विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३३

← अध्यायः ०३२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३३
वेदव्यासः
अध्यायः ०३४ →

।। मार्कण्डेय उवाच ।। ।।
और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ।।
वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ।। १ ।।
तस्या परमया भक्त्या भर्ता तोषमुपागतः ।।
उवाच तां वरारोहामृचीको भृगुनन्दनः ।। २ ।।
।। ऋचीक उवाच ।। ।।
वरं वरय सुश्रोणि यत्ते मनसि वर्तते ।।
तोषितोऽहं त्वया भद्रे वने शुश्रूषया वद ।। ३ ।।
सत्यवत्युवाच ।।
मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम्।।
पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ।। ४ ।।
ऋचीक उवाच ।।
चरुद्वयं करिष्यामि मातुरर्थे तथा तव ।।
यस्य संप्राशनात्पुत्रं त्वं चैव जनयिष्यसि ।। ५ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ।।
एकस्मिन्सकलं क्षात्रं तेजश्चक्रे सवैष्णवम् ।। ६ ।।
श्वश्र्वर्थे तं चरुं कृत्वा द्वितीये स न्यवेशयत् ।।
ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवाञ्चरुम् ।।७।।
ऋचीक उवाच ।।
अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरुस्तव ।।
अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ।। ८।।।
तथैवौदुम्बरस्याऽपि त्वया राजीवलोचने ।। ९ ।।
मार्कण्डेय उवाच ।।
एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ।। 1.33.१० ।।
ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ।।
ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ।। ११ ।।
श्रेष्ठेन तेजसा युक्तश्चरुरेष कृतः शुभे ।।
तस्माच्चरुविपर्यासं मदर्थे कुरु मा चिरम्।।१२।।
अलिङ्गने विपर्यासं द्रुमयोः क्रियतां तथा ।।
सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ।।१३।।
सगर्भां स गते काले भर्ता वचनमब्रवीत् ।। १४ ।।
ऋचीक उवाच ।।
ध्रुवं चरुविपर्यासो द्रुमयोश्च त्वया कृतम् ।।
येन त्वमसितापाङ्गि युक्ता क्षत्रियतेजसा ।। १५ ।।
ब्राह्मेण तेजसा युक्तं कृतवानस्मि ते चरुम् ।।
मातुस्ते चारुसर्वांगि तथा क्षत्त्रियतेजसा ।। १६ ।।
कृतं चरुविपर्यासं सा विप्रं जनयिष्यति ।।
क्षत्रधर्मरतं पुत्रं विप्रं त्वं जनयिष्यसि ।।१७।।
सत्यवत्युवाच।। मातुर्मतात्कृतमिदं भगवन्क्षन्तुमर्हसि ।।
क्षत्रधर्मरतः पुत्रो न मे भवितुमर्हति ।। ।। १८ ।।
ऋचीक उवाच ।।
एवमस्तु न ते पुत्रः क्षत्रधर्मा भविष्यति ।।
पौत्रस्त्ववश्यं भविता भाव्यर्थविधिचोदितः ।। १९ ।।
सत्यवत्युवाच ।।
सर्वेश्वरत्वं भगवन्किमर्थं पौत्रस्य मे क्षत्रियभावमुग्रम्।।
निवर्तितुं नेच्छसि मातुलेन वदस्व तन्मे यदि ते न गुह्यम् ।। 1.33.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चरुविपर्यासो नाम त्रयस्त्रिंशत्तमोऽध्यायः ।। ३३ ।।