विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०६१-०६५

← अध्यायाः ५६-६० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ६१-६५
वेदव्यासः
अध्यायाः ६६-७० →

3.61
मार्कण्डेय उवाच ।।
शुकवर्णा मही कार्या दिव्याभरणभूषिता ।।
चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा ।।१।।
रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् ।।
पद्मं करे च कर्तव्यं भुवो यादवनन्दन ।। २ ।।
दिङ्नागानां चतुर्णां सा कार्या पृष्ठगता तथा ।।
सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता।।३।।
धर्मं वस्त्रं सितं तस्याः पद्ममर्थं तथा करे ।।४।।
हेतुश्च शेषो विदितो बुधानामतो मया ते कथितोऽद्य राजन् ।।
रूपं त्वरूपस्य तु वच्म्यतोहं प्रकर्षितं यद्गगनस्य सिद्धैः ।। ५ ।।
इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमिरूपनिर्माणो नामैकषष्टितमोऽध्यायः ।। ६१ ।।
3.62
मार्कण्डेय उवाच ।।
नीलोत्पलाभं गगनं तद्वर्णाम्बरधारिणम् ।।
चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम् ।।१।।
एतद्धि रूपं गगनस्य राजन्प्रोक्तं मया ते परिकल्पितं यत ।।
रूपं प्रवक्ष्याम्यथ ते निबोध पितामहस्याप्रतिमस्य तस्य ।। २ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गगनरूपवर्णनो नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।
मार्कण्डेय उवाच ।।
पद्मपत्रासनस्थस्तु ब्रह्मा कार्यश्चतुर्मुखः ।।
सावित्री तस्य कर्तव्या वामोत्सङ्गगता तथा ।। १ ।।
आदित्यवर्णा धर्मज्ञ साक्षमालाकरा तथा ।।
रूपं पूर्वोदितं कार्यं सर्वमन्यज्जगत्पते ।। २ ।।
एतद्धि रूपं वरदस्य कार्यं पितामहस्याप्रतिमस्य सौम्य ।।
पूर्वोदितं वा वरदस्य तस्य लोकं समग्रं वशगं हि यस्य ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे ब्रह्मरूपनिर्माणो नाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।
3.64
मार्कण्डेय उवाच ।।
देवी सरस्वती कार्या सर्वाभरणभूषिता ।।
चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता ।। १ ।।
पुस्तकं चाक्षमालां च तस्या दक्षिणहस्तयोः ।।
वामयोश्च तथा कार्या वैष्णवी च कमण्डलुः ।। २ ।।
समपादप्रतिष्ठा च कार्या साममुखी तथा ।।
वेदास्तस्य भुजा ज्ञेयाः सर्वशास्त्राणि पुस्तकम् ।। ३ ।।
सर्वशास्त्रामृतरसो देव्या ज्ञेयः कमण्डलुः ।।
अक्षमाला करे तस्याः कालो भवति पार्थिव ।। ४ ।।
सिद्धिर्मूर्तिमती ज्ञेया वैष्णवी नात्र संशयः ।।
सावित्री वदनं तस्याः सर्वाद्या परिकीर्तिता ।। ५ ।।
चन्द्रार्कलोचना ज्ञेया सा च राजीवलोचना ।। ६ ।।
सारस्वतं ते कथितं मयैतद्रूपं पवित्रं परमं मनोज्ञम् ।।
ध्येयं च कार्यं च महीपमुख्य सवार्थसिद्धिं समभीप्समानैः ।। ७।।
इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सरस्वतीरूपनिर्माणो नाम चतुःषष्टि तमोऽध्यायः ।। ६४ ।।
3.65
वज्र उवाच ।।
आचक्ष्व रूपनिर्माणं ममानन्तस्य देवज ।।
विष्णोरमितवीर्यस्य शेषस्य धरणीभृतः ।। १ ।।
मार्कंडेय उवाच ।।
कुर्याच्छशाङ्कसङ्काशं रत्नोज्ज्वलफणान्वितम्।।
नीलवस्त्रं चतुर्बाहुं सर्वाभरणधारिणम् ।।२।।
फणाश्च बहवः कार्या यत्फणं तस्य मध्यमम।।
तत्र रूपवती कार्या वसुधा यदुनन्दन।।३।।
पद्मं समुसलं कार्यं देवदक्षिणहस्तयोः ।।
वामयोस्सीरशंखे च करे तस्य सुराम्बुधिः ।।४।।
तालवृक्षं जगत्सर्वं कथितं तु महाभुज ।।
विख्यातौ सीरमुसलौ पूर्वमेव मया तव ।। ५ ।।
वनमाला च विख्याता तथा यदुकुलोद्वह ।।
पृथिवी धार्यते तेन सशैलवनकानना ।। ६ ।।
पृथिवी तेन कर्तव्या फणे तस्य तु मध्यमे ।। ७ ।।
फणावलिप्तस्य तया प्रतिष्ठा कामास्तु ते यादववंशमुख्य ।।
एतद्धि रूपं परमेश्वरस्य विष्णोरचिन्त्यस्य मयेरितं ते ।। ८ ।।
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽनन्तरूपनिरूपणो नाम पञ्चषष्टितमोऽध्यायः ।।६५।।