विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१०

← अध्यायः ००९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१०
वेदव्यासः
अध्यायः ०११ →

वज्र उवाच ।।
निविष्टान्सागरे द्वीपे सप्ताहं कुलपर्वतान् ।।
नामतः श्रोतुमिच्छामि तत्प्रसूताश्च निम्नगाः ।। १ ।।
मार्कण्डेय उवाच ।।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।।
विन्ध्यश्च पारियात्रश्च सप्तास्मिन्कुलपर्वताः ।। २ ।।
त्रिसामा ऋषिकुल्याश्च इक्षुगा त्रिदिवालया ।।
लांगूलिनी वंशधरा नद्यस्त्वेता महेन्द्रजाः ।।३ ।।
कृतमाला ताम्रपर्णी पुष्पजा चोत्पलावती ।।
शीतोदका गिरिवहा नद्यो मलयसम्भवाः ।।४।।
तुङ्गभद्रा सुप्रकारा वाह्या कावेरिका तथा ।।
दक्षिणापथमध्यस्था सह्यपादविनिस्सृताः ।। ५ ।।
ऋषिका सुकुमारी च मन्दगा मन्दवासिनी ।।
नृपमाला शिरी चैव शुक्तिमत्पादनिस्सृताः ।। ६ ।।
मन्दाकिनी दशार्णा च शोणो देवी च नर्मदा ।।
तमसा पिप्पला चेति ऋक्षवत्पादनिःसृताः ।।७।।
वेणा वैतरणी चैव नर्मदा च कुमुद्वती ।।
तोया सेतुशिला चैव विन्ध्यपादविनिस्सृताः ।।८।।
पारा चर्मण्वती पादा विदिशा वेणुवत्यपि ।।
सिप्रा ह्यवन्ती कुन्ती च पारियात्रविनिःसृताः ।। ९।।
नद्यः प्रधानाः कथितास्तवैताः पुण्याः पवित्रा ऋषिसेविताश्च ।।
सन्तीह नद्यश्च सहस्रशोऽन्या वक्तुं न शक्या यदुवृन्दनाथ । ।। 1.10.१० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सप्तगिर्युद्भवनदीवर्णनो नाम दशमोऽध्यायः ।।१ ० ।।