विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२१

← अध्यायः ०२० विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२१
वेदव्यासः
अध्यायः ०२२ →

वज्र उवाच ।।
गङ्गा विष्णुपदी लोके किमर्थं कथिता बुधैः ।।
तन्ममाचक्ष्व तत्त्वेन भृगुवंशविवर्धन! ।। १ ।।
मार्कण्डेय उवाच ।।
स्वायम्भुवेन्तरे पूर्वं चत्वारो देवतागणाः ।।
जयाख्याश्चाजिताख्याश्च शुक्राख्याश्च प्रकीर्तिताः ।। २ ।।
तेषां बभूव देवेन्द्रो विश्वभुग्लोकपूजितः ।।
आसंस्तस्या सुरा घोरास्तदा दायादबान्धवाः ।। ३ ।।
बभूव राजा तेषां च बाष्कलिर्न्नाम नामतः ।।
येन विक्रम्य शक्रस्य हृतं राज्यं तदा बलात् ।। ४ ।।
हृतराज्यस्तु देवेन्द्रो ब्रह्माणं शरणं गतः ।।
ब्रह्मापि शक्रमादाय जगाम शरणं हरिम् ।। ५ ।।
निवेदयामास तदा देवदेवाय शार्ङ्गिणे ।।
बाष्कलेर्विजयं सर्वं ब्रह्मा शुभचतुर्मुखः ।। ६ ।।
श्रीभगवानुवाच ।।
ब्रह्मन्प्रत्याहरिष्यामि राज्यमस्य शतक्रतोः।।
दिवि देवेषु धर्मात्मन्निवृत्तो भव मा चिरम् ।।७।।
अहं वामनरूपेण प्रयास्ये बाष्कलिं नृपम् ।।
मां दृष्ट्वा विस्मितं तन्तु गत्वा याचतु देवराट् ।। ८ ।।
लोकत्रयं मम हृतं त्वया विक्रम्य बाष्कले ।।
तत्राग्निशरणार्थाय दीयतां मे क्रमत्रयम् ।। ९ ।।
अतीव ह्रस्वगात्रस्य वामनस्यास्य मा चिरम् ।।
एवमुक्तस्तु शक्रेण तदा दाता क्रमत्रयम् ।। 1.21.१० ।।
मार्कण्डेय उवाच ।। ।।
इत्येवमुक्तो देवेन ब्रह्मा स्वभवनं गतः ।।
देवोऽपि वामनो भूत्वा प्रयातो यत्र बाष्कलिः ।। ११ ।।
बाष्कलिर्वामनं दृष्ट्वा विस्मयोत्फुल्ललोचनः ।।
निरीक्ष्य तं यथाकाममसुरैर्बहुभिर्वृतः ।। १२ ।।
एतस्मिन्नेव काले तु शक्रस्तं देशमाययौ ।।
पाद्यार्घ्याचमनीयाद्यैः शक्रं संपूज्य बाष्कलिः ।। १३ ।।
किमागमनकार्यं ते तमुवाच प्रहृष्टवाक् ।।
अत्याश्चर्यमिदं मन्ये तवागमन कारणम् ।। १४ ।।
शक्र उवाच ।।
लोकत्रयं मेऽपहृतं विक्रमेण तु बाष्कले! ।।
तत्राग्निशरणार्थाय दीयतां मे क्रमत्रयम् ।। १५ ।।
अतीव ह्रस्वगात्रस्य वामनस्यास्य पार्थिव ।।
भूमिभागे तु पारक्ये वस्तुं न त्वहमुत्सहे।।१६।।
बाष्कलिरुवाच ।।
क्रमत्रयं वामनके देवराज कृतं शुभम् ।।
तत्रास्स्वमुदितः प्राप्तः सुखी सुरपते भव ।। १७ ।।
मार्कण्डेय उवाच ।।
एवमुक्तो बाष्कलिना त्यक्त्वा रूपं तु वामनम् ।।१६।।
हरिर्विचक्रमे लोकान्देवानां हितकाम्यया ।।
ब्रह्मलोकं ततो गत्वा..... ।।
देवस्य वामश्चरणो निविष्टो दानवालये ।। १९ ।।
ततः क्रमं स प्रथमं ददौ सूर्य्ये जगत्पतिः ।।
द्वितीयं च ध्रुवे देवस्तृतीयेन च यादव । ।। 1.21.२० ।।
ब्रह्माण्डं ताडयामास ह्यसंपूर्णेन केशवः ।।
ब्रह्माण्डस्ताडितस्तेन छिद्रतामगमत्प्रभो ।।२१।।
ब्रह्माण्डबाह्यतोयेन शतघ्नेनाम्भसावृतम् ।।
तेनच्छिद्रेण तत्तोयं विवेशाण्डं महीपते ।। २२ ।।
अंगुष्ठाग्रक्षतादण्डाद्यत्प्रविष्टं जलं शुचि ।।
प्राप्ता देवनदीत्वं तु सा तु विष्णुपदी नदी ।। २३ ।।
देवनद्या तया व्याप्तं ब्रह्माण्डं सकलं नृप! ।।
विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया ।। २४ ।।
वामनेन समाक्रान्ताः सर्वे लोका यदानघ! ।।
असुरैस्ते तदा त्यक्ता देवानां सत्यबान्धवैः ।। २५ ।।
पातालश्च यदा तेन नाक्रान्तं हरिमेधसा ।।
असुरैस्तैस्तदा घोरैरुष्यते यदुनन्दन! ।। २६ ।।
देवोऽपि हृत्वा त्रैलोक्यं जगामादर्शनं तदा ।।
पातालनिलयश्चापि सुखमास्ते स बाष्कलिः ।। २७ ।।
शक्रोऽपि पालयामास विपश्चिद्भुवनं तदा ।।
इमं त्रिविक्रमं नाम प्रादुर्भावं जगद्गुरोः ।। २८ ।।
गङ्गासंभवसंयुक्तं सर्वकिल्विषनाशनम् ।। २९ ।।
तेनैव देवदेवेन प्राप्ते वैवस्वतेऽन्तरे ।।
भूयो लोकास्त्रयः क्रान्ताः पदा संयमिनो नृप ।। 1.21.३० ।।
अनेन कारणेनोक्ता गंगा विष्णुपदी नृप ।।
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।।३१।।
गंगासमुत्पत्तिरियं मयोक्ता श्रुत्वैव यां मुञ्चति सर्वपापम् ।।
पापैर्विशिष्टोऽपि नरो नृवीर साधुव्रतस्तु त्रिदिवं प्रयाति ।। ३२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रिविक्रमोपाख्यानं नामैकविंश तितमोऽध्यायः ।। २१ ।।