विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २५६-२६०
← अध्यायाः २५१-२५५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः २५६-२६० वेदव्यासः |
अध्यायाः २६१-२६५ → |
3.256
हंस उवाच ।।
ज्ञातव्या गुरुशुश्रूषा परमं धर्मकारणम् ।।
गुरुशुश्रषया विद्यां नरः समधिगच्छति ।। १ ।।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ।।
सुवर्णपुष्पां पृथिवीं विचिन्वन्ति नरास्त्रयः ।। २ ।।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।
सर्वधर्मविहीनोऽपि गुरुशुश्रूषणे रतः ।। ३ ।।
स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः ।।
मातरं पिंतरं वापि ज्येष्ठभ्रातरमेव च ।।४।।
गुरुं विद्याप्रदं वापि यश्च शुश्रूषते नरः ।।
स्वर्गलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ।।५।।
यदेव पुण्यमाप्नोति गुरुशुश्रूषया द्विजः ।।
द्विजशुश्रूषया शूद्रस्तदेव फलमश्नुते ।।६।।
प्राप्नोति पुण्यं परमं च सध्वी शुश्रुषते या पतिमप्रमत्ता ।।
शुश्रूषया भूमिपतेः प्रजानां पुण्यं प्रदिष्टं परमं नृलोके ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गुरुशुश्रूषाप्रशंसावर्णनो नाम पट्पञ्चाशदुत्तर द्विशततमोऽध्यायः ।। २५६।।
3.257
हंस उवाच ।।
स्वाध्यायसेवाकर्त्तव्या नित्यमेव विजानता ।।
स्वाध्यायेन तदाप्नोति यत्किञ्चिन्मनसेच्छति ।। १ ।।
पयसा मधुना दध्ना मांसेन च यथाक्रमम् ।।
ऋचो यजूंषि सामानि तथैवाथर्वणं पठेत् ।।२।।
पितॄणां तर्पणं कुर्याद्वेदाङ्गेन च सर्पिषा ।।
उपवेदानपि पठँस्तर्पयत्योदनेन तान् ।। ३ ।।
विना स्थानानि सर्वाणि स्वैरेयेण तथा नरः ।।
सांख्ययोगं पाञ्चरात्रं तथा पाशुपतं पठन् ।। ४ ।।
क्षीरेण मधुमिश्रेण पितृंस्तर्पयते तथा ।।
वाकोवाक्यं पुराणश्च नाराशंस्योऽथ गाथिकाः ।।५।।
स्तोत्राणि च पठन्नित्यं दध्ना च मधुना तथा ।।
तस्मात्सर्व प्रयत्नेन द्विजः स्वाध्यायमाचरेत् ।। ६ ।।
स्वाध्याय एवेह तपः पवित्रं स्वाध्याय एवेह तथैव यज्ञः ।।
स्वाध्यायवानेव नरः प्रयाति त्रिविष्टपं मोक्षमथाप्यभीष्टम्।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसं० मुनीन्प्रति हंसगीतासु स्वाध्यायप्रशंसावर्णनो नाम सप्तपञ्चाशदुत्तर द्विशततमोऽध्यायः ।। २५७ ।।
3.258
हंस उवाच ।।
ब्रह्मचर्येऽभिसंयुक्तो द्विजः स्वर्गमुपाश्नुते ।।
ब्रह्मचर्यं परं धाम ब्रह्मचर्यं परं तपः ।। १ ।।
ब्रह्मचर्यं परं यज्ञो ब्रह्मचर्यं परं यशः ।।
ब्रह्मचर्येण संयुक्तः सर्वान्कामानवाप्नुयात् ।। २ ।।
अदैवं दैवतं कुर्याद्दैवतं चाप्यदैवतम् ।।
कुर्याल्लोकाँस्तथैवान्यान्ब्रह्मचर्येण मानवः ।। ३ ।।
कृतानपि तथा पूर्वान्क्षिप्रमेव प्रणाशयेत् ।।
यथाभीष्टमवाप्नोनि ब्रह्मचर्येण मानवः ।। ४ ।।
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ।।
सा ज्ञेया ब्रह्मचर्येण ऋषीणामपि च द्विजाः ।। ५।।
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।।
दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ।।६।।
यो ब्रह्मचर्यान्न परिच्युतः स्यात्पुत्रेण हीनोऽपि दिवं स याति ।।
परिच्युता ये तनयैर्विहीनास्तेषां न लोकेषु गतिः प्रदिष्टा ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ब्रह्मचर्यप्रशंसावर्णनो नामाष्टपञ्चाश दुत्तरद्विशततमोऽध्यायः ।। २५८ ।।
2.259
।। हंस उवाच ।। ।।
ब्रह्मचर्याच्च्युतो यस्तु नरस्सन्तानवर्जितः ।।
सुतप्ततपसोप्यस्य गतिर्लोके न विद्यते ।। १ ।।
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।।
तथा पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ।। २ ।।
नाकलोकमवाप्नोति दुहित्रा द्विजसत्तमाः ।।
दौहित्रेण तथा लोकान्नरो याति प्रजापतेः ।। ३ ।।
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ।। ४ ।।
पुत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।।
दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत् ।। ५ ।।
तस्माच्छेत्ता कुलस्य स्यात्स याति नरकं ध्रुवम् ।।
पुत्रपौत्रैः परिवृतो नाकलोके महीयते ।। ६ ।।
सन्तानवानेव नरस्तु कीर्त्या युक्तस्तथा स्यात्परया द्विजेन्द्राः ।।
कीर्त्या युतः स्वर्गमथ प्रयाति सन्तानवान्यः पुरुषः प्रधानः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु सन्तानप्रशंसा वर्णनो नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ।। २५९ ।।
3.260
।। हंस उवाच ।। ।।
कीर्तिप्रधानः पुरुषश्चिरं स्वर्गे महीयते ।।
कीर्तिः शरीरं निर्दिष्टा मृतस्यापि शरीरिणः ।। १ ।।
कीर्तियुक्तं न जानाति परत्रेह च मानवः ।।
कीर्तियुक्ता भवन्तीह श्रेयसो भाजनं परम् ।। २ ।।
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ।। ३ ।।
तावदेव तथा लोकान्सर्वकामदुघोऽक्षयान् ।।
पुरुषः समुपाश्नाति दिवि चेह च शाश्वतम् ।। ४ ।।
यस्याकीर्तिर्मनुष्यस्य नरकं स तु गच्छति ।।
यावल्लोकेषु धर्मज्ञास्तस्य कीर्तिस्तु गीयते ।। ५ ।।
तावत्समश्नुते स्वर्गे देवभोगाननुत्तमान् ।।
कीर्तिः पुण्या पुण्यलोके नैव पापं प्रयच्छति ।।
कीर्त्यमाना मनुष्यस्य तस्मात्पुण्यं समाचरेत् ।। ६।।
ये कीर्तियुक्ताः पुरुषप्रधानास्ते नाकपृष्ठं सुचिरं प्रयान्ति ।।
अकीर्तियुक्ता नरकं व्रजंति कीर्तिः प्रधाना पुरुषस्य तस्मात् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु कीर्तिप्रशंसावर्णनो नाम षष्ट्युत्तरद्विशततमोऽध्यायः ।। २६० ।।