विष्णुधर्मः/अध्यायाः ०९१-१००


श्री विष्णुधर्मः अध्यायः 91-100
एकनवतिततमोऽध्यायः
पुद्गलगाथा or घृतधेनुकल्पः
वसिष्ठ उवाच –
जलधेनुम् प्रवक्ष्यामि प्रीयते दत्तया यया |
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः || १ ||
जलकुम्भम् नरव्याघ्र सुवर्णरजतान्वितम् |
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् || २ ||
सितवस्त्रयुगच्छन्नम् दूर्वापल्लवशोभितम् |
कुष्ठ माम्सीमुशीरम् च वालकामलकैर्युतम् || ३ ||
कोष्ठचन्दनकौशीरैरेलकालवकैर्युतम्
प्रियङ्गुपात्रसहितम् सितयज्ञोपवीतिनम् |
सच्छत्त्रम् सौपानत्कम् दर्भविस्तरसम्स्थितम् || ४ ||
स्वधितम् दधिपात्रेण घृतम् दक्षिणतो मुखे
चतुर्भिः सम्वृतम् भूप तिलपात्रैश्चतुर्दिशम् |
स्थगितम् दधिपात्रेण घृतक्षौद्रवता मुख || ५ ||
उपोषितः समभ्यर्च्य वासुदेवम् जनेश्वरम् |
पुष्पधूपोपहारैस्तु यथाविभवमादृतः || ६ ||
सङ्कल्प्य जलधेनुम् च कुम्भम् समभिपूज्य च |
पूजयेद्वत्सकम् तद्वत्कृतम् जलमयम् बुधः || ७ ||
एवम् सम्पूज्य गोविन्दम् जलधेनुम् सवत्सकाम् |
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः || ८ ||
दद्याद्विप्राय राजेन्द्र प्रीयताम् मम केशवः || ९ ||
(जलशायी जगद्योनिः प्रीयताम् मम केशवः)
इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम् |
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् || १० ||
अनेन विधिना दत्त्वा जलधेनुम् जनाधिप |
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः || ११ ||
शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः |
नृणाम् भवति दत्तायाम् जलधेन्वाम् न सम्शयः || १२ ||
अत्रापि श्रूयते भूप पुद्गलेन महात्मना |
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल || १३ ||
स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः |
ददर्श यातना घोराः पापकर्मकृताम् किल || १४ ||
दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा |
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ || १५ ||
व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः |
ताम् दृष्ट्वा यातनाम् विप्रश्चकार परमाम् कृपाम् || १६ ||
आह्लादम् ते तदा जग्मुः पापास्तदनुकम्पिताः |
तम् दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः || १७ ||
तदा स्वस्थम् विलोक्यैव मुनिर्नारकमण्डलम् |
धर्मराजम् स पप्रच्छ तेषाम् प्रशमकारणम् || १८ ||
तस्मै चाचष्ट राजेन्द्र तदा वैवस्वतो यमः |
आह्लादहेतुम् विप्राय पृच्छते पृथिवीपते || १९ ||
यम उवाच –
तवानुभावादेतेषाम् नारकाणाम् द्विजोत्तम् |
सम्प्रवृत्तोऽयमाह्लादः कारणम् यच्छृणुष्व तत् || २० ||
त्वयाभ्यर्च्य जगन्नाथम् सर्वेशम् जलशायिनम् |
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव || २१ ||
अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि |
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी || २२ ||
येन त्वम् तपसा युक्तो मानवानामगोचरम् |
सम्प्राप्तोऽसि महाप्राज्ञ सर्वशास्त्रविशारद || २३ ||
ये त्वाम् पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः |
शृणोषि याम्स्त्वम् विप्रेन्द्र याम्श्च ध्यायसि पश्यसि || २४ ||
निर्वृतिः परमा तेषाम् सर्वाह्लादप्रदायिनी |
सद्यो भवति नात्र त्वम् द्विजेन्द्र कुरु विस्मयम् || २५ ||
आह्लादहेतुजननम् नास्ति विप्रेन्द्र तादृशम् |
जलधेनुर्यथा नॄणाम् जन्मान्येकोनसप्ततिः || २६ ||
न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते |
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् || २७ ||
एकजन्मकृतम् वाञ्छा त्रिजन्मोत्थम् समाहृता |
सप्तजन्मकृतम् पापम् हन्ति दत्ताम्बुगौर्नृणाम् || २८ ||
स त्वम् गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम |
येषाम् समाश्रयः कृष्णो न नियम्या हि ते मया || २९ ||
कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः |
यैश्च नित्यम् स्मृतः कृष्णो न ते मद्विषयोपगाः || ३० ||
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् |
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः || ३१ ||
दानम् ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति |
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः || ३२ ||
उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः |
यैः सम्स्मृतो द्विजश्रेष्ठा ते मद्विषयोपगाः || ३३ ||
क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम् |
कृष्णेत्युदीरितम् यैश्च न ते मद्विषयोपगाः || ३४ ||
सर्वाबाधासु ये कृष्णम् स्मरन्त्युच्चारयन्ति च |
तद्भावभाविता विप्र न ते मद्विषयोपगाः || ३५ ||
स एव धाता सर्वस्य तन्नियोगकरा वयम् |
जनसम्यमनोद्युक्ताः सोऽस्मत्सम्यमनो हरिः || ३६ ||
वसिष्ठ उवाच –
इत्थम् निशाम्य वचनम् यमस्य वदतो मुनिम् |
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः || ३७ ||
नारका ऊचुः –
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः |
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च || ३८ ||
नमः पङ्कजनेत्राय नमः पङ्कजनाभये |
जनार्दनाय श्रीशाय श्रीपते पीतवाससे || ३९ ||
गोविन्दाय नमो नित्यम् नमश्चोदधिशायिने |
नमः करालवक्त्राय नृसिम्हायातिनादिने || ४० ||
शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते |
नमो वामनरूपाय क्रान्तलोकत्रयाय च || ४१ ||
वराहरूपाय तथा नमो यज्ञाङ्गधारिणे |
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने || ४२ ||
वासुदेव नमस्तुभ्यं नमः कैटभसूदन |
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर || ४३ ||
वसिष्ठ उवाच –
नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः |
शस्त्राणि कुण्ठताम् जग्मुरनलश्चाप्यशीशमत् || ४४ ||
अभज्यन्त च यन्त्राणि स मुत्पेतु…..मुखाः
सम्शुष्का क्षारसरितः पतिता कूटशाल्मकीः
प्रकाशतामसीतत्त्वम् नरकश्चागतस्तु सः || ४५ ||
प्रकाशता महत्यासीत् नारकम् व्यगमत्तमः
विवान्बभञ्ज पवनोऽप्यसिपत्रवनम् ततः || ४६ ||
निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः |
आसन् गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः || ४७ ||
ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः |
वेणुवीणास्वनयुतान् गीतशब्दाम्श्च शुश्रुवुः || ४८ ||
तम् तादृशमथालक्ष्य नृप वैवस्वतो यमः |
नरकस्य विपर्यासम् सन्क्षुद्धहृदयस्ततः || ४९ ||
ददर्श नारकान् सद्यो दिव्यस्रगनुलेपनान् |
जाज्वल्यमानाम्स्तेजोभिरमलाम्बरवाससः || ५० ||
नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने |
वासुदेवाय देवाय विष्णवे प्रभविष्णवे || ५१ ||
इत्येवम् वादिनस्तत्र प्रजासम्यमनो यमः |
क्षीणपापचयाम्स्ताम्स्तु पाद्यार्घ्यादिभिरर्चयन् || ५२ ||
पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः |
समाहितमना भूत्वा धर्मराजो नरेश्वर || ५३ ||
यम उवाच –
विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः |
प्रणामम् येऽपि कुर्वन्ति तेषामपि नमो नमः || ५४ ||
सर्वस्य सर्वसम्स्थस्य सर्वाधारस्य योगिनः |
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः || ५५ ||
तस्य यज्ञवराहस्य विष्णोरमिततेजसः |
प्रणामम् येऽपि कुर्वन्ति तेषामपि नमो नमः || ५६ ||
वसिष्ठ उवाच –
एवम् ते सम्स्तुतास्तेन धर्मराजेन नारकाः |
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै || ५७ ||
मुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलम् नृप |
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः || ५८ ||
सम्स्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च |
जलधेन्वाश्च माहात्म्यम् सम्स्मृत्यैतदगायत || ५९ ||
मुद्गल उवाच –
अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी |
यया मोहितचित्तस्तम् न वेत्ति परमेश्वरम् || ६० ||
जीवो वाञ्छति कीटत्वम् यूकामत्कुणयोनितः |
तस्माच्च शलभादीनाम् योनिम् तस्माच्च पक्षिणाम् || ६१ ||
ततश्च पशुताम् प्राप्य नरत्वमभिवाञ्छति |
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् || ६२ ||
न प्राप्नुवन्ति सम्सारे विभ्रान्तमनसो गतिम् |
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि || ६३ ||
(विष्णुमायापरीतास्ते प्राप्यापि न तरन्ति ये |)
तदीदृग्दुर्लभम् प्राप्य मुक्तिद्वारमचेतसः |
पतन्ति भूयः सम्सारे विष्णुमायाविमोहिताः || ६४ ||
दुस्तराऽपि तु साध्यासौ माया कृष्णस्य मोहनी |
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने || ६५ ||
यैर्मनोन्यस्तम् सदैव मधुसूधने
असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः |
छिन्दन्ति वैष्णवीम् मायाम् केशवार्पितमानसाः || ६६ ||
अविरोधेन विषयाम् भुञ्जन्विष्णुव्यपाश्रयः |
कृत्वा मनस्तरत्येताम् विष्णोर्मायाम् सुदुस्तराम् || ६७ ||
ईदृग्बहुफलाम् भक्तिम् सर्वधातरि केशवे |
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः || ६८ ||
मुधैवोक्तम् मुधायातम् मुधा द्विधि चेष्टितम् |
मुधैव जन्म तन्नष्टम् यत्र नाराधितो हरिः || ६९ ||
सम्वत्सरास्तथा मासा विफला दिवसाश्च ते |
नराणाम् विषयान्धानाम् येषु नाराधितो हरिः || ७० ||
यो न वित्तर्द्धिविभवैर्न वासोभिर्न भूषणैः |
तुष्यते हृदयेनैव कस्तमीशम् न पूजयेत् || ७१ ||
आराधितो हि यः पुम्सामैहिकामुष्मिकम् फलम् |
ददाति भगवान् देवः कस्तम् न प्रतिपूजयेत् || ७२ ||
जलधेन्वाश्च माहात्म्यम् निशाम्यापीदृशम् नराः |
ताम् न यच्छन्ति ये तेषाम् विवेकः कुत्र तिष्ठति || ७३ ||
कर्मभूमौ हि मानुष्यम् जन्मनामयुतैरपि |
स्वर्गापवर्गफलदम् कदाचित् प्राप्यते नरैः || ७४ ||
सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका |
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः || ७५ ||
ऊद् र्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः |
आराधयत गोविन्दम् जलधेनुम् प्रयच्छत || ७६ ||
दुःसहो नारको वह्निरविषह्याश्च यातनाः |
ज्ञानम् ममैतदालम्ब्य कृष्णे भवत सुस्थिराः || ७७ ||
ज्ञातम् मयैतदखिलम् कृष्णे
अदेशिके देशिकोऽहमत्र मार्गे मयोदितम् |
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् || ७८ ||
प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम् |
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् || ७९ ||
अनेकविषयालम्बि यच्चित्तम् तज्जनार्दने |
कुरुध्वमालम्बनवत्सम्स्मृतः पुण्यदो हि सः || ८० ||
मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति |
मुधा च चित्तम् तद्गामि यदि स्यात्किमतोऽधिकम् || ८१ ||
मयोक्तमेतद्बहुशो विनष्टे तु शरीरके |
मनुष्यत्वम् विना विष्णुर्दुर्लभो वो भविष्यति || ८२ ||
वसिष्ठ उवाच –
एताः पुद्गलगाथास्ते यमवाक्यम् तवोदितम् |
जलधेन्वाश्च माहात्म्यम् विष्णुसम्पूजनस्य च || ८३ ||
एवम् मुद्गलगाधेयम् यमवाक्यम् यथोदितम् |
व्रतानि सोपवासानि सर्वकामप्रदानि ते |
व्रतमन्यन्महाभाग सर्वकामप्रदम् शृणु || ८४ ||
इति विष्णुधर्मे मुद्गलगाथा नाम एकोत्तरनवतितमोऽध्यायः
द्विनवतिततमोऽध्यायः
शुद्धिव्रतम्
वसिष्ठ उवाच –
भविष्यम् चापरम् भूप ममैतच्छ्रोतुमर्हसि |
यद्वक्ष्यति महीपालः परिक्षित् स्वपुरोहितम् || १ ||
परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप |
भविष्यति शमीकस्य शिष्यः परमसम्मतः || २ ||
स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिणः |
सदैवाराधने यत्नम् भक्तियुक्तः करिष्यति || ३ ||
पुरोधसम् गौरमुखम् प्रणिपत्य स पार्थिवः |
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः || ४ ||
परीक्षित् उवाच –
भगवन्भवभीतोऽहमभवाय ततो भवान् |
आराधयितुमिच्छामि सर्वेच्छापूरकम् हरिम् || ५ ||
सङ्कुरुष्व महाभाग प्रसादम् मम सुव्रत |
कृष्णाराधनकामस्य मनसो देशिको भव || ६ ||
आराधनेन येनेशो जगतामीश्वरेश्वरः |
विष्णुराराध्यते पुम्भिः सम्साराब्धिपरिक्षतैः || ७ ||
तन्ममोपदिश ब्रह्मन्प्रसादप्रवणम् मनः |
कृत्वा सदैवार्तिमताम् शरण्यम् शरणम् गुरुः || ८ ||
वसिष्ठ उवाच –
एवम् स तेन भूपाल भूपालेन र्षिपुङ्गवः |
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति || ९ ||
नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने |
परमेशसुरेशाय हृषीकेशाय वेधसे || १० ||
वरार्थिनाममोघाय परस्मै हरिमेधसे |
सर्वकल्याणभूताय शङ्खचक्रगदाधृते || ११ ||
वरासिचर्मावितते क्रूरशान्तात्ममूर्तये |
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे || १२ ||
परमाण्वन्तपर्यन्तसहस्राम्शाणुमूर्तये |
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे || १३ ||
श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना |
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि || १४ ||
(तमजम् शाश्वतम् नित्यम् परिणामविवर्जितम् |)
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि || १५ ||
तत्र तत्रात्मनो नित्यम् परिणामविवर्जितम् |
प्रणम्य जगतामीशमनन्तम् परतः परम् || १६ ||
परम् पराणाम् स्रष्टारम् पुराणम् पुरुषम् प्रभुम् |
वरम् वरेण्यम् वरदम् स्थूलसूक्ष्मस्वरूपिणम् || १७ ||
(अशेषजगताम् मूलमनादिनिधनस्थितिम् |
परापरस्वरूपस्थमविकारस्वरूपिणम् || १८ ||
यस्योपचारतः स्वर्गम् स्वरूपम् व्यतिरिच्यते |
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः || १९ ||
तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने |
श्रूयताम् स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते || २० ||
गौरमुख उवाच –
देवकी नाम राजेन्द्र देवकस्याभवत् सुता |
अनपत्या तपस्तेये पुत्रार्थम् किल भामिनी || २१ ||
भार्या सा वसुदेवस्य सत्यधर्मपरायणा |
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः || २२ ||
भार्गव उवाच –
किमर्थम् तप्यते भद्रे तपः परमदुश्चरम् |
कोऽर्थस्तवाभिलषितो गन्तुम् कुत्र तवेप्सितम् || २३ ||
देवक्युवाच –
अपुत्राहम् द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः |
साहमाराध्य गोविन्दम् पुत्रमिच्छामि शोभनम् || २४ ||
तपस्तावत् करिष्यामि परमेण समाधिना |
यावदाराधितो विष्णुर्दास्यत्यभिमतम् मम || २५ ||
भार्गव उवाच –
गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि |
तदिदम् व्रतमास्थाय तोषयाशु जनार्दनम् || २६ ||
प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे |
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः || २७ ||
बाणपुष्पैः समभ्यर्च्य वासुदेवमजम् विभुम् |
दत्त्वा च चन्दनम् धूपम् परमान्नम् निवेदयेत् |
घृतेन वाच येद्विप्रम् गृह्णीयाच्च ततो व्रतम् || २८ ||
अद्यप्रभृत्यहम् मासम् विरतः प्राणिनाम् वधात् |
असत्यवचनात् स्तैन्यान्मधुमाम्सादिभक्षणात् || २९ ||
स्वपन्विबुध्यन् गच्छम्श्च स्मरिष्याम्यहमच्युतम् |
परापवादपैशून्यम् परपीडाकरम् तथा || ३० ||
सच्छास्त्रदेवतायज्ञनिन्दामन्यस्य वा भुवि |
न वक्ष्यामि जगत्यस्मिन् पश्यन् सर्वगतम् हरिम् || ३१ ||
इत्यन्यच्चापि शक्नोति यन्निर्वोढुम् यशस्विनि |
इत्युच्चार्य न शक्नोषि यदिवोढुम्
कुर्वीत नियमम् तस्य त्यागो धर्माय यस्य च || ३२ ||
कृत्वैवम् पुरतो विष्णोर्निवृत्तिम् पापतः शुभे |
नैवेद्यम् स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः || ३३ ||
मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम् |
समभ्यर्च्य शुभे धूपम् चन्दनम् सन्निवेद्य च || ३४ ||
परमान्नम् च देवाय विप्राय च पुनर्घृतम् |
दत्त्वा तथैव गृह्णीयान्नियमम् चास्य रोचते || ३५ ||
तथैव नक्तम् भुञ्जीत नैवेद्यम् कुलनन्दिनि |
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकम् समम् || ३६ ||
पुष्पधूपोपहारेषु विशेषो दक्षिणासु च |
स्नानप्राशनयोः साम्यम् तथा वै नक्तभोजने || ३७ ||
अर्चयेत् प्रतिमासम् च यैः पुष्पैस्तानि मे शृणु |
ये च धूपाः प्रदातव्या नैवेद्यान्नम् च यद्यदा || ३८ ||
बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः |
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि || ३९ ||
श्वेतैस्ततो मालिकया तथा मल्लिकया ततः |
श्वेतैस्ततो मल्लिकया ततश्वम्पकया ततः |
दधिपिण्ड्याऽथ केतक्या पद्मरक्तोत्पलेन च |
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् || ४० ||
कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम् |
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् || ४१ ||
वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः |
कर्पूरम् देवदेवाय गुग्गुलम् श्रावणादिषु || ४२ ||
कार्त्तिकादिषु मासेषु परमान्नम् शुभे त्रिषु |
कासारम् माघपूर्वेषु यवान्नम् च ततस्त्रिषु || ४३ ||
घृतम् तिलाञ्जलघटान्हिरण्यमथ वाजिनम् |
प्रतिमासम् तथा दद्याद्ब्राह्मणाय शुभव्रते || ४४ ||
यथोक्तम् नियमानाम् च ग्रहणम् प्रतिमासिकम् |
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः || ४५ ||
योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि |
करोति या सा सकलानवाप्नोति मनोरथान् || ४६ ||
व्रतेनाराधितो विष्णुरनेन जगतः पतिः |
ददात्यभिमतान् कामानल्पकालेन भामिनि || ४७ ||
धन्यम् यशस्यमायुष्यम् सौभाग्यारोग्यदम् तथा |
व्रतमेतत्प्रियतमम् व्रतेभ्योऽव्यक्तजन्मनः || ४८ ||
व्रतेनानेन शुद्धानामब्देनैकेन केशवः |
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः || ४९ ||
कायवाङ्मनसो शुद्धिम् करोत्येतन्महाव्रतम् |
शुद्धानाम् चामलो देवो दृश्य एव जनार्दनः || ५० ||
तस्मिन्नेकाग्रचित्तानाम् प्राणिनाम् वरवर्णिनि |
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः || ५१ ||
यथा कल्पतरुम् प्राप्य यद्यदिच्छति चेतसा |
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तम् विभुम् || ५२ ||
शुद्धिव्रतमिदम् तस्मान्महापातकनाशनम् |
आराधनाय कृष्णस्य कुरु देवकि पावनम् || ५३ ||
तस्मिन्श्चीर्णे हृषीकेशस्तुभ्यम् दास्यति दर्शनम् |
दृष्टे चाभिमतम् यत्ते तदशेषम् भविष्यति || ५४ ||
इति विष्णुधर्मे शुद्धिव्रतम् नाम द्विनवतितमोऽध्यायः
त्रिनवतिततमोऽध्यायः
देवकीव्रतम्
गौरमुख उवाच –
देवकी भार्गवस्यैतच्छ्रुत्वा वाक्यम् नराधिप |
शुद्धिकामा चचाराथ सर्वकामप्रदम् व्रतम् || १ ||
व्रतेनाराधितस्तेन तदा देव्या जनार्दनः |
ददौ दर्शनमीशेशः शङ्खचक्रगदाधरः || २ ||
दृष्टे तस्मिन्नशेषेशे जगद्धातरि केशवे |
कृत्वा प्रणाममाहेदम् भक्तिनम्राऽथ देवकी || ३ ||
जगतामीश्वरेशेश ज्ञान ज्ञेय भवाव्यय |
समस्तदेवतादेव वासुदेव नमोऽस्तु ते || ४ ||
प्रधानपुम्सोरजयोर्यः कारणमकारणम् |
अविशेष्यमजम् रूपम् तव तस्मै नमोऽस्तु ते || ५ ||
त्वम् प्रधानम् पुमाम्श्चैव कारणाकारणात्मकः |
सदसच्चाखिलम् देव केनोक्तेन तव स्तवः || ६ ||
प्रसीद देवदेवानाम् अरिशातन वामन |
लोभाभिभूता यमहम् वरमिच्छे प्रयच्छति
लोभाभिभूता यदहम् वरयामि प्रयच्छ तत् || ७ ||
भगवान् उवाच (देवदेव उवाच) –
अदितिस्त्वम् महाभागे भुवम् प्राप्ता सुरारणि |
भर्ता च ते कश्यपोऽयम् देयस्तव वरो मया || ८ ||
भर्ता ते कश्यपो देवि दत्तस्तव वरो मया
देवक्युवाच –
अपुत्रास्मि न मे भर्तुरस्ति केशव सन्ततिः |
प्रसीद देहि मे पुत्रमरिदुर्धारपौरुषम् || ९ ||
देवदेव उवाच –
भविष्यत्यचिराद्देवि मदम्शेन सुतस्तव |
हन्तव्या दानवास्तेन सद्धर्मपरिपन्थिनः || १० ||
देवक्युवाच –
त्वामहम् जगद्धातारमुदारोरुपराक्रमम् |
धारयिष्यामि गर्भेण कथमच्युत शम्स मे || ११ ||
भगवान् देवदेव उवाच –
तवोदरेऽवतारम् वै पुरापि बलिबन्धने |
कुर्वता विधृताः सप्त लोकास्त्वम् चात्ममायया || १२ ||
तथा साम्प्रतमप्येतान्ल्लोकान् सस्थाणुजङ्गमान् |
धारयिष्याम्यथात्मानम् त्वाम् च देवकि लीलया || १३ ||
गौरमुख उवाच –
इत्येवमुक्त्वा ताम् देवीम् देवकीम् भगवान् प्रभुः |
तिरोबभूव गोविन्दो भूर्भुवः प्रभवो विभुः || १४ ||
अवाप च ततो गर्भम् देवकी वसुदेवतः |
अजायत च विश्वेशः स्वेनाङ्गेन जनार्दनः || १५ ||
नीलोत्पलदलश्यामम् ताम्रायतविलोचनम् |
चतुर्बाहुमुदाराङ्गम् श्रीवत्साङ्कितवक्षसम् || १६ ||
तम् जातम् देवकी देवम् निधानम् सर्वतेजसाम् |
प्रणिपत्याभितुष्टाव सम्प्रस्नुतपयोधरा || १७ ||
अबालो बालरूपेण येनेश त्वमिहास्थितः |
त्वद्रूपम् प्रणिपत्याहम् यद्ब्रवीमि निबोध तत् || १८ ||
नमस्ते सर्वभूतेश नमस्ते मधुसूदन |
नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन || १९ ||
नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये |
उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः || २० ||
नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः |
अशेषभूतरूपाय तथारूपाय ते नमः || २१ ||
अनिर्देश्यविशेषाय तुभ्यम् सर्वात्मने नमः |
सर्वेश्वराय सर्वाय सर्वभूताय ते नमः || २२ ||
नमोऽस्तु ते वासुदेव नमोऽस्तु कमलेक्षण |
अशेषभूतरूपाय तथाभूताय ते नमः line not there in moolam
नमोऽस्तु तेऽश्वरूपाय तथारूपाय ते नमः |
अनिर्देश्यविशेषाय तुभ्यम् सर्वात्मने नमः
नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण |
नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते || २३ ||
विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम |
नमो नारायण हरे नमस्तेऽस्तु सदाच्युत || २४ ||
नमो नमस्ते गोविन्द नमस्ते गरुडध्वज |
श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते || २५ ||
नीलोत्पलदलश्याम दम्ष्ट्रोद्धृतवसुन्धर |
हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर || २६ ||
नृसिम्ह जय विश्वात्मन् दैत्योरःस्थलदारक |
नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक || २७ ||
मायावामनरूपाय तुभ्यम् देव नमो नमः |
त्रिविक्रम नमस्तुभ्यम् त्रैलोक्यक्रान्ति दुर्जय || २८ ||
ऋग्यजुःसामभूताय वेदाहरणकर्मणे |
प्रणवोद्गीतवपुषे महाश्वशिरसे नमः || २९ ||
निःक्षत्रियोर्वीकरण विकरालपराक्रम |
जामदग्न्य नमस्तुभ्यम् कार्तवीर्यासुतस्कर || ३० ||
पौलस्त्यकुलनाशाय साधुमार्गविचारिणे |
नलसेतुकृते तुभ्यम् नमो राघवरूपिणे || ३१ ||
साम्प्रतम् मत्प्रसन्नाय सम्भूताय ममोदरे |
स्वमायाबालरूपाय नमः कृष्णाय वै हरे || ३२ ||
यावन्ति तव रूपाणि यावत्यश्च विभूतयः |
नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा || ३३ ||
स्वरूपचेष्टितम् यत्ते यद्देवत्वे विचेष्टितम् |
यच्च तिर्यङ्मनुष्यत्वे चेष्टितम् तन्नमाम्यहम् || ३४ ||
परमेश परेशेश तिर्यगीश नरेश्वर |
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम || ३५ ||
गौरमुख उवाच –
एवम् स्तुतस्तया देव्या देवक्या मधुसूदनः |
बालरूपी जगादैवम् वसुदेवस्य शृण्वतः || ३६ ||
सम्यगाराधितेनोक्तम् यत्प्रसन्नेन वै शुभे |
तत्कृतम् सकलम् भूयो यद्वृणोषि ददामि तत् || ३७ ||
अवतारे तथैवास्मिन् वर्षाणामधिकम् शतम् |
स्थास्यामि नरताम् प्राप्तो दुष्टदैत्यनिबर्हणः || ३८ ||
तत्त्वम् वरय भद्रम् ते वरम् यन्मनसेच्छसि |
दास्याम्यहमसन्दिग्धम् यद्यपि स्यात्सुदुर्लभम् || ३९ ||
देवक्युवाच –
यदि देव प्रसन्नस्त्वम् प्रददासि ममेप्सितम् |
वृणोमि तदहम् नित्यम् तव केशव दर्शनम् || ४० ||
तवेदृग्रूपमालोक्य हार्दप्रस्रुतलोचना |
नालम् वियोगम् सम्सोढुम् तवाहम् मधुसूदन || ४१ ||
देवदेव उवाच –
दाक्षायणी त्वमदितिः सम्भूता वसुधातले |
नित्यमेव जगद्धात्रि प्रसादम् ते करोम्यहम् || ४२ ||
षष्ठे षष्ठे तदा पक्षे दिनेऽस्मिन्नेव भामिनि |
त्वम् माम् द्रक्ष्यस्यसन्दिग्धम् प्रसादस्ते कृतो मया || ४३ ||
अनेनैव महाभागे बालरूपेण सम्वृतः |
तव दर्शनमेष्यामि यत्र ते स्नेहवन्मनः || ४४ ||
तस्मिन् काले च लोकास्त्वाम् पूजयिष्यन्ति देवकि |
माम् च पुष्पादिभिर्देवि तवोत्सङ्गव्यवस्थितम् || ४५ ||
सम्पूजितोऽहम् लोकानाम् तस्मिन् काले सुतोषितः |
प्रदास्यामि जगद्धात्रि यथाभिलषितम् वरम् || ४६ ||
अपुत्राणाम् वरान् पुत्रानधनानाम् तथा धनम् |
शुभान् दारानदाराणाम् सरोगाणामरोगताम् || ४७ ||
सुगतिम् गतिकामानाम् विद्याम् विद्यार्थिनामपि |
प्रदास्यसि महाभागे मत्प्रसादोपबृम्हिता || ४८ ||
प्रसादिता हि मर्त्यानाम् यत्त्वम् दास्यसि शोभने |
तत्तेषाम् मत्प्रसादेन भविष्यति न दुर्लभम् || ४९ ||
त्वामभ्यर्च्योपचारेण स्नापयित्वा घृतेन माम् |
सर्वकामानवाप्स्यन्ति कालेषट्पक्षसञ्ज्ञिते || ५० ||
(त्वदङ्कस्थम् च माम् बालम् सम्स्मरिष्यन्ति भक्तितः |)
प्रतिमासम् च ते पूजामष्टम्याम् यः करिष्यति |
मम चैवाखिलान् कामान् सम्प्राप्नोत्यपकल्मषः || ५१ ||
गौरमुख उवाच –
एवम् पूर्वम् हृषीकेशो देवक्याः प्रददौ वरम् |
तस्मात् कृष्णाष्टमी पुम्सामशेषाघौघहारिणी || ५२ ||
तस्याम् हि पूजितः कृष्णो देवकी च समाधिना |
पापापनोदम् कुरुते ददाति च मनोरथान् || ५३ ||
तदेष पुष्टिकामानाम् नॄणाम् पुण्यार्थिनामपि |
उपवासो महीपाल शस्तः केशवतोषदः || ५४ ||
इति विष्णुधर्मे देवकीव्रतम् नाम त्रिनवतितमोऽध्यायः
चतुर्नवतिततमोऽध्यायः
प्रह्लादबलिसम्वादः
वसिष्ठ उवाच –
श्रावणे शुक्लपक्षे तु द्वादश्याम् प्रीयते नृप |
गोप्रदानेन गोविन्दो यत्पूर्वम् कथितम् तव || १ ||
पौषशुक्ले तु तद्वच्च द्वादश्याम् घृतधेनुकाम् |
घृतार्चिः प्रीणनायालम् प्रदद्यात् फलदायिनीम् || २ ||
तथैव माघद्वादश्याम् प्रदत्ता तिलगौर्नृप |
केशवम् प्रीणयत्याशु सर्वकामान् प्रयच्छति || ३ ||
ज्यैष्ठे मासि सिते पक्षे द्वादश्याम् जलधेनुका |
दत्ता यथावद्विधिना प्रीणयत्यम्बुशायिनम् || ४ ||
लवणम् मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः |
प्रयच्छति द्विजाग्र्याय स सर्वरसदायकः || ५ ||
सर्वभोगमहाभोगान् भ्राजिष्मन्तो मनोरमान् |
सर्वान् भोगान् महाभाग भविष्यन्तो मनोरथान्
लोकानवाप्नोति नृप प्रसन्ने गरुडध्वजे || ६ ||
पौषमासे तु यो दद्याद्घृतम् विप्राय पार्थिव |
समभ्यर्च्याच्युतम् सोऽपि सर्वकामानवाप्नुयात् || ७ ||
माघमासे तु सम्पूज्य माधवम् ब्राह्मणाय यः |
प्रयच्छति तिलान्ल्लोकान् सम्प्राप्नोत्यभिवाञ्छितान् || ८ ||
फाल्गुने पुण्डरीकाक्षम् यः समभ्यर्च्य यच्छति |
सप्तधान्यम् नरश्रेष्ठ स सर्वस्येश्वरो भवेत् || ९ ||
चैत्रे चित्राणि वस्त्राणि यः प्रयच्छति केशवम् |
पूजयित्वा स वै भोगान्विचित्रान्ल्लभते नरः || १० ||
वैशाखे विष्णुमभ्यर्च्य यवगोधूमदो नरः |
लोकानैन्द्रान् समासाद्य मोदते विगतज्वरः || ११ ||
(दुर्निवर्त्यमहम् मन्ये चञ्चलम् हि मनो यतः |)
ज्यैष्ठेऽभ्यर्च्य हृषीकेशम् उदकुम्भप्रदो हि यः |
स पराम् निर्वृतिम् याति सप्त जन्मान्तराणि वै || १२ ||
आषाढमासे च हरिम् यः समभ्यर्च्य यच्छति |
विप्राय चन्दनम् सोऽपि परमाह्लादभाजनम् || १३ ||
यो नृसिम्हम् समभ्यर्च्य ब्राह्मणाय प्रयच्छति |
श्रावणे नवनीतम् तु स स्वर्गम् सुकृती व्रजेत् || १४ ||
छत्त्रम् च यो भाद्रपदे वासुदेवाभिपूजकः |
प्रयच्छति द्विजाग्र्याय स च्छत्त्राधिपतिर्भवेत् || १५ ||
गुडशर्करया युक्तम् मोदकम् च प्रयच्छति |
तथैवाश्वयुजेऽभ्यर्च्य योऽनन्तम् सोऽमरो भवेत् || १६ ||
नारायणम् समभ्यर्च्य यः प्रयच्छति कार्त्तिके |
दीपकम् विप्रगेहेषु विमानम् सोऽधिरोहति || १७ ||
काम्यान्येतान्यशेषाणि यः सम्पूज्य जगत्पतिम् |
दानानि यच्छति नरः स सम्पूर्णमनोरथः |
सर्वश्रेष्ठः समस्तानाम् बन्धूनामाश्रयो भवेत् || १८ ||
एवम् सर्वाणि दानानि प्रीणनायाच्युतस्य यः |
प्रयच्छति स सर्वेषाम् फलानाम् भुवि भाजनम् || १९ ||
तस्मान्नरेन्द्र विप्रेभ्यः प्रीणनाय जगद्गुरोः |
प्रयच्छैतानि दानानि यच्चान्यद्दयितम् तव || २० ||
यदीच्छसि पुनः प्राप्तुम् भूतिमभ्रम्शनीम् नृप |
(तदाराधय गोविन्दम् नान्यथा स्युर्विभूतयः || २१ ||)
प्रह्लाद उवाच –
एवम् वसिष्ठेन तदा मान्धाता नृप बोधितः |
सह पत्न्या महीपालः परितोषम् परम् ययौ || २२ ||
जगाद च मुदा युक्तः प्रणिपत्य पुरोहितम् |
सह पत्न्या नरश्रेष्ठः समुत्थाय वरासनात् || २३ ||
मान्धाता उवाच –
धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो |
अनासज्य मनः कृष्णे विषयासक्तचेतसः || २४ ||
ता निशास्ते च दिवसास्ते र्तवस्ते च वत्सराः |
नराणाम् सफला येषु चिन्तितो भगवान् हरिः || २५ ||
चिन्त्यमानः समस्तानाम् पापानाम् हानिदो हि सः |
समुत्सृज्याखिलम् चिन्त्यम् सोऽच्युतः किम् न चिन्त्यते || २६ ||
वसिष्ठ उवाच –
कष्टम् मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु |
पराङ्मुखानाम् गोविन्दे यत्प्राप्तम् परमम् वयः || २७ ||
प्रह्लाद उवाच –
एवम् विनिन्द्य सोऽत्मानाम् मान्धाता पृथिवीपतिः |
चकाराराधने यत्नम् देवदेवस्य शार्ङ्गिणः || २८ ||
तमाराध्य च विश्वेशमुपेन्द्रमसुरेश्वर |
प्राप सिद्धिम् पराम् पूर्वम् दक्षः प्राचेतसो यथा || २९ ||
तथा त्वमपि राजेन्द्र सर्वभावेन केशवम् |
समाराधय गोविन्दम् तमाराध्य न सीदति || ३० ||
शौनक उवाच –
एवम् स दैत्यराजेन्द्रः प्रह्रादेनावबोधितः |
बलिराराधने यत्नम् चक्रे चक्रभृतस्तदा || ३१ ||
पुष्पोपहारैर्धूपैश्च तथा चैवानुलेपनैः |
वासोभिर्भूषणैः सम्यग्ब्राह्मणानाम् च तर्पणैः || ३२ ||
जपैर्होमैर्व्रतैश्चैव यथोक्तम् पुरुषर्षभ |
सह पत्न्या तथैव त्वम् समाराधय केशवम् || ३३ ||
इति विष्णुधर्मे प्रह्लादबलिसम्वादोर्नाम चतुर्नवतितमोऽध्यायः
पञ्चनवतिततमोऽध्यायः
पापप्रणाशनस्तवः
शतानीक उवाच –
भगवम्श्चञ्चलम् चित्तम् मनुष्याणामहर्निशम् |
विषयासङ्गदुर्दुष्टम् पापायैव प्रवर्तते || १ ||
मौनेन वाचिकम् पापम् पुम्भिर्ब्रह्मन्निवर्त्यते |
शारीरमप्यकरणात् सुनिवर्त्यम् मतम् मम || २ ||
यत्त्वेतन्मानसम् पापम् मनुष्यैस्तन्महामते |
दुर्निवर्त्यमहम् मन्ये चञ्चलम् हि मनो यतः || ३ ||
तदहम् श्रोतुमिच्छामि मनुष्यैर्दुर्विचिन्तितैः |
यत्स्मर्तव्यम् च जप्यम् च मानसाघप्रशान्तये || ४ ||
शौनक उवाच –
त्वद्युक्तोऽयमनुप्रश्नः साध्वेतद्भवतोदितम् |
चञ्चलत्वाद्धि चित्तानाम् मानसम् बहु पातकम् || ५ ||
भूमौ तृणमसङ्ख्यातम् यथा च दिवि तारकाः |
तथा पापमसङ्ख्येयम् चेतसा क्रियते तु यत् || ६ ||
परदारपरद्रव्यपरहिम्सासु मानसम् |
अहर्निशम् मनुष्याणाम् सातत्येन प्रवर्तते || ७ ||
यद्यस्योपशमो राजन् भुवि न क्रियते नृभिः |
तन्नास्ति नरकोत्तारो वर्षकोटीशतैरपि || ८ ||
तदस्य प्रशमायालम् प्रायश्चित्तम् नराधिप |
शृणुष्व येन चित्तोत्थम् सद्यः पापम् व्यपोहति || ९ ||
ॐ नमो वासुदेवाय पुरुषाय महात्मने |
हिरण्यरेतसेऽचिन्त्यस्वरूपायातिवेधसे || १० ||
विष्णवे जिष्णवे नित्यम् शान्तायानघरूपिणे |
सर्वस्थित्यन्तकरणव्रतिने पीतवाससे || ११ ||
नारायणाय विश्वाय विश्वेशायेश्वराय च |
नमः कमलकिञ्जल्कसुवर्णमुकुटाय च || १२ ||
केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः |
नमः परमकल्याणकल्याणायात्मयोनये || १३ ||
जनार्दनाय देवाय श्रीधराय सुमेधसे |
महात्मने वरेण्याय नमः पङ्कजनाभये || १४ ||
स्मृतमात्राघघाताय कृष्णायाक्लिष्टकर्मणे |
नमो नताय नम्रेशैरशेषैर्वासवादिभिः || १५ ||
नमो मायाविने तुभ्यम् हरये हरिमेधसे |
हिरण्यगर्भगर्भाय जगतः कारणात्मने || १६ ||
गोविन्दायादिभूताय श्रादीनाम् महात्मने |
नमो भूतात्मभूताय आत्मने परमात्मने || १७ ||
अच्युताय नमो नित्यमनन्ताय नमो नमः |
दामोदराय शुचये यज्ञेशाय नमो नमः || १८ ||
नमो मायापटच्छन्नजगद्धाम्ने महात्मने |
हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे || १९ ||
दयालवे नमो नित्यम् कपिलाय सुमेधसे |
सम्सारसागरोत्तारज्ञानपोतप्रदायिने || २० ||
अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि |
करालसौम्यरूपाय वैकुण्ठाय नमो नमः || २१ ||
यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम् |
तथा विलयमभ्येतु ममैतद्दुर्विचिन्तितम् || २२ ||
यथा न विष्णुभक्तेषु पापमाप्नोति सम्स्थितिम् |
तथा विनाशमभ्येतु ममैतद्दुर्विचिन्तितम् || २३ ||
स्मृतमात्रो यथा विष्णुः सर्वम् पापम् व्यपोहति |
तथा प्रणाशमभ्येतु ममैतद्दुर्विचिन्तितम् || २४ ||
यथा सर्वत्रगो विष्णुस्तत्र सर्वम् च सम्स्थितम् |
उपयातु तथा नाशम् ममाघम् चित्तसम्भवम् || २५ ||
पापम् प्रणाशम् मम सम्प्रयातु यन्मानसम् यच्च करोमि वाचा |
शारीरमप्याचरितम् च यन्मे स्मृते जगद्धातरि वासुदेवे || २६ ||
प्रयान्तु दोषा मम नाशमाशु रागादयः कारणकारणेशे |
विज्ञानदीपामलमार्गदृश्ये स्मृते जगद्धातरि वासुदेवे || २७ ||
भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशम् जगतोऽखिलस्य |
मयाद्य भक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे || २८ ||
ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित् |
भवन्तु ते सिद्धियुजो मयाद्य स्मृते जगद्धातरि वासुदेवे || २९ ||
पुष्यन्तु मैत्रीम् विरमन्तु रागादुज्झन्तु लोभम् क्षमिणो भवन्तु |
आब्रह्मवृक्षान्तरगा मयाद्य स्मृते जगद्धातरि वासुदेवे || ३० ||
ये प्राणिनः कुत्रचिदत्र सन्ति ब्रह्माण्डमध्ये परतश्च केचित् |
ते यान्तु सिद्धिम् परमाम् मयाद्य स्मृते जगद्धातरि वासुदेवे || ३१ ||
अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः |
कुर्वन्तु भक्तिम् परमामनन्ते मत्स्तोत्रतुष्टस्य हरेः प्रसादात् || ३२ ||
शृण्वन्ति ये मे पठतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम् |
देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः || ३३ ||
ये चापि मूका विकलेन्द्रियत्वाच्छृण्वन्ति नो नैव विलोकयन्ति |
ये चापि dooreऽlpabaलेन्द्रियत्वाच्छृ
पश्वादयः कीटपिपीलिकाश्च भवन्तु तेऽप्यच्युतयोगभाजः || ३४ ||
नामस्वनन्तस्य च कीर्तितेषु यदत्र पुण्यम् जगतः प्रसूतेः |
तेनाविवेकोपहतात्मबोधा भवन्तु पुम्साम् मतयः सुशीलाः || ३५ ||
ये दुःखितास्ते सुखिनो भवन्तु द्वेषान्विता मैत्रगुणोपपन्नाः |
सत्यार्जवाद्यास्त्वनृता विमाया मत्सम्स्तवाराधितकृष्णदृष्टाः || ३६ ||
नश्यन्तु दुःखानि जगत्यपैतु लोभादिको दोषगुणः प्रजाभ्यः |
यथात्मनि भ्रातरि चात्मजे च तथा जनस्यास्तु जनेऽपि हार्दम् || ३७ ||
सम्सारवैद्येऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते |
सम्सारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ || ३८ ||
एतत्पठन् पार्थिव सर्वपापैर्विमुच्यते विष्णुपरः सदैव |
प्राप्नोति सिद्धिम् विपुलम् महर्द्धिम् न चाप्यनर्थेषु मतिम् करोति || ३९ ||
उद्दिश्य सत्त्वानि च यानि यानि स्तोत्रम् पठन्ते कृपया मनुष्याः |
सर्वाणि तान्यप्रतिघा भवन्ति प्रयान्ति सिद्धिम् भगवत्प्रसादात् || ४० ||
तस्मात्त्वयैतत्सततम् निशासु दिनेषु चैवेश्वर माधवस्य |
सन्कीर्तनम् कार्यमशेषपापविमोक्षहेतोरभवाय चैव || ४१ ||
इति सकलजनोपकारकारी हरिचरणाब्जविनिष्टशुद्धबुद्धिः |
पठति खलु महीप यो मनुष्यः स लयमुपैति हरौ हृताखिलाघः || ४२ ||
इति विष्णुधर्मे पापप्रणाशनस्तवो नाम पञ्चनवतितमोऽध्यायः
षड्नवतिततमोऽध्यायः
द्वितीयपापप्रशमनस्तवः
शौनक उवाच –
इदम् च शृणु भूपाल नश्यते दुर्विचिन्तितम् |
येनोपायेन वै पुम्साम् योषिताम् वाप्यसम्शयम् || १ ||
परदारपरद्रव्य जीवहिम्सादिके सदा |
प्रवर्तते नृणाम् चित्तम् तदेतदभिसम्स्मरेत् || २ ||
विष्णवे विष्णवे नित्यम् विष्णवे विष्णवे नमः |
जिष्णवे जिष्णवे सर्वम् जिष्णवे जिष्णवे नमः || ३ ||
नमामि विष्णुम् बुद्धिस्थमहङ्कारगतम् हरिम् |
चित्तस्थमीशमव्यक्तमनन्तमपराजितम् |
विष्णुमीड्यमशेषेशमनादिनिधनम् विभुम् || ४ ||
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् |
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि सम्स्थितः || ५ ||
करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च |
तत्पापम् नाशमायातु तस्मिन्नेव विचिन्तिते || ६ ||
ध्यातो हरति यः पापम् स्वप्ने दृष्टः शुभावहः |
तमुपेन्द्रमहम् विष्णुम् प्रणतोऽर्तिहरम् हरिम् || ७ ||
म्तमुपेन्द्र नमस्यामि प्रणतार्तिहरम् हरिम् |
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः |
हस्तावलम्बदम् विष्णुम् प्रणतोऽस्मि परात्परम् || ८ ||
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज |
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते || ९ ||
नृसिम्हानन्त गोविन्द भूतभावन केशव |
दुरुक्तम् दुष्कृतम् ध्यानम् शमयाद्य नमोऽस्तु ते || १० ||
नमो वामन रूपाय नृसिम्हाय नमो नमः |
नमोऽस्तु मायाहरये हरये हरिमेधसे ||
यन्मया चिन्तितम् दुष्टम् स्वचित्तवशवर्तिना |
नरकावहमत्युग्रम् तच्छमम् नय केशव || ११ ||
ब्रह्मण्यदेव गोविन्द परमार्थ परायण |
जगन्नाथ जगद्धातः पापम् प्रशमयाच्युत || १२ ||
यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि |
कायेन मनसा वाचा कृतम् पापमजानता || १३ ||
जानता वा हृषीकेश पुण्डरीकाक्ष माधव |
नामत्रयोच्चारणतस्तत्प्रयातु मम सन्क्षयम् || १४ ||
शारीरम् मे हृषीकेश पुण्डरीकाक्ष मानसम् |
पापम् प्रशमयाद्य त्वम् वाक्कृतम् मम माधव || १५ ||
यद्व्रजन् यत्स्वपन् भुञ्जन् यदुत्तिष्ठन् यदास्थितः |
कृतवाम्श्चापि यच्चाहम् कायेन मनसा गिरा || १६ ||
महत्स्वल्पमतिस्थूलम् कुयोनिनरकावहम् |
तदत्य प्रशमम् सर्वम् वासुदेवस्य कीर्तनात् || १७ ||
परम् ब्रह्म परम् धाम पवित्रम् परमम् च यत् |
तस्मिन् सन्कीर्तिते विष्णोः पदे पापम् प्रणश्यतु || १८ ||
सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः |
ममाखिलम् दह त्वम् हि तद्विष्णोः परमम् पदम् || १९ ||
यत्प्राप्य न निवर्तन्ते गन्धस्पर्शादिवर्जितम् |
पापम् प्रणाशयत्वद्य तद्विष्णोः परमम् पदम् || २० ||
सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम् |
प्रणमामि जगद्धाम तद्विष्णोः परमम् पदम् || २१ ||
शारीरे मानसे चैव पापे वाग्जे च पार्थिव |
कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः |
मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् || २२ ||
उच्चार्यमाणे चैतस्मिन् देवदेवस्य सम्स्तवे |
विलयम् पापमायाति भाण्डमाममिवाम्भसि || २३ ||
तस्मात् सन्चिन्तिते पापे समनन्तरमेव ते |
जप्तव्यमेतत्पापस्य प्रशमाय महीपते || २४ ||
इति विष्णुधर्मे द्वितीयपापप्रशमनस्तवो नाम षड्नवतितमोऽध्यायः
सप्तनवतिततमोऽध्यायः
क्षत्रबन्धूपाख्यानम्
शतानीक उवाच –
सम्सारार्णवमग्नेन पुरुषेण महामुने |
विषयासक्तचित्तेन यत्कार्यम् तद्वदस्व मे || १ ||
भ्राम्यताम् सङ्कटे दुर्गे सम्सारे विषयैषिणाम् |
स्वकर्मभिर्मनुष्याणामुपकारकमुच्यताम् || २ ||
क्षीप्ते मनस्यनायत्ते वृद्धे लोभादिके गणे |
शरणम् यन्मनुष्याणाम् तदाचक्ष्व महामुने || ३ ||
शौनक उवाच –
सम्साराणवपोताय हरये हरिमेधसे |
नमस्कृत्य प्रवक्ष्यामि नराणामुपकारकम् || ४ ||
सम्यगाराधितो भक्त्या वेदभारगुरोर्गुरुः |
कृष्णद्वैपायनः प्राह यच्छिष्याय सुमन्तवे || ५ ||
पुरा किल दुराचारो दुर्बुद्धिरजितेन्द्रियः |
क्षत्रबन्धुरभूत् पापः परमर्मावघट्टकः || ६ ||
मातापित्रोरशुश्रूषुर्द्रोग्धा बन्धुजनस्य च |
गुरुदेवद्विजातीनाम् निन्दासु सततोद्यतः || ७ ||
मोष्टा विश्वसताम् नित्यमप्रीतिः प्रीतिमिच्छताम् |
ऋजूनामनृजुः क्षुद्रः परहिम्सापरायणः || ८ ||
स बान्धवैः परित्यक्तस्तथान्यैः साधुवृत्तिभिः |
अवृत्तिमान् अविश्वास्यो मृगयाजीवनोऽभवत् || ९ ||
अहन्यहनि चक्राङ्गान् एणकादीम्स्तथा मृगान् |
हत्वाऽऽत्मपोषणम् चक्रे व्याधवृत्तिरतोऽधमः || १० ||
एतया तस्य दुष्टस्य कुवृत्त्या पापचेतसः |
जगाम सुमहान् कालः कुर्वतो दारपोषणम् || ११ ||
एकदा तु मुनिस्तेन निदाघे विजने वने |
मृगयामटता दृष्टो वर्त्मनः प्रच्युतः पथि || १२ ||
क्षुत्क्षामकण्ठः सुश्रान्तः शुष्कजिह्वास्यतालुकः |
तृट्परीतोऽतिविभ्रान्तः कान्दिग्भूतोऽल्पचेतनः || १३ ||
श्वासायासश्लथैरङ्गैः कृच्छ्रादात्मानमुद्वहन् |
सूर्याम्शुतापात् प्रगलत्स्वेदार्द्रचरणो नृप || १४ ||
तस्मिन् दृष्टे ततस्तस्य क्षत्रबन्धोरजायत |
कारुण्यम् दारुणस्यापि व्याधवृत्तिपरिग्रहात् || १५ ||
तमुपेत्य च भूपाल क्षत्रबन्धुः स तापसम् |
उवाच विप्रप्रवरम् विमार्गे वर्तते भवान् || १६ ||
नैष पन्था द्विजश्रेष्ठ विपिनोऽयम् महाटविः |
मामन्वेहि त्वरायुक्तो मा विपत्तिम् समेष्यसि || १७ ||
शौनक उवाच –
निशाम्य तद्वचः श्रान्तः क्षत्रबन्धोर्महानुनिः |
अनुवव्राज राजेन्द्र जलाशाजनितोद्यमः || १८ ||
किञ्चिद्भूभागमासाद्य ददर्श च महामुनिः |
हम्सकारण्डवाकीर्णम् प्रोत्फुल्लनलिनम् सरः || १९ ||
सारसाभिरुतम् रम्यम् सूपतीर्थमकर्दमम् |
पद्मोत्पलयुतम् चारु पूर्णम् स्वच्छेन वारिणा || २० ||
सुशीतवनषण्डैश्च समन्तात्परिवेष्टितम् |
तत्क्षणात्तृट्परीतानाम् चक्षुषो ह्लादकारिणम् || २१ ||
दृष्ट्वैव स मुनिस्तत्र तदामलजलम् सरः |
सूर्याम्शुतप्तो घर्मार्तो निपपात तदम्भसि || २२ ||
तत्राश्वास्य कृताह्लादः पपौ वारि नराधिप |
उज्जीवयन्मुनिवरो जिह्वातालु शनैः शनैः || २३ ||
सोऽपि क्षत्रियदायादो मुनित्राणपरायणः |
विहाय सशरम् चापमुज्जहार बिसान्यथ || २४ ||
ददौ च तस्मै राजेन्द्र क्षुधिताय तपस्विने |
ययौ च तृप्तिम् विप्रोऽपि बिसनालाम्बुभक्षणात् || २५ ||
तमाश्वस्तम् कृताहारमुपविष्टम् सुशीतले |
न्यग्रोधशाखासञ्छन्ने निष्पङ्के सरसस्तटे |
सम्वाहयामास च ते क्षत्रबन्धुः शनैः शनैः || २६ ||
पादजङ्घोरुपृष्टेषु तेन सम्वाहितो मुनिः |
जहौ श्रमममित्रघ्न वाक्यम् चेदमुवाच ह || २७ ||
ब्राह्मण उवाच –
कस्त्वम् भद्रमुखाद्येह मम प्राणपरिक्षये |
हस्तावलम्बदो धात्रा जनितो विपिने वने || २८ ||
विभ्रष्टमार्गो मूढोऽहम् क्षुत्पिपासाश्रमातुरः |
त्रातस्त्वया महाभाग कस्त्वमत्र वनेऽजने || २९ ||
क्षुत्पिपासाश्रमार्तस्य यस्त्राणम् विपिने वने |
करोति पुरुषव्याघ्र तस्य लोका मधुश्च्युतः || ३० ||
स त्वम् ब्रूहि महाभाग ममाभ्युद्धारकारकः |
येषाम् प्रख्यातयशसाम् समुत्पन्नः कुले भवान् || ३१ ||
क्षत्रबन्धुरुवाच –
हर्यश्वस्य कुले जातः पुत्रश्चित्ररथस्य च |
विमतिर्नाम नाम्नाहम् हन्तुमभ्यागतो मृगान् || ३२ ||
ब्राह्मण उवाच –
पित्रर्थम् मृगयेयम् ते लक्ष्यार्थम् वा महामते |
आहारार्थमुताहोऽत्र मृगया व्यसनम् तु ते || ३३ ||
क्षत्रबन्धुरुवाच –
वृत्तिरेषा मम ब्रह्मन् परित्यक्तस्य बान्धवैः |
भृत्यैरन्यैश्च नष्टेऽर्थे निर्धनस्यामिषाशिनः || ३४ ||
ब्राह्मण उवाच –
किमर्थम् त्वम् परित्यक्तो भृत्यस्वजनबन्धुभिः |
पातकी कीकटः क्षुद्रैरुपजप्तः परेण वा || ३५ ||
शौनक उवाच –
इत्युक्तः सोऽभवन्मौनी पश्यन् दोषम् नृपात्मनि |
अदुष्टाम्श्चात्मनो भृत्यान्विचिन्त्यातीव दुर्मनाः || ३६ ||
अवेक्ष्य तम् साध्वसिनम् क्षत्रबन्धुम् महामुनिः |
ध्यात्वा चिरमथापश्यत् क्षत्रबन्धुम् स्वदोषिणम् || ३७ ||
सन्त्यक्तबन्धुलोके च तस्मिन् दुर्वृत्तचेतसि |
कृपाम् चकार स मुनिः क्षत्रबन्धौ दयापरः || ३८ ||
उवाच च मुनिर्भूयः क्षत्रबन्धुम् कृपालुकः |
उपकारिणमुग्रेण कर्मणा तम् विदूषितम् || ३९ ||
अपि शक्नोषि सम्यन्तुमकार्यप्रसृतम् मनः |
प्राणिपीडानिवृत्तिम् च कर्तुम् क्रोधादिसम्यमम् || ४० ||
अपि मैत्रीम् जने कर्तुम् शक्नोषि त्वम् मुधैव या |
ऐहिकामुष्मिकी वीर क्रियमाणा महाफला || ४१ ||
क्षत्रबन्धुरुवाच –
न शक्नोमि क्षमाम् कर्तुम् न मैत्रीम् मम चेतसि |
प्राणिनामवधाद् ब्रह्मन्नास्ति दारादिपोषणम् || ४२ ||
अनायत्तम् च मे चित्तम् विषयान् एव धावति |
तदप्राप्तौ च सर्वेषाम् क्रोधादीनाम् समुद्भवः || ४३ ||
सोऽहम् न मैत्रीम् न क्षान्तिम् न हिम्सादिविवर्जनम् |
कर्तुम् शक्नोमि यत्कार्यम् तदन्यदुपदिश्यताम् || ४४ ||
शौनक उवाच –
तेनैवमुक्तो विप्रोऽसौ तमुपेक्ष्यममन्यत |
तथाप्यतिकृपालुत्वात् क्षत्रबन्धुमभाषत || ४५ ||
ब्राह्मण उवाच –
यद्येतदखिलम् कर्तुम् न शक्नोषि ब्रवीहि मे |
स्वल्पमन्यन्मयोक्तम् हि करिष्यति भवान् यदि || ४६ ||
क्षत्रबन्धुरुवाच –
अशक्यमुक्तम् भवता चञ्चलत्वाद्धि चेतसः |
वाक्शरीरविनिष्पाद्यम् यच्छक्यम् तदुदीरय || ४७ ||
ब्राह्मण उवाच –
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता |
गोविन्देति सदा वाच्यम् क्षुतप्रस्खलितादिषु || ४८ ||
कार्यम् वर्त्मनि मूढानाम् क्षेममार्गेऽवतारणम् |
हितम् च वाच्यम् पृष्टेन शत्रूणामपि जानता || ४९ ||
एतत्तवोपकाराय भविष्यत्यनुपालितम् |
यद्यन्यदुपसम्हर्तुम् न शक्नोषि महीपते || ५० ||
शौनक उवाच –
इत्युक्त्वा प्रययौ विप्रस्तेन वर्त्मनि दर्शिते |
सोऽपि तच्छासनम् सर्वम् क्षत्रबन्धुश्चकार ह || ५१ ||
गोविन्देति क्षुते गच्छन् प्रस्थानस्खलितादिषु |
उदीरयन्नवापाग्र्याम् रतिम् तत्र शनैः शनैः || ५२ ||
ततः कालेन महता क्षत्रबन्धुर्ममार वै |
अजायत च विप्रस्य कुले जातिस्मरो नृप || ५३ ||
तस्य सम्स्मरतो जातीः शतशोऽथ सहस्रशः |
निर्वेदः सुमहाञ्जज्ञे सम्सारेऽत्रातिदुःखदे |
स चिन्तयामास जगत्सर्वमेतदचेतनम् || ५४ ||
अहमेकोऽत्र सञ्ज्ञावान् गोविन्दोदीरितम् हि यत् |
यच्चाध्वनि विमूढानाम् कृतम् वर्त्मावतारणम् |
हितमुक्तम् च पृष्टेन तस्य जातिस्मृतिः फलम् || ५५ ||
सोऽहम् जातिस्मरो भूयः करिष्याम्यतिसङ्कटे |
तदा सम्सारचक्रेऽस्मिन् येन प्राप्स्यामि निर्वृतिम् || ५६ ||
यस्योच्चारणमात्रेण जाता जातिस्मृतिर्मम |
तमेवाराधयिष्यामि जगतामीश्वरम् हरिम् || ५७ ||
यन्मयम् परमम् ब्रह्म तदव्यक्तम् च यन्मयम् |
यन्मयम् व्यक्तमप्येतद्भविष्यामि हि तन्मयः || ५८ ||
यद्यनाराधिते विष्णौ ममैतज्जन्म यास्यति |
ध्रुवम् बन्धवतो मुक्तिर्नैव जातूपपद्यते || ५९ ||
अहो दुःखमहो दुःखमहो दुःखमतीव हि |
स्वरूपमतिघोरस्य सम्सारस्यातिदुर्लभम् || ६० ||
विण्मूत्रपूयकलिले गर्भवासेऽतिपीडनात् |
अशुचावतिबीभत्से दुःखमत्यन्तदुःसहम् || ६१ ||
दुःखम् च जायमानानाम् गात्रभङ्गादिपीडनात् |
वातेन प्रेर्यमाणानाम् मूर्छाकार्यतिभीतिदम् || ६२ ||
बालत्वे निर्विवेकानाम् भूतदेवात्मसम्भवम् |
यौवने वार्द्धके चैव मरणे चातिदारुणम् || ६३ ||
शीतोष्णतृष्णाक्षुद्रोगज्वरादिपरिवारितः |
सर्वदैव पुमानास्ते यावज्जन्मान्तसम्स्थितिः || ६४ ||
दुःखातिशयभूतम् हि यदन्ते वाऽसुखम् नृणाम् |
तस्यानुमानम् नैवास्ति कार्येणैवानुमीयते || ६५ ||
कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुःसहम् |
दुःखम् तत्सम्स्मृतिप्राप्तम् करोति मम वेपथुम् || ६६ ||
कुम्भीपाके तप्तकुम्भे महारौरवरौरवे |
कालसूत्रे महायन्त्रे शूकरे कूटशाल्मलौ || ६७ ||
असिपत्रवने दुःखमप्रतिष्ठे च यन्महत् |
विडालवक्त्रे च तथा तमस्युग्रे च दुःसहम् || ६८ ||
शस्त्राग्नियन्त्रवेगेषु शीतोष्णादिषु दारुणम् |
हृत्पीडा सम्भवम् यच्च दुःखमत्यन्त दुस्सहम् ||
ततश्चैव पुनस्तस्य योनिसङ्क्रमणे च यत् |
ततश्च मुक्तस्य पुनर्योनिसङ्क्रमणेषु यत् || ६९ ||
गर्भस्थस्य च यद्दुःखमतिदुःसहमुल्बणम् |
पुनश्च जायमानस्य जन्म यौवनजम् च यत् || ७० ||
दुःखान्येतान्यसह्यानि सम्सारान्तर्विवर्तिभिः |
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः || ७१ ||
न वै सुखकला काचित्तत्रास्त्यत्यन्तदुःखदे |
सम्सारसङ्कटे तीव्रे उपेतानाम् कदाचन || ७२ ||
विषयासक्तचित्तानाम् मनुष्याणाम् कदा मतिः |
सम्सारोत्तारणे वाञ्छाम् करिष्यति हि चञ्चला || ७३ ||
गोविन्दनाम्ना सततम् समुच्चारणसम्भवम् |
जातिस्मरत्वमेतन्नः किम् वृथैव प्रयास्यति || ७४ ||
सोऽहम् मुक्तिप्रदानार्थमनन्तमजमव्ययम् |
तच्चित्तस्तन्मयो भूत्वा तोषयिष्यामि केशवम् || ७५ ||
शौनक उवाच –
आत्मानमात्मनैवम् स प्रोक्त्वा जातिस्मरो द्विजः |
तुष्टाव वाग्भिरिष्टाभिः प्रणतः पुरुषोत्तमम् || ७६ ||
इति विष्णुधर्मे क्षत्रबन्धूपाख्यानम् नाम सप्तनवतितमोऽध्यायः
अष्टनवतिततमोऽध्यायः
कारुण्यस्तवः
ब्राह्मण उवाच –
प्रणिपत्याक्षरम् विश्वम् विश्वहेतुम् निरञ्जनम् |
यत्प्रार्थयाम्यविकलम् सकलम् तत् प्रयच्छतु || १ ||
कर्तारमकृतम् विष्णुम् सर्वकारणकारणम् |
अणोरणीयाम्समजम् सर्वव्यापिनमीश्वरम् || २ ||
परात्परतरम् यस्मान्नास्ति सर्वेश्वरात्परम् |
तम् प्रणम्याच्युतम् देवम् प्रार्थयामि यदस्तु तत् || ३ ||
सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन |
सम्साराब्धिमहापोत समुद्धर महार्णवात् || ४ ||
व्योमानिलाग्न्यम्बुधरास्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप |
अन्तःस्थितात्मन् परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप || ५ ||
त्वमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः |
त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति || ६ ||
प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततम् प्रयाति |
तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः || ७ ||
यथा नदीनाम् बहवोऽम्बुवेगाः समन्ततोऽब्धिम् भगवन्विशन्ति |
त्वय्यन्तकाले जगदच्युतेदम् तथा लयम् गच्छति सर्वभूते || ८ ||
त्वम् सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम् |
यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति || ९ ||
किम्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे |
ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः || १० ||
तया विमूढेन मयाभनाभ न यत्कृतम् तत्क्वचिदस्ति किञ्चित् |
भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्तादिषु दुःखितेन || ११ ||
न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम् |
स्तन्यानि यावन्ति मयातिघोरे पीतानि सम्सारमहासमुद्रे || १२ ||
सम्पच्छिलानाम् हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक् |
देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महती यथेश || १३ ||
त्वय्यर्पितम् नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि |
रागो हि वश्यम् कुरुते ततोऽनु लोभादयः किम् भगवन् करोमि || १४ ||
एकाग्रतामूल्यबलेन लभ्यम् भवौषधम् त्वम् भगवन्किलैकः |
मनः परायत्तमिदम् भवेऽस्मिन् सम्सारदुःखात् किमहम् करोमि || १५ ||
न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः |
अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसन्घैः || १६ ||
सिम्हेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः |
तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहम् बहुभिस्ततश्च || १७ ||
उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसम्स्मरामि |
तैः सम्स्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयम् प्रयाति || १८ ||
ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि |
भवन्ति यान्यच्युत नारकाणाम् तान्येव तेषामुपमानमात्रम् || १९ ||
दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य |
भवन्ति यानि च्यवतश्च गर्भात्तेषाम् स्वरूपम् गदितुम् न शक्यम् || २० ||
दुःखानि बालेषु महन्ति नाथ कौमारके यौवनिनश्च पुम्सः |
ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः || २१ ||
करोति कर्माच्युत तत्क्षणेन पापम् नरः कायमनोवचोभिः |
यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु || २२ || दुःखानि यानीष्टवियोगजानि भवन्ति सम्सारविहारभाजाम् |
प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनाम् ममताभिभूताः || २३ ||
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणम् न जलम् पयोदा |
तावत्प्रमाणम् न जलम् पयोदाः मुञ्चन्त्यनेकैरपि वर्षलक्षैः || २४ ||
मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम् |
मित्राण्यमित्राण्यनुजीविबन्धून् सङ्ख्यातमीशोऽस्मि न देवदेव || २५ ||
सोऽहम् भृशार्तः करुणाम् कुरु त्वम् सम्सारगात्रे पतितस्य विष्णो |
महात्मनाम् सम्श्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि || २६ ||
परायणम् रोगवताम् हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य |
बालस्य मातापितरौ सुघोरसम्सारखिन्नस्य हरे त्वमेकः || २७ ||
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार |
मामुद्धरास्मादुरुदुःखपङ्कात् सम्सारगर्तात् स्वपरिग्रहेण || २८ ||
धर्मात्मनामविकलाम् त्वयि नाथ भक्तिम् |
श्रद्धावताम् सततमुद्वहताम् वरेण्य |
कार्यम् कियन्मम विमूढधियोऽधमस्य
भूत्वा कृपालुरमलामज देहि बुद्धिम् || २९ ||
ज्ञात्वा ययाऽखिलमसारमसारमेव
भूतेन्द्रियादिकमपारममुक्तिमूलम् |
मायाम् तरेयमचलाम् तव विश्वरूप |
सम्मोहितम् सकलमेव जगद्ययैतत् || ३० ||
ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या
ज्ञातुम् न यम् परमगुह्यतमम् समर्थाः |
न त्वामलम् स्तुतिपथेष्वहमीशितारम्
स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः || ३१ ||
यस्मादिदम् भवति यत्र जगत्तथेदम्
यस्मिन्ल्लयम् व्रजति यश्च जगत्स्वरूपः |
तम् सर्गसम्स्थितिविनाशनिमित्तभूतम्
स्तोतुम् भवन्तमलमीश न कश्चिदस्ति || ३२ ||
मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयम्
क्लिष्टम् मनोऽस्य विषयैर्न मयि प्रसङ्गि |
इत्थम् कृपाम् कुरु मयि प्रणते किलेश
त्वाम् स्तोतुमम्बुजभवोऽपि हि देव नेशः || ३३ ||
यस्योदरे सकल एव महीध्रचन्द्र-
देवेन्द्ररुद्रमरुदश्विदिवाकराग्निः |
भूम्यम्बुवायुगगनम् जगताम् समूहाम्
स्तोष्यामि तम् स्तुतिपदैः कतमैर्भवन्तम् || ३४ ||
यस्याग्निरुद्रकमलोद्भववासवाद्यैः
स्वाम्शावतारकरणेषु सदाङ्घ्रियुग्मम् |
अभ्यर्च्यते वद हरे स कथम् मयाद्य
सम्पूजितः परमुपैष्यसि तोषमीश || ३५ ||
न स्तोतुमच्युत भवन्तमहम् समर्थो
नैवार्चनैरलमहम् तव देव योग्यः |
चित्तम् च न त्वयि समाहितमीश दोषैः
आक्षिप्यते कथय किम् नु करोमि पापः || ३६ ||
तत्त्वम् प्रसीद भगवन् कुरु मय्यनाथे
विष्णो कृपाम् परमकारुणिकः किल त्वम् |
सम्सारसागरनिमग्नमनन्त दीनम्
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि || ३७ ||
शौनक उवाच –
इत्थम् तेन नरव्याघ्र स्तुतो भक्तिमता ततः |
सम्सारबन्धभीतेन कृष्णः प्रत्यक्षताम् ययौ || ३८ ||
स तम् प्रत्यक्षमीशानमनन्तमपराजितम् |
देवदेवमुवाचेदमनादिनिधनम् हरिम् || ३९ ||
शिरसा धरणीम् गत्वा यतवाक्कायमानसः |
परापरेश्वरम् विष्णुम् जिष्णुमाद्यमनोपमम् || ४० ||
द्विज उवाच –
दिव्याक्षरपदानन्त प्रसन्नो भगवान् यदि |
तद्देव देहि दीनाय मह्यमेकमिमम् वरम् || ४१ ||
देवदेव उवाच –
वरम् वरय मत्तस्त्वम् यत्ते मनसि वर्तते |
वरार्थिनाम् द्विजश्रेष्ठ नाफलम् मम दर्शनम् || ४२ ||
ब्राह्मण उवाच –
जन्मसम्पच्चिता देव पापसम्पन्ममाखिला |
प्रयातु नाशमीशेश त्वत्प्रसादादधोक्षज || ४३ ||
भक्तिभावपरेणाद्य मन्मयेन द्विजोत्तम |
यः स्तुतोऽस्मि क्षयम् पापम् तेनैवाखिलमागतम् || ४४ ||
अस्मत्तो वरये हाद्य द्विजवर्यापरम् वरम् |
मयि भक्तिमतामत्र लोके किञ्चिन्न दुर्लभम् || ४५ ||
ब्राह्मण उवाच –
धन्योऽस्मि सर्वनाथेन यत्कृतो मय्यनुग्रहः |
तदेकमेव त्वत्तोऽहम् वरमिच्छामि केशव || ४६ ||
निर्धूतसर्वपापेभ्यो नाथ पुण्यक्षयान्मम |
त्वत्परस्यास्तु गोविन्द मा पुनर्देव सम्भवः || ४७ ||
यदक्षरम् यदचलम् व्यापि सूक्ष्मम् च यत्परम् |
विशेषाइरविशेषम् च गच्छेयम् तत्पदम् तव || ४८ ||
शौनक उवाच –
एवम् भविष्यतीत्युक्त्वा प्रसादसुमुखस्ततः |
भूपाल तम् द्विजश्रेष्ठम् गतोऽन्तर्धानमीश्वरः || ४९ ||
तत्प्रसादाद्द्विजः सोऽपि तन्मयस्तद्व्यपाश्रयः |
प्रक्षीणकर्मबन्धस्तु प्रयातः परमम् पदम् || ५० ||
एवमक्षीणपापोऽपि जगतामीश्वरेश्वरम् |
व्यपाश्रितो हरिम् याति पापमुक्तः परम् पदम् || ५१ ||
एतत्त्वया नाव्रतिने न चाशुश्रूषवे परम् |
आख्येयम् राजशार्दूल यश्च नार्चयते हरिम् || ५२ ||
विष्णुभक्ताय दान्ताय व्रतिने पुण्यशीलिने |
कथनीयमिदम् भूप रहस्यम् परमम् हरेः || ५३ ||
इति विष्णुधर्मे कारुण्यस्तवो नाम अष्टनवतितमोऽध्यायः
एकोनशततमोऽध्यायः
परमपदाख्यानम्

शतानीक उवाच –
बहुशो भवता प्रोक्तम् साम्प्रतम् च यदीरितम् |
श्रोतुमिच्छामि विप्रेन्द्र तद्विष्णोः परमम् पदम् || १ ||
यत्स्वरूपम् यदाधारम् यत्प्रमाणम् यदात्मकम् |
सर्वधातुः पदम् तन्मे श्रोतुमिच्छा प्रवर्तते || २ ||
शौनक उवाच –
साध्वेतद्भवता पृष्टम् आत्मज्ञानसमाश्रितम् |
तत्कथ्यमानमेकाग्रः शृणु विष्णोः परम् पदम् || ३ ||
यत्तद्ब्रह्म यतः सर्वम् यद्सर्वम् सर्वसम्स्थितिः |
अग्राह्यकमनिर्देश्यम् तदेव भगवत्पदम् || ४ ||
तत्स्वरूपम् च राजेन्द्र शृणुष्वेह समाहितः |
विष्णोः पदस्याव्ययस्य ब्रह्मणो गदतो मम || ५ ||
प्रधानादिविशेषान्तम् यदेतत् पठ्यते जगत् |
चराचरस्य तस्याद्यम् परम् ब्रह्म विलक्षणम् || ६ ||
जन्मस्वप्नादिरूपादिदुःखादिरहितम् च यत् |
नोपचर्यमनिर्देश्यम् स्वप्रतिष्ठम् च तत्परम् || ७ ||
क्षीणक्लेशास्तु सम्सारविमुक्तिपथमाश्रिताः |
योगिनस्तत् प्रपश्यन्ति समर्था नैव चोदितुम् || ८ ||
तत्सर्वम् सर्वभावस्थम् विशेषेण विवर्जितम् |
पश्यतामप्यनिर्देश्यम् यतो वाग्विषये न तत् || ९ ||
कुर्वन्त्यालम्बनत्वेन यत्प्राप्त्यर्थम् च देवताः |
ब्रह्म प्रकाशते तेषाम् तद्वरेणैव सर्वगम् || १० ||
प्रधानादिविशेषान्तम् यत्रैतदखिलम् जगत् |
तस्यानन्तस्य कः शक्तः प्रमाणम् गदितुम् नरः || ११ ||
सूक्ष्माणाम् तत्परम् सूक्ष्मम् स्थूलानाम् तन्महत्तरम् |
सर्वव्याप्यपि राजेन्द्र दूरस्थम् चान्तिके च तत् || १२ ||
पराङ्मुखानाम् गोविन्दे विषयाक्रान्तचेतसाम् |
तेषाम् तत्परमम् ब्रह्म दूराद्दूरतरे स्थितम् || १३ ||
न प्राप्नुवन्ति गच्छन्तो यतो जन्मायुतैरपि |
सम्साराध्वनि राजेन्द्र ततो दूरतरे हि तत् || १४ ||
तन्मयत्वेन गोविन्दे य नरा न्यस्तचेतसः |
विषयत्यागिनस्तेषाम् विज्ञेयम् च तदन्तिके || १५ ||
सर्वतः पाणिपादान्तम् सर्वतोऽक्षिशिरोमुखम् |
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति || १६ ||
सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् |
असक्तम् सर्वभृच्चैतन्निर्गुणम् गुणभोक्तृ च || १७ ||
अविभक्तम् च भूतेषु विभक्तमिव च स्थितम् |
भूतभर्तृ च तज्ज्ञेयम् ग्रसिष्णु प्रभविष्णु च || १८ ||
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानम् ज्ञेयम् ज्ञानगम्यम् हृदि सर्वस्यधिष्ठितम् || १९ ||
तच्चाद्यो जगतामीशः परेशः परमेश्वरः |
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः || २० ||
यज्ञेशम् यज्ञपुरुषम् केचिदिच्छन्ति तत्परम् |
केचिद्विष्णुम् हरिम् केचित् केचित्केशवसञ्ज्ञितम् || २१ ||
केचिद्गोविन्दनामानम् पुण्डरीकाक्षमच्युतम् |
केचिज्जनार्दनम् त्वन्ये वदन्ति पुरुषोत्तमम् || २२ ||
केचिद्विरिञ्चिम् ब्राह्मणमब्जयोनिम् तथापरे |
शर्वमीशमजम् रुद्रम् शूलिनम् चापरे नृप || २३ ||
वरुणम् केचिदादित्यमिन्द्रमग्निमथापरे |
यमम् धनेशमपरे सोममन्ये प्रजापतिम् || २४ ||
हिरण्यगर्भम् कपिलम् क्षेत्रज्ञम् कालमीश्वरम् |
स्वभावमन्तरात्मानमात्मानम् बुद्धिरूपिणम् || २५ ||
वदन्ति नामभिश्चान्ये नामानामि स्वरूपिणम् |
श्रूयताम् तु नरव्याघ्र वेदवेदान्तनिश्चयः |
यज्ञेशो यज्ञपुरुषो पुण्डरीकाक्षसञ्ज्ञितः || २६ ||
तद्विष्णोः परमम् ब्रह्म यतो नावर्तते पुनः |
स एव रुद्रश्चन्द्रोऽग्निः सूर्यो वैश्रवणो यमः || २७ ||
ब्रह्मा प्रजापतिः कालः स्वभावो बुद्धिरेव च |
क्षेत्रज्ञाख्यस्तथैवान्याः सञ्ज्ञाभिः प्रोच्यते बुधैः || २८ ||
सञ्ज्ञा तु तस्य नैवास्ति न रूपम् नापि कल्पना |
स सर्वभूतानुगतः परमात्मा सनातनः || २९ ||
इति विष्णुधर्मे परमपदाख्यानम् नाम एकोनशततमोऽध्यायः
शततमोऽध्यायः
ब्रह्माभिव्यञ्जकः
शतानीक उवाच –
आख्यातम् भवता ब्रह्मन्नेतद् ब्रह्म सनातनम् |
यस्मादुत्पद्यते कृत्स्नम् जगदेतच्चराचरम् || १ ||
किन्तु कौतुकमत्रास्ति मम भार्गवनन्दन |
तदहम् श्रोतुमिच्छामि त्वत्तः सन्देहमुत्तमम् || २ ||
यदेतद्भवताऽऽख्यातम् ब्रह्म ब्रह्मविदाम् वर |
परिणामो न तस्यास्ति निर्गुणम् सर्वगम् यतः || ३ ||
सनातनात् सर्वगतात् परिणामविवर्जितात् |
कथम् सञ्जायते कृत्स्नम् तस्मादपगुणादपि || ४ ||
शौनक उवाच –
द्विविधम् कारणम् भूप निबोध गदतो मम |
निमित्तकारणम् पूर्वम् द्वितीयम् परिणामि च || ५ ||
यथा कुम्भस्य करणे कुलालः प्रथमम् नृप |
कारणम् परिणामाख्यम् मृद्द्रव्यमपरम् स्मृतम् || ६ ||
धर्माधर्मादयस्तद्वज्जगत्सृष्टेर्महीपते |
कारणम् परिणामाख्यम् निमित्ताख्यम् तु तत्परम् || ७ ||
कारणम् कालगगने यथा सन्निधिमात्रतः |
अविकारितया ब्रह्म तथा सृष्टेर्नरेश्वर || ८ ||
अज्ञानपटलाच्छनैरेकदेशात्मवृत्तिभिः |
अनात्मवेदिभिर्जीवैर्निजकर्मनिबन्धनैः || ९ ||
कुर्वद्भिर्नृपते कर्म कर्तृत्वमुपचारतः |
यत्ते सर्वभूतस्य सर्वगस्याव्ययात्मनः || १० ||
यतः सम्बन्धवानेभिरशेषैः प्राणिभिः प्रभुः |
कर्तृत्वमुपचारेण ततस्तस्यापि भूपते || ११ ||
भेदाभेदस्वरूपेण तत्र ब्रह्म व्यवस्थितम् |
तयोः स्वरूपम् नृपते श्रूयतामुभयोरपि || १२ ||
अनादिसम्बन्धवत्या क्षेत्रज्ञः क्षेत्रविद्यया |
व्याप्तः पश्यत्यभेदेन ब्रह्म तद्ध्यात्मनि स्थितम् || १३ ||
पश्यत्यात्मानमन्यत्र यावद्वै परमात्मनः |
तावत् सम्भ्राम्यते जन्तुर्मोहितो निजकर्मणा || १४ ||
सन्क्षीणाशेषकर्मा तु परम् ब्रह्म प्रपश्यति |
अभेदेनात्मनः शुद्धम् शुद्धत्वादक्षयोऽक्षयम् || १५ ||
(भेदश्च कर्मजनितः क्षेत्रज्ञपरमात्मनोः |
सन्क्षीणकर्मबन्धस्य न भेदो ब्रह्मणा सह || १६ ||
उपास्योपास्यकतया भेदो यैरपि कथ्यते |
तौ हि शुद्ध्यर्थमिच्छन्ति मलानाम् तदुपासनम् || १७ ||
परोऽसावपरेणात्मा सन्त्यक्तममतेन तु |
उपास्यते तदा सोऽपि तद्भावम् प्रतिपद्यते || १८ ||)
कर्मिणाम् कर्मभेदेन भेदा देवादयो यतः |
कर्मक्षयादशेषाणाम् भेदानाम् सन्क्षयस्ततः || १९ ||
अविद्या तु क्रिया सर्वा विद्या ज्ञानम् प्रचक्षते |
कर्मणा जायते जन्तुर्विद्यया तु विमुच्यते || २० ||
अद्वैतम् परमार्थो हि द्वैतम् तद्भेद उच्यते |
उभयम् ब्रह्मणो रूपम् द्वैताद्वैतविभेदतः |
तयोः स्वरूपम् वदतो निबोध मम पार्थिव || २१ ||
देवतिर्यङ्मनुष्याख्यस्तथैव नृप तारकः |
चतुर्विधो हि भेदो यो मिथ्याज्ञाननिबन्धनः || २२ ||
अहमन्योऽपरश्चायममी चात्र तथापरे |
विज्ञानमेतत्तद्द्वैतम् यदन्यच्छ्रूयताम् परम् || २३ ||
ममेत्यहमिति प्रज्ञावियुक्तमविकल्पवत् |
अविकारमनाख्येयमद्वैतमपि भूपते || २४ ||
अभेदेन तवाख्यातम् यदेतद्ब्रह्म शाश्वतम् |
ज्ञानज्ञेयैक्यसद्भावम् तदेवाद्वैतसञ्ज्ञितम् || २५ ||
यश्च द्वैते प्रपञ्चः स्यान्निवर्त्योभयचेतसः |
मनोवृत्तिमयम् द्वैतमद्वैतम् परमार्थतः || २६ ||
मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः |
निरोद्धव्यास्तन्निरोधाद्द्वैतम् नैवोपपद्यते || २७ ||
मनोदृश्यमिदम् द्वैतम् यत्किञ्चित् सचराचरम् |
मनसो ह्यमतीभावे द्वैताभावात्तदाप्नुयात् || २८ ||
मनो हि विषयम् यद्वदादत्ते तद्वदेव तत् |
भवत्यपास्तविषयम् ग्राहि धर्मे च जायते || २९ ||
अग्राहि तच्च विधृतम् योगिनाम् विषयम् प्रति |
निरोधे योगसामर्थ्याद्ब्रह्म ग्राह्येव जायते || ३० ||
ग्राह्यम् च परमम् ब्रह्म योगिचित्तस्य पार्थिव |
समुज्झितग्राह्यवृत्तिरमलस्य मलम् महत् || ३१ ||
क्षीणक्लेशास्तु सम्सारविमुक्तिपथमाश्रिताः |
येऽपि कर्माणि कुर्वन्ति भगवन्तमपाश्रिताः || ३२ ||
(क्रियायोगपरा राजन् कामाकाङ्क्षाविवर्जिताः |
ब्रह्मनिष्ठा ध्यानपरा ब्रह्मण्येव व्यवस्थिताः |
तेऽपि तद्भावमायान्ति विमुक्तिपथमाश्रिताः |)
योगिनस्तम् प्रपश्यन्ति समर्था नैव चोदितुम् || ३३ ||
कर्मणो भावना येयम् सा ब्रह्मपरिपन्थिनी |
कर्मभावनया तुल्यम् विज्ञानमुपपद्यते || ३४ ||
तादृग्भवतो विज्ञप्तिर्यादृशी कर्मभावना |
क्षये तस्याः परम् ब्रह्म स्वयमेव प्रकाशते || ३५ ||
एवमेतन्मया भूप यथावत् कथितम् तव |
द्वैताद्वैतस्वरूपेण यथा ब्रह्म व्यवस्थितम् || ३६ ||
(यथावत्कर्मनिष्ठानाम् तत्प्राप्तिः कथितम् तथा |)
स्वरूपम् ब्रह्मणश्चोक्तमुभयत्रापि ते पृथक् |
वासुदेवमयस्यान्यत्किम् भूयः कथयामि ते || ३७ ||
इति विष्णुधर्मे ब्रह्माभिव्यञ्जको नाम शततमोऽध्यायः