विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१५

← अध्यायः ०१४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१५
वेदव्यासः
अध्यायः ०१६ →

।। मार्कण्डेय उवाच ।।
इक्ष्वाकोरभवत्पुत्रो विकुक्षिर्न्नाम धार्मिकः ।।
ककुत्स्थस्तनयस्तस्य चानेनास्तस्य चात्मजः ।।१।।
तस्य पुत्रः पृथुः श्रीमान् विश्वदासस्तदात्मजः ।।
तस्य श्रावस्तको नाम श्रावस्ती येन निर्मिता।।२।।
बृहदश्वः सुतस्तस्य कुवलाश्वस्तदात्मजः ।।
कुवलाश्वो महातेजा धुन्धुमारत्वमागतः ।।
धुंधुं हत्वा महाकायमुदके जलराक्षसम् ।। ३ ।।
वज्र उवाच ।।
कथं धुंधुर्महातेजाः कुवलाश्वेन घातितः ।।
कश्चायं धुंधुरित्येष विश्रुतो जलराक्षसः ।। ४।।
मार्कण्डेय उवाच ।।
एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ।। ५ ।।
नष्टचन्द्रार्कपवने विनष्टग्रहतारके ।।
शेषपर्यङ्कमासाद्य सुप्तो देवो जनार्दनः ।। ६ ।।
नाभौ तस्य समुत्पन्नं देवस्य कमलं शुभम् ।।
तत्र जज्ञे स्वयं ब्रह्मा देवः शुभचतुर्मुखः।।७।।
तत्रास्ते सोऽभ्यसन्वेदान्सुप्ते देवे जनार्दने ।।
उपासांचक्रिरे तस्य वेदा देहभृतस्तथा ।। ८ ।।
वेदाभ्यासरते तत्र स्वेदबिन्दुरजायत ।।
सपद्मपत्रमासाद्य द्विधाभूतोभवन्नृप ।। ९ ।।
रजस्तमोमयौ तस्माज्जातौ दैत्यौ बलोत्कटौ ।।
मधुकैटभनामानौ महाबलपराक्रमौ ।। 1.15.१० ।।
ततस्तौ जह्रतुर्वेदान्ब्रह्मणः पापनिश्चयौ ।।
सशरीरेषु वेदेषु हतेष्वथ पितामहः ।। ११।।
बोधयामास देवेशं पद्मनाभं स चानघः ।।
स विबुद्धस्तदा देवः कृत्वा हयशिरोधरम् ।। १२ ।।
शशाङ्कशतसंकाशं नानाभरणशोभितम् ।।
द्वितीयेन शरीरेण रसातलतलं गतः ।। १३।।
तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ।।
पितामहाय प्रददौ भूय एव जगद्गुरुः ।।१४।।
ततो हयशिरोधारी गतोन्तर्धानमीश्वरः ।।
आजग्मतुस्ततो देशं दानवौ मधुकैटभौ ।।१५।।
विष्णुश्चकार देहौ द्वौ विष्णुर्जिष्णु रिति स्मृतौ ।।
मधुना युयुधे जिष्णुर्विष्णुर्वै कैटभेन च ।। १६ ।।
ततस्तयोः सुयुद्धेन तुष्टो देवो जनार्दनः ।।
उवाच तौ महाकायौ दानवौ मधु कैटभौ ।। १७ ।।
वरं वरयतां श्रेष्ठं भवन्तावपराजितौ ।।
तावब्रूतां ततो देवं विष्णुं कमललोचनम् ।। १८ ।।
पुत्रोऽस्माकं भवेद्देव महाबलपराक्रमः ।।
पुत्रे जाते तु यौ तौ द्वौ विष्णुना जिष्णुना पुरा ।। १९ ।।
निहतौ च तदा वीरौ ह्युदकं च समाश्रितौ ।।
मेदो मुमुचतुस्तत्र व्याप्ता येनाभवन्मही ।। ।। 1.15.२० ।।
मेदिनीति ततः ख्याता लोकेऽस्मिंस्तत्त्वचिन्तकैः ।।
वराहरूपेण तदा चोद्धृता वसुधा ततः ।। २१ ।।
तेनैव देवदेवेन पूर्वस्थाने निवे शिता ।।
सर्गं चक्रे ततो ब्रह्मा देवदेवस्य शासनात् ।। २२ ।।
एवं तदा देववरस्य युद्धे निपातितौ तौ मधुकैटभाख्यौ ।।
देवस्य विष्णोः सदनं प्रयातौ क्षीरार्णवे तस्य समीपगौ च ।। २३।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मधुकैटभवधोपाख्यानं नाम पञ्चदशोऽध्यायः ।। १५ ।।