विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २४६-२५०

← अध्यायाः २४१-२४५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २४६-२५०
वेदव्यासः
अध्यायाः २५१-२५५ →

3.246
हंस उवाच ।।
क्रोध एकः परः शत्रुः क्रोध एको विनाशकृत् ।।
क्रोधाभिभूतः पुरुषस्त्वात्मानमपि घातयेत् ।। १ ।।
अर्थानर्थौ न जानाति कार्याकार्यौ तथैव च ।।
नरः क्रोधसमाविष्टो नान्यं मित्रमपि द्विजान् ।। २ ।।
गुरूनाक्षिपति क्रोधान्नैनं हि नमते जनः ।।
अनर्थैः सह संसर्गस्तस्मात्क्रोधं विवर्जयेत् ।। ३ ।।
क्रोधं मूलमनर्थानां द्वारं हि नरकस्य च ।।
आपदामास्पदं घोरन्तं प्रयत्नेन वर्जयेत् ।। ४ ।।
क्रोधेन विजितो यस्तु कथमन्यं स जेष्यति।।
क्रोधे जिते जितं विद्धि त्रैलोक्यं सचराचरम् ।। ५ ।।
अनर्थकारिणं क्रोधं यदा तेजस्विता मता ।।
क्रोधे दोषमतः कृत्वा जितः क्रोधो महात्मभिः ।। ६ ।।
यज्ञश्च दानानि तपः पवित्रं तीर्थोपसेवा च तथैव वेदाः ।।
क्रोधाभिभूतस्य भवन्ति मिथ्या नरस्य तस्मात्परिवर्जयेत्तम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्रोधदोषवर्णनो नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४६ ।।
3.247
।। हंस उवाच ।। ।।
सर्वेषामेव पापानां नास्तिक्यं पातकं परम् ।।
नास्तिक्याद्धि परं नास्ति किञ्चिन्पापं द्विजोत्तमाः ।। १ ।।
अकार्यमिति कार्याणि कृत्वा कार्यवशान्नरः ।।
पश्चात्तापेन संयुक्तः क्षिप्रं पापं व्यपोहति ।। २ ।।
कार्यबुद्ध्या त्वकार्याणि यः करोति नराधमः ।।
कथं निवर्तनं तेभ्यो जायते तस्य वै द्विजाः ।। ३।।
नास्तिक्यस्य तथा मूलं त्वसच्छास्त्रावगाहनम् ।।
तस्मात्सर्वप्रयत्नेन तद्विवर्ज्यं विजानता ।।४।।
सर्वो हि मानवो लोके परलोकनिबन्धनः ।।
तत्रापि निरपेक्षस्य किन्नु लोके निबन्धनम् ।।५।।
ये तु वै नास्तिका लोके नरा लोकं प्रति द्विजाः ।।
नरके ते हि पच्यन्ते बहुकालं न संशयः ।।६।।
नास्तिक्यमेकं पुरुषस्य लोके विनाशनं विप्रवराः प्रदिष्टम् ।।
तस्मात्प्रयत्नेन विवर्जनीयो नास्तिक्यभावः सुखमीप्समानैः।।७।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नास्तिक्यदोषवर्णनो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४७ ।।
3.248
हंस उवाच ।।
अहङ्कारात्परं नास्ति लोके किञ्चिद्विनाशनम् ।।
अहङ्कारेण भूपालाः शतशो निधनङ्गताः ।। १ ।।
अहंकृतास्तथा नष्टा ब्राह्मणाश्च सहस्रशः ।।
मान्यामान्यन्न जानन्ति कार्याकार्यं त्वहंकृताः ।। २ ।।
अहंकृतस्तथा लोके न विद्यामधिगच्छति ।।
विपन्नकार्यश्च तथा न प्राज्ञान्परिपृच्छति ।। ३ ।।
न शृणोति तथान्येषां दर्पपूर्णो विचक्षणः ।।
पातादन्यन्नभैषज्यं दर्पान्नास्त्येह कीर्तनम् ।। ४ ।।
बलाधिकैस्तथा वीरैर्गुरुभिश्च तथैव च ।।
मरणे संनिकृष्टेपि मरणस्य विचक्षणः ।। ५ ।।
हेतुभूतानि कर्माणि निन्दितानि निषेवते ।।
स्थिते स्थितांस्तथा प्राज्ञान्भाषमाणान्विनिन्दति ।। ६ ।।
अहंकृतानां नरके प्रदिष्टा गतिर्ध्रुवं लोकविनिन्दितानाम् ।।
प्राज्ञेन तस्मात्परिवर्जनीयो दर्पो विनाशैककरः सदैव ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतास्वहंकारदोषवर्णनो नामाष्टचत्वारिंशदुत्तरद्विशतमोऽध्यायः ।। २४८ ।।
3.249
हंस उवाच ।।
दत्तं यच्छौचहीनेन न तद्गृह्णन्ति देवताः ।।
बुभुत्सवश्च धर्मज्ञाः शुचिकामाश्च देवताः ।। १ ।।
यक्षैश्च राक्षसैश्चैव पिशाचैश्च निशाचरैः ।।
डाकिनीभिश्च धर्मज्ञाः शौचहीनोऽभिभूयते ।। २ ।।
शौचहीनमथाभ्येति स्वयं निन्दति कं द्विजाः ।।
व्याधिहीनो ह्यशौचश्च सर्वैरेवाभिभूयते ।। ३ ।।
वर्धते च तथानर्थाः समर्थाश्च व्रजन्ति च ।।
शौचहीनस्य रिपवो यान्ति वृद्धिं परां द्विजाः ।। ४ ।।
स्त्रीशौचमर्थशौचं च वाक्छौचमपि च द्विजाः ।।
एतानि यस्य शौचानि स शुचिः परिकीर्तितः ।। ५ ।।
योर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ।।
ततश्चाप्यधिकं शौचमहिंसा परिकीर्तिता ।। ६ ।।
शौचेन हीना नरकं व्रजन्ति शौचेन हीना विभजन्त्यनर्थान् ।।
शौचेन हीनाश्च भवन्ति निन्द्यास्तस्मादशौचं परिवर्जनीयम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शौचवर्णनो नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २४९ ।।
3.250
हंस उवाच ।।
आचारहीनाः पुरुषा भवन्त्यल्पायुषो द्विजाः ।।
आचारहीनश्च तथा राक्षसैरभिभूयते ।। १ ।।
यक्षैः पिशाचैर्गन्धर्वैस्तथा चान्यैर्निशाचरैः ।।
डाकिनीभिः सुराणां च तथा पार्षगणाः पृथक ।।२ ।।
दत्तमाचारहीनेन न प्रतीच्छन्ति देवताः ।।
पितरश्च महाभाग ऋषयश्च तपोधनाः ।। ३ ।।
सर्वलक्षणयुक्तोऽपि नरस्त्वाचारवर्जितः ।।
न प्राप्नोति तथा विद्यां न च किञ्चिदभीप्सितम् ।।
आचारहीनः पुरुषो नरकं प्रतिपद्यते ।। ४ ।।
आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ।।
आचारहीनेन तु धर्मकार्यं कृतं हि सर्वं भवतीह मिथ्या ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा र्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनाचारदोषवर्णनो नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५० ।।