विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १८६-१९०

← अध्यायाः १८१-१८५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १८६-१९०
वेदव्यासः
अध्यायाः १९१-१९५ →

3.186
मार्कण्डेय उवाच ।।
कृष्णपक्षचतुर्दश्यां विरूपाक्षं तु पूजयेत्।।
पौषमासादथारभ्य यावत्संवत्सरं व्रतम् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा।।
उष्ट्रं द्विजातये दद्याद्व्रतान्ते च परन्तप ।।२।।
कृत्वा व्रतं वत्सरमेतदिष्टं भयं न चाप्नोति स राक्षसेभ्यः ।।
कामानवाप्नोति भवत्यरोगो भयं च राजन्न च वेत्ति किंचित् ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विरूपाक्षव्रतवर्णनो नाम षडशीत्युत्तरशततमोऽध्यायः ।। १८६ ।।
3.187
मार्कण्डेय उवाच ।।
यत्र क्वचन नद्यां च यत्र कृष्णचतुदर्शी ।।
अनर्काभ्युदिते काले देवं संपूजयेद्यमम् ।।१।।
धूम्रोर्णं चित्रगुप्तं च कालपाशौ च यादव ।।
मृत्युं स्वर्गं च धर्मज्ञं गन्धमाल्यान्नसम्पदा ।। २।।
यमो दधार इत्यर्चां तिलाँश्च जुहुयात्ततः ।।
नमो यमायेति तथा स्त्रीशूद्रस्य विधीयते ।। ३ ।।
कृसरं भोजनं विप्रान्यथा शक्ति नरोत्तम ।।
दद्याद्व्रतान्ते विप्राय तथैव च पयस्विनीम् ।। ४ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं न याति राजन्नरकं मनुष्यः ।।
प्राणक्षयं प्राप्य स याति नाकं मानुष्यमासाद्य च धर्मवान्स्यात् ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमव्रतवर्णनो नाम सप्ताशीत्यु त्तरशततमोऽध्यायः ।। १८७ ।।
3.188
शुक्लपक्षादथारभ्य फाल्गुनस्य नराधिप ।।
पूजयेत्तु चतुर्दश्यां सोपवासो महेश्वरम् ।।१।।
गन्धमाल्यनमस्कार धूपदीपान्नसंपदा ।।
व्रतान्ते गां तथा दद्यादग्निष्टोमफलं लभेत् ।। २ ।।
एतदेव व्रतं कृत्वा शुक्लपक्षे तु वत्सरम् ।।
पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ।। ३ ।।
चतुर्दशीद्वयं चैतत्कृत्वा संवत्सरं नरः ।।
मासिमासि तथा भक्त्या सर्वान्कामानवाप्नुयात् ।। ४ ।।
आसाद्य कामांश्च महेश्वरस्य तत्रोष्य कालं सुचिरं च राजन् ।।
सायुज्यमायाति महेश्वरस्य सर्वेश्वस्याप्रतिमस्य तस्य ।। ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वरव्रतवर्णनो नामाष्टाशीत्युत्तर शततमोऽध्यायः।।१८८।।
3.189
।। मार्कण्डेय उवाच ।।
प्रभास्वरा बर्हिषद अग्निष्वात्तास्तथैव च ।।
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ।। १ ।।
पूज्याः पितृगणा राजन्नुपवासेन नित्यशः ।।
चैत्रशुक्लादथारभ्य पञ्चदश्यां नराधिप ।।२ ।।
श्राद्धं तदह्नि कुर्वीत यावत्संवत्सरं भवेत् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ३ ।।
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ।।
ब्राह्मणाय महाभाग पितृभक्ताय भक्तितः ।। ४ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं च तथा स तेषाम् ।।
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषप्रधान ।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पितृव्रतवर्णनो नामैकोननवत्युत्तर शततमोऽध्यायः।। १८९।।
3.190
मार्कण्डेय उवाच ।।
कृष्णपक्षे पञ्चदश्यां चैत्रादारभ्य यादव ।।
वह्निसम्पूजनं कृत्वा गन्धमाल्यान्नसम्पदा ।। १ ।।
तिलैर्होमस्ततः कुर्यान्नाम्ना वह्नेर्नराधिप ।।
संवत्सरान्ते दद्याच्च सुवर्णं ब्राह्मणाय च ।। २ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति वित्तं सततं यशश्च ।।
धर्मे मतिं रूपमनुत्तमं च कामान्यथेष्टान्पुरुषप्रधान ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वह्निव्रतवर्णनो नाम नवत्युत्तरशततमोऽध्यायः ।। १९० ।।