विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३५१-३५५

← अध्यायाः ३४६-३५० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३५१-३५५
वेदव्यासः

3.351
मार्कण्डेय उवाच ।।
स ददर्श तदा विष्णुं विश्वरूपधरं हरिम् ।।
युक्तं वर्णैः शुकप्रख्यैः पीतरक्तसितासितैः ।। १ ।।
क्वचिन्मेचकसंयुक्तैः क्वचिन्मेचकरञ्जितैः ।।
चिच्छशांकसंकाशं क्वचिद्धिङ्गुलसन्निभम् ।। ।। २ ।।
क्वचिन्मरकतप्रख्यं पद्मरागनिभं क्वचित् ।।
क्वचित्कनकसंकाशं क्वचिन्नीलोत्पलप्रभम् ।। ३ ।।
क्वचित्पाटलपुष्पाभं क्वचिद्गगनसन्निभम् ।।
कुंकुमक्षोदसंकाशं हरिद्रक्षोदसन्निभम् ।। ४ ।।
क्वचिद्रजोपलप्रख्यमिन्द्रनीलनिभं क्वचित् ।।
अनिर्देश्यानि वर्णानि तथा बिभ्रत्क्वचित्क्वचित् ।। ५ ।।
नानाविधानां सत्त्वानां वदनानि बहूनि च ।।
ब्रह्मशंकरशक्राणां यमस्य वरुणस्य च ।। ६ ।।
धनदस्य हुताशस्य वायोर्निर्ऋतिनस्तथा ।।
ग्रहाणामथ ऋक्षाणां रुद्राणां वसुभिः सह ।। ७ ।।
आदित्यानां समरुतां भृगूणां च तथा द्विज ।।
तथैवाङ्गिरसो राजन्साध्यानामश्विभिः सह ।। ८ ।।
दैत्यानामथ नानानां गन्धर्वोरगरक्षसाम् ।।
पितृपन्नगयक्षाणां तथा च पिशिताशिनाम् ।। ९ ।।
मनुष्य हयनागानां गजाश्वमृगपक्षिणाम् ।।
द्वीपिशार्दूलसिंहानां सर्वेषां प्राणिनामथ ।। 3.351.१० ।।
कानिचित्तस्य सौम्यानि कानिचिद्भीषणानि च ।।
ददर्श तस्य वक्त्राणि शतशोऽथ सहस्रशः ।। ११ ।।
वक्त्रेषु तस्य रौद्रस्य प्राणिसंघान्यनेकशः ।।
ददर्श सर्वतश्चाग्नीन्ग्रस्यमानाँश्च विष्णुना ।।१२।।
सौम्येभ्यस्तस्य वक्त्रेभ्यो निर्गच्छंत्यस्तथा प्रजाः ।।
वाहांश्च विविधाँस्तस्य स ददर्शाथ नारदः ।। १३।।
हस्ताँश्च विविधाकारान्नानामुद्रासमन्वितान् ।।
युक्तान्नानाविधैर्भाण्डैरायुधैश्च सहस्रशः।।१४।।
स्रुक्स्रुवावेदिचमसकुशकृष्णाजिनाग्निभिः ।।
केचिच्च कलशं घण्टां शङ्खपद्मोत्पलादिभिः।।१५।।
केचित्खड्गगदाचक्रचर्मशूलपरश्वधैः ।।
केचित्पाशमहादण्डकृपाणशरकार्मुकैः ।। १६ ।।
केचिद्भुशुण्डीलगुडशक्तिवज्राश्मपट्टिशैः ।।
बीजपूर्णाक्षमालाश्च पूर्णपात्रैस्तथा परैः ।। १७ ।।
एवं नानाविधैर्भाण्डैः करांस्तस्य समन्वितान् ।।
असंख्येयान्महातेजा ददर्श मुनिसत्तमः ।। १८ ।।
नृत्तशास्त्रविनिर्दिष्टो नृत्तकर्मणि चाप्यथ ।।
शिरांसि दृष्टयो हस्तांस्तस्य देवस्य दृष्टवान् ।। १९ ।।
त्रैलोक्यं च तथा काये सकलं मुनिसत्तमः ।।
देवदानवगन्धर्वसयक्षोरगरक्षसाम् ।। 3.351.२० ।।
द्वीपाम्भोनिधिलोकैश्च पातालैश्चैव संयुतम् ।।
जगत्समग्रं देवस्य देहस्थं दृष्टवान्मुनिः ।। २१ ।।
स दृष्ट्वा परमं रूपं भीतो हृष्टश्च विस्मितः ।।
पपात पादयोस्तस्य शिरसा साश्रुलोचनः ।। २२ ।।
स्तोत्रेण चैव तुष्टाव पूर्वोक्तेन जनार्दनम् ।।
तमुवाच ततो देवः प्रहसन्नृषिसत्तमम् ।। २३ ।।
।। श्रीभगवानुवाच ।। ।।
उत्तिष्ठ माभैर्धर्मज्ञ वरं वृणु यथेप्सितम् ।।
।। श्रीनारद उवाच ।। ।।
नित्यमेकान्तिके देव भक्तिर्भवतु सा त्वयि ।।
नान्यं वरं कामयामि नराणामिदमुत्तमम् ।। २४ ।।
।। मार्कण्डेय उवाच ।। ।।
तमुवाच ततो देवः प्रणतार्तिहरो हरिः ।।
एतन्निसर्गसिद्धं ते येन त्वं दृष्टवान्मम ।। २५ ।।
विश्वरूपमिदं ब्रह्मन्नवज्ञेयं तथा त्वया ।।
तपस्तप्तं यतो विप्र ममापि च ततस्तव ।। २६ ।।
रूपमेतत्समास्थाय रूपं स्वं द्विज दर्शितम् ।।
इच्छारूपाण्यहं कुर्यां शतशोऽथ सहस्रशः ।। २७ ।।
त्रैलोक्ये यानि रूपाणि देवादीनां द्विजोत्तम ।।
ममैव तानि जानीहि मत्तोऽन्यन्नास्ति किञ्चन ।। २८ ।।
अहं भूतं च भव्यं च वर्तमानमहं तथा ।।
स्थावरं जङ्गमं चैव सर्वमेवास्मि नारद ।। २९ ।।
सच्चाऽसच्चाहमेवात्र तत्त्वमेतद्ब्रवीमि ते ।।
अशब्दमरसं स्पर्शगन्धरूपविवर्जितम् ।। 3.351.३० ।।
सर्वगं मां विजानीहि परमार्थेन नारद ।।
यः करिष्यति मे स्तोत्रं स्तोत्रेण त्वत्कृतेन तु ।। ३३ ।।
तस्य कामान्विधास्यामि ये दिव्या ये च मानुषाः ।।
श्वेतद्वीपे गतिस्तस्य मृतस्य च भविष्यति ।। ३२ ।।
श्वेतद्वीपमवाप्यापि नरः स्वस्थो भविष्यसि ।।
वराहस्यास्य कल्पस्य यावत्कालोऽवशिष्यते ।। ३३
वाराहे तु गते कल्पे ततो मात्स्यो भविष्यति ।।
देवकार्याणि कार्याणि सुबहूनि यतस्त्वया ।। ३४ ।।
प्रादुर्भावगतश्चाहमनुशास्यस्तथा त्वया ।।
प्रादुर्भावाणि मे ब्रह्मन्व्यतीतानि सहस्रशः ।। ३५ ।।
भविष्यन्ति तथान्यानि तत्र मे शृणु कानिचित् ।।
अहमेकार्णवे लोके शेषपर्यंकशायिकः ।। ३६ ।।
लक्ष्मीसहायस्तिष्ठामि यदा सुप्तः पितामहः ।।
अहं मत्स्यस्तथा कूर्मो हंसोह्मपि नारद ।। ३७ ।।
स्त्रीरूपेण मया विप्र वञ्चिता दैत्यदानवाः ।।
मयाश्वशिरसा वेदा दानवेभ्यस्तथा हृताः ।। ३८ ।।
वाराहेण मया भूत्वा वसुधेयं समुद्धृता ।।
वाराहेण मया दैत्याः पातालतलगा हताः ।। ३९ ।।
नृवराहेण निहतो हिरण्याक्षो बलोत्कटः ।।
दानवाश्च हता युद्धे नरनारायणात्मना ।। 3.351.४० ।।
लोकोत्तरे तथा मार्गे हरिः कृष्णस्तथाप्यहम् ।।
नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ।। ४१ ।।
वामनेन मया भूत्वा बलेस्त्रिभुवनं हृतम् ।।
त्रिभिः क्रमैः पुरा ब्रह्मन्देवानां हितकाम्यया ।। ४२ ।।
वाडवोऽहं समुद्रस्थः पिबामि सलिलं सदा ।।
पृथ्वी वसुमती ब्रह्मन्पृथुना च मया कृता ।। ४३ ।।
कापिलेन मया दुष्टा दग्धव्याः सगरात्मजाः ।।
दत्तात्रेयेण वसुधा देवा द्विजगणाः पुनः ।। ४४ ।।
जामदग्न्येन रामेण लघ्वी वसुमती कृता ।।
त्रिसप्त कृत्वः कर्तव्या क्षत्रभारप्रपीडिता ।। ४५ ।।
दत्त्वा चतुर्धा पुत्राँश्च मया दशरथस्य च ।।
रामेण रावणवधः कर्तव्यो जनतासुखम् ।। ४६ ।।
कार्यं गन्धर्वनिधनं तथैव भरतात्मना ।।
मेघनादवधः कार्यो लक्ष्मणेन तथा मया ।।४७।।
शत्रुघ्नेन च कर्त्तव्यो लवणस्य वधस्तथा।।
मया वाल्मीकिना कार्यं काव्यं रामायणं तथा ।।४८।।
व्यासेन् वेदा वक्तव्या आख्यानं भारतं महत् ।।
मया ब्राह्मणशार्दूल तथा द्वैपायनात्मना।।४९।।
पाण्डोः पुत्रत्वमासाद्य पञ्चधा च तथा मया ।।
द्विधा च वसुदेवस्य लघ्वी कार्या वसुन्धरा ।।3.351.५०।।
नरलोके निहन्तव्या दैत्या मानुषरूपिणः ।।
बलभद्रेण च मया हन्तव्या मौष्टिकादयः ।। ५१ ।।
मया कृष्णेन हन्तव्याः कंसपूर्वा महाबलाः ।।
प्रद्युम्नेन निहन्तव्यः शम्बरश्च महाबलः ।। ५२ ।।।
हन्तव्याश्चानिरुद्धेन दैत्याः शतसहस्रशः ।।
सांबेन युयुधानेन मया भूत्वा तथैव च ।।५३।।
मया बुद्धेन वक्तव्या धर्माः कलियुगे पुनः ।।
हन्तव्या म्लेच्छराजानस्तथा विष्णुवशात्मना ।।५४।।
ममांशेन विजानीहि पृथिव्यां चक्रवर्तिनः ।।
ऋषयश्च तथा ज्ञेया ममैवांशसमुद्भवाः ।।५५।।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव च ।।
तत्तदेवावगच्छेस्त्वं मम तेजोंशसम्भवम् ।। ५६ ।।
अथ वा बहुनैतेन किं ज्ञानेन तवानघ ।।
विष्टभ्याहमिदं कृत्स्नमेकांशेनास्थितो जगत् ।। ५७।।
तद्गच्छ मानसी सिद्धिः सदा तेऽस्तु द्विजोत्तम ।।
कल्पावसानमासाद्य मच्छरीरं प्रवेक्ष्यसि ।। ५८ ।।
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ।।
भगवान्नारदश्चक्रे पूजां तद्देशवासिनाम् ।।५९।।
तैश्च संपूजितो विप्रस्तान्प्रणम्य यतव्रतः ।।
आजगाम ततः शीघ्रं नरनारायणाश्रमम् ।। 3.351.६० ।।
पादयोर्न्यपतत्तत्र स तयोर्मुनिपूज्ययोः ।।
ताभ्यां संपूजितो विप्रस्तत्रोवास तदाश्रमे ।। ६१ ।।
ततः कदाचित्तं विप्रमूचतुस्तौ तपोधनौ ।।
आवाभ्यां त्वं तथा दृष्टः श्वेतद्वीपगतेऽच्युतः ।। ६२ ।।
समीपं देवदेवस्य तद्देहस्थैर्यथासुखम् ।।
लोकेऽस्मिन्मुनिशार्दूल नास्ति धन्यतरस्त्वया ।। ६३ ।।
दृष्टवानसि यद्ब्रह्मन्विश्वरूपधरं हरिम् ।।
त्रैलोक्यसारं विश्वेशं प्रणतार्तिविनाशनम् ।। ६४ ।।
यतस्तेऽनुग्रहस्तेन कृतो देवेन विष्णुना ।।
ततो गुह्यं निबोधेमं तत्पूजाविधिमुत्तमम् ।। ६५ ।।
सर्वकर्मकरं दिव्यं सकलार्थप्रदं शिवम् ।।
नाभक्ताय च तद्देयं त्वया ब्राह्मणसत्तम ।।६६।।
एकान्तभावोपगतं जनार्दनं नरस्तु सम्पूज्य तथा विधानतः ।।
प्रयाति तद्द्वीपमनुत्तमं शिवं न यत्र गत्वा विनिवर्तते पुनः ।। ६७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे विश्वरूपाख्यानं नामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः।।३५१।।
3.352
नरनारायणावूचतुः ।।
आदावेव सरःसरित्प्रस्रवणसमीपगृहोपवनपर्वतमस्तकानामन्यतमे हृद्ये देशे सुसमं मनोहरं हस्तमात्रं मण्डलकमुपकल्पयेत् ।।
तत्र मध्येऽष्टपत्रं पद्ममालिखेत् ततस्तूदाहृतचतुरस्रया चतुर्द्वारलेखया विभजेत् ।
ततः पद्मकर्णिकामध्ये श्वेतं शतपत्रं पद्मं ध्यायेत् ।
तत्कर्णिकोपर्यर्कमण्डलम् तदुपरि चन्द्रमण्डलम् तदुपरि अग्निमण्डलम्तन्मध्ये परमं पुरुषम् अशरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शम् अशब्दं सर्वगं प्लुतान्तम् ॐकारं विन्यसेत् ।
कमलपूर्वदले अकारं वासुदेवं न्यसेत् श्वेतवर्णं ध्यायेत् दक्षिणे आकारं संकर्षणं विन्यसेत् पद्मपत्राभं तं च ध्यायेत्।
पश्चिमे दले ओङ्कारे प्रद्युम्नं विन्यसेत् पीतवर्णं च ध्यायेत् ।।
उत्तरे दले अकारमनिरुद्धं विन्यसेत्कृष्णवर्णञ्च ध्यायेत् ।।
ऐशाने दले तदिति ब्रह्माणं विन्यसेत् पद्मपत्राभं ध्यायेत् ।।
सूर्यकोटिसमं ध्यायेत् ।।
वायव्यदले वराहं विन्यसेत्।
भिन्नाञ्जनसमं ध्यायेत्।।
प्रपूर्वद्रारे ॐ कें टें यें एतान्यक्षराणि वैनतेयं विन्यसेत्।।
हेमवर्णं च ध्यायेत्।।
दक्षिणे द्वारे तेजोरथरतृचक्रं सुदर्शनं विन्यसेत् ।
वज्रनाभं सहस्रारं सूर्यकोटिसमप्रभं ध्यायेत् ।।
पश्चिमद्वारे शार्ङ्गं विन्यसेत् ।
इन्द्रचापनिभं ध्यायेत् ।।
स्वें वै ठें हें थें उत्तरे द्वारे अनिरुद्धं न्यस्येत् ।
सर्ववर्णं ध्यायेत् ।
वें णें क्षें क्षें विदिक्षु पाञ्चजन्यं शंखं न्यसेत् ।
शशाङ्कवर्णं ध्यायेत् ।।
घें हें भें हें श्रियं पद्मं दक्षिणतो न्यसेत् ।
शुक्लां ध्यायेत् ।।
गें डें वें शें पद्मान्तरतः पुष्टिं न्यसेत् ।
श्वेतां ध्यायेत् ।
हें सें पुरतो वनमालां न्यसेत् ।
हें सें बहुवर्णां ध्यायेत् ।।
ॐ चित्यैशान्यां नन्दकं न्यसेत् ।
आकाशवर्णं ध्यायेत् ।।
ॐमित्याग्नेय्यां वर्म न्यसेत् ।
बहुवर्णं ध्यायेत् ।।
ॐ क्षें लें श्रीवत्सं न्यसेत् ।
शुक्लां ध्यायेत्।।
ॐ छें ठें वायव्ये कौस्तुभं न्यसेत् आदित्यं दीप्तं ध्यायेत्।।
ततो मंडले बाह्यस्थां यथास्वदिशमोकारौकारौ दिक्पती शक्राग्नी यमनैर्ऋतवारुणपवनकुबेरानैशान्यां न्यसेत् ।
यथोक्तरूपं ध्यायेत् ।।
ॐ नमो भगवते वासुदेवायेत्यन्तेन द्वादशाक्षरेण कर्णिकामध्ये पुरुषायार्घ्यपाद्याचमनीयानुलेपनपुष्पदीपधूपमधुपर्कनैवेद्यफलभक्ष्याणि निवेदयेत् । ॐनमो नारायणायेत्यथ वाष्टाक्षरेण मन्त्रेण ।
ॐ जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।।
नमस्तेस्तु हृषीकेश महापुरुष पूर्वज ।।
इत्यनेन मंत्रेण पुरुषसूक्तेन वा ।
अथान्यान्दलनिविष्टान्देवान्यथाभिहितैर्मन्त्रैः पृथक्पृथगर्चयेद्् ।
अनेन विधिना यस्तु विष्णुमभ्यर्चयेन्नरः ।
सर्वान्संसाधयेदर्थान्कृतकृत्यो हि जायते ।। १८ ।।
कृत्वा व्याधिं व्याधितं भक्षयति न करोति न तदाप्नोति इदं त्वन्यत् ।
धन्यं यशस्यं पुण्यं च पवित्रं पापनाशनम् ।।
आरोग्यं धनधान्यवर्द्धनं शत्रुघ्नं वशीकरणं यः पुरुषोऽनेन विधिना सततं देवमभ्यर्चयति सम्पत्तिं जनयति अथ वा तस्य न रोचते तदा श्वेतद्वीपमवाप्य अर्कमण्डलं भित्त्वा निरुणद्धि प्रद्युम्नसंकर्षणान्प्राप्नोति सुदेवत्वमवाप्य निष्कलत्वमाप्नोति ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मा० व० सं० नारायणपूजनप्रकारवर्णनो नाम द्विप ञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३५२ ।।
3.353
।। मार्कण्डेय उवाच ।। ।।
एतद्धि नारदः श्रुत्वा नरनारायणेरितम् ।।
अनेनैव विधासततं मधुसूदनम् ।। १ ।।
पूजयामास धर्मात्मा तद्गतेनान्तरात्मना ।।
ततः पुंसवनो भगवान् नारदस्य महात्मनः ।। २ ।।
प्रत्यक्षतः पुनर्भूतं नारदं वाक्यमब्रवीत् ।।
गच्छ नारद भद्र त्वं लोकांश्चर यथेप्सितान्।।३।।
दर्शनं तव दास्यामि कालेकाले यथेप्सिते।।
अनुग्रहमिदं प्राप्य देवेशात्पुरुषोत्तमात् ।।४।।
चचार नारदो लोकान्नित्यं संपूजयन्हरिम् ।।
विश्वरूपमिदं दृष्टं नारदेन महात्मना ।। ५ ।।
प्रह्लादेन पुनस्तेन नरकेसरिरूपिणः ।।
तथा चामृतकादेहे तेनैव च महात्मना ।। ६ ।।
ब्रह्मणा च पुरा दृष्टं त्रैलोक्याक्रमणे पुनः ।।
पश्चिमे सागरे दृष्टं दशग्रीवेण रक्षसा ।। ७ ।।
कृष्णावतारे दूत्येन गतस्य मधुविद्विषः ।।
धार्तराष्ट्रसभामध्ये ऋषिभिश्च परीक्षितः ।। ८ ।।
महाभारतसंग्रामे दृष्टवानर्जुनस्तथा ।।
बन्धुनाशभयोद्विग्नो यत्र तेन प्रबोधितः ।।९।।
निवृत्ते भारते युद्धे गच्छन्तो द्वारकां पुनः ।।
मार्गागतेन तद्दृष्टमुत्तंकेन महात्मना ।।3.353.१०।।
त्रैलोक्यनाथो गोविन्दः सततं भक्तवत्सलः।।
तस्य कर्माणि यो नित्यं पुरुषः परिकीर्तयेत् ।। ११ ।।
शृणुयाद्वा महीपाल शुचिस्तद्गतमानसः ।।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्।। १२ ।।
एवं स राजन्द्विजवर्यमुख्यः संप्राप्तवान्देववरात्प्रसादम् ।।
भक्तिक्रमक्रैयनृपप्रसादात्तस्माद्धिकामान्पुरुषा लभंते ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे नारदप्रसादो नाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३५३ ।।
3.354
।। वज्र उवाच ।। ।।
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ।।
तृप्तिर्न विद्यते तस्मान्माहात्म्यमपरं वद ।। १ ।।
तस्यैव देवदेवस्य विष्णोरमिततेजसः ।।
रक्षायुक्तं पवित्रं च लोकेष्वाश्चर्यमुत्तमम् ।। २ ।।
।। मार्कण्डेय उवाच ।। ।।
एकान्तभावोपगतः कश्चिदासीद्द्विजोत्तमः ।। ३ ।।
सात्त्वतो गौतमश्रेष्ठो विष्वक्सेन इति श्रुतः ।।
पञ्चकालविधानज्ञः पाञ्चरात्रविधानवित् ।। ४ ।।
सततं पूजयामास देवदेवं जनार्दनम्।।
कृष्णायतनपूजार्थं स बभ्राम वसुन्धराम् ।।५।।
आससाद कदाचित्तु पर्वतं गह्वरं महत्।।
यत्र माहेश्वरः सर्वो जनो यद्बलजो बहु।।६।।
स तत्र निर्झरे स्नात्वा पूजयामास केशवम्।।
वेद्यां प्रकल्पितायां तु भोगैः सन्निहितैः प्रभुम्।।७।।
तस्मात्तु गह्वारात्कश्चिद्विनिष्क्रम्य यदृच्छया।
निबद्धखड्गैर्बहुभिः पुरुषैश्चापपाणिभिः।।८।।
सहितस्तं ददर्शाथ पूजयन्वै जनार्दनम्।।
तस्य गत्वा समीपे तु ग्रामस्वामिकुमारकः।।९।।
तमुवाच त्वमभ्येहि देवकर्म कुरुष्व मे ।।
शिरोरुगर्दितस्तात स्नातुं शक्नोमि नाद्य वै ।। 3.354.१० ।।
देवकर्मण्यशक्तिर्मे तात पूजय शङ्करम् ।।
देवतायतनं गत्वा यत्र तात प्रतिष्ठितम् ।। ११ ।।
लिङ्गमस्ति सुरेशस्य महादेवस्य निर्मितम् ।।
एतदुक्तं प्रत्युवाच वयमेकार्चिनः श्रुताः ।। १२ ।।
चतुरात्मा हरिः पूज्यः प्रादुर्भावगतोऽथ वा ।।
पूजयाम्यद्य नैवान्यं तस्मात्त्वं गच्छ मा चिरम् ।। १३ ।।
एवमुक्तः कुमारस्तु खड्गमाकृष्य सत्त्वरम् ।।
तमुवाच तदा विप्रं त्वां वधिष्ये न संशयः ।। १४ ।।
यदि लिङ्गार्चनं गत्वा न करोषि हि दुर्मते ।।
शस्त्रादधिको देवो न ह्येकोस्ति नराधम ।।१५।।
खड्गेन पातयिष्यामि भवच्छीर्षमसंशयम् ।।
एवमुक्तेः स तेनाथ प्राणरक्षा परायणः ।। १६ ।।
बहिर्गच्छामि तत्रेति तेन सार्धं तदा ययौ ।।
दृष्ट्वा च लिङ्गं देवस्य चिन्तयामास धर्मवित् ।। १७ ।।
विष्णुः सर्वगतो देवः सर्वात्मा मधुसूदनः ।।
तस्य रौद्रेण भावेन महादेवः प्रतिष्ठितः ।। १८ ।।
तस्य वै रौद्रभावेन नरसिंहस्तथा प्रभुः ।।
लिङ्गेस्मिन्पूजयिष्यामि नरसिंहवपुर्धरम् ।।
देवदेवं महात्मानं तेन नित्यं सुरार्चनात् ।। १९ ।।
प्रत्यपायो न भविता प्राणत्राणमभीप्सितः ।।
ततः स देवदेवेशं नरसिंहवपुर्धरम् ।। 3.354.२० ।।
मनसा तु तदा ध्यात्वा पूजयामास लिङ्गगम् ।।
नमोस्तु ते नृसिंहाय वदन्नेव कृताञ्जलिः ।। २१ ।।
नमोस्तु नरसिंहाय श्रुत्वा तस्मात्सुभाषितम् ।।
ग्रामेशनन्दनः क्रुद्धः खड्गमाकृष्य सत्त्वरम् ।। २२ ।।
प्रहारमुद्यतो दातुं तस्य विप्रस्य धीमतः ।।
लिङ्गं भित्त्वा ततो देवो नरसिंहवपुर्धरः ।। २३ ।।
समुत्थाय ततः क्रोधाद् ग्रामस्वामिकुमारकम् ।।
ददाह भगवाञ्छीघ्रं सानुगं नेत्रवह्निना ।। २४ ।।
तस्य सात्त्वतमुख्यस्य दिव्यं चक्षुर्ददौ ततः ।।
ददर्श येन वेशेन नरसिंहवपुर्धरम् ।। २५ ।।
दृष्ट्वा स्तोत्रेण तुष्टाव तदा तस्य जनार्दनः ।।
स्तोत्रस्य तु वरं प्रादात्तन्मे निगदतः शृणु ।। २६ ।।
रक्षोघ्नं पापशमनं भूतवेतालनाशनम् ।।
यो जपेत्तत्सदैवास्तु मङ्गल्यं श्रीविवर्धनम् ।। २७ ।।
नारसिंहेषु लोकेषु मोदंते सहितो मया ।।
यावत्कल्पावशेषं तु ततो मान्त्वमुपेष्यसि ।। २८ ।।
एतावदुक्त्वा सहसा तु तेन तत्रैव देवप्रवरो महात्मा ।।
अपश्यतां यादववंशमुख्य जगाम शीघ्रं नरसिंहमूर्तिः ।। २९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गस्फोटननरसिंहदर्शनवर्णनो नाम चतुष्पञ्चाशदधिकत्रिशततमोऽध्यायः ।। ३५४ ।।
3.355
वज्र उवाच ।।
सात्त्वतेन स्तुतो येन स्तोत्रेण मधुसूदनः ।।
तन्मे स्तोत्रं समाचक्ष्व सर्वकल्मषनाशनम् ।। १ ।।
मार्कण्डेय उवाच ।।
शृणु स्तोत्रमिदं वज्र लिङ्गास्फोटमिति श्रुतम् ।।
सर्वपापप्रशमनं माङ्गल्यं श्रीविवर्धनम् ।। २ ।।
ॐ नमो भगवते वासुदेवाय नमो नरसिंहायादिदेवाय सर्वलोकपरमाय नारायणाय नित्यसन्निहितसंप्राप्यशक्तिबलवीर्यतेजोविभवाय महारजतपर्वतप्रकाशवपुषे बृहत्केसरसटाय शिवप्रदेशाभ्यु न्नतताम्ररुचितविस्फूर्जितप्रभाहेमवर्णाय प्रपन्नजनबाधापनयननिमित्तोत्पन्नभ्रुकुटिकुटिलललाटाय शतह्रदावर्तदीप्तविक्षिप्यमाणेषुगलाय ज्वलदनललोलपिङ्गवृत्तदीप्ताक्षाय स्फुटचिपिटधमनीसहपुरविभीषणप्राणवशाय स्फुरत्पूर्णोभयकपोलदेशपार्श्वाय वालचन्द्राकारोष्ठपुट विनिर्गतभ्राजमानातितीक्ष्णसितमहोग्रदंष्ट्रसर्वास्यावसमागमक्षोभाशनिसहस्रावपातांबुदव्रातगर्जितातिभीमनिनादाय मुहुमुहुर्व्याप्तभीमार्धवद नदेशदृश्यमानशुद्धिशिखरदशनपंक्तिताराविभास्वरसन्ध्यानुरञ्जितनभस्थलप्रकाशवपुषे तालुलोलजिह्वालताग्रस्थिरसमायुक्तचित्तभवांसकू-
टस्कन्दमध्यदेशसुप्रतिष्ठितपीनवृत्तचारुकम्बुग्रीवाय श्रीवत्सांकितालङ्कृतमहावक्षस्थलाय विविधरुचिरपरमसुगन्धिमुक्तकपुष्पग्रथितप्रलम्बमालाधराय मरुतादित्यप्रचारबलानुविजयोन्नताभ्युन्नतबाहुप्रकोष्ठकरतलकरजोग्रघोरप्रहरणाय हिरण्यकशिपुरुधिरपानसुतीक्ष्णवज्रायुधाय परम पीतकौशेयवस्त्रबद्धकक्ष्यापरिकराय वज्रसंहतोन्नतसुचिरसुश्लिष्टसन्धिकट्यूरुजानुमहापुरुषनरसिंहादिदेवाय स्थिरसायुंक्तेभक्तोचितप्रसृततन्वाकारगूढगुल्फसन्धिमहाबाहुवेगमहाजवाय चरणविक्रमप्रभावप्रकंप्यमानपृथिवीतलाय श्रीवृक्षशंखचक्रगदासनंद्यावर्तध्वजांकुशधरातपत्त्रादर्शक मत्स्यकूर्मवीचीयूपचन्द्रार्कवृषभाश्वगजरथपरमपुरुषपरममङ्गल्यरोमकूटच्छायाय तनुमहेन्द्रवसुरुद्रादित्यसाध्याश्विमरुद्गणसंस्तुताचिन्त्यार्चिताभिमु खप्रसन्नचरणाय भगवन्नमस्ते त्वमागच्छागच्छ भगवन्नात्मबलवीर्यतेजोगुणात्मविक्रमसांख्ययोगाध्यात्मपवित्रशौचधर्ममाहात्म्यान्विताविर्मावितोत्ति ष्ठ परमदेव सर्वगात्राण्यभिधुन्वन्सर्वपापान्यपमृज्य विप्रनाशाविष्टानां विप्रनाशाय विद्यानां परमपुरुष परममाङ्गल्य भक्तवत्सल भक्तानुग्रहायाभयंप्रदाय तद्ब्रह्मसत्यमनाद्यमनुत्तमं निःश्रेयसं तद्भगवानाचष्टां तद्भगवान्विदतां निरस्य पाप्मानं निरस्य कल्मषं शश्वच्छान्तिमुपनय श्रेय उपनय स्वस्तिमुपनय आशिषमुपनय ब्रह्म प्रपद्ये त्वां विष्णो भगवन्पुण्डरीकाक्ष ज्ञानैश्वर्यशक्तिबलतेजोगुणात्मक परमपुरुष परममङ्गल्य पद्मनाभ हयशिरः आदिवराह नरसिंह वामन त्रिविक्रम राम राम वासुदेव सङ्कर्षण प्रद्युम्नानिरुद्ध पुरुष सत्याश्रुत वासुदेव आदिमध्यनिधनकचेष्टित चेष्टात्ममायाहोरात्रयतिमाञ्जिष्ठशुक्लवासः सुपर्ण तालमकरध्वजपरमविद्याकर्मकालनाभ स्वस्त्यस्मभ्यं स्वस्ति प्रजाभ्यः ।।
त्वमेव मंत्रं त्वं रक्षा त्वमौषधमनुत्तमम् ।।
त्रिविधादपि दुःखान्मा प्रचोदय जगत्पते ।। १ ।।
ब्रह्मन्प्रपद्ये त्वां विष्णो शरणागतवत्सल ।।
तदा शुद्धो महामतिर्भवदुःखविनिर्गतः ।। २ ।।
इत्युक्तः स च राजेन्द्र ऋषिणा दिव्यचक्षुषा ।।
नमस्कृत्य ऋषेः पादौ सगणः सह राजभिः ।।
प्रदक्षिणमुपाकृत्य प्रविवेश पुरं स्वकम् ।। ३ ।।
ऋषयस्तेऽप्यनुज्ञाता मार्कण्डेयेन धीमता ।।
नमस्कृत्य हरिं देवं स्वाश्रमं जग्मिरे तदा ।। ४ ।।
राजापि वज्रो धर्मात्मा मार्कण्डेयेन भाषितम् ।।
पुराणं चिन्तयन्नित्यं नारायणपरायणः ।।
राज्यं च प्राशिषन्नित्यं प्रजा धर्मेण पालयन् ।। ५ ।।
इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीनरसिंहस्तोत्रवर्णनं नाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ।। ३५५ ।।
इति श्रीविष्णुधर्मोत्तरं समाप्तम् ।। ।।
समाप्तं चेदं विष्णुमहापुराणम ।।