विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १७१-१७५

← अध्यायाः १६६-१७० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १७१-१७५
वेदव्यासः
अध्यायाः १७६-१८० →

3.171
।। मार्कण्डेय उवाच ।। ।।
अनेन च विधानेन प्रतिमासं तु यो नरः ।।
सप्तमीद्वितयं कुर्याद्यावत्संवत्सरो भवेत् ।। १ ।।
सोश्वमेधमवाप्नोति सूर्यलोकं च गच्छति ।।
कुलमुद्धरते राजन्सर्वान्कामानुपाश्नुते ।। २ ।।
शिरसो वपनं कृत्वा योर्चयेत्तु दिवाकरम् ।।
तस्यार्कस्तोषमायाति वह्निष्टोमं च विन्दति ।। ३ ।।
अपूपैः सगुडैर्भक्त्या तथा च लवणान्वितैः ।।
सहिरण्यैस्समभ्यर्च्य वह्निष्टोमफलं लभेत् ।। ४ ।।
सूर्याह्णे यस्तु नक्ताशी संपूजयति भास्करम् ।।
इष्टान्कामानवाप्नोति सूर्यलोकं च गच्छति ।। ५ ।।
अर्कोदये सदा यस्तु पूजयेच्च दिवाकरम् ।।
इष्टान्कामानवाप्नोति सूर्यलोकं च गच्छति ।। ६ ।।
यथायथा पूजयते तु सूर्यं कामाः समग्राः सफला भवन्ति ।।
आरोग्यमग्र्यं च तथा नृवीर भूतस्य लोकः सवितुस्तथैव ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सूर्यपूजाप्रशंसावर्णनो नामैकसप्तत्युत्तरशततमो ऽध्यायः ।। १७१ ।।
3.172
।। मार्कण्डेय उवाच ।। ।।
वरो ध्रुवश्च सोमश्च आपश्चैवानिलोनलः ।।
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ।। १ ।।।
अष्टात्मा वासुदेवोऽयं प्रभवेनाप्ययेन च ।।
अष्टम्यां पूजयेद्यस्तु सोपवासो नराधिप।।२।।
चैत्रमासादथारभ्य शुक्लपक्षे च यादव ।।
मण्डलेष्वथ वार्चासु यथावन्मनुजाधिप ।। ३ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
बहिःस्नानेन राजेन्द्र तथाधःशयनेन च ।। ४ ।।
व्रतान्ते च तथा दद्याद्धेनुं विप्राय भक्तितः ।।
व्रतमेतन्नरः कृत्वा सर्वान्कामानुपाश्नुते ।। ५ ।।
पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ।।
वसूनां लोकमासाद्य मोदतेमरसन्निभः ।। ६ ।।
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः ।।
धनेन धान्येन तथन्वितः स्यात्स्त्रीणामभीष्टश्च तथा सुवेशः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुव्रतवर्णनो नाम द्विसप्तत्युत्तरशततमोऽध्यायः ।। १७२ ।।
3.173
।। मार्कण्डेय उवाच ।। ।।
शुक्लपक्षादथारभ्य सोमाष्टम्यां नराधिप ।।
पूजयेत्सोपवासस्तु देवदेवं त्रिलोचनम् ।। १ ।।
लिङ्गे वाप्यथ वार्चायां कमले यदि वा स्थले ।।
घृतक्षीराभिषेकेण स्नानेन विविधेन च ।। २ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
गीतेन नृत्यवाद्येन वह्निसंतर्पणेन च ।। ३ ।।
ब्राह्मणानां च पूजाभिर्यथावन्मनुजोत्तम ।।
व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम् ।।४।।
पुण्डरीकफलावाप्तिः स्वर्गलोकं च गच्छति ।।
कृष्णाष्टमीषु चाप्येवं पूजयित्वा महेश्वरम् ।। ५ ।। ।।
वह्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ।।
अष्टमीद्वितयं कृत्वा तथा संवत्सरं नरः ।। ६ ।।
प्राप्याश्वमेधस्य फलं यथावद्भुक्त्वा भोगान्सुरनाथस्य लोके ।।
लोकानवाप्याथ महेश्वरस्य सायुज्यमायात्यचिरेण तस्य ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वराष्टमीव्रतवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ।। १७३ ।।
3.174
मार्कण्डेय उवाच ।।
हिमवान्हेमकूटश्च निषधो नील एव च ।।
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः ।। १ ।।
नवैताञ्शैलनृपतीन्नवम्यां पूजयेन्नरः ।।
उत्तराः कुरवः पुण्या रम्यो हैरण्वतस्तथा ।। २ ।।
भद्राश्वः केतुमालश्च तथैव च इलावृतः ।।
हरिवर्षः किंपुरुषो वर्षो भारत एव च ।। ३ ।।
पूजनीयास्तथैवैते यथा संस्थानतो नृप ।।
शुक्लपक्षनवम्यां तु चैत्रादारभ्य पार्थिव ।। ४ ।।
सोपवासेन धर्मज्ञ गन्धमाल्यान्नसंपदा ।।
जम्बूद्वीपस्य संस्थानं व्रतान्ते रजतं नरः ।। ५ ।।
तुलाप्रमाणं दद्यात्तु सर्वान्कामानुपाश्नुते ।।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।। ६ ।।
मानुष्यमासाद्य तु चक्रवर्ती नृपो भवेद्देवगणाभिरामः ।।
चिरं च कालं वसुधां प्रशास्य लोकानवाप्नोति ततोपि कामान् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पर्वताष्टमीव्रतवर्णनो नाम चतुस्सप्तत्युत्तरशततमोऽध्यायः ।। १७४ ।।
3.175
मार्कण्डेय उवाच ।।
नवम्यां सोपवासस्तु भद्रकालीं तु पूजयेत्।।
शुक्लपक्षे महाराज कार्तिकप्रभृति क्रमात्।।१।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा।।
संवत्सरान्ते संपूज्य व्रतान्ते ब्राह्मणाय च ।। २ ।।
वस्त्रयुग्मं नरो दत्त्वा यथेष्टं काममाप्नुयात् ।।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ३ ।।
राजकार्याभियुक्तश्च मुच्यते महतो भयात् ।।
न चौरेभ्यो भयं तस्य नारण्येभ्यः कदाचन ।। ४ ।।
पुत्रानवाप्नोति धनं यथेष्टं स्त्रियश्च मुख्या विविधं च कुप्यम् ।।
पूजां तु कृत्वा विधिवद्भवान्या कामानवाप्नोति तथा यथेष्टान् ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भद्रकालीपूजावर्णनो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।