विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३०

← अध्यायः ०२९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३०
वेदव्यासः
अध्यायः ०३१ →

।। मार्कण्डेय उवाच ।।
स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ।।
चन्द्रमण्डलमानेन मानं यस्य च संस्कृतम् ।। १ ।।
यत्तत्प्रज्वलितं पिण्डं पिण्डितस्य विभावसोः ।।
देवदेवस्य यद्धाम वासुदेवस्य धीमतः ।। २ ।।
तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ।।
आगारं सर्वभूतानां जठरस्थं हुताशनम् ।। ३ ।।
पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ।।
आलोचकः पाचकश्च रोचको गञ्जकस्तथा ।। ४ ।।
भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ।।
यन्मयं देहिनां चक्षुर्यश्चक्षुर्दक्षिणस्तथा ।। ५ ।।
स वै देवातिदेवस्य वासुदेवस्य कीर्तितः ।।
अग्नौ प्रास्ताहुतिः सम्यङ्नित्यं यत्रोपतिष्ठते ।। ६ ।।
यस्य दत्तं सदा तेजः सर्वेषामेव तेजसा ।।
यस्मादम्बुधरोत्पत्तिर्यस्माद्वर्षणसम्भवः ।।७ ।।
यस्मात्प्रवर्तते सर्वं कालचक्रं तथैव च ।।
औषधीनां परः पाकः परं यस्मान्न विद्यते ।। ८ ।।
तन्मण्डलमथासाद्य कृत्वा रूपं तु तैजसम् ।।
विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा ।। ९।।
सोऽङ्गुष्ठमात्रं पुरुषं दृक्शक्तिमिव वेष्टितम् ।।
तैजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः ।। 1.30.१० ।।
रुद्र उवाच ।।
त्वां नमस्यामि देवेश तेजसां तु परं निधिम् ।।
आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः ।। ११ ।।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान्।।
अनन्तश्चाप्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा ।। १२ ।।
मया समर्पितं तेजः सकलं त्वयि भास्कर ।।
मत्तस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात् ।।१३।।
अहं विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ।।
अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर ।। १४ ।।
धामकार्यं हि क्रियते येनास्य जगतः सदा ।।
प्रजानां तु प्रसवनात्सवितेति निगद्यसे ।। १५ ।।
रसानाञ्च तथा दानाद्रविरित्यभिधीयसे ।।
आदित्यस्त्वं तथा दानान्मित्रस्त्वं मैत्रभावतः ।।१६ ।।
पुष्णासि सकलाँल्लोकांस्तेन पूषा निगद्यसे ।।
धारणाच्च तथा धाता यमनादर्यमा तथा ।। १७ ।।
अंशुस्त्वमंशुधारित्वाद्विसर्गाद्वरुणस्तथा ।।
भवः सौभाग्यवाच्यत्वात्त्वष्टा सर्वक्रियाकृतेः ।। १८ ।।
सर्वजन्तुसमत्वाच्च विवस्वानभिधीयते ।।
क्रमणाच्च तथा विष्णुरीशत्वादिन्द्र उच्यते ।। १९ ।।
तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचारितम् ।।
स्थावरैर्जंगमस्थैर्वा भूमिर्भाराभिपीडिता ।। 1.30.२० ।।
कदाचिजङ्गमैर्भूमिः सूर्यभारेणपीडिता ।।
कदाचित्स्थावरैरद्य भारद्वितयपीडिता ।। २१ ।।
अर्जुने नृपतौ वृद्धिः परा भास्कर शाखिनाम् ।।
दैत्याः क्षत्त्रियतां प्राप्य पीडयन्ति च मेदिनीम् ।। २२ ।।
सूर्य उवाच ।।
तव दर्शनकामेन प्रागेव न कृता मया ।।
स्थावरैर्जङ्गमैः सर्वां प्रकृतिस्थां वसुन्धराम् ।। २३ ।।
यथा पूर्वं तथाऽद्याहं करिष्यामि महेश्वर ।।
साम्प्रतं ब्राह्मणो भूत्वा चार्जुनेनेव पादपान् ।।२४।।
सर्वान्विनाशयिष्यामि शासनेन तथार्जुनम् ।।
वसिष्ठाद्योजयिष्यामि ततोंशेन वसुन्धराम्।।२५।।
भृगुवंशे करिष्यामि ततो निःक्षत्त्रियां प्रजाम् ।।
मार्कण्डेय उवाच ।।
इत्येवमुक्तस्त्रिपुरान्तकारी सूर्येण सद्रश्मिविराजितेन ।।
जगाम धाम स्वमसौ बिभेति यत्सर्वलोकाञ्जगतां प्रधानः ।। २६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आदित्यदर्शनं नाम त्रिंशत्तमोऽध्यायः ।। ३०।।