्तेय! तत्प्रयोज्यम् यथाविधि || १ ||
फलम् यदुपवासस्य तन्निबोध च पाण्डव! |
अवाप्नोति यथा कामानुपवासपरायणः || २ ||
मयैते नृपते! काम्या विहिता हितमिच्छता |
उपवासा मनुष्याणाम् मय्येवार्पितचेतसाम् || ३ ||
पञ्चमीम् चैव षष्ठीम् च पौर्णमासीम् च पाण्डव! |
उपोष्य रूपवान् धन्यः सुभगश्चैव जायते || ४ ||
अष्टमीम् चैव कौन्तेय शुक्लपक्षे चतुर्दशीम् |
उपोष्य व्याधिरहितो वीर्यवाम्श्चैव जायते || ५ ||
मार्गशीर्षम् तु यो मासम् नित्यमेकाशनो भवेत् |
कृषिभागी भवेद्राजन् बहुपुत्रश्च जायते || ६ ||
पौषमासे तु राजेन्द्र! भक्तेनैकेन यः क्षपेत् |
सुभगो दर्शनीयश्च ज्ञानभागी च जायते || ७ ||
पितॄनुद्दिश्य माघम् तु यः क्षपेदेकभोजनम् |
स्त्रीषु वल्लभताम् याति वश्याश्चास्य भवन्ति ताः || ८ ||
चैत्रम् तु पुरुषव्याघ्र यः क्षपेदेकभोजनम् |
मासेन पुरुषव्याघ्र मौनम् तु फलमश्नुते |
मासेन पुरुषव्याघ्र सोऽनन्तफलमश्नुते
भगदैवतमासम् तु यः क्षपेदेकभोजनम् |
स्त्रीषु वल्लभताम् याति वश्याश्चास्य भवन्ति ताः || ९ ||
चैत्रम् तु पुरुषव्याघ्र यः क्षपेदेकभोजनः |
सुवर्णमणिमुक्ताढ्ये कुले महति जायते || १० ||
निस्तरेदेकभक्तेन वैशाखम् यो नराधिप! |
नरो वा यदि वा नारी ज्ञातीनाम् श्रेष्ठताम् व्रजेत् || ११ ||
ज्येष्ठमासमपानीयमेकभक्तेन यः क्षपेत् |
ऐश्वर्यम् पुरुषव्याघ्र! स्त्रीभागी चोपजायते || १२ ||
(आषाढम् भरतश्रेष्ठ एकभक्तेन यः क्षपेत् |
शूरश्च बहुधान्यश्च बहुपुत्रश्च जायते || १३ ||
श्रावणम् तु नरव्याघ्र भक्तेनैकेन यः क्षपेत् |
यत्र यत्रोपपद्येत तत्र स्याज्ज्ञातिवर्धनः || १४ ||)
मासम् भाद्रपदम् राजन्नेकभक्तेन यः क्षपेत् |
धनाढ्यो वीर्यवाम्श्चैव ऐश्वर्यं प्रतिपद्यते || १५ ||
यः क्षपेदेकभक्तेन मासमाश्वयुजम् नरः |
धनवान् वाहनाढ्यश्च बहुपुत्रश् जायते || १६ ||
कार्त्तिकम् तु नरो मासम् नित्यमेकाशनो भवेत् |
शूरश्च बहुभार्यश्च कीर्तिमाम्श्चैव जायते || १७ ||
एते मासा नरश्रेष्ठ! एकभक्तेन कीर्तिताः |
तिथीनाम् नियमाम्श्चैव ताञ्शृणुष्व नराधिप! || १८ ||
पक्षे पक्षे चतुर्थम् तु भक्तम् यः क्षपयेन्नरः |
विपुलम् धनमाप्नोति भगवानग्निरब्रवीत् || १९ ||
मासे मासे चतुर्थम् तु भक्तमेकम् तु यः क्षपेत् |
कृषिभागी यशोभागी तेजस्वी चापि जायते || २० ||
पक्षे पक्षे त्रिरात्रम् तु यः क्षपेन्नरपुङ्गव! |
गणे घोषे पुरे ग्रामे माहात्म्यम् प्रतिपद्यते || २१ ||
मासे मासे त्रिरात्रम् तु भक्तेनैकेन यः क्षपेत् |
गणाधिपत्यम् लभते निःसपत्नमकण्टकम् || २२ ||
यस्तु सायम् तथा कल्यम् भुङ्क्ते नैवान्तरा पिबेत् |
अहिम्सानिरतो नित्यम् जुह्वानो जातवेदसम् || २३ ||
षड्भिरेव तु वर्षैस्तु सिध्यते नात्र सम्शयः |
अग्निष्टोमस्य यज्ञस्य फल म्सा प्राप्नोति मानवः || २४ ||
अष्टमेन तु भक्तेन राजन् सम्वत्सरम् नयेत् |
गवामयस्य यज्ञस्य फलम् प्राप्नोति मानवः || २५ ||
गवामयनसत्रस्य फलमाप्नोति गवाम् मेधस्य यज्ञस्य……
हम्ससारसयुक्तेन विमानेन स गच्छति |
पूर्णम् वर्षसहस्रम् तु स्वर्गलोके महीयते || २६ ||
आर्तो वा व्याधितो वापि गच्छेदनशनम् तु यः |
पदे पदे यज्ञफलम् तस्य मन्नामकीर्तनात् || २७ ||
दिव्यऋक्षप्रयुक्तेन विमानेन स गच्छति |
शतमप्सरसाम् चैव रमयन्तीह तम् नरम् || २८ ||
सहस्रशतसम्युक्ते विमाने सूर्यवर्चसे |
आरूढः स्त्रीशताकीर्णे विहरन् सुखमेधते || २९ ||
न क्रुद्धो व्याधितो नार्तः प्रसन्नमनसेन्द्रियः |
गच्छेदनशनम् यस्तु तस्यापि शृणु यत्फलम् || ३० ||
शतम् वर्षसहस्राणाम् स्वर्गलोके महीयते |
स्वस्स्थः सफलसङ्कल्पः सुखी विगतकल्मषः |
स्त्रीसहस्रसमाकीर्णे सुप्रभे सुखमेधते || ३१ ||
यावन्ति रोमकूपानि तस्य गात्रेषु भारत! |
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते || ३२ ||
नास्ति वेदात् परम् शास्त्रम् नास्ति मातृसमो गुरुः |
न धर्मात् परमो लाभस्तपो नानशनात् परम् || ३३ ||
ब्राह्मणेभ्यः परम् नास्ति दिवि चेह च पावनम् |
उपवासैस्तथा तुल्यम् तपो ह्यन्यन्न विद्यते || ३४ ||
उपोष्य विधिवद्देवास्त्रिदिवम् प्रतिपेदिरे |
मुनयश्च पराम् सिद्धिमुपवासैरवाप्नुवन् || ३५ ||
दिव्यम् वर्षसहस्रम् तु विश्वामित्रेण धीमता |
क्षान्तमेकेन भक्तेन येन विप्रत्वमागतः || ३६ ||
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः |
सर्वे ह्येते दिवम् प्राप्ताः क्षमावन्तो बहुश्रुताः |
विधिनानेन राजेन्द्र! यो मया परिकीर्तितः || ३७ ||
पठेत यो वै शृणुयाच्च भक्त्या न विद्यते तस्य नरस्य पापम् |
उपद्रवैर्मुच्यते सर्वाङ्गिकैर्न चापि पापैरभिभूयते नरः || ३८ ||
इति विष्णुधर्मे उपवासप्रशम्सा नाम अष्टपञ्चाशोऽध्यायः
एकोनषष्टितमोऽध्यायः
वर्णान्यत्वप्राप्तिः
भगवानुवाच –
ब्राह्मणत्वम् सुदुष्प्रापम् निसर्गाद्ब्राह्मणो भवेत् |
क्षत्रियो वाथवा वैश्यो निसर्गादेव जायते || १ ||
दुष्कृतेन तु दुष्टात्मा स्थानाद् भ्रश्यति मानवः |
श्रेष्ठम् स्थानम् समासाद्य तस्माद्रक्षेत पण्डितः || २ ||
यस्तु विप्रत्वमुत्सृज्य क्षत्रियत्वम् निषेवते |
ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोन्याम् प्रसूयते || ३ ||
वैश्यकर्माणि वा कुर्वन् वैश्ययोनौ प्रजायते |
(शूद्रकर्माणि कुर्वाणः शूद्रत्वमुपपद्यते || ४ ||
स तत्र दुर्गतिम् प्राप्य स्थानाद्भ्रष्टो युधिष्ठिर |
शूद्रयोनिमनुप्राप्तो यदि धर्मम् न सेवते || ५ ||
मानुष्यात् स परिभ्रष्टस्तिर्यग्योनौ प्रजायते |)
अधर्मसेवनान्मूढस्तमोपहतचेतनः || ६ ||
जात्यन्तरसहस्राणि तत्रैव परिवर्तते |
तस्मात् प्राप्य शुभम् स्थानम् प्रमादान्न तु नाशयेत् || ७ ||
शूद्रान्नेनावशेषेण यो म्रियेज्जठरे द्विजः |
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग् भवेत् || ८ ||
क्षत्रान्नेनावशेषेण क्षत्रत्वमुपपद्यते |
(वैश्यान्नेनावशेषेण वैश्यत्वमुपपद्यते)
ताम् योनिम् लभते विप्रो भुक्त्वाऽन्नम् यस्य वै मृतः || ९ ||
ब्राह्मणत्वम् शुभम् प्राप्य दुर्लभम् योऽवमन्यते |
भोज्याभोज्यम् न जानाति स भवेत् क्षत्रियो द्विजः || १० ||
कर्मणा येन मेधावी शूद्रो वैश्योऽभिजायते |
तत्ते वक्ष्यामि निखिलम् येन वर्णोत्तमो भवेत् || ११ ||
शूद्रकर्म यथोद्दिष्टम् शूद्रो भूत्वा समाचरेत् |
यथावत्परिचर्याम् तु त्रिषु वर्णेषु नित्यदा |
कुरुतेऽविमना यस्तु स शूद्रो वैश्यताम् व्रजेत् || १२ ||
क्षत्रियत्वम् यथा वैश्यस्तद्वक्ष्याम्यानुपूर्वशः |
दक्षः पापजनद्वेष्टा शेषान्नकृतभोजनः || १३ ||
अग्निहोत्रमुपादाय जुह्वानश्च यथाविधि |
स वैश्यः क्षत्रियकुले जायते नात्र सम्शयः || १४ ||
क्षत्रियो ब्रह्मयोन्याम् तु जायते शृणु तद्यथा |
ददाति यजते यज्ञैर्विधिवच्चाप्तदक्षिणैः |
अधीते स्वर्गमन्विच्छम्स्त्रेताग्निशरणः सदा || १५ ||
आर्तहस्तप्रदो नित्यम् प्रजा धर्मेण पालयन् |
ऋतुकाले तु स्वाम् भार्यामभिगच्छन्विधानतः || १६ ||
सर्वातिथ्यम् त्रिवर्गस्य दीयताम् भुज्यतामिति |
शूद्राणाम् याचकानाम् च नित्यम् सिद्धिमिति ब्रुवन् || १७ ||
गोब्राह्मणस्य चार्थाय रणे चाभिमुखो भवेत् |
त्रेताग्निमन्त्र्यपूतात्मा क्षत्रियो ब्राह्मणो भवेत् |
विधिज्ञः क्षत्रियकुले याजकः स तु जायते || १८ ||
प्राप्यतेऽविकलः स्वर्गो वर्णैः सत्पथमास्थितैः |
ब्राह्मणत्वम् सुदुष्प्रापम् कृच्छ्रेणासाद्यते नरैः |
तस्मात् सर्वप्रयत्नेन रक्षेद्ब्राह्मण्यमुत्तमम् || १९ ||
इति विष्णुधर्मे वर्णान्यत्वप्राप्तिर्नाम एकोनषष्टितमोऽध्यायः
षष्टितमोऽध्यायः
सुवर्णदानम्
भगवानुवाच –
सुवर्णम् परमम् दानम् सुवर्णम् दक्षिणा परा |
एतत्पवित्रम् परममेतत् स्वस्त्ययनम् महत् || १ ||
दश पूर्वापरान् वम्शानात्मानम् च विशाम्यते |
अपि पापशतम् कृत्वा दत्त्वा विप्रेषु तारयेत् || २ ||
सुवर्णम् ये प्रयच्छन्ति नराः शुद्धेन चेतसा |
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् || ३ ||
अग्निर्हि देवताः सर्वाः सुवर्णम् च हुताशनः |
तस्मात् सुवर्णम् ददता दत्ताः सर्वाश्च देवताः || ४ ||
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् |
सर्ववेदप्रमाणज्ञा वेदश्रुतिनिदर्शनात् || ५ ||
ये त्वेनम् ज्वालयित्वाऽग्निमादित्योदयनम् प्रति |
दद्युर्वै व्रतमुद्दिश्य सर्वान् कामानवाप्नुयुः || ६ ||
सुवर्णदः स्वर्गलोके कामानिष्टान् उपाश्नुते |
विरजाम्बरसम्वीतः परियाति यतस्ततः || ७ ||
विमानेनार्कवर्णेन भास्वरेण विराजता |
अप्सरोगणसङ्कीर्णे भास्वता स्वेन तेजसा || ८ ||
हम्सबर्हिणयुक्तेन कामगेन नरोत्तमः |
दिव्यगन्धवहः स्वर्गे परिगच्छेदितस्ततः || ९ ||
तस्मात् स्वशक्त्या दातव्यम् काञ्चनम् मानवैर्भुवि |
विमानेनार्कवर्णेन स याति स्वर्गमुत्तमम् |
न ह्यतः परमम् लोके सद्यः पापविमोचनम् || १० ||-
सुवर्णस्य तु शुद्धस्य सुवर्णम् यः प्रयच्छति |
बहून्यब्दसहस्राणि स्वर्गलोके महीयते || ११ ||
इति विष्णुधर्मे सुवर्णदानम् षष्टितमोऽध्यायः