विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २१६-२२०

← अध्यायाः २११-२१५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २१६-२२०
वेदव्यासः
अध्यायाः २२१-२२५ →

3.216
पुलस्त्य उवाच ।।
पञ्चदश्यां तु शुक्लस्य फाल्गुनस्यैव सत्तम ।।
पाषण्डान्पतितांश्चैव तथैवान्त्यावसायिनः ।। १ ।।
नास्तिकाञ्चित्रवृत्तींश्च पापानन्यांश्च नालपेत् ।।
नारायणं त्वेकमनाः पुरुषो नियतेन्द्रियः ।।२।।
तिष्ठन्व्रजन्प्रस्खलिते क्षुते चापि जनार्दनम् ।।
कीर्तनं तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ।।३ ।।
लक्ष्म्या समन्वितं देवं त्वर्चयेच्च जनार्दनम् ।।
सन्ध्याद्यपरमे चेन्दुस्वरूपं हरिमीश्वरम् ।। ४ ।।
रात्रीं लक्ष्मीं च संचिन्त्य सम्यगर्घ्येण पूजयेत् ।।
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ।। ५ ।।
तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम ।।
अर्चयेत्तु तथा प्रोक्तं प्राप्तेप्राप्ते तु तद्दिने ।। ६ ।
निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः ।।
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ।। ७ ।।
आषाढे श्रावणे चापि प्राप्ते भाद्रपदे तथा ।।
तथैवाश्वयुजेभ्यर्च्य श्रीधरं वै श्रिया सह ।।
सम्यक्चन्द्रमसो दत्त्वा भुञ्जीतार्घं यथाविधि ।। ८ ।।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ।।
कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ।। ९ ।।
भूम्या समन्वितं दद्याच्छशाङ्कायार्हणं निशि ।।
भुञ्जीत च यथाख्यातं तृतीयमिति पारणम् ।। 3.216.१० ।।
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ।।
प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ।। ।। ११ ।।
प्रथमांश्चतुरो मासान्पञ्चगव्यमुदाहृतम् ।।
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ।। १२ ।।
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् ।।
गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथाम् ।। १३ ।।
कारयेत्तु च देवस्य पारणं पारणे गते ।।
एवं संपूज्य विधिवत्सपत्नीकं जनार्दनम्।। ।। १४ ।।
नाप्नोतीष्टवियोगार्तिं पुमान्योषित्तथापि वा ।।
जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः ।। १५ ।।
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ ।।
यावन्त्येतद्विधानेन पारणान्यर्चयेत्प्रभुम् ।।
तावन्ति जन्मानि सुखं प्राप्नोतीष्टवियोगजम् ।। १६ ।।
प्राप्नोति देवस्मरणे च मृत्यौ तदापि चाप्नोति मनोनुकूलाम् ।।
गतिं द्विजश्रेष्ठ ततोपि काले सायुज्यमायाति जनार्दनस्य ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिपौषमासीकल्पवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः ।।२१६।।
3.217
।। पुलस्त्य उवाच ।।
शृणु दाल्भ्य परं कामं व्रतं सन्ततिदं नृणाम् ।।
यदुपोष्य न विच्छेदः पितृपिण्डस्य जायते ।। १ ।।
कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः ।।
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते नरः ।। २ ।।
निराहारो जपन्नाम कृष्णस्य जगतः पतेः।।
उपविष्टो व्रजन् स्नातः क्षुतप्रस्खलनादिषु ।। ३ ।।
पूजायां चापि कृष्णस्य सप्तवारान्प्रकीर्तयेत् ।।
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ।। ४ ।।
प्रभाते च ततः स्नातो दत्त्वा विप्राय दक्षिणाम् ।।
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ।। ५।।
वैशाखज्येष्ठयोश्चैवं पारणं हि त्रिमासिकम् ।।
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ।। ६ ।।
आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।।
उपोष्यते द्वितीयं वै घृतेन स्नपयेद्धरिम् ।।७ ।।
आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।।
उपोष्यते द्वितीयं वै पारणं पूर्ववद्भवेत् ।। ८ ।।
आश्विने कार्तिके सौम्ये तृतीयं पारणं तथा ।।
पौषे माघे फाल्गुने च चतुर्थं द्विजसत्तम ।। ९ ।।
पारणे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ।।
ब्राह्मणेभ्यो घृतं दद्यात्तथैव प्रतिपारणम् ।। 3.217.१० ।।
कृत्वा व्रतं नाकमनुप्रयाति मानुष्यमासाद्य च निर्वृतः स्यात्।।
सन्तानवृद्धिश्च तथाप्नुतेऽसौ यावन्मही सागरमेखलान्ता।।११।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सन्तानाष्टमीव्रतवर्णनोनाम सप्तदशोत्तरद्विशततमोऽध्यायः ।। २१७ ।।
3.218
पुलस्त्य उवाच।।आषाढशुक्लपक्षे तु भगवान्मधुसूदनः ।।
भोगिभागे निजां मायां योगनिद्रां च मानयेत्।।१।।
शेतेऽसौ चतुरोमासान्यावद्भवति कार्तिकम्।।
विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः।।२।।
तत्राषाढसितान्ते च यो नरो दिनपञ्चकम् ।।
अधःशायी बहिः स्नायी मांसाभ्यङ्गविवर्जितः ।। ३ ।।
वृन्ताकालाबुकूष्माण्डमधुक्षारविवर्जितः ।।
समस्तमदिरावर्जी सकृन्नक्ताशनो भवेत् ।।४।।
ब्रह्मचारी जितक्रोधो जपहोमपरायणः।।
हरिं संपूजयेन्नित्यं गन्धमाल्यान्नसंपदा ।। ५ ।।
गीतैर्वाद्यैस्तथा नृत्तैर्दीपमालाभिरेव च ।।
सान्नानां जलधेनूनां प्रदानेन तथैव च ।। ६ ।।
तथा कार्तिकशुक्लान्ते तृतीयं पारणं भवेत ।।७।।
हिंसात्मकैस्तु किं तस्य यज्ञैः कार्यं महात्मनः ।।
प्रस्वापे च प्रबोधे च पूजितो येन केशवः ।। ८ ।।
दशाहमेतत्कृत्वा तु व्रतं विष्णुपरो नरः ।।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ।। ९ ।।
कार्तिकश्चाग्निदैवत्यो मासो देवमुखः स्मृतः ।।
आश्वयुज्यामतीतायां यावत्स्याद्द्विज कार्तिकी ।। 3.218.१० ।।
व्रतं दशाहाभिहितं कृत्वा स्वर्गे महीयते ।। ।।
पौण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ।। ११ ।।
प्रत्यहं दीपदानेन कार्तिकाभिमुखो भवेत् ।।
चक्षुष्मान्ब्राह्मणश्रेष्ठ तथा सर्वत्र पूजितः ।। १२ ।।
एतावन्तं तथा कालं सर्वमांसविवर्जितः ।।
स्वर्गलोकात्परिभ्रष्टो मानुष्ये सुखमाप्नुयात् ।। १३ ।।
आरोग्यसुखसम्पत्त्या युक्तश्च सुभगो भवेत् ।।
प्रसुप्ते देवदेवेशे सर्वान्कामानवाप्नुयात् ।। १४ ।।
दशाहमुदितं कृत्वा खड्गधाराव्रतं नरः ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।। १५ ।।
मासं च कार्तिकं कृत्वा पौण्डरीकमवाप्नुयात् ।।
कृत्वा मासं यथेष्टं च वह्निष्टोममवाप्नुयात् ।।। १६ ।।
कृत्वा च चतुरो मासान्सुप्ते मधुनिषूदने ।।
अश्वमेधफलं प्राप्य नाकपृष्ठे महीयते ।। १७ ।।
असिधाराव्रतं कृत्वा तथा संवत्सरं नरः ।।
सर्वयज्ञफलं प्राप्य विष्णुलोके च गच्छति ।। १८ ।।
येनयेन तु कामेन खड्गधाराव्रतं चरेत् ।।
तंतं काममवाप्नोति विष्णुलोके महीयते ।। १९ ।।
तथा समर्थो भवति दाने च वरशापयोः ।।
आदित्यतेजा भवति नात्र कार्या विचारणा ।।3.218.२०।।
दाल्भ्य उवाच ।।
असिधाराव्रतविधिः समाचक्ष्व महाद्युते ।।
एतन्मे संशयं च्छिन्धि त्वं हि सर्वविदुच्यसे ।। २१ ।।
पुलस्त्य उवाच ।।
स्नातः स्वलंकृतः स्रग्वी भुक्तवान्मांसवर्जितम् ।।
कृतदैवत पूजस्तु स्त्रीसहायः स्वपेन्निशि ।। २२ ।।
ब्रह्मचारी द्विजश्रेष्ठ खड्गधाराव्रतं चरन् ।।
अपूर्वा चास्य पूर्वाश्च समालिंग्य स्वपेन्निशि ।। २३ ।।
ब्रह्मचारी शतगुणं फलमाप्नोत्यसंशयम् ।।
अतीव दुष्करमिदं खड्गधाराव्रतं स्मृतम् ।। २४ ।।
कृत्वा व्रतं द्वादशवत्सराणि त्रैलोक्यराज्यं ध्रुवमाप्नुयाच्च ।।
भुक्त्वा चिरं तद्द्विजमुख्य चान्ते सायुज्यमायाति जनार्दनस्य ।।२५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मा० व० सं० दालभ्यं प्रति पुलस्त्यकथा स्वधाराव्रतवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः ।। २१८ ।।
3.219
पुलस्त्य उवाच ।।
मासि प्रोष्ठपपदे शुक्ले द्वादश्यां जलशायिनम् ।।
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः ।। १ ।।
पाषण्डादिभिरालापमकुर्वन्नियमात्मवान् ।।
जलधेनुं द्विजे दत्त्वा नक्तं भुञ्जीत वाग्यतः ।। २ ।।
तिष्ठंस्थितो व्रजंश्चैव क्षुतप्रस्खलनादिषु ।।
अनन्तनामस्मरणं कुर्वन्नुच्चारणं नरः ।। ३ ।।
अनेनैव विधानेन मासद्वादश वै क्रमात् ।।
उपोष्य पारणे पूर्णे दद्याद्विप्रेषु दक्षिणाम् ।। ४ ।।
कृत्वा व्रतं द्वादशमेतदिष्टं प्राप्नोत्यनंतानि फलानि विप्र ।।
सम्यक्कृतानां नियमव्रतानां चानन्तमाराध्य न संशयोत्र ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दाल्भ्यं प्रति पुलस्त्यवाक्येष्वनन्तद्वादशीव्रतवर्णनो नामैकोनविंशत्युत्तरद्विशततमोध्यायः।।२१९।।
3.220
पुलस्त्य उवाच ।।
पौषमासे सिते पक्षे द्वादश्यां शक्रदैवतम् ।।
नक्षत्रयोगं विष्णुं च प्रथमं तु समर्चयेत् ।।१।।
ततः प्रभृति विप्रेन्द्र मासिमासि जनार्दनम् ।।
उपोषितः पूजयते यावत्संवत्सरं गतम् ।। २ ।।
मासेथ मासे विधिनोदितेन रम्यां तिथौ दानमथ ब्रवीमि ।।
प्राच्यं यथावद्विधिवत्क्रमेण तदुच्यमानं निखिलं निबोध ।। ३।।
घृतं यथा व्रीहियवं हिरण्यं यवान्नमंभः कनकानुपानम् ।।
छत्रं पयोन्नं गुडफाणिताढ्यं स्रक्चन्दने वस्त्रमनुक्रमेण ।। ४ ।।
गोमूत्रमंभो घृतमांसशाकं दूर्वादधिव्रीहियवं तिलांश्च ।।
सूर्यांशुतप्तं जलमाशु दर्भं क्षीरं च मासं क्रमशः प्रयुञ्ज्यात।।५।।
कुले प्रधाने धनधान्यपूर्णं विवेकवान्यस्तु समस्तदुःखे।।
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दाल्भ्यं प्रति पुलस्त्यवाक्येषु ब्रह्मद्वादशीव्रतवर्णनो नाम विंशत्युत्तरद्विशततमोऽध्यायः ।। २२० ।।

 
समाप्तः पुलस्त्यदाल्भ्यसंवादः ।।