विष्णुधर्मः/अध्यायाः ०७१-०८०


श्री विष्णुधर्मः अध्यायः 71-80
एकसप्ततितमोऽध्यायः
विष्णुपञ्जरस्तवः
शतानीक उवाच –
पापम् प्रणश्यते येन पुण्यम् येन विवर्धते |
यज्जपन् सुगतिम् याति शृण्वम्श्च मम तद्वद || १ ||
शौनक उवाच –
कश्चिदासीद्द्विजद्रोग्धा पिशुनः क्षत्रियाधमः |
परपीडारुचिर्दुष्टः स्वभावादेव निर्घृणः || २ ||
परिभूताः सदा तेन पितृदेवद्विजातयः |
परदारेषु चैवास्य बभूवाभिरतम् मनः || ३ ||
सत्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः |
तेन वै कर्मदोषेण स्वेन पापकृताम् वरः || ४ ||
क्रूरैरेव ततो वृत्तिम् राक्षसत्वे विशेषतः |
चकार कर्मभिः पापः सर्वप्राणिविहिम्सकः || ५ ||
तस्य पापरतस्यैवम् जग्मुर्वर्षशतानि वै |
तेन वै कर्मदोषेण नान्या वृत्तिररोचत || ६ ||
यद्यत्पश्यति सत्त्वम् स तत्तदादाय राक्षसः |
चखाद पुरुषव्याघ्र बाहुगोचरमागतम् || ७ ||
एवम् तस्यातिदुष्टस्य कुर्वतः प्राणिनाम् वधम् |
जगाम सुमहान् कालः परिणामम् तथा वयः || ८ ||
स ददर्श तपस्यन्तम् तापसम् सम्श्रितव्रतम् |
ऊर्ध्वबाहुम् महाभागम् कृतरक्षम् समन्ततः || ९ ||
तम् दृष्ट्वा स तु दुर्बुद्धिर्ब्राह्मणम् राक्षसाधमः |
समभ्यधावद्वेगेन समादातुम् चिखादिषुः || १० ||
तेन रक्षा च या दिक्षु ब्राह्मणेनाभवत्कृता |
तया निरस्तम् तद्रक्षो निपपाताविदूरतः || ११ ||
शतानीक उवाच –
भगवन् कीदृशीम् रक्षाम् स चकार द्विजोत्तमः |
यया निर्धूतवीर्योऽसौ निरस्तो रजनीचरः || १२ ||
शौनक उवाच –
एकाग्रचित्तो गोविन्दे तज्जपम्स्तत्परायणः |
तपश्चचार विप्रोऽसौ प्रविष्टो विष्णुपञ्जरम् || १३ ||
शतानीक उवाच –
विष्णुपञ्जरमिच्छामि श्रोतुम् धर्मभृताम् वर |
सदा सर्वभयेभ्यस्तु रक्षा या परमाऽभवत् || १४ ||
शौनक उवाच –
त्रिपुरम् जघ्नुषः पूर्वम् ब्रह्मणा विष्णुपञ्जरः |
शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपितः || १५ ||
वागीशेन तु शक्रस्य बलम् हन्तुम् प्रयास्यतः
तस्य रूपम् प्रवक्ष्यामि तन्निबोध महीपते || १६ ||
विष्णुः प्राच्याम् स्थितश्चक्री विष्णुर्दक्षिणतो गदी |
प्रतीच्याम् शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे || १७ ||
हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः |
क्रोडरूपी हरिर्भूमौ नरसिम्होऽम्बरे मम || १८ ||
क्षुरान्तममलम् चक्रम् भ्रमत्येतत् सुदर्शनम् |
अस्याम्शुमाला दुःप्रेक्षा हन्तु प्रेतनिशाचरान् || १९ ||
गदा चेयम् सहस्रार्चिरुद्वमत्पावकोल्वणा |
रक्षोभूतपिशाचानाम् डाकिनीनाम् च नाशनी || २० ||
शार्ङ्गविस्फूर्जितम् चैव वासुदेवस्य मद्रिपून् |
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः || २१ ||
खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये समाहताः |
ते यान्तु सौम्यताम् सद्यो गरुडेनेव पन्नगाः || २२ ||
ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः |
प्रेता विनायकाः क्रूरा मनुष्या जम्भकाः खगाः || २३ ||
सिम्हादयो ये पशवो दन्दसूकाश्च पन्नगाः |
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः || २४ ||
चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः |
बलौजसाम् च हर्तारश्छायाविभ्रम्शकाश्च ये || २५ ||
ये चोपभोगहर्तारो ये च लक्षणनाशकाः |
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररयाहताः || २६ ||
बुद्धिस्वास्थ्यम् मनःस्वास्थ्यम् स्वास्थ्यमैन्द्रियकम् तथा |
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् || २७ ||
पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणगश्चास्तु जनार्दनो हरिः |
तदीड्यमीशानमनन्तमीश्वरम् जनार्दनम् प्रणिपतितो न सीदति || २८ ||
यथा परम् ब्रह्म हरिस्तथा परम् जगत्स्वरूपश्च स एव केशवः |
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधम् ममाशुभम् || २९ ||
इति विष्णुधर्मे विष्णुपञ्जरस्तवो नाम एकसप्ततितमोऽध्यायः
द्विसप्ततितमोऽध्यायः
सारस्वतस्तवः
शौनक उवाच –
इत्यसावात्मरक्षार्थम् न्यस्तवान्विष्णुपञ्जरम् |
तेनासाध्यः स दुष्टानाम् बभूव नृप रक्षसाम् || १ ||
एतयाऽऽरक्षया रक्षो निर्धूतम् भुवि पातितम् |
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् || २ ||
दृष्ट्वा च कृपयाविष्टः समाश्वास्य निशाचरम् |
पप्रच्छागमने हेतुम् तम् चाचष्ट यथातथम् |
कथयित्वा च तत्सर्वम् राक्षसः पुनरब्रवीत् || ३ ||
प्रसीद विप्रवर्य त्वम् निर्विण्णस्यातिपापिनः |
पापप्रशमनायालमुपदेशम् प्रयच्छ मे || ४ ||
बहूनि पापानि मया कृतानि बहवो हताः |
कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः |
अनागसाम् च सत्त्वानामनेकानाम् क्षयः कृतः || ५ ||
सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत |
पापस्यास्य क्षयम् कर्तुम् कुरु मे धर्मदर्शनम् || ६ ||
ब्राह्मण उवाच –
कथम् क्रूरस्वभावस्य सन्त्रस्तस्य निशाचर |
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि || ७ ||
राक्षस उवाच –
त्वामत्तुमागतम् क्षिप्तो रक्षया कृतया त्वया |
तत्सम्स्पर्शाच्च मे ब्रह्मन् साध्वेतन्मनसि स्थितम् || ८ ||
का सा रक्षा न ताम् वेद्मि वेद्मि नास्याः परायणम् |
किम्त्वस्याः सङ्गमासाद्य निर्वेदम् प्रापितम् परम् || ९ ||
स कृपाम् कुरु धर्मज्ञ मय्यनुक्रोशमावह |
यथा पापापनोदो मे भवत्यार्य तथा कुरु || १० ||
इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा |
प्रत्युवाच महाभाग विमृश्य सुचिरम् तदा || ११ ||
ब्राह्मण उवाच –
यत्त्वमात्थोपदेशार्थम् निर्विण्णः स्वेन कर्मणा |
युक्तमेतन्न पापानाम् निवृत्तेरुपकारकम् || १२ ||
करिष्ये यातुधानानाम् न त्वहम् धर्मदेशनाम् |
ताम्स्त्वम् पृच्छ द्विजान् सौम्य ये वै प्रवचने रताः || १३ ||
एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः |
कथम् पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः || १४ ||
न तदा खादते सत्त्वान् क्षुधा सम्पीडितोऽपि सन् |
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् || १५ ||
स कदाचित् क्षुधाविष्टः पर्यटन्विपिने वने |
ददर्शाथ फलाहारमग्रतः कौशिकम् द्विजम् || १६ ||
तम् जग्राह च भक्षार्थम् षष्ठे काले बुभुक्षितः |
गुरोरर्थे फलाहारमागतम् ब्रह्मचारिणम् || १७ ||
गृहीतो रक्षसा तेन स तदा मुनिदारकः |
निराशो जीविते प्राह सामपूर्वम् निशाचरम् || १८ ||
ब्राह्मण उवाच –
भो भद्रमुख यत्कार्यम् गृहीतोऽहमिह त्वया |
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् || १९ ||
राक्षस उवाच –
षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः |
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः || २० ||
ब्राह्मण उवाच –
यद्यवश्यम् त्वयाद्याहम् भक्षणीयो निशाचर |
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् || २१ ||
गुरुमूले तदागत्य यत्फलग्रहणम् कृतम् |
ममात्र निष्ठाम् प्राप्तस्य तत्पापाय निवेदितम् || २२ ||
स त्वम् मुहूर्तमात्रम् मामत्रैव प्रतिपालय |
निवेद्य गुरवे यावदिहागच्छाम्यहम् फलम् || २३ ||
राक्षस उवाच –
षष्ठे काले न मे ब्रह्मन् कश्चिद्ग्रहणमागतः |
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् || २४ ||
एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम् |
मुञ्चाम्यहमसन्दिग्धम् यदि तत्कुरुते भवान् || २५ ||
ब्राह्मण उवाच –
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम् |
तत्करिष्याम्यहम् रक्षो यन्न व्रतहरम् मम || २६ ||
राक्षस उवाच –
मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः |
निर्विवेकेन पापेन पापम् कर्म सदा कृतम् || २७ ||
आ बाल्यान्मम पापेषु न पुण्येषु रतम् मनः |
तत्पापसञ्चयान्मोक्षम् प्राप्नुयाम् येन तद्वद || २८ ||
यानि पापानि कर्माणि बालत्वाच्चरितानि मे |
दुष्टाम् योनिमिमाम् प्राप्य तन्मुक्तिम् कथय द्विज || २९ ||
यद्येतद् द्विजपुत्र त्वम् ममाख्यास्यस्यशेषतः |
तत्क्षुधार्तात् समार्तस्त्वम् नियतम् मोक्षमाप्स्यसि || ३० ||
न चैतत्पापशीलोऽहमद्य त्वाम् क्षुत्पिपासितः |
षष्ठे काले नृशम्सात्मा भक्षयिष्यामि निर्घृणः || ३१ ||
शौनक उवाच –
एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा |
चिन्तामवाप महतीमशक्तस्तदुदीरितम् || ३२ ||
विमृश्य सुचिरम् विप्रः शरणम् जातवेदसम् |
जगाम ज्ञानदानाय सम्शयम् परमम् गतः || ३३ ||
ब्राह्मण उवाच –
यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु |
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु माम् ततः || ३४ ||
न मातरम् न पितरम् गौरवेण यथा गुरुम् |
यथाहमवगच्छामि तथा माम् पातु पावकः || ३५ ||
यथा गुरुम् न मनसा कर्मणा वचसापि वा |
अवजानाम्यहम् तेन पातु सत्येन पावकः || ३६ ||
शौनक उवाच –
इत्येवम् शपथान् सत्यान् कुर्वतस्तस्य तत्पुनः |
सप्तार्चिषा समादिष्टा प्रादुरासीत् सरस्वती |
सा चोवास द्विजसुतम् राक्षसग्रहणकुलम् || ३७ ||
मा भैर्द्विजसुताहम् त्वाम् मोक्षयाम्यतिसङ्कटात् || ३८ ||
यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहम् स्थिता तव |
तत्सर्वम् कथयिष्यामि ततो मोक्षमवाप्स्यसि || ३९ ||
प्रदृश्या रक्षसा तेन प्रोक्त्वेत्थम् तम् सरस्वती |
प्रदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् || ४० ||
ब्राह्मण उवाच –
श्रूयताम् तव यच्छ्रेयस्तथान्येषाम् च पापिनाम् |
समस्तपापशुद्ध्यर्थम् पुण्योपचयदम् च यत् || ४१ ||
प्रातरुत्थाय सततम् मध्याह्नेऽह्नः क्षयेऽपि वा |
अयम् शस्तः सदा जापः सर्वपापोपशान्तिदः || ४२ ||
सरस्वती उवाच –
हरिम् कृष्णम् हृषीकेशम् वासुदेवम् जनार्दनम् |
प्रणतोऽस्मि जगन्नाथम् स मे पापम् व्यपोहतु || ४३ ||
विश्वेश्वरमजम् विष्णुमप्रमेयपराक्रमम् |
प्रणतोऽस्मि प्रजापालम् स मे पापम् व्यपोहतु || ४४ ||
विष्णुमच्युतमीशानमनन्तमपराजितम् |
प्रणतोऽस्मि महात्मानम् स मे पापम् व्यपोहतु || ४५ ||
चराचरगुरुम् नाथम् गोविन्दम् शेषशायिनम् |
प्रणतोऽस्मि परम् देवम् स मे पापम् व्यपोहतु || ४६ ||
गोवर्धनधरम् धीरम् गोब्राह्मणहिते स्थितम् |
प्रणतोऽस्मि गदापाणिम् स मे पापम् व्यपोहतु || ४७ ||
शङ्खिनम् चक्रिणम् शान्तम् शार्ङ्गिणम् स्रग्धरम् परम् |
प्रणतोऽस्मि पतिम् लक्ष्म्याः स मे पापम् व्यपोहतु || ४८ ||
दामोदरमुदाराक्षम् पुण्डरीकाक्षमव्ययम् |
प्रणतोऽस्मि स्तुतम् स्तुत्यैः स मे पापम् व्यपोहतु || ४९ ||
नारायणम् नरम् शौरिम् माधवम् मधुसूदनम् |
प्रणतोऽस्मि धराधारम् स मे पापम् व्यपोहतु || ५० ||
केशवम् केशिहन्तारम् कम्सारिष्टनिसूदनम् |
प्रणतोऽस्मि श्रियः कान्तम् स मे पापम् व्यपोहतु || ५१ ||
श्रवत्सवीसम् श्रीशम् श्रीधरम् श्रीनिकेतनम् |
प्रणतोऽस्मि श्रियः कान्तम् समे पापम् व्यपोहतु ||
यमीशम् सर्वभूतानाम् ध्यायन्ति यतयोऽक्षरम् |
वासुदेवमनिर्देश्यम् तमस्मि शरणम् गतः || ५२ ||
समस्तालम्बनेभ्योऽयम् तमस्मि शरणम् गतः || ५३ ||
ध्यायन्ति वासुदेवाढ्यम् तमस्मि शरणम् गतः
सर्वगम् सर्वभूतम् च सर्वस्याधारमीश्वरम् |
वासुदेवम् परम् ब्रह्म तमस्मि शरणम् गतः || ५४ ||
परमात्मानमव्यक्तम् यम् प्रयान्ति सुमेधसः |
कर्मक्षयेऽक्षयम् देवम् तमस्मि शरणम् गतः || ५५ ||
पुण्यपापविनिर्मुक्ता यम् प्रविश्य पुनर्भवम् |
न योगिनः प्राप्नुवन्ति तमस्मि शरणम् गतः || ५६ ||
ब्रह्मा भूत्वा जगत्सर्वम् सदेवासुरमानुषम् |
यः सृजत्यच्युतो देवस्तमस्मि शरणम् गतः || ५७ ||
ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयम् वपुः |
सूतम् प्रभो पुरा जज्ञे तमस्मि शरणम् गतः || ५८ ||
ब्रह्मरूपधरम् देवम् जगद्योनिम् जनार्दनम् |
स्रष्टृत्वे सम्स्थितम् सृष्टौ प्रणतोऽस्मि सनातनम् || ५९ ||
यः पाति सृष्टम् च विभुः स्थितावसुरसूदनः |
तमादिपुरुषम् विष्णुम् प्रणतोऽस्मि सनातनम् || ६० ||
धृता मही हता दैत्याः परित्रातास्तथाऽमराः |
येन तम् विष्णुमाद्येशम् प्रणतोऽस्मि सनातनम् || ६१ ||
यज्ञैर्यजन्ति यम् विप्रा यज्ञेशम् यज्ञभावनम् |
तम् यज्ञपुरुषम् विष्णुम् प्रणतोऽस्मि सनातनम् || ६२ ||
वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि |
तमादिपुरुषम् विष्णुम् प्रणतोऽस्मि सनातनम् || ६३ ||
कल्पान्ते रुद्ररूपो यः सलहरत्यखिलम् जगत् |
तमादिपुरुषम् विष्णुम् प्रणतोऽस्मि जनार्दनम् || ६४ ||
पातालवीथीभूरादीम्स्तथा लोकान्बिभर्ति यः |
तमन्तपुरुषम् विष्णुम् प्रणतोऽस्मि जनार्दनम् || ६५ ||
सम्भक्षयित्वा सकलम् यथा सृष्टमिदम् जगत् |
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् || ६६ ||
सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः |
यस्याम्शभूता देवस्य सर्वगम् तम् नमाम्यहम् || ६७ ||
समस्तदेवाः सकला मानुषाणाम् च जातयः |
यस्याम्शभूता देवस्य सर्वगम् तम् नमाम्यहम् || ६८ ||
वृक्षगुल्मादयो यस्य तथा पशुमृगादयः |
एकाम्शभूता देवस्य सर्वगम् तम् नमाम्यहम् || ६९ ||
यस्मान्नान्यत्परम् किञ्चिद्यस्मिन् सर्वम् महात्मनि |
यः सर्वमव्ययोऽनन्तः सर्वगम् तम् नमाम्यहम् || ७० ||
यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च |
विष्णुरेव तथा पापम् ममाशेषम् प्रणश्यतु || ७१ ||
यथा विष्णुमयम् सर्वम् यत्सर्वेन्द्रियगोचरम् |
यच्च ज्ञानपरिच्छेद्यम् पापम् नश्यतु मे तथा || ७२ ||
प्रवृत्तम् च निवृत्तम् च कर्म विष्णुमयम् यथा |
अनेकजन्मकर्मोत्थम् पापम् नश्यतु मे तथा || ७३ ||
यन्निशायाम् तथा प्रातर्यच्च मध्यापराह्णयोः |
सन्ध्ययोश्च कृतम् पापम् कर्मणा मनसा गिरा || ७४ ||
तिष्ठता व्रजता यच्च शय्यासनगतेन च |
कृतम् यदशुभम् कर्म कायेन मनसा गिरा || ७५ ||
अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात् |
तत्सर्वम् विलयम् यातु तोयस्थम् लवणम् यथा || ७६ ||
परदारपरद्रव्यवाञ्छाद्रोहोद्भवम् च यत् |
परिपीडोद्भवम् निन्दाम् कुर्वतो यन्महात्मनाम् || ७७ ||
यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु |
तद्यातु विलयम् तोये यथा लवणभाजनम् || ७८ ||
(यद्बाल्ये यच्च कौमारे यत्पापम् यौवने मम |
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे || ७९ ||
तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात् |
प्रयातु विलयम् तोये यथा लवणभाजनम् || ८० ||
विष्णवे वासुदेवाय हरये केशवाय च |
जनार्दनाय कृष्णाय नमो भूयो नमो नमः || ८१ ||
नमो नरकहन्त्रे च नमो मधुनिघातिने
नमो निष्ठासुरघ्नाय चाणूरनिधनाय च ||
फलम्वपूतनादीनाम् त्वद्दते नास्ति कश्चन
हन्ता वा शासिता वाऽपि भगवन् विश्वपालक ||)
इदम् सारस्वतम् स्तोत्रमशेषाघविनाशनम् |
पठताम् शृण्वताम् चैव सर्वपापविनाशनम् || ८२ ||
ब्राह्मण उवाच –
इदम् यः प्रातरुत्थाय प्रणिपत्य जनार्दनम् |
जपत्येकमनाः पापम् समस्तम् स व्यपोहति || ८३ ||
यस्तु सम्वत्सरम् पूर्णम् सायम् प्रातः समाहितः |
जपत्येतन्नरः पुण्यम् कृत्वा मनसि केशवम् || ८४ ||
शारीरम् मानसम् वाग्जम् ज्ञानतोऽज्ञानतोऽपि वा |
कृतम् तेन तु यत्पापम् सप्त जन्मान्तराणि वै || ८५ ||
महापातकमल्पम् वा तथा यच्चोपपातकम् |
सकलम् नाशयत्येतत्तथान्यत् पुण्यमृच्छति || ८६ ||
विप्राय सुविशिष्टाय तिलपात्राणि षोडश |
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम् || ८७ ||
अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणम् हरेः |
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् || ८८ ||
(यथैनम् पठति नित्यम् स्तवम् सारस्वतम् पुमान् |
अपि पापसमायुक्तो मोक्षम् प्राप्नोत्यसावपि ||)
यथैतत्सत्यमुक्तम् मे नात्राल्पमपि वै मृषा |
राक्षसग्रस्तसर्वाङ्गम् तथा मामेष मुञ्चतु || ८९ ||
शौनक उवाच –
एवमुच्चारितो मुक्तः स तदा तेन रक्षसा |
अकामेन द्विजो भूयस्तमाह रजनीचरम् || ९० ||
ब्राह्मण उवाच –
एतद्भद्रमुखाख्यातम् तव पातकनाशनम् |
विष्णोः सारस्वतम् स्तोत्रम् यज्जगाद सरस्वती || ९१ ||
हुताशनेन प्रहिता मम जिह्वाग्रसम्स्थिता |
जगादेमम् स्तवम् विष्णोः सर्वपापप्रशान्तिदम् || ९२ ||
अनेनैव जगन्नाथम् त्वमाराधय केशवम् |
ततः पापापनोदम् तु स्तुते प्राप्स्यसि केशवे || ९३ ||
अहर्निशम् हृषीकेशम् स्तवेनानेन राक्षस |
स्तौहि भक्तिम् पराम् कृत्वा ततः पापाद्विमोक्ष्यसे || ९४ ||
स्तुतो हि सर्वपापानि नाशयिष्यत्यसम्शयम् |
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः || ९५ ||
शौनक उवाच –
ततः प्रणम्य तम् विप्रम् प्रसाद्य च निशाचरः |
शालग्रामम् महाराज तदैव तपसे ययौ || ९६ ||
आराध्य च जगन्नाथम् स तत्र पुरुषोत्तमम् |
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् || ९७ ||
तत्राहर्निशमेवैतज्जपञ्जप्यम् नराधिप |
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः || ९८ ||
तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम् |
आराधय हृषीकेशम् जपन् सारस्वतम् स्तवम् || ९९ ||
य एतत्परमम् स्तोत्रम् वासुदेवस्य मानवः |
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति || १०० ||
इति विष्णुधर्मे सारस्वतस्तवो नाम द्विसप्ततितमोऽध्यायः
त्रिसप्ततितमोऽध्यायः
विष्णवष्टकम्
शतानीक उवाच –
ब्रह्मन्नसारे सम्सारे रोगादिव्याप्तमानसः |
शब्दादिलुब्धः पुरुषः किम् कुर्वन्नावसीदति || १ ||
शौनक उवाच –
स्वे महिम्नि स्थितम् देवमप्रमेयमजम् विभुम् |
शोकमोहविनिर्मुक्तम् विष्णुम् ध्यायन्न सीदति || २ ||
अप्राणिचितिकम् ब्रह्म वेदान्तेषु प्रकाशितम् |
आद्यम् पुरुषमीशानम् विष्णुम् ध्यायन्न सीदति || ३ ||
अशनाद्यैर् असम्स्पृष्टम् सेवितम् योगिभिः सदा |
सर्वदोषविनिर्मुक्तम् विष्णुम् ध्यायन्न सीदति || ४ ||
(धामत्रयविनिर्मुक्तम् सुप्रभातम् सुनिर्मलम् |
निष्कलम् शाश्वतम् देवम् विष्णुम् ध्यायन्न सीदति || ५ ||)
अमृतम् साध्यम् साधनम् यम् पश्यन्ति मनीषिणः |
ज्ञेयाख्यम् परमात्मानम् विष्णुम् ध्यायन्न सीदति || ६ ||
क्षराक्षरविनिर्मुक्तम् जन्ममृत्युविवर्जितम् |
अभयम् सत्यसङ्कल्पम् विष्णुम् ध्यायन्न सीदति || ७ ||
अतुलम् सुखधर्माणम् व्योमदेहम् सनातनम् |
धर्माधर्मविनिर्मुक्तम् विष्णुम् ध्यायन्न सीदति || ८ ||
व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः |
अर्चितम् भावुकुसुमैर्विष्णुम् ध्यायन्न सीदति || ९ ||
विष्ण्वष्टकमिदम् पुण्यम् योगिनाम् प्रीतिवर्धनम् |
यः पठेत् परया प्रीत्या स गच्छेद्विष्णुसाम्यताम् || १० ||
एतत्पुण्यम् पापहरम् धन्यम् दुःस्वप्ननाशनम् |
पठताम् शृण्वताम् चैव विष्णोर्माहात्म्यमुत्तमम् || ११ ||
इति विष्णुधर्मे विष्णवष्टकम् नाम त्रिसप्ततितमोऽध्यायः
चतुस्सप्ततितमोऽध्यायः
वस्वसुरसम्वादः
शतानीक उवाच –
कुर्वन् भक्तिम् हृषीकेशे मानवो भृगुनन्दन |
निर्वाणम् समवाप्नोति यादृशम् तद्वदस्व मे || १ ||
दृश्यन्ते पुरुषाshaah भक्तिमुद्वहन्तो जनार्दने |
तथाप्यनेकदेहार्तिमनस्तापातुरा मुने || २ ||
स्मृतमात्रः सुरेन्द्रस्य योऽर्तिहा मधुसूदनः |
तस्यापि कर्माभिरतादुःखभाजः कथम् नराः || ३ ||
कैश्च दानैर्जगत्स्वामी स्वामी नारायणो नृणाम् |
उपकाराय भक्तानाम् जायते स महामुने || ४ ||
शौनक उवाच –
त्वद्युक्तोऽयमनुप्रश्नो महाराज शृणुष्व तम् |
यथा पृष्टमिदम् सम्यक् कथ्यमानम् यथाखिलम् || ५ ||
पृथिवीम् रत्नसम्पूर्णाम् यः कृष्णाय प्रयच्छति |
तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः || ६ ||
नाराध्यतेऽच्युतो दानैर्न होमैर्भाववर्जितैः |
ऐकात्म्यम् पुरुषैर्याति तन्मयैरेव माधवः || ७ ||
श्रूयते च पुराख्यातो राजोपरिचरो वसुः |
इयाज सुबहून् यज्ञाञ्श्रद्धापूतेन चेतसा || ८ ||
स विप्रशापाद्राजर्षिः कस्मिम्श्चित् कारणान्तरे |
आकाशचारी सहसा प्रविवेश रसातलम् || ९ ||
रसातलमनुप्राप्तस्तथापि जगतः प्रभुम् |
तुष्टाव तन्मयो भूत्वा दिव्यैर्मन्त्रैर्जनार्दनम् || १० ||
देवानामेष यज्ञाम्शैर्यज्वी पक्षविवर्धनः |
चेदिराड् इdiति दैत्यानाम् मतिरासीद् रसातले || ११ ||
अनेन विविधैर्यज्ञैस्तर्पितस्त्रिदशेश्वरः |
जघान दैत्यान् वध्योऽयम् प्राप्तोऽस्मद्गोचरम् रिपुः || १२ ||
इति सम्मन्त्र्य ते दैत्याश्चेदिराजजिघाम्सवः |
तत्समीपमनुप्राप्ता गृहीतविविधायुधाः || १३ ||
परमामर्षसम्युक्तास्ततस्ते चेदिपुङ्गवम् |
हन्तुम् न शेकुः शस्त्रैस्तु यत्नवन्तोऽपि पार्थिवम् || १४ ||
स चापि वसुरासीनः केशवार्पितमानसः |
जजाप मन्त्रमोम्कारम् प्रणवम् द्वादशाक्षरम् || १५ ||
ददर्श च स विश्वेशम् ध्यानावस्थितमानसः |
कृत्वाऽन्यविषयत्यागि चित्तमत्यन्तनिश्चलम् || १६ ||
प्राग् ईgeeशमक्षरम् ध्यानम् ज्ञानम् ज्ञेयम् जगद्गुरुम् |
सञ्चिन्त्य वासुदेवाख्यमनिर्देश्यम् परायणम् || १७ ||
ततोऽन्तर्यामिरुपेण प्राकृतेन च सम्स्थितम् |
ब्रह्मविष्णुशिवानाम् च स्वरूपैः सम्स्थितम् त्रिधा || १८ ||
पुनश्च देवगन्धर्वसिद्धादिमनुजादिषु |
स्थावरान्तेषु भूतेषु सर्वेष्वेव समास्थितम् || १९ ||
दिक्ष्वम्बरधराभूभृत्तोयवाय्वनलादिषु |
दृश्यादृश्येषु चैवेशम् चिन्तयामास पार्थिवः || २० ||
सर्वत्र दृष्ट्वा तम् देवमात्मन्यपि च सर्वगम् |
सर्वम् च तन्मयम् दृष्ट्वा विरराम समाधितः || २१ ||
इन्द्रियाणीन्द्रियार्थेषु पूर्ववत्स नराधिपः |
विनिवेश्य ततोऽपश्यदसुरानुद्यतायुधान् || २२ ||
तान् स दृष्ट्वा गृहीतार्घ्य एकैकस्यैव पार्थिवः |
पाद्यपूर्वेण विधिना पूजयामास भक्तिमान् || २३ ||
प्रसादम् कुरु भद्रम् वो भगवाञ्जगतः पतिः |
वासुदेवो भवान् प्राप्तो ममानुग्रहकाम्यया || २४ ||
इत्येवम् चेदिराजोऽसावेकैकस्य च दानवान् |
पूजयामास पाद्यादि निवेद्य वचसा तथा || २५ ||
तेऽपि तम् चेदिराजानम् पप्रच्छुरसुरास्तदा |
क्व वासुदेवोऽत्र वयम् प्राप्ता दाक्षायणीसुताः || २६ ||
इत्येवम् वदतो दैत्यान् स जगाद पुनर्वसुः |
प्रणामनम्रो राजेन्द्र सर्वदर्शी महामतिः || २७ ||
वासुदेवो जगत्सर्वम् यच्चेङ्गम् यच्च नेङ्गति |
ब्रह्मादिषु तृणान्तेषु स एवैको जगद्गुरुः || २८ ||
अहम् भवन्तो देवाद्या मनुष्याः पशवश्च ये |
तेऽपि देवा जगद्धातुर्व्यतिरिक्ता न केशवात् || २९ ||
तेनैव माया वितता वैष्णवी भिन्नदर्शनी |
आ स्वाङ्गेषु देवोऽसौ प्रदर्शयति सर्वशः || ३० ||
तद्यूयमहमन्ये च यच्च स्थावरजङ्गमम् |
वासुदेवात्मकम् सर्वमिति मत्वा नमोऽस्तु वः || ३१ ||
इत्युक्तास्तेन ते दैत्या न शक्ता मनुजेश्वरम् |
यत्नवन्तोऽपि तम् हन्तुम् प्रययुः स्वान् अथालयान् || ३२ ||
ततः पुरोहितम् सर्वे काव्यम् नीतिविशारदम् |
समेत्य ते यथावृत्तम् सर्वमस्मै न्यवेदयन् || ३३ ||
असुरा ऊचुः –
अस्माकमत्यन्तरिपुरयम् प्राप्तो रसातलम् |
देवानामुपकृद्ब्रह्मन् यज्वा चेदिपतिर्वसुः || ३४ ||
अस्मत्पक्षक्षयायैष देवानाम् पक्षवर्धनः |
तत्र यत्प्रतिपत्तव्यम् तन्नो ब्रूहि महामते || ३५ ||
शुक्र उवाच –
स्वगोचरमरिः प्राप्तः शत्रुपक्षोपकारकः |
न हन्तव्य इतीदम् को नीतिमान् प्रवदिष्यति || ३६ ||
तस्मात् प्रगृह्य दिव्यानि सर्वास्त्राण्यमरार्दनाः |
निपातयत तम् गत्वा चेदिराजम् स्वगोचरे || ३७ ||
असुरा ऊचुः –
सर्वमेतन्महाभाग तस्मिन्नस्माभिरुद्यतैः |
कृतम् न शकितो हन्तुम् निर्यत्नोऽपि हि पार्थिवः || ३८ ||
किम् तद्योगफलम् तस्य किम् वा जपफलम् मुने |
तपसो वा मुनिश्रेष्ठ विस्तरात्तद्वदस्व नः || ३९ ||
शुक्र उवाच –
नित्यम् सञ्चिन्तयत्येष योगयुक्तो जनार्दनम् |
सास्य रक्षा परा मन्ये को हिनस्त्यच्युताश्रयम् || ४० ||
कीर्तितः सम्स्मृतो ध्यातः पूजितः सम्स्तुतस्तथा |
ऐहिकामुष्मिकीम् रक्षाम् करोति भगवान् हरिः || ४१ ||
यद्दुर्लभम् यदप्राप्यम् मनसो यन्न गोचरे |
तदप्यप्रार्थितम् ध्यातो ददाति मधुसूदनः || ४२ ||
शरीरारोग्यमर्थाम्श्च भोगाम्श्चैवानुषङ्गिकान् |
ददाति ध्यायताम् नित्यमपवर्गप्रदो हरिः || ४३ ||
यदिदम् चेदिराजानम् हन्तुमिच्छथ दानवाः |
तदस्य केशवाच्चित्तमुपायेनापनीयताम् || ४४ ||
शौनक उवाच –
ततस्ते तद्वचः श्रुत्वा दानवाः कुरुपुङ्गव |
ब्रह्मरूपप्रतिच्छन्ना जग्मुर्यत्र स्थितो वसुः || ४५ ||
ददृशुस्ते महात्मानम् प्रणतम् चेदिपुङ्गवम् |
कृतपूजम् जगद्धातुर्वासुदेवस्य पार्थिवम् || ४६ ||
सम्स्तुतावुद्यतम् शान्तम् सर्वत्र समदर्शिनम् |
कृष्णार्पितमनोवृत्तिम् जानुभ्यामवनिङ्गतम् || ४७ ||
ततः सम्शृण्वताम् तेषाम् तुष्टाव मधुसूदनम् |
तन्नामस्मरणोद्भूत- पुलकश्चेदिपुङ्गवः || ४८ ||
शतानीक उवाच –
जगाद यम् स राजर्षिः स्तवम् कृष्णस्य शौनक |
शृण्वताम् दानवेन्द्राणाम् तन्मे पापहरम् वद || ४९ ||
शौनक उवाच –
शृणु यद्देवदेवस्य विष्णोरद्भुतकर्मणः |
स्तोत्रम् जगाद राजाऽसौ रसातलतलम् गतः || ५० ||
वसुरुवाच –
स्तौमि देवमजम् नित्यम् परिणामविवर्जितम् |
अवृद्धिक्षयमीशानमच्युतम् परतः परम् || ५१ ||
कल्पनाकृतनामानमनिर्देश्यमजम् विभुम् |
मूलहेतुमहेतुम् त्वाम् वासुदेवम् नमाम्यहम् || ५२ ||
परमार्थपरैरीशाश्चिन्त्यते यः प्रजाकरैः |
तम् वासुदेवमीशेशम् नमाम्यद्य गुणम् परम् || ५३ ||
यस्मादिदम् यत्र चेदमिदम् यो विश्वमव्ययम् |
तम् वासुदेवममलम् नमामि परमेश्वरम् || ५४ ||
ज्ञेयम् ज्ञातारमजरम् भोक्तारम् प्रकृतेः प्रभुम् |
पुरुषस्वरूपिणम् देवम् नतोऽस्मि पुरुषम् परम् || ५५ ||
प्रधानादिविशेषान्तस्वरूपमजमव्ययम् |
स्थूलसूक्ष्ममयम् सर्वम्व्यापिनम् तम् नमाम्यहम् || ५६ ||
स्रष्टा पालयिता चान्ते यश्च सम्हारकारकः |
त्रयीमयम् तम् त्रिगुणम् नतोऽस्मि पुरुषोत्तमम् || ५७ ||
आब्रह्मस्थावरान्ते च यो जगत्यत्र सम्स्थितः |
व्यक्तरूपी च तम् देवम् नतोऽहम् विष्णुमव्ययम् || ५८ ||
नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर |
परमार्थ पराचिन्त्य विधातः परमेश्वर || ५९ ||
त्वमादिरन्तो मध्यम् च जगतोऽस्य जगत्पते |
जगत्त्वयि जगच्च त्वम् जगत्त्वत्तो जगन्मय || ६० ||
तवाग्निरासम् वसुधाङ्घ्रियुग्मम् नभः शिरश्चन्द्ररवी च नेत्रे |
समस्तलोका जठरम् भुजाश्च दिशश्चतस्रो भगवन्नमस्ते || ६१ ||
यद्भूगतम् यद्गगनान्तराले यद्वा नभस्यखिललोकगम् च |
यत्स्थूलम् सूक्ष्मम् परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश || ६२ ||
वेदाश्च वेद्यम् च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो |
वदन्ति तत्त्वा मुनयः परेशम् त्वयि प्रसन्ने परमार्थदृश्ये || ६३ ||
नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यम् परमार्थसार |
विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास || ६४ ||
नमोऽस्तु तुभ्यम् परमेश्वराय नमस्तथान्तः कारणस्थिताय |
प्रधानभूताय नमश्च तुभ्यम् व्यक्तस्वरूपेण च सम्स्थिताय || ६५ ||
सम्हृत्य विश्वम् जलशायिने नमो नमश्च ते कैटभसूदनाय |
स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव || ६६ ||
स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यम् पुरुषोत्तमाय |
रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि सम्हारकराय विष्णो || ६७ ||
जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश |
रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय || ६८ ||
जितम् त्वया सर्वग सर्वसारम् सर्वात्मभूताखिल वेदवेद्य |
जितम् जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य || ६९ ||
यज्ञाश्रयो यज्ञपुमानशेषदेवेश मर्त्यासुरयज्ञभोक्तः |
त्वमीड्यमानोऽभिमतम् ददासि धराधरेशाच्युत वासुदेव || ७० ||
नमस्ते देवदेव त्वम् यथा पास्यखिलम् जगत् |)
स्थितौ तथा समस्तेभ्यो दोषेभ्यो माम् समुद्धर || ७१ ||
कृष्णाच्युत हृषीकेश सर्वभूतेश केशव |
महात्मम्स्त्राहि माम् भक्तम् वासुदेव प्रसीद मे || ७२ ||
शौनक उवाच
इति स्तोत्रावसाने तम् चेदिराजम् ततोऽसुराः |
जहसुः सतलाक्षेपम् प्रोचुश्च द्विजरूपिणः || ७३ ||
प्राज्ञः किल प्रजापालश्चेदिराट् सम्श्रुतो भुवि |
तदस्य ज्ञानमखिलम् विपरीतार्थमीदृशम् || ७४ ||
क्व वासुदेवः क्व भवानिमामन्त्याम् दशाम् गतः |
यो भवान्विप्रशापेन रसातलतलाश्रयः || ७५ ||
भविष्यति स्मृतो देवस्त्राता किल तवाच्युतः |
योऽसावाप्याय्यते विप्रैरध्वरेषु हविःस्रवैः || ७६ ||
योऽन्यत्रस्त्राणकामो वा यज्ञभागमभीप्सते |
स त्राता तव गोविन्दो भविष्यत्यतिविस्मयः || ७७ ||
यदा त्वम् भगवद्भक्तो विप्रशापान्निपातितः |
तदा स वासुदेवस्ते क्व गतोऽल्पश्रुतोऽव्ययः || ७८ ||
न वासुदेवो न हरिर्न गोविन्दो न केशवः |
शापम् ददत्सु विप्रेषु परित्राणपरो भवेत् || ७९ ||
स त्वमार्तप्रलापेभ्यो विरमाद्य यदीच्छसि |
कुबुद्धिमेताम् सम्त्यज्य स्वपौरुषपरो भव || ८० ||
न वयम् पुण्डरीकाक्षम् नानन्तम् नाच्युतम् हरिम् |
सम्श्रिता न च सीदामः स्वपौरुषमुपाश्रिताः || ८१ ||
यद्यस्मद्वचनम् वीर न मोहेन विशङ्कसे |
तदाश्रयस्व स्वम् वीर्यम् परित्यज्य विमूढताम् || ८२ ||
इत्युदीरितमाकर्ण्य स तेषाम् चेदिपुङ्गवः |
अज्ञानपटलच्छन्नान् हृदयेन शुशोच तान् || ८३ ||
उवाच चेदिराजो वै हृदये कृतमत्सरः |
अहो मोहोऽयमेतेषाम् अहङ्कारसमुद्भवः |
येन सर्वेश्वरे विष्णावेतेषामावृता मतिः || ८४ ||
प्रकाशम् च स तानाह दानवान्प्रीतिपूर्वकम् |
पापतस्तत्परित्राणम् चिकीर्षुर्वसुधाधिपः || ८५ ||
मैवम् भो भगवद्भक्तिम् कुरुध्वम् द्विजसत्तमाः |
सम्साराब्धौ मनुष्याणामेकः पोतो जनार्दनः || ८६ ||
यूयम् वयम् तथैवान्ये तस्य सर्वे विभूतयः |
ब्रह्मादिस्थावरान्तम् हि तस्य देवस्य विस्तृतिः || ८७ ||
सुखदुःखमया नॄणाम् विपाकः कर्मणाम् च यः |
सम्शुद्धिहेतुः स्वच्छन्दात् सोऽपि विप्राः प्रवर्तते || ८८ ||
परीक्षाम् च जगन्नाथः करोत्यदृढचेतसाम् |
नराणामर्थविद्वम्सनिकाशेषु जनार्दनः || ८९ ||
अल्पयत्नेन चायान्ति विमुक्तिम् केशवाश्रयात् |
तद्विघाताय शक्राद्या यतन्ते विघ्नहेतुभिः || ९० ||
यदा जनार्दने भक्तिम् वहन् सीदति मानवः |
निर्विण्णचेताः शैथिल्यम् मनसः कुरुते तदा || ९१ ||
देवानाम् महती शङ्का भक्तियुक्ता जनार्दने |
मुक्तिभाजो भविष्यन्तीत्यतस्ते परिपन्थिनः || ९२ ||
प्रायो भवन्ति गोविन्दे भक्तिव्याघातहेतवः |
विघ्नाश्चित्तविघाता हि विमुक्तिपरिपन्थिनः || ९३ ||
सत्यम् शतेन विघ्नानाम् सहस्रेण तथा तपः |
विघ्नायुतेन गोविन्दे नॄणाम् भक्तिर्निवार्यते || ९४ ||
स्वम् चापि कर्म पुरुषः शुभाशुभमुपागतम् |
भुङ्क्ते किमत्र देवस्य गर्ह्यते येन केशवः || ९५ ||
मर्यादाम् च कृताम् तेन यो भिनत्ति स मानवः |
न विष्णुभक्तो मन्तव्यः साधु धर्मार्चनो हरिः || ९६ ||
न पुष्पैर्न च धूपेन नोपहारानुलेपनैः |
तोषम् प्रयाति गोविन्दः स्वकर्माभ्यर्चितो यथा || ९७ ||
ब्राह्मणा देवदेवेन मुखात् सृष्टा महात्मना |
देवानामपि सम्पूज्य भूमिदेवा द्विजोत्तमाः |
अनुवृत्तिः सदा कार्या तेषाम् वर्णैरनुव्रतैः || ९८ ||
ते पूज्यास्ते नमस्कार्यास्तोषणीयाश्च यत्नतः |
तेषु तुष्टेष्वशेषाणाम् देवानाम् प्रीतिरुत्तमा || ९९ ||
तेषाम् मया यदज्ञानाञ्ज्ञानाद्वा कृतमप्रियम् |
तेनापि तुष्ट एवाहम् विष्णोरम्शा द्विजोत्तमाः || १०० ||
क्रियावान् मम पोतोऽयम् भूतलाद्यो रसातले |
पतितस्यातिभूमेऽस्मिन् दुरुत्तारे भवार्णवे || १०१ ||
रसातलतलोत्तारम् न हि वाञ्छाम्यहम् द्विजाः |
सम्सारगर्तादुत्तारम् वृणोम्याराधनाद्धरेः || १०२ ||
यथाहम् नाभिवाञ्छामि भोगानाराध्य केशवम् |
तेन सत्येन विष्णुर्मे सर्वदोषान्व्यपोहतु || १०३ ||
यथा न माता न पिता नात्मा न सुहृदः सुताः |
कृष्णालापात्प्रियतरास्तथा माम् पातु केशवः || १०४ ||
यथा विष्णुमयम् सर्वमेतत्पश्याम्यहम् जगत् |
तथा मम मनोदोषान् अशेषान् स व्यपोहतु || १०५ ||
(जाता विष्णुविलोमेषु भवत्स्वपि दया मम |
य (था तेनाद्य सत्येव भवन्तः सन्तु तन्मयाः || १०६ ||)
यथा नाहम् भवद्द्वेषान्न सम्हर्षाद्भवीम्यहम् |
कृपयैव तथा सर्वे भवन्तः सन्तु तन्मयाः || १०७ ||
यो यो न भक्तो गोविन्दे तत्र तत्र कृपा यथा |
ममारिवर्गेऽपि तथा भक्तिर्वोऽस्तु जनार्दने || १०८ ||
एवमुच्चारिते तेषाम् दैत्यानाम् तत्क्षणात्तथा |
तस्मिन् राजन्यभून्मैत्री तथान्येषु च जन्तुषु || १०९ ||
देवदेवेऽप्यभूद्भक्तिर्भावो नष्टस्तथाऽऽसुरः |
स्वरूपधारिणश्चैनम् प्रणम्यासुरपुङ्गवाः |
प्रत्यूचुः पार्थिवम् विष्णुभक्तम् सद्ब्रह्मचारिणम् || ११० ||
चेदिभूपाल भद्रम् ते भवतोऽतुलविक्रम |
सम्सारे त्वत्समैः सङ्गः पुण्यभाजाम् प्रवर्तते || १११ ||
वयम् स्वजातिदोषेण देवपक्षविरोधिनः |
भवन्तमागता हन्तुम् देवप्रीणनतत्परम् || ११२ ||
यदा न शक्तितो हन्तुमस्माभिस्त्वम् निरायुधः |
विष्णुध्यानमहारक्षाषान्तरगतः प्रभो || ११३ ||
त्याजयद्भिस्तथा भक्तिम् केशवादिति दर्शितम् |
वैफल्यमतिपुण्येषु विष्णुशुश्रूषणा नृणाम् || ११४ ||
स त्वम् देवातिदेवस्य विष्णोरमिततेजसः |
अनुग्राह्यो यथा तेऽयमच्युते निश्चला मतिः || ११५ ||
दिष्ट्या क्रोधाभिभूतानामस्माकम् त्वन्निवर्हणे |
मतिर्जाता यतः प्राप्ता त्वत्सङ्गाद्दुर्लभा मतिः || ११६ ||
कुरुष्व च प्रसादम् त्वम् प्रणतानाम् नरेश्वर |
शत्रावपि कृपाशीलम् यन्नो दुष्टमभून्मनः || ११७ ||
दिशाम् वैमल्यम् विमलम् चक्षुषश्चोपपादितम् |
भवता दुष्टताम् एतामासुरीमपमार्जता || ११८ ||
दुष्टाः स्म वर्षपूगानि यद्यातानि वृथैव नः |
विषयाक्षिप्तचित्तानाम् कृष्णे भक्तिमकुर्वताम् || ११९ ||
कर्मभूमौ मनुष्याणाम् तदेव विफलम् दिनम् |
यदच्युतकथालापध्यानार्चारहितम् गतम् || १२० ||
इत्युक्त्वा तेऽसुरा भूयः प्रसाद्य च तथा वसुम् |
विष्णौ भक्तिपरा यातास्तीव्रसम्योगिनोऽलयान् || १२१ ||
स चापि चेदिराट् तस्माद्देवदेवेन चक्रिणा |
पातालादुद्धृतः पश्चात् सम्सारगहनादपि || १२२ ||
इत्येतत् सर्वमाख्यातम् यन्माम् त्वम् परिपृच्छसि |
यथावसीदन्ति नरा भक्तिमन्तोऽपि केशवे || १२३ ||
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी |
तदा कियत्स्वर्गसुखम् सैव निर्वाणहेतुकी || १२४ ||
इत्येतदसुरैः सार्धम् सम्वादम् यः पुरा वसोः |
पठिष्यत्यखिलम् भक्त्या स तल्लोकम् उपैष्यति || १२५ ||
इति विष्णुधर्मे वस्वसुरसम्वादो नाम चतुस्सप्ततितमोऽध्यायः
अथ पञ्चसप्ततितमोऽध्यायः
भक्तिवर्णनम्
शतानीक उवाच –
जगत्प्रभुम् देवदेवमशेषेशम् जनार्दनम् |
प्रणिपत्याहमेतम् त्वाम् यत्पृच्छामि तदुच्यताम् || १ ||
यैरुपायैः प्रदानैर्वा नराणाममरार्चितः |
प्रीतिमान् पुण्डरीकाक्षो भवत्याचक्ष्व तन्मम || २ ||
शौनक उवाच –
ये स्वधर्मे स्थिता वर्णा विप्राद्याः कुरुनन्दन |
विधर्मेषु न वर्तन्ते प्रीतिमाम्स्तेषु केशवः || ३ ||
ब्रह्मचारिगृहस्थाद्या न च्यवन्त्याश्रमाच्च ये |
स्वधर्मतो हरिस्तेषाम् प्रीतिमानेव सर्वदा || ४ ||
ये न दम्भेन वर्तन्ते नरा भूतेष्वलोलुपाः |
त्यक्तग्राम्यादिसङ्गाश्च तेषु प्रीतिः परा हरेः || ५ ||
दातारो नापहर्तारः परस्वानाममायिनः |
ये नरास्तेषु गोविन्दः पुत्रेष्विव सदा हितः || ६ ||
येषाम् नराणाम् न मतिर्जिह्वा वासत्यमुज्झति |
ते प्रिया वासुदेवस्य ये च द्विजपरायणाः || ७ ||
कर्मणा मनसा वाचा ये न हिम्सानुवर्तिनः |
ते नरा वासुदेवस्य आप्ताः पाण्डुकुलोद्वह || ८ ||
सर्वदेवेषु ये विष्णुम् सर्वभूतेष्ववस्थितम् |
मन्यन्ते वासुदेवस्य ते प्रियाः पुत्रवत्सदा || ९ ||
ब्रह्माद्यम् स्थावरान्तम् च भूतग्रामम् जनार्दनात् |
ये च पश्यन्त्यभेदेन ते विष्णोः सततम् प्रियाः || १० ||
देववेदद्विजातीनाम् निन्दायाम् ये न मानवाः |
प्रीतिभाजो भवन्तीष्टास्ते सदा शार्ङ्गधन्विनः || ११ ||
प्रियाणामथ सर्वेषाम् देवदेवस्य स प्रियः |
आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी || १२ ||
तस्मात्प्रियत्वम् कृष्णस्य वाञ्छता निजधर्मजैः |
गुणैरात्मा सदा योज्यो न दूरे गुणिनो हरिः || १३ ||
येषाम् न गृद्धिः पारक्ये दारे द्रव्ये च चेतसः |
हिम्सायाम् च मनुष्याणाम् ते कृष्णेनावलोकिताः || १४ ||
वेदाः प्रमाणम् स्मृतयो येषाम् सन्मार्गसेविनाम् |
परोपकारसक्तानाम् ते कृष्णेनावलोकिताः || १५ ||
कलिकल्मषदोषेण येषाम् नोपहता मतिः |
पाषण्डानुगता नैव ते कृष्णेनावलोकिताः || १६ ||
येषाम् क्लेशो गुरोरर्थे देवविप्रोद्भवोऽपि वा |
न विवित्सासमुद्भूतस्ते कृष्णेनावलोकिताः || १७ ||
स्वपन्तः सम्स्थिता यान्तस्तिष्ठन्तश्च जनार्दनम् |
ये चिन्तयन्त्यविरतम् ते कृष्णेनावलोकिताः || १८ ||
यथाऽऽत्मनि तथाऽपत्ये येषाम् अद्रोहिणी मतिः |
समस्तसत्त्वजातेषु ते कृष्णेनावलोकिताः || १९ ||
(देवपूजामनुदिनम् गुरुविप्रार्थसत्क्रियाम् |
ये कुर्वन्ति नरा विद्धि ते कृष्णेनावलोकिताः || २० ||)
सुवर्णम् रत्नमथवा पारक्यम् विजने वने |
विलोक्य नैति यो लोभम् तम् अवैहि हरेः प्रियम् || २१ ||
देवान् पितॄम्स्तथाऽऽपन्नान् अतिथीञ्जामयोऽध्वगान् |
यो बिभर्ति विजानीहि तम् नरम् भगवत्प्रियम् || २२ ||
न क्रोधमेति क्रुद्धेभ्यः सहते यो निराक्रियाम् |
तम् विजानीहि भर्तव्यम् देवदेवस्य शार्ङ्गिनः || २३ ||
परलोकप्रतीकारकरणाय सदोद्यमम् |
कुर्वन्नालक्ष्यतामेति केशवेनावलोकितः || २४ ||
नात्मसम्स्तवमन्येषाम् न निन्दाम् चार्थलिप्सया |
करोति पुरुषव्याघ्र यस्य नारायणो हृदि || २५ ||
सर्वभूतदयाम् सत्यमक्रोधम् धर्मशीलताम् |
भजन्ते पुरुषा देवे गोविन्दे हृदये स्थिते || २६ ||
न कलौ न परद्रव्ये परदाराश्रिता मतिः |
नराणाम् जायते राजन् गोविन्दे हृदयस्थिते || २७ ||
क्षमाम् करोति क्रुद्धेषु दयाम् मूढेषु मानवः |
मुदम् च धर्मशीलेषु गोविन्दे हृदये स्थिते || २८ ||
यदा बिभेत्यधर्मादेर्धर्मादीम्श्च यदेच्छति |
तदा कुरुवरश्रेष्ठ नरः कृष्णेन वीक्षितः || २९ ||
पुत्रदारगृहक्षेत्रद्रव्यादेर्ममताम् नरः |
नायास्यति जगन्नाथे हृषीकेशे पराङ्मुखे || ३० ||
कलौ कृतयुगम् तेषाम् क्लेशास्तेषाम् सुखाधिकाः |
येषाम् शरीरग्रहणे हरिशुश्रूषणे मतिः || ३१ ||
यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति |
ज्ञेयस्तदा मनुष्येण हृदयेऽस्य हरिः स्थितः || ३२ ||
परमार्थे मतिः पुम्सामसारे तु भवार्णवे |
कथम् भवति राजेन्द्र विष्वक्सेन पराङ्मुखे || ३३ ||
श्रद्दधानो दयाशीलः समलोष्टाश्मकाञ्चनः |
परार्थे मानवः कृष्णे प्रसन्ने नृप जायते || ३४ ||
वहतोऽपि सदा कृष्णे भक्तिमव्यभिचारिणीम् |
पाणिष्वसमदृग्बुद्धेः सुलभो नैव केशवः || ३५ ||
ये दाम्भिका भिन्नवृत्ता ये च धर्मध्वजोच्छ्रयाः |
दुर्लभो भगवान् देवस्तेषाम् सुयततामपि || ३६ ||
कामलोभाश्रितम् येषाम् चित्तम् क्रोधादिदूषितम् |
तेषाम् जन्मसहस्रेऽपि न मतिः केशवाश्रया || ३७ ||
हेयाम् कृष्णाश्रयाम् वृत्तिम् मन्यन्ते हेतुसम्श्रिताः |
अविद्योपहतज्ञाना येऽज्ञाने ज्ञानमानिनः || ३८ ||
वेदवादविरोधेन कूटयुक्तिमपाश्रिताः |
ये केशवस्तद्धृदये न कदाचित् प्रियातिथिः || ३९ ||
मानुषम् तम् मनुष्यत्वे मन्यमानाः कुबुद्धयः |
कर्माणि येऽस्य निन्दन्ति न तेषाम् निष्कृतिर्नृणाम् || ४० ||
केचिद्वदन्ति तम् देवम् मनुष्यम् चाल्पमेधसः |
तिर्यक्त्वम् चापरे विष्णुम् मायया तस्य मोहिताः || ४१ ||
देवत्वमपि कृष्णस्य यस्य निन्दा महात्मनः |
स्तुतिम् तस्य कथम् शक्ताः कर्तुमीशस्य मानवाः || ४२ ||
व्यापित्वम् शाश्वतत्वम् च जन्मभावविवर्जितम् |
यदाऽस्य प्रोच्यते काऽस्य स्तुतिरर्थे तथा स्थितौ || ४३ ||
सर्वेश्वरेश्वरः कृष्णः प्रोच्यते यदि पण्डितः |
तथापि स्वल्पमेवोक्तम् भूतार्थे कतमा स्तुतिः || ४४ ||
आब्रह्मस्तम्बपर्यन्ते सम्सारे यस्य सम्स्थितिः |
निन्दापि तस्य न नृभिः कर्तुमीशस्य शक्यते || ४५ ||
यदा काणाश्च कुण्ठाश्च मूढो दुर्बुद्धिरातुरः |
सर्वगत्वात् स एवैकस्तदासौ निन्द्यते कथम् || ४६ ||
स्रष्टा पालयिता हर्ता जगतोऽस्य जगच्च सः |
यष्टा याजयिता याज्यः स एव भगवान् हरिः || ४७ ||
दाता दानम् तथाऽदाता कर्ता कार्यम् तथा क्रियाः |
हन्ता घातयिता हिम्स्यो हार्यम् हर्ता स यः स्वयम् || ४८ ||
सर्वकारणभूतस्य तस्येशस्य महात्मनः |
कः करोति स्तुतिम् विष्णोर्निन्दाम् वा पृथिवीपते || ४९ ||
तस्मात् सर्वेश्वरो विष्णुर्न स्तोतुम् न च निन्दितुम् |
शक्यते सर्वभूतत्वाच्चोक्षाचोक्षस्वरूपिणा || ५० ||
भूतात्मा मोक्षामोक्षस्वरूपवान्
स्तुतेः पादाद्यतो नान्यदुत्कृष्टमुपलभ्यते |
तस्याप्युच्चारणेनेशो न स्तोतुम् शक्यते हरिः || ५१ ||
भूतार्थवादस्तुतये न निन्दायै विधीयते |
यतोऽतः सर्वभूतस्य का निन्दा तस्य का स्तुतिः || ५२ ||
येन सर्वात्मना तत्र हृदयम् सन्निवेशितम् |
अपि मौनव्रतस्तस्य सुलभोऽयम् जनार्दनः || ५३ ||
तस्मात्त्वम् कुरुशार्दूल स्वधर्मपरिपालनम् |
कुरु विष्णुम् च हृदये सर्वव्यापिनमीश्वरम् || ५४ ||
तन्मना भव तद्भक्तस्तद्याजी तम् नमस्कुरु |
विष्णोरेवम् प्रियत्वम् त्वमाशु यास्यसि पार्थिव || ५५ ||
यम् स्तुवन् वन्द्यतामेति वन्द्यमानश्च वन्द्यताम् |
तमीश्वरेश्वरम् विष्णुम् हृदये सन्निवेशय || ५६ ||
सम्पूज्य यम् पूज्यतमो भवत्यत्र जगत्त्रये |
तमीश्वरेश्वरम् विष्णुम् हृदये कुरु पार्थिव || ५७ ||
स्ववर्णकर्माभिरतः कुरु चित्ते जनार्दनम् |
एष शास्त्रार्थसद्भावः किमुक्तैर्बहुविस्तरैः || ५८ ||
यस्मिन्प्रसन्नचित्तस्त्वम् यस्मिन् कोपमुपैषि च |
तावुभावपि तद्भूतौ चिन्तयन् सिद्धिमेष्यसि || ५९ ||
यत्र यत्र स्थितम् चेतः प्रीत्या स्नेहेन वा तव |
तम् तम् चिन्तय गोविन्दम् मनसः स्थैर्यकारणात् || ६० ||
स्वपन् विबुद्ध्यनुत्तिष्ठन् स्थितो भुञ्जन् पिबन्व्रजन् |
सर्वगम् सर्वकर्तारम् विष्णुम् सर्वत्र चिन्तय || ६१ ||
यथाग्निसङ्गात् कनकमपदोषम् प्रजायते |
सम्श्लिष्टम् वासुदेवेन मनुष्याणाम् तथा मनः || ६२ ||
यज्विनो यम् नमस्यन्ति यम् नमस्यन्ति देवताः |
योगिनो यम् नमस्यन्ति तम् नमस्यम् नमाम्यहम् || ६३ ||
इति विष्णुधर्मे भक्तिवर्णनम् नाम पञ्चसप्ततितमोऽध्यायः
षट्सप्ततितमोऽध्यायः
वासुदेवश्रीसम्वादः
शौनक उवाच –
भूयश्च शृणु राजेन्द्र यज्जगाद जनार्दनः |
नागपर्यङ्कशयने पृष्टः क्षीराब्धिकन्यया || १ ||
पुरा शयानम् गोविन्दम् प्रावृट्काले महोदधौ |
शेषभोगिमहाभोगे वीच्यम्बुकणशीतले || २ ||
वक्षःस्थलस्थिता देवी जगन्माता जगत्पतिम् |
(अनन्यासक्तदृष्टिम् च किमप्येकाग्रमानसम् |)
श्रीवत्सवक्षसम् लक्ष्मीः करसम्वाहनादृता || ३ ||
योगनिद्रावसानस्थमच्युतम् जगतः पतिम् |
पप्रच्छ पुण्डरीकाक्षम् पुण्डरीककरा हरिम् || ४ ||
श्रीरुवाच –
सृष्टम् जगदिदम् सर्वम् बहुशश्चोपसम्हृतम् |
त्वया जगत्पते चात्र किम् कश्चिद्दयितस्तव || ५ ||
देवान् मनुष्यान् गन्धर्वान् यक्षविद्याधरासुरान् |
सृष्ट्वा सृष्टान्निर्घृणत्वादुपसम्हरते भवान् || ६ ||
कश्चिदेतेषु भूतेषु देवादिषु तवाच्युत |
द्वेषोऽस्ति प्रीतिरथवा समः सर्वत्र वा भवान् || ७ ||
भगवानुवाच –
समोऽस्मि सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |
तथापि गुणगृह्योऽहम् प्रत्येकहृदयस्थितः || ८ ||
अन्तरात्मनि सर्वस्य लोकस्याहमवस्थितः |
पुण्यापुण्यकृतौ तेषु प्रतिद्वेषौ शुभे मम || ९ ||
पुण्यम् प्रीत्यनुभावेन साधु बुद्धिषु वर्तते |
द्वेषानुभावेनापुण्यम् फलदम् तेषु भामिनि || १० ||
श्रूयताम् च महाभागे नरेषु शुभचारिषु |
सततम् येषु मे प्रीतिस्तथाऽप्रीतिर्वरानने || ११ ||
प्रलयोत्पत्तितत्त्वज्ञा आत्मज्ञानपराश्च ये |
एते स्वकर्मणा भद्रे मम प्रीतिपथम् गताः || १२ ||
वाङ्मनःकायिकीम् हिम्साम् ये न कुर्वन्ति कुत्रचित् |
सर्वमैत्रा नरा लक्ष्मि दयितास्ते सदा मम || १३ ||
स्वकीयद्रव्यसन्तुष्टा निवृत्ताश्चौर्यकर्मणः |
सत्यशीलदयायुक्ता नरा मम सदा प्रियाः || १४ ||
मातृस्वसृसुतातुल्यान् परदाराम्श्च ये नराः |
मन्यन्ते ते च मे लक्ष्मि दृढम् प्रियतमाः सदा || १५ ||
न कामान्न च सम्रम्भान् न द्वेषाद्ये च भामिनि |
सन्त्यजन्ति स्वकम् कर्म तेऽतीव दयिता मम || १६ ||
विश्वास्याः सर्वभूतानामहिम्स्राश्च दयालवः |
त्यक्तानृतकथा देवि मनुष्या दयिता मम || १७ ||
धर्मलब्धाम्स्तु ये भोगान् भुञ्जते नातिकीकटाः |
परलोकाविरोधेन ते ममातिप्रिया नराः || १८ ||
न लोभे न च कार्पण्ये न स्तेये न च मत्सरे |
येषाम् मतिर्मनुष्याणाम् तेऽतीव दयिता मम || १९ ||
धर्मलब्धेषु दारेषु ऋतुकालाभिगामिनः |
गृहस्थ कर्माभिरता नरास्ते दयिता मम || २० ||
पररन्ध्रेषु जात्यन्धाः परदारेष्वपुम्सकाः |
परापवादे ये मूका दयितास्ते नरा मम || २१ ||
परापवादम् निन्दाम् च परमर्मावघट्टनम् |
ये न कुर्वन्ति पुरुषास्ते देवि मम वल्लभाः || २२ ||
सत्याम् श्लक्ष्णाम् निराबाधाम् मधुराम् प्रीतिदायिनीम् |
ये वाचमीरयन्ति स्म ते मनुष्या मम प्रियाः || २३ ||
ये ब्राह्मणार्थे सम्त्यज्य सद्यः स्वमपि जीवितम् |
यतन्ते परया भक्त्या ते देवि दयिता मम || २४ ||
साक्षाद्देवमिवायान्तम् या पतिम् नित्यमर्चति |
पादशौचादिभिर्नारी तस्या नाहम् सुदुर्लभः || २५ ||
पूर्णचन्द्रमिवोद्यन्तम् भर्तारम् या गृहागतम् |
हृष्टा पश्यति ताम् विद्धि दयिताम् योषितम् मम || २६ ||
ते भक्ता ये सदा विप्रान् पूजयन्त्यब्धिसम्भवे |
यथाविभवतोभक्त्या स्वकर्माभिरता नराः || २७ ||
श्रुतिस्मृत्युदितम् धर्मम् मनसापि न ये नराः |
समुल्लङ्घ्य प्रवर्तन्ते ये भक्ता मम भामिनि || २८ ||
ब्रह्मरूपधरस्यास्यान्मम वेदा विनिःसृताः |
मन्वादिरूपिणश्चैव समस्ताः स्मृतयः स्मृताः || २९ ||
श्रुतिः स्मृतिर्ममैवाज्ञा तामुल्लङ्घ्य यजेच्छुभे |
सर्वस्वेनापि माम् देवि नाप्नोत्याज्ञाविघातकृत् || ३० ||
यः स्वधर्मान्न चलति हिम्साधौ यो न सज्यते |
वहतस्तस्य मद्भक्तिम् सदैवाहम् न दुर्लभः || ३१ ||
एतद्देवि मयाऽऽख्यातम् यत्पृष्टोऽहमिह त्वया |
प्रियाणाम् मम सर्वेषाम् नृणु योऽतितरम् प्रियः || ३२ ||
विप्राणामपि सर्वेषाम् शृणुयात्यो मम प्रियः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च वरवर्णिनि |
स्वधर्मादचलन् देवि दयावान् सर्वजन्तुषु || ३३ ||
सत्यवाक् शौचसम्पन्नो न द्रोही न च मत्सरी |
वाङ्मनःकर्मभिः शान्तो दयितः सततम् मम || ३४ ||
शौनक उवाच –
एवम् श्रीः देवदेवेन प्रागुक्ता हरि मेधसा |
तवापि हि नरश्रेष्ठ यथावत् कथितम् मया || ३५ ||
सम्वादमेतद्देवस्य सह लक्ष्म्या जगत्पतेः |
यः शृणोति स पापेभ्यः समस्तेभ्यः प्रमुच्यते || ३६ ||
इति विष्णुधर्मे वासुदेवश्रीसम्वादोनाम षट्सप्ततितमोऽध्यायः
सप्तसप्ततितमोऽध्यायः
अदितिस्तवः
शतानीक उवाच –
भूयोऽखिलम् जगद्धातुर्वासुदेवस्य भार्गव |
सम्यगाराधनायालम् क्रियायोगम् ब्रवीहि मे || १ ||
यत्फलम् केशवस्यार्चाम् प्रतिष्ठाप्य लभेन्नरः |
यच्च देवकुलम् विष्णोः कारयित्वा फलम् लभेत् || २ ||
यद्दीपधूपपुष्पाणाम् गन्धानाम् च निवेदने |
ध्वजादिदाने यत्पुण्यम् यत्पुण्यम् गीतवादिते || ३ ||
तथा पवित्रपठने जयशब्दाद्युदीरणे |
सम्मार्जनादौ यत्पुण्यम् नमस्कारे प्रदक्षिणे || ४ ||
शीर्णस्फुटितसम्स्कारकरणे चापि यत्फलम् |
तन्मे विस्तरतः सर्वम् भगवन् वक्तुमर्हसि || ५ ||
यैश्चोपवासैर्भगवान्नरैराराध्यते हरिः |
तेषाम् फलम् च यत्कृत्स्नम् तन्ममाचक्ष्व विस्तरात् || ६ ||
सम्क्षेपात् पूर्वमेवैतद्भवतः कथितम् मया |
विस्तरेण महाराज श्रूयताम् ब्रुवतो मम || ७ ||
अदितिर्नाम देवानाम् माता परमदुश्चरम् |
तपश्चचार वर्षाणाम् सहस्रम् पृथिवीपते || ८ ||
आराधनाय कृष्णस्य वाग्यता वायुभोजना |
दैत्यैर्निराकृतान् दृष्ट्वा तनयान् कुरुनन्दन || ९ ||
वृथापुत्राहमस्मीति निर्वेदात् प्रणता हरिम् |
तुष्टाव वाग्भिरिष्टाभिः प्रणता भक्तवत्सलम् || १० ||
शरण्यम् शरणम् विष्णुम् प्रणता भक्तवत्सलम् (०७५-*(११८))
देवदैत्यनृपश्वापव्योमवाय्वादिरूपिणम् || ११ ||
अदितिरुवाच –
नमः स्मृतार्तिनाशाय नमः पुष्करमालिने |
नमः परमकल्याणकल्याणायादिवेधसे || १२ ||
नमः पङ्कजनेत्राय नमः पङ्कजनाभये |
नमः पङ्कजसम्भूति सम्भवायात्मयोनये ||
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे |
नमः शङ्खासिहस्ताय नमः कनकरेतसे || १३ ||
तथाऽऽत्मज्ञानविज्ञानयोगचित्तात्मयोगिने |
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे || १४ ||
जगत्प्रतिष्ठितम् यत्र जगता यो न दृश्यते |
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने || १५ ||
यम् न पश्यन्ति पश्यन्तो जगदप्यखिलम् नराः |
अपश्यद्भिर्जगद्यच्च दृश्यते स्वहृदि स्थितः || १६ ||
(बहिर्ज्योतिषि लक्ष्यो यो लक्ष्यते ज्योतिषः परः |)
यस्मिन्नेतद्यतश्चैतद्यश्चैतदखिलम् जगत् |
तस्मै समस्तजगतामाधाराय नमो नमः || १७ ||
आद्यः प्रजापतिपतिर्यः पितॄणाम् परः पतिः |
पतिः सुराणाम् यस्तस्मै नमः कृष्णाय वेधसे || १८ ||
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिर्विभुरिज्यते |
स्वर्गापवर्गफलदो नमस्तस्मै हरिमेधसे || १९ ||
यश्चिन्त्यमानो मनसा सद्यः पापम् व्यपोहति |
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे || २० ||
यम् प्रविश्याखिलाधारमीशानमजमव्ययम् |
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् || २१ ||
यो यज्ञे यज्ञपरमैरिज्यते यज्ञसम्स्थितिः |
तम् यज्ञपुरुषम् विष्णुम् नमामि प्रभुमीश्वरम् || २२ ||
गीयते सर्ववेदेषु वेदविद्भिर्विदाम् गतिः |
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः || २३ ||
यतो विश्वम् समुद्भूतम् यस्मिन्श्च लयमेष्यति |
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने || २४ ||
ब्रह्मादिस्तम्बपर्यन्तम् विना येन ततामिमाम् |
मायाम् नालम् समुत्तर्तुम् तमुपेन्द्रम् नमाम्यहम् || २५ ||
(यमाराध्य विशुद्धेन मनसा कर्मणा गिरा |
हरत्यविद्यामखिलाम् तमुपेन्द्रम् नमाम्यहम् |)
विषादतोषरोषाद्यैर्योऽजस्रम् सुखदुःखजैः |
नृत्यत्यखिलभूतस्थस्तमुपेन्द्रम् नमाम्यहम् |)
(योऽन्नतोयस्वरूपस्थो बभर्त्यखिलमीश्वरः |
विश्वम् विश्वपतिम् विष्णुम् तम् नमामि प्रजापतिम् || २६ ||
मूर्तम् तमोऽसुरमयम् तद्वधाद्विनिहन्ति यः |
रात्रिजम् सूर्यरूपी च तमुपेन्द्रम् नमाम्यहम् || २७ ||
कपिलादिस्वरूपस्थो यश्चाज्ञानमयम् तमः |
हन्ति ज्ञानप्रदानेन तमुपेन्द्रम् नमाम्यहम् || २८ ||)
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् |
पश्येते कर्म सततम् तमुपेन्द्रम् नमाम्यहम् || २९ ||
यस्मिन् सर्वेश्वरे सर्वम् सत्यमेतन्मयोदितम् |
नानृतम् तमजम् विष्णुम् नमामि प्रभवाप्ययम् || ३० ||
यथैतत् सत्यमुक्तम् मे भूयश्चातो जनार्दनः |
सत्येन तेन सकलाः पूर्यन्ताम् मे मनोरथाः || ३१ ||
शौनक उवाच –
एवम् स्तुतोऽथ भगवान् वासुदेव उवाच ताम् |
अदृश्यः सर्वभूतानाम् तस्याः सन्दर्शने स्थितः || ३२ ||
भगवानुवाच –
मनोरथाम्स्त्वमदिते यान् इniच्छस्यभिपूरितान् |
ताम्स्तान् प्राप्स्यसि धर्मज्ञे मत्प्रसादादसम्शयम् || ३३ ||
शृणुष्व च महाभागे वरम् यस्ते हृदि स्थितः |
तम् प्रयच्छामि नियतम् नात्र कार्या विचारणा |
मद्दर्शनम् हि विफलम् न कदाचिद्भविष्यति || ३४ ||
अदितिरुवाच –
यदि देव प्रसन्नस्त्वम् भक्ताया भक्तवत्सल |
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः || ३५ ||
हृतराज्यो हृतश्चास्य यज्ञभागो महासुरैः |
त्वयि प्रसन्ने वरद तम् प्राप्नोतु सुतो मम || ३६ ||
हृतम् राज्यम् न दुःखाय मम पुत्रस्य केशव |
सपत्नादायतिभ्रम्शो बाधाम् नः कुरुते हृदि || ३७ ||
भगवानुवाच –
कृतः प्रसादो हि मया तव देवि यथेप्सितः |
स्वाम्शेन चैव ते गर्भे सम्भविष्यामि कश्यपात् || ३८ ||
तव गर्भसमुद्भूतः सुतस्ते ये सुरारयः |
तानहम् निहनिष्यामि निर्वृता भव नन्दिनि || ३९ ||
अदितिरुवाच –
प्रसीद देवदेवेश नमस्ते विश्वभावन |
नाहम् त्वामुदरेणेश वोढुम् शक्ष्यामि केशव || ४० ||
यस्मिन् प्रतिष्ठितम् विश्वम् यो विश्वम् स्वयमीश्वर |
तदहम् नोदरेण त्वाम् वोढुम् शक्ष्यामि दुर्धरम् || ४१ ||
भगवानुवाच –
सत्यमात्थ महाभागे मयि सर्वमिदम् जगत् |
प्रतिष्ठितम् न माम् शक्ता वोढुम् सेन्द्रा दिवौकसः || ४२ ||
किन्त्वहम् सकलान्ल्लोकान् सदेवासुरमानुषान् |
जङ्गमाजङ्गमम्म् सर्वम् त्वाम् च देवि सकाश्यपाम् |
धारयिष्यामि भद्रम् ते तव गर्भशयोऽदिते || ४३ ||
न ते ग्लानिर्न ते खेदो गर्भस्थे भविता मयि |
दाक्षायणि प्रसादम् ते करोम्यन्यैः सुदुर्लभम् || ४४ ||
गर्भस्थे मयि पुत्राणाम् तव योऽरिर्भविष्यति |
तेजसस्तस्य हानिम् च करिष्ये मा व्यथाम् कृताः || ४५ ||
शौनक उवाच –
एवमुक्त्वा ततः सद्यो गतोऽन्तर्धानमीश्वरः |
सापि कालेन तम् गर्भमवाप कुरुसत्तम || ४६ ||
गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः |
चकम्पिरे महाशैला जग्मुः क्षोभमथाब्धयः || ४७ ||
यतो यतोऽदितिर्यान्ती ददाति ललितम् पदम् |
ततस्ततः क्षितिः खेदान्ननाम वसुधाधिप || ४८ ||
दैत्यानामपि सर्वेषाम् गर्भस्थे मधुसूदने |
बभूव तेजसो हानिर्यथोक्तम् परमेष्ठिना || ४९ ||
इति विष्णुधर्मे अदितिस्तवो नाम सप्तसप्ततितमोऽध्यायः
अष्टसप्ततितमोऽध्यायः
वामनस्तवः
शौनक उवाच –
निस्तेजसोऽसुरान् दृष्ट्वा समस्तान् असुरेश्वरः |
प्रह्रादमथ पप्रच्छ बलिरात्मपितामहम् || १ ||
बलिरुवाच –
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना |
किमेते सहसैवाद्य ब्रह्मदण्डहता इव || २ ||
दुरिष्टम् किम् नु दैत्यानाम् किम् कृत्या वैरिनिर्मिता |
नाशायैषाम् समुद्भूता येन निस्तेजसोऽसुराः || ३ ||
शौनक उवाच –
इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव |
चिरम् ध्यात्वा जगादेदमसुरेन्द्रम् तदा बलिम् || ४ ||
प्रह्लाद उवाच –
चलन्ति गिरयो भूमिर्जहाति सहजाम् धृतिम् |
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः || ५ ||
सूर्यादयो यथापूर्वम् तथा गच्छन्ति न ग्रहाः |
देवानाम् च परा लक्ष्मीः कारणैरनुमीयते || ६ ||
महदेतन्महाबाहो कारणम् दानवेश्वर |
न ह्यल्पमिति मन्तव्यम् त्वया कार्यम् सुरार्दन || ७ ||
शौनक उवाच –
इत्युक्त्वा दानवपतिम् प्रह्लादः सोऽसुरोत्तमः |
अत्यन्तभक्तो देवेशम् जगाम मनसा हरिम् || ८ ||
स ध्यानपथगम् कृत्वा प्रह्लादः स्वम् मनोऽसुरः |
विचारयामास ततो यतो देवो जनार्दनः || ९ ||
स ददर्शोदरेऽदित्याः प्रह्लादो वामनाकृतिम् |
अन्तःस्थान् बिभ्रतम् सप्तलोकान् अनादिप्रजापतिम् || १० ||
तदन्तश्च वसून् रुद्रानश्विनौ मरुतस्तथा |
साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसान् || ११ ||
विरोचनम् सतनयम् बलिम् चासुरनायकम् |
जम्भम् कुजम्भम् नरकम् बाणमन्याम्स्तथाऽसुरान् || १२ ||
आत्मानमुर्वीगगनम् वायुमम्भो हुताशनम् |
समुद्राद्रिद्रुमसरित्सराम्सि पशवो मृगान् || १३ ||
वयोमनुष्यानखिलाम्स्तथैव च सरीसृपान् |
समस्तलोकस्रष्टारम् ब्रह्माणम् भवमेव च || १४ ||
ग्रहनक्षत्रताराम्श्च दक्षाद्याम्श्च प्रजापतीन् |
सम्पश्यन् विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः || १५ ||
प्रह्लादः प्राह दैत्येन्द्रम् बलिम् वैरोचनिम् तदा || १६ ||
वत्स ज्ञातम् मया सर्वम् तदर्थम् भवतामियम् |
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः || १७ ||
देवदेवो जगद्योनिरयोनिर्जगदादिकृत् |
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः || १८ ||
परापराणाम् परमः परः परवतामपि |
प्रभुः प्रमाणम् मानानाम् सप्तलोकगुरोर्गुरुः || १९ ||
(स्थितिम् कर्तुम् जगन्नाथः सोऽदित्या गर्भताम् गतः |)
प्रभुः प्रभूणाम् परमः पराणामनादिमध्यो भगवाननन्तः |
त्रैलोक्यमम्शेन सनाथमेष कर्तुम् महात्माऽदितिजोऽवतीर्णः || २० ||
न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः |
जानन्ति दैत्याधिप यत्स्वरूपम् स वासुदेवः कलयाऽवतीर्णः || २१ ||
योऽसौ कलाम्शेन नृसिम्हरूपी जघान पूर्वम् पितरमशेषः |
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः || २२ ||
यमक्षरम् वेदविदो विदित्वा विशन्ति तम् ज्ञानविधूतपापाः |
यस्मिन् प्रविष्टा न पुनर्भवन्ति तम् वासुदेवम् प्रणमामि देवम् || २३ ||
भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् |
लयम् च यस्मिन्प्रलये प्रयान्ति तम् वासुदेवम् प्रणमाम्यचिन्त्यम् || २४ ||
न यस्य रूपम् न बलम् प्रभावो न च स्वभावः परमस्य पुम्सः |
विज्ञायते सर्व (शर्व)पितामहाद्यैस्तम् वासुदेवम् प्रणमाम्यचिन्त्यम् || २५ ||
रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य |
श्रोत्रम् च शब्दग्रहणे नराणाम् घ्राणम् च गन्धग्रहणे नियुक्तम् || २६ ||
न घ्राणचक्षुःश्रवणादिभिर्यः सर्वेश्वरो वेदितुमव्ययात्मा |
शक्यस्तमीड्यम् मनसैव देवम् ग्राह्यम् नतोऽहम् हरिमीशितारम् || २७ ||
येनैकदम्ष्ट्राग्रसमुद्धृतेयम् धराचला धारयतीह सर्वम् |
जगद् यस्त्वा शेते सकलम् तमीड्यमीशम् प्रणतोऽस्मि विष्णुम् || २८ ||
दशावतीर्णेन च येन गर्भे हृतानि तेजाम्सि महासुराणाम् |
नमामि तम् देवमनन्तमीशम् अशेषसम्सारतरोः कुठारम् || २९ ||
देवो जगद्योनिरयम् महात्मा स षोडशाम्शेन महासुरेन्द्र |
सुरेन्द्रमातुर्जठरम् प्रविष्टो हृतानि वस्तेन बले वपूम्षि || ३० ||
बलिरुवाच –
तात कोऽयम् हरिर्नाम यतो न भयमागतम् |
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः || ३१ ||
विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च |
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः || ३२ ||
प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः |
एते चान्ये च मे सन्ति दैतेया दानवास्तथा || ३३ ||
महाबला महावीर्या भूभारधरणक्षमाः |
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः || ३४ ||
शौनक उवाच –
पौत्रस्यैतद्वचः श्रुत्वा प्रह्लादो दैत्यपुङ्गवः |
धिग्धिगित्याह स बलिम् वैकुण्ठक्षेपवादिनम् || ३५ ||
विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः |
येषाम् त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् || ३६ ||
देवदेवम् महाभागम् वासुदेवमजम् विभुम् |
त्वामृते पापसङ्कल्पम् कोऽन्य एवम् वदिष्यति || ३७ ||
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः |
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः || ३८ ||
त्वम् चाहम् च जगच्चेदम् साद्रिद्रुमनदीनदम् |
समुद्रद्वीपलोकाश्च यच्चेङ्गम् यच्च नेङ्गति || ३९ ||
यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः |
एकाम्शाम्शकलाजन्म कस्तमेवम् प्रवक्ष्यति || ४० ||
ऋते विनाशाभिमुखम् त्वामेकमविवेकिनम् |
दुर्बुद्धिमजितात्मानम् वृद्धानाम् शासनातिगम् || ४१ ||
शोच्योऽहम् यस्य वै गेहे जातस्तव पिताऽधमः |
यस्य त्वमीदृशः पुत्रोदेव देवावमन्यकः || ४२ ||
तिष्ठत्वनेकसम्सारसम्हृताघविनाशनी |
कृष्णे भक्तिरहम् तावदवेक्ष्यो भवतो न किम् || ४३ ||
न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः |
इति जानात्ययम् लोको भवाम्श्च दितिजाधमः || ४४ ||
जानन्नपि प्रियतरम् प्राणेभ्योऽपि हरिम् मम |
निन्दाम् करोषि च कथमकुर्वन् गौरवम् मम || ४५ ||
विरोचनस्तव गुरुर्गुरुस्तस्याप्यहम् बले |
ममापि सर्वजगताम् गुरुर्नारायणोऽगुरुः || ४६ ||
निन्दाम् करोषि तस्मिन्स्त्वम् कृष्णे गुरुगुरोर्गुरौ |
यस्यात्तस्मादिहैश्वर्यादचिराद् भ्रम्शमेष्यसि || ४७ ||
मा देवो मा जगन्नाथो बले मासौ जनार्दनः |
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः || ४८ ||
एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् |
नापेक्षिता वयम् यस्मात्तस्माच्छापम् ददामि ते || ४९ ||
सम्वीक्षितम् त्वया यस्मात्
यथा मे शिरसश्छेदादिदम् गुरुतरम् बले |
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत || ५० ||
यथा न कृष्णादपरम् परित्राणम् भवार्णवे |
तथाचिरेण पश्येयम् भवन्तम् राज्यविच्युतम् || ५१ ||
शौनक उवाच –
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम् |
प्रसादयामास गुरुम् प्रणिपत्य पुनः पुनः || ५२ ||
बलिरुवाच –
प्रसीद तात मा कोपम् कुरु मोहहते मयि |
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् || ५३ ||
मोहोपहतविज्ञानः पापोऽहम् दितिजोत्तम |
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् || ५४ ||
राज्यभ्रंशं वसुभ्रम्शम् सम्प्राप्स्यामीति न त्वहम् |
विषण्णोऽस्मि यथा तात तवैवाविनये कृते || ५५ ||
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् |
सम्सारे दुर्लभास्तात गुरवो ये भवद्विधाः || ५६ ||
तत्प्रसीद न मे कोपम् कर्तुमर्हसि दैत्यप |
त्वत्कोपहेतुदुष्टोऽहम् परितप्ये न शापतः || ५७ ||
प्रह्लाद उवाच –
वत्स कोपेन मोहो मे जनितस्तेन ते मया |
शापो दत्तो विवेकश्च मोहेनापहृतो मम || ५८ ||
यदि मोहेन मे ज्ञानम् नाक्षिप्तम् स्यान्महासुर |
तत्कथम् सर्वगम् ज्ञानन् हरिम् कञ्चिच्छापाम्यहम् || ५९ ||
योऽयम् शापो मया दत्तो भवतोऽसुरपुङ्गव |
भाव्यमेतेन नूनम् ते तस्मात् त्वम् मा विषीदथाः || ६० ||
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ |
भवेथा भक्तिमानीशे स ते त्राता भविष्यति || ६१ ||
शापम् प्राप्य च माम् वीर सम्स्मरेथाः स्मृतस्त्वया |
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा || ६२ ||
शौनक उवाच –
एवमुक्त्वा स दैत्येन्द्रो विरराम महामतिः |
अजायत स गोविन्दो भगवान्वामनाकृतिः || ६३ ||
अवतीर्णे जगन्नाथे तस्मिन् सर्वमशीशमत् |
यदासुरमभूद्दुःखम् देवानामदितेस्तथा || ६४ ||
ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः |
धर्मे च सर्वभूतानाम् तदा मतिरजायत || ६५ ||
नोद्वेगश्चाप्यभूद्देहे मनुजानाम् जनेश्वर |
तथा हि सर्वभूतानाम् भूम्यम्बरदिवौकसाम् || ६६ ||
तम् जातमात्रम् भगवान् ब्रह्मा लोकपितामहः |
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव || ६७ ||
ब्रह्मोवाच –
जयाद्येश जयाजेय जय सर्वात्मकात्मक |
जय जन्मजरापेत जयानन्त जयाच्युत || ६८ ||
जयाजित जयाशेष जयाव्यक्त स्थिते जय |
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत || ६९ ||
जयाशेजगत्साक्षिञ्जय कर्तर्जगद्गुरो |
जगतो जगदन्तेऽन्तः स्थितौ पालयिता जय || ७० ||
जयाखिल जयाशेष जयाखिलहृदि स्थित |
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम || ७१ ||
मुमुक्षुभिरनिर्देश्य स्वयम्दृष्ट जयेश्वर |
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः || ७२ ||
जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय |
जय स्थूलातिसूक्ष्म त्वम् जयातीन्द्रिय सेन्द्रिय || ७३)||
जय स्वमायायोगस्थ शेषभोगशयाक्षर |
जयैकदम्ष्ट्राप्राप्तान्तसमुद्धृतवसुन्धर || ७४ ||
नृकेसरिञ्जयारातिवक्षःस्थलविदारण |
साम्प्रतम् जय विश्वात्मन् मायावामन केशव || ७५ ||
निजमायापटच्छन्नजगद्धातर्जनार्दन |
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो || ७६)||
वर्धस्व वर्धितानेकविकारप्रकृते हरे |
त्वय्येषा जगतामीश सम्स्थिता धर्मपद्धतिः || ७७ ||
न त्वामहम् न चेशानो नेन्द्राद्यास्त्रिदशा हरे |
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः || ७८ ||
त्वन्मायापटसम्वीते जगत्यत्र जगत्पते |
कस्त्वाम् वेत्स्यति सर्वेशम् त्वत्प्रसादम् विना नरः || ७९ ||
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो |
स एव केवलम् देव वेत्ति त्वाम् नेतरो जनः || ८० ||
तदीश्वरेश्वरेशान विभो वर्धस्व भावन |
प्रभावायास्य विश्वस्य विश्वात्मन् पृथुलोचन || ८१ ||
शौनक उवाच –
एवम् स्तुतो हृषीकेशः स तदा वामनाकृतिः |
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् || ८२ ||
स्तुतोऽहम् भवता पूर्वमिन्द्राद्यैः कश्यपेन च |
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् || ८३ ||
भूयश्चाहम् स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम् |
यथा शक्राय दास्यामि त्रैलोक्यम् हतकण्टकम् || ८४ ||
सोऽहम् तथा करिष्यामि यथेन्द्रो जगतः पतिः |
भविष्यति सहस्राक्षः सत्यम् एतद्भवीमि ते || ८५ ||
ततः कृष्णाजिनम् ब्रह्मा हृषीकेशाय दत्तवान् |
यज्ञोपवीतम् भगवान् ददौ तस्मै बृहस्पतिः || ८६ ||
आषाढमददाद्दण्डम् मरीचिर्ब्रह्मणः सुतः |
कमण्डलुम् वसिष्ठश्च कौश्यम् वेदमथाङ्गिराः |
अक्षसूत्रम् च पुलहः पुलस्त्यः सितवाससी || ८७ ||
उपतस्थुश्च तम् वेदाः प्रणवस्वरभूषणाः |
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः || ८८ ||
स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः |
सर्वदेवमयो भूप बलेरध्वरमभ्यथात् || ८९ ||
यत्र यत्र पदम् भूप भूभागे वामनो ददौ |
ददाति भूमिर्विवरम् तत्र तत्रातिपीडिता || ९० ||
स वामनो जडगतिर्मृदु गच्छन् सपर्वताम् |
साब्धिद्वीपवतीम् सर्वाम् चालयामास मेदिनीम् |
(ततः सम्शयमापन्नाः सर्वे दैतेयदानवाः || ९१ ||)
इति विष्णुधर्मे वामनस्तवो नाम अष्टसप्ततितमोऽध्यायः
एकोनाशीतितमोऽध्यायः
बलिवञ्चनम्
शौनक उवाच –
सपर्वतवनामुर्वीम् दृष्ट्वा सम्क्षुभिताम् बलिः |
पप्रच्छोशनसम् शुक्रम् प्रणिपत्य कृताञ्जलिः || १ ||
आचार्य क्षोभमायाति साब्धिभूभृद्धरा मही |
कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः || २ ||
इति पृष्टोऽथ बलिना काव्यो वेदविदाम् वरः |
उवाच दैत्याधिपतिम् चिरम् ध्यात्वा महामतिः || ३ ||
अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः |
वामनेनेह रूपेण परमात्मा सनातनः || ४ ||
स नूनम् यज्ञमायाति तव दानवपुङ्गव |
तत्पदन्यासविक्षोभादियम् प्रचलिता मही || ५ ||
कम्पन्ते गिरयश्चामी क्षुभिता मकरालयाः |
नैनम् भूतपतिम् भूमिः समर्था वोढुमीश्वरम् || ६ ||
सदेवासुरगन्धर्वयक्षराक्षसपन्नगा |
अनेनैव धृता भूमिरापोऽग्निः पवनो नभः |
धारयत्यखिलान् देवमनुष्यादीन् महासुर || ७ ||
इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी |
धार्यधारकभावेन यया सम्पिण्डितम् जगत् || ८ ||
तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः |
भुञ्जते चासुरान् भागानमी ते न तवाग्नयः || ९ ||
नासुरान् भागानमी ते न नचाग्नय
बलिरुवाच –
शुक्रस्य वचनम् श्रुत्वा हृष्टरोमाऽब्रवीद्बलिः |
धन्योऽहम् कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् |
यज्ञमभ्यागतो ब्रह्मन् मत्तः कोऽन्योऽधिकः पुमान् || १० ||
यम् योगिनः सदोद्युक्ताः परमात्मानमव्ययम् |
द्रष्टुमिच्छन्ति देवोऽसौ मदध्वरमुपैष्यति || ११ ||
होता भागप्रदो यस्य यमुद्गाता च गायति |
तमध्वरेश्वरम् विष्णुम् मत्तः कोऽन्य उपैष्यति || १२ ||
सर्वेश्वरेश्वरे विष्णौ ममाध्वरमुपागते |
यन्मया चार्य कर्तव्यम् तन्ममादेष्टुमर्हसि || १३ ||
शुक्र उवाच –
यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर |
त्वया तु दानवा दैत्या यज्ञभागभुजः कृताः || १४ ||
अयम् च देवः सत्त्वस्थः करोति स्थितिपालनम् |
निसृष्टेश्चायमन्ते च स्वयमत्ति प्रजाः प्रभुः || १५ ||
त्वयानुबन्धी भविता नूनम् विष्णुः स्थितौ स्थितः |
विदित्वैतन्महाभाग कुरु यत्ते मनोगतम् || १६ ||
त्वयाऽस्य दैत्याधिपते स्वल्पकेऽपि हि वस्तुनि |
प्रतिज्ञा नैव वोढव्या वाच्यम् साम तथाफलम् || १७ ||
कृतकृत्यस्य देवस्य देवार्थम् चैव कुर्वतः |
नालम् दातुम् अहम् धनम् देवेत्येवम् वाच्यम् तु न याचतः |
कृष्णस्य देवभूत्यर्थम् प्रवृत्तस्य महासुर || १८ ||
बलिरुवाच –
ब्रह्मन् कथमहम् ब्रूयामन्येनापि हि याचितः |
नास्तीति किमु देवेन सम्साराघौघहारिणा || १९ ||
व्रतोपवासैर्विविधैर्यः प्रतिग्राह्यते हरिः |
स चेद्वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् || २० ||
यदर्थमुपहाराढ्या दमशौचगुणान्वितैः |
यज्ञाः क्रियन्ते देवेशः स माम् देहीति वक्ष्यति || २१ ||
तत्साधु सुकृतम् कर्म तपः सुचरितम् च नः |
यन्मया दत्तमीशेशः स्वयमादास्यते हरिः || २२ ||
नास्तीत्यहम् गुरो वक्ष्ये तमप्यागतमीश्वरम् |
यदि तद्वञ्च्यते प्राप्ते नूनमस्मद्विधः फलैः || २३ ||
यज्ञेऽस्मिन् यदि यज्ञेशो याचते माम् जनार्दनः |
निजमूर्धानमप्यद्य तद्दास्याम्यविचारितम् || २४ ||
नास्तीति यन्मया नोक्तमन्येषामपि याचताम् |
वक्ष्यामि कथमायाते तदनभ्यस्तमच्युते || २५ ||
श्लाघ्य एव हि धीराणाम् दानादापत्समागमः |
नाबाधाकारि यद्दानम् तदङ्गमलवत् कथम् || २६ ||
मद्राज्ये नासुखी कश्चिन्न दरिद्रो न चातुरः |
नातृषितो न चोद्विग्नो न स्रगादिविवर्जितः || २७ ||
हृष्टतुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः |
जनः सर्वो महाभाग किमुताहम् सदा सुखी || २८ ||
एतद्विशिष्यपात्रोत्थम् दानबीजफलम् मम |
विदितम् भृगुशार्दूल मयैतत्त्वत्प्रसादतः || २९ ||
एतद्विजानतो दानबीजम् पतति चेद्गुरो |
जनार्दने महापात्रे किम् न प्राप्तम् ततो मया || ३० ||
मत्तो दानमवाप्येशो यदि पुष्णाति देवताः |
उपभोगान्वयगुणम् दानम् श्लाघ्यतरम् ततः || ३१ ||
मत्प्रसादपरो नूनम् यज्ञेनाराधितो हरिः |
तेनाभ्येति न सन्देहो दर्शनादुपकारकृत् || ३२ ||
अथ कोपेन वाऽभ्येति देवभागोपरोधिनम् |
माम् निहन्तुमतोऽपि स्याद्वधः श्लाघ्यतरोऽच्युतात् || ३३ ||
यन्मयम् सर्वमेवेदम् नाप्राप्यम् यस्य विद्यते |
स माम् याचितुमभ्येति नानुग्रहमृते हरिः || ३४ ||
यः सृजत्यात्मभूः सर्वम् चेतसैवापहन्ति च |
स माम् हन्तुम् हृषीकेशः कथम् यत्नम् करिष्यति || ३५ ||
एतद्विदित्वा तु गुरो दानविघ्नपरेण मे |
नैव भाव्यम् जगन्नाथे गोविन्दे समुपस्थिते || ३६ ||
शौनक उवाच –
इत्येवम् वदतस्तस्य प्राप्तस्तत्र जगपतिः |
सर्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् || ३७ ||
तम् दृष्ट्वा यज्ञवाटान्तः प्रविष्टमसुराः प्रभुम् |
जग्मुः प्रभावतः क्षोभम् तेजसा तस्य निष्प्रभाः || ३८ ||
जेपुश्च मुनयस्तत्र ये समेता महाध्वरे |
बलिश्चैवाखिलम् जन्म मेने सफलमात्मनः || ३९ ||
ततः सम्क्षोभमापन्नो न कश्चित्किञ्चिदुक्तवान् |
प्रत्येको देवदेवेशम् पूजयामास चेतसा || ४० ||
अथासुरपतिम् प्रह्वम् दृष्ट्वा मुनिवराम्श्च तान् |
देवदेवपतिः साक्षाद्विष्णुर्वामनरूपधृक् || ४१ ||
तुष्टाव यज्ञम् वह्निम् च यजमानमथर्त्विजः |
यज्ञकराधिकारस्थान्सदस्यान् द्रव्यसम्पदम् || ४२ ||
ततः प्रसन्नमखिलम् वामनम् प्रति तत्क्षणात् |
यज्ञवाटस्थितम् वीरम् साधु साध्वित्युदीरयन् || ४३ ||
स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा |
पूजयामास गोविन्दम् प्राह चेदम् वचोऽसुरः || ४४ ||
बलिरुवाच –
सुवर्णरत्नसङ्घातम् गजाश्वममितम् तथा |
स्त्रियो वस्त्राण्यलङ्कारान् गावो ग्रामाम्श्च पुष्कलान् || ४५ ||
सर्वस्वम् सकलामुर्वी भवतो वा यदीप्सितम् |
तद्ददामि वृणुष्व त्वम् ममार्थी सततम् प्रियः || ४६ ||
शौनक –
इत्युक्तो दैत्यपतिना प्रीतिगर्वान्वितम् वचः |
प्राह सस्मितगम्भीरम् भगवान्वामनाकृतिः || ४७ ||
ममाग्निशरणार्थाय देहि राजन् पदत्रयम् |
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् || ४८ ||
बलिरुवाच –
त्रिभिः प्रयोजनम् किम् ते पदैः पदवताम् वर |
शतम् शतसहस्रम् वा पदानाम् मार्गताम् भवान् || ४९ ||
वामन उवाच –
एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम् |
अन्येषामर्थिनाम् वित्तमिच्छया दास्यते भवान् || ५० ||
एतच्छ्रुत्वा तु गदितम् वामनस्य महात्मनः |
वाचयामास तत्तस्मै वामनाय पदत्रयम् || ५१ ||
पाणौ तु पतिते तोये वामनो भूतभावनः |
सर्वदेवमयम् रूपम् दर्शयामास तत्क्षणात् || ५२ ||
चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः |
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः || ५३ ||
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः |
यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः || ५४ ||
दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्याम्शवः प्रभो |
तारका रोमकूपाणि रोमाणि च महर्षयः || ५५ ||
बाहवो विदिशस्तस्य दिशः श्रोत्रम् महात्मनः |
अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः || ५६ ||
प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः |
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती || ५७ ||
ग्रीवाऽदितिर्देवमाता विद्यास्तद्वलयस्तथा |
स्वर्गद्वारमभून्मैत्रम् त्वष्टा पूषा च वै भ्रुवौ || ५८ ||
मुखम् वैश्वानरश्चास्य वृषणौ तु प्रजापतिः |
हृदयम् च परम् ब्रह्म पुम्स्त्वम् वै कश्यपो मुनिः || ५९ ||
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु |
सर्वसूक्तानि दशना ज्योतीम्षि विमलप्रभाः || ६० ||
वक्षःस्थले तथा रुद्रो धैर्ये चास्य महार्णवः |
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः |
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः || ६१ ||
सर्वज्योतीम्षि यानीह तपश्च परमम् महत् |
तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् || ६२ ||
स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः |
इष्टयः पशुबन्धाश्च द्विजानाम् चेष्टितानि च || ६३ ||
तस्य देवमयम् रूपम् दृष्ट्वा विष्णोर्महाबलाः |
उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् || ६४ ||
प्रमथ्य सर्वान् असुरान् पादहस्ततलैर्विभुः |
कृत्वा रूपम् महाकायम् स जहाराशु मेदिनीम् || ६५ ||
तस्य विक्रमतो भूमिम् चन्द्रादित्यौ स्तनान्तरे |
नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ || ६६ ||
परम् विक्रममाणस्य जानुमूले प्रभाकरौ |
विष्णोरास्ताम् महीपाल! देवपालनकर्मणि || ६७ ||
जित्वा लोकत्रयम् कृत्स्नम् हत्वा चासुरपुङ्गवान् |
पुरन्दराय त्रैलोक्यम् ददौ विष्णुरुरुक्रमः || ६८ ||
सुतलम् नाम पातालमधस्ताद्वसुधातलात् |
बलेर्दत्तम् भगवता विष्णुना प्रभविष्णुना || ६९ ||
अथ दैत्येश्वरम् प्राह विष्णुः सर्वेश्वरेश्वरः || ७० ||
यत्त्वया सलिलम् दत्तम् गृहीतम् पाणिना मया |
कल्पप्रमाणम् तस्मात्ते भविष्यत्यायुरुत्तमम् || ७१ ||
वैवस्वते तथाऽतीते बले मन्वन्तरे ततः |
सावर्णके च सम्प्राप्ते भवानिन्द्रो भविष्यति || ७२ ||
साम्प्रतम् देवराजाय त्रैलोक्यमखिलम् मया |
दत्तम् चतुर्युगानाम् वै साधिका ह्येकसप्ततिः || ७३ ||
नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः |
तेनाहम् परया भक्त्या पूर्वमाराधितो बले || ७४ ||
सुतलम् नाम पातालम् तमासाद्य मनोरमम् |
वसासुर ममादेशम् यथावत् परिपालयन् || ७५ ||
तत्र दिव्यवनोपेते प्रासादशतसङ्कुले |
प्रोत्फुल्लपद्मसरसि स्रवच्छुद्धसरिद्वरे || ७६ ||
सुगन्धिधूपसम्बाधे वराभरणभूषितः |
स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोरमैः || ७७ ||
उपभुञ्जन् महाभोगान् विविधान् दानवेश्वर |
ममाज्ञया कालमिमम् तिष्ठ स्त्रीशतसम्वृतः || ७८ ||
यावत्सुरैश्च विप्रैश्च न विरोधम् करिष्यसि |
तावदेतान् महाभोगानवाप्स्यस्यसुरोत्तम || ७९ ||
यदा च देवविप्राणाम् विरुद्धान्याचरिष्यसि |
बन्धिष्यन्ति तथा पाशा वारुणास्त्वामसम्शयम् || ८० ||
एतद्विदित्वा भवता मयाऽऽज्ञप्तमशेषतः |
न विरोधः सुरैः कार्यो विप्रैर्वा दैत्यसत्तम! || ८१ ||
इत्येवमुक्तो देवेन विष्णुना प्रभविष्णुना |
बलिः प्राह महाराज प्रणिपत्य कृताञ्जलिः || ८२ ||
बलिरुवाच –
तत्रासतो मे पाताले भगवन् भवदाज्ञया |
किम् भविष्यत्युपादानमुपभोगोपपादकम् || ८३ ||
श्रीभगवानुवाच –
आप्यायितो येन देव स्मरेयम् त्वामहम् सदा |
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च |
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् || ८४ ||
अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः |
फलानि तव दास्यन्ति अधीतान्यव्रतानि च || ८५ ||
श्रीशौनक उवाच –
बलेर्वरमिदम् दत्त्वा शक्राय त्रिविधम् तथा |
व्यापिना तेन रूपेण जगामादर्शनम् हरिः || ८६ ||
शशास च तथा पूर्वमिन्द्रस्त्रैलोक्यमूर्जितम् |
सिषेव च परान् कामान् बलिः पातालमाश्रितः || ८७ ||
इत्येतद्देवदेवस्य विष्णोर्माहात्म्यमुत्तमम् |
वामनस्य पठेद्यस्तु सर्वपापैः प्रमुच्यते || ८८ ||
बलिप्रह्लादसम्वादम् मन्त्रितम् बलिशुक्रयोः |
बलिविष्ण्वोश्च कथितम् यः स्मरिष्यति मानवः || ८९ ||
नाधयो व्याधयो वाऽस्य न च मोहाकुलम् मनः |
भविष्यति कुरुश्रेष्ठ पुम्सस्तस्य कदाचन || ९० ||
च्युतराज्यो निजम् राज्यमिष्टप्राप्तिम् वियोगवान् |
अवाप्नोति महाभाग नरः श्रुत्वा कथामिमाम् || ९१ ||
इति श्री विष्णुधर्मे बलिवञ्चनम् नाम एकोनाशीतितमोऽध्यायः
अशीतितमोऽध्यायः
चक्रस्तवः
शौनक उवाच –
पाताले निवसन् वीरस्तदा वैरोचनिर्बलिः |
कामोपभोगसम्प्राप्त्या मुदम् प्राप पराम् विभुः || १ ||
अलम्बुषा मिश्रकेशा पुण्डरीकाऽथ वामना |
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ || २ ||
प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः |
तुष्टुवुश्च महाभाग बलिम् सिद्धाः सचारणाः || ३ ||
तस्मिन् सङ्गीतगीता तु वीणावेणुरवाकुले |
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् || ४ ||
शर्करासवमाध्विकाम् पुष्पासवफलासवम् |
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च || ५ ||
परावदम्शान् मधुराल्लवणाम्स्तिक्तकान् कटून् |
कषायाम्श्च महाराज सुमृष्टान्यपराणि च || ६ ||
सुहृत्सुजनसम्बन्धिभृत्यवर्गसमन्वितः |
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः || ७ ||
प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः |
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः || ८ ||
तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः |
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान् प्रियान् || ९ ||
बलिश्च भगवान् दैत्यो दैत्योरगशतैर्वृतः |
उपगीयमानो बुभुजे यथेष्टम् विषयान् प्रियान् || १० ||
पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत् |
सर्वलक्षणसम्पूर्णा श्रीरिवाऽब्जम् विनाऽपरा || ११ ||
न देवी नापि गन्धर्वी नाप्सरा न च मानुषी |
तस्या रूपेण सदृशी बभूव मनुजेश्वर || १२ ||
सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा |
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना || १३ ||
मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी |
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता || १४ ||
तनया मेरुसावर्णेर्दौहित्री मृगमोकिनः |
(वपुषा रूपसंपदा पौतना मृगलोचना |)
पत्नी सहस्रद्वितये प्रधाना तस्य साऽभवत् || १५ ||
तया तु रमतस्तस्य रमणीये रसातले |
शक्तिरासीदनुदिनम् विवेकप्रतिलोमिनी || १६ ||
कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव |
तीक्ष्णाम्शुर्मध्यमाम् वीथीम् ययौ वैषुवतीम् रविः || १७ ||
यदा यदा च विषुवम् भास्करः प्रतिपद्यते |
तदा तदा हरेश्चक्रम् पाताले परिवर्तते || १८ ||
स्रवन्ति योषिताम् गर्भास्तस्य धाराम्शुतापिताः |
सहसा दैत्यपत्नीनाम् यासु पुम्साम् समुद्भवः |
निस्तेजसो दैत्यभटा भवन्ति च महीपते || १९ ||
तद्दृष्ट्वा सहसाऽऽयान्तमादित्यशततेजसम् |
ज्वालामालासुदुःप्रेक्ष्यम् विष्णुचक्रम् सुदर्शनम् |
हाहाकृतमभूत् सर्वम् पातालमरिसूदन || २० ||
जेपुर्ये मुनयस्तत्र सार्घपात्रा महोरगाः |
बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः |
वैक्लव्यम् चागताः सर्वाः स्त्रियः परपुरञ्जय || २१ ||
तद्दृष्ट्वा व्याकुलीभूतम् पातालमसुरास्ततः |
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना || २२ ||
भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा |
समस्तजगदाधारकरमुक्तेन वेगिना || २३ ||
तन्निषूदितदैत्यौघम् दैत्यस्त्रीगर्भहानिदम् |
श्रुत्वा चक्रम् महाचक्रो निश्चक्राम गृहाद्बलिः || २४ ||
आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः |
विमलम् खड्गमादाय शतचन्द्रम् च भानुमत् || २५ ||
निर्यान्तमथ वेगेन तमुदारपराक्रमम् |
विध्यावली नाम शुभा दधार दयितम् पतिम् || २६ ||
उवाच च परिष्वज्य क्रोधताम्रेक्षणम् बलिम् |
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी || २७ ||
विन्ध्यावल्युवाच –
दैत्यराज! न कोपस्य वशमागन्तुमर्हसि |
विमृश्य तज्ज्ञः सामादीन् प्रयुञ्जीत बलाबलम् || २८ ||
किमेतत्कस्य वा कुत्र किम् निमित्तमिहागतम् |
चक्रमित्थम् विचार्य त्वम् क्रोधम् याहि प्रशाम्य वा || २९ ||
एतत्किल जगद्धातुश्चक्रम् विष्णोः सुदर्शनम् |
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् || ३० ||
पुङ्गर्भान्निखिलानेतद्दानवानाम् महासुर |
विनाशयत्यनन्तराम् सर्वदुष्टनिबर्हणम् || ३१ ||
करोति दुःखमतुलम् घातनात् प्रतिपक्षजम् |
पुरुषाणाम् न सर्वत्र सम्स्थिता जगतः पतेः || ३२ ||
मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः |
तस्यैतच्चक्रमायान्तम् पुरुषः को न पूजयेत् || ३३ ||
यस्याधिक्षेपजा राजम्स्तव त्रैलोक्यविच्युतिः |
तस्य चक्रम् जगन्मूर्तेः समुपैषि रुषा कथम् || ३४ ||
सदृशे पुरुषे क्रोधम् नरः कुर्वीत दैत्यप |
न तु सर्वेश्वरे विष्णौ यत्र सर्वम् प्रतिष्ठितम् || ३५ ||
तत्प्रसीद महाभाग समुपैहि जगत्पतिम् |
शरण्यम् शरणम् विष्णुम् यम् प्रणम्य न सीदति || ३६ ||
(यस्मिन् प्रसन्ने त्रैलोक्यम् त्वत्तः प्राप्तः शचीपतिः |
भ्रष्टश्च यदधिक्षेपात्तम् त्वम् शरणमाव्रज || ३७ ||
यत्र सर्वेश्वरे सर्वम् सर्वभूते जगत्स्थितम् |)
तस्य चक्रमुपैहि त्वम् विनयादसुराधिप! || ३८ ||
सर्वकारणभूतस्य देवदेवस्य चक्रिणः |
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर || ३९ ||
चक्रमत्र जगद्धातुः करोति स्थितिपालनम् |
विपक्षासुरसम्भूतिगर्भविस्रम्सनात् प्रभो || ४० ||
प्रसाद्य चक्रनामानम् गोविन्दम् जगतो गुरुम् |
श्रेयसे सर्वधर्मज्ञ शरणम् व्रज केशवम् || ४१ ||
सम्स्मरस्व च दैत्येन्द्र प्रह्लादम् स्वपितामहम् |
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो || ४२ ||
स व्याजहार भगवाम्स्तवानुग्रहकाम्यया |
सम्स्मर्यताम् महाभाग सर्वधर्मभृताम् वरः |
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति || ४३ ||
शौनक उवाच –
एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः |
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः || ४४ ||
स ददर्श समायान्तमनन्तकरसङ्गिनम् |
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् || ४५ ||
सस्मार च बलिः सर्वम् प्रह्लादवचनम् नृप |
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः || ४६ ||
भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः |
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः || ४७ ||
ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम् |
मध्याह्नार्कसमाभासम् तेजसः पिण्डसम्स्थितम् || ४८ ||
तम् दृष्ट्वा तेजसाम् राशिमुपसङ्गम्य चा विभुम् |
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः || ४९ ||
बलिरुवाच –
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः |
नमामि चक्रिणश्चक्रम् करसङ्गि सुदर्शनम् || ५० ||
सहस्रमिव सूर्याणाम् सङ्घातम् विद्युतामिव |
कालाग्निमिव यच्चक्रम् तद्विष्णोः प्रणमाम्यहम् || ५१ ||
दुष्टराहुगलच्छेदशोणितारुणतारकम् |
तन्नमामि हरेश्चक्रम् शतनेमि सुदर्शनम् || ५२ ||
यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः |
तदन्तर्वसवो रुद्रास्तथैव मरुताम् गणाः || ५३ ||
धारायाम् द्वादशादित्याः समस्ताश्च हुताशनाः |
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः || ५४ ||
समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः |
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः || ५५ ||
यद्भ्रमत्सुरसङ्घानाम् तेजसः परिबृम्हणम् |
दैत्यौजसाम् च नाशाय तन्नमामि सुदर्शनम् || ५६ ||
(भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् |
तन्नमामि हरेश्चक्रमनन्तारम् सुदर्शनम् |)
नक्षत्रवद्वह्निकणव्याप्तम् कृत्स्नम् नभस्तलम् |
तन्नमामि हरेश्चक्रम् करसङ्गि सुदर्शनम् |)
स्वभावतेजसा युक्तम् यदर्काग्निमयम् महत् |
विशेषतो हरेर्गत्वा सर्वदेवमयम् करम् || ५७ ||
दुर्वृत्तदैत्यमथनम् जगतः परिपालकम् |
तन्नमामि हरेश्चक्रम् दैत्यचक्रहरम् परम् || ५८ ||
करोतु मे सदा शर्म धर्मताम् च प्रयातु मे |
प्रसादसुमुखे कृष्णे तस्य चक्रम् सुदर्शनम् || ५९ ||
स्वभावतेजसा युक्तम् मध्याह्नार्कसमप्रभम् |
प्रसीद सम्युगेऽरीणाम् सुदर्शनसुदर्शनम् |
विद्युज्ज्वालामहाकक्षम् दहान्तर्मम यत्तमः || ६० ||
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् |
विस्फोटयाखिलाम् मायाम् कुरुष्व विमलाम् मतिम् || ६१ ||
शौनक उवाच –
एवम् सम्स्थूयमानम् तद्वह्निपिण्डोपमम् महत् |
बभूव प्रकटम् चक्रम् दैत्यचक्रपतेस्तदा || ६२ ||
ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम् |
अग्निज्वालागतम् ताम्रम् तप्तचक्रमिवापरम् || ६३ ||
भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते |
त्रैलोक्यमखिलम् दैत्यो दृष्टवान्भूर्भुवादिकम् || ६४ ||
मेर्वादीनखिलाञ्शैलान् गङ्गाद्याः सरितस्तथा |
क्षीराब्धिप्रमुखाम्श्चाब्धीन् द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् || ६५ ||
वैमानिकान् सगन्धर्वान् सूर्यादीम्श्च तथा ग्रहान् |
नक्षत्रतारकाकाशम् शक्रादीम्श्च दिवौकसः || ६६ ||
रुद्रादित्याम्श्च मरुताम् साध्यानाम् च महीपते |
सन्निधानम् निरीक्ष्यासौ दैत्यानाम् विस्मितोऽभवत् || ६७ ||
ततः प्रणम्यार्तिहरम् सुराणामपारसारम् परमायुधम् हरेः |
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते || ६८ ||
यन्नोऽशुभम् चेतसि वायुवेग यन्नोऽशुभम् वाचि हुताशनोत्थ |
यच्चाशुभम् चेतसि वायुवेग यन्नोऽशुभम् वाचि हुताशनोत्थ || ६९ ||
प्रसीद सत्कारकृतम् ममाघम् प्रयातु ते नाशमनन्तवीर्य |
सताम् च सन्मार्गवताम् मनाम्सि स्थिरीभवन्त्वच्युतपादयुग्मे || ७० ||
इति विष्णुधर्मे चक्रस्तवो नाम अशीतितमोऽध्यायः