विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३७

← अध्यायः ०३६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३७
वेदव्यासः
अध्यायः ०३८ →

।। मार्कण्डेय उवाच ।। ।।
एतस्मिन्नेव काले तु काष्ठोदर्काः सुदारुणाः ।।
बभूवुः सुमहोत्पाताः सैंहिकेयनिवेशने ।। १ ।।
चचाल शब्दं कुर्वाणा मही सवनकानना ।।
पपात महती चोल्का मध्येनाऽऽदित्यमण्डलात् ।। २ ।।
अपर्वणि शशाङ्कार्कौ संछन्नौ तमसा तथा ।।
प्रवृष्टाश्च तथा रक्तं भूरि मेघा भयावहम् ।। ३ ।।
शस्त्राणि मुमुचुर्धूममसकृदश्रुवाहनाः ।।
इन्द्रचापसवर्णेन परिवेशेन भास्करः ।। ४ ।।
परिविष्ट उभे सन्ध्ये चन्द्रश्च सकलां निशम् ।।
सैंहिकेयो विपत्न्योपि साल्वस्य सुमहात्मनः ।। ५ ।।
आक्रम्यजन्मन क्षत्रं केतुस्तस्थौ महाग्रहः ।।
ववुस्तीक्ष्णा महावाताः क्षोभयन्तो दिशो दश ।। ६ ।।
भानुश्चाऽऽसीत्कबन्धाङ्गो मृगाश्चासन्नसस्वनाः ।।
न्यलीयन्त ध्वजाग्रेषु दानवानां दुरात्मनाम् ।।७।।
क्रव्यादपक्षिसंघाता ह्यपसव्यं भयानकाः ।।
शुष्केन्धनसमृद्धोऽपि न जज्वाल हुताशनः ।।८।।
वपूंषि दानवेन्द्राणां न प्राकाशंत यादव ।।
उष्णशीतविपर्यास ऋतूनामप्यदृश्यत ।। ९ ।।
प्रसुस्रवुर्द्रुमा रक्तं व्यशीर्यन्त च भूषणाः ।।
खरा गोषु व्यजायन्त मार्जारा मूषिकासु च ।। १० ।।
अकाले पुष्पिता वृक्षा अकाले फलिता द्रुमाः ।।
विना वर्षं महानद्यः प्रतीपं जग्मुरोजसा ।। ११ ।।
भयानकाञ्जातभयः सुघोरानुत्पातसंघान्प्रसमीक्ष्य राजा ।।
साल्वः समाहूय भृगोस्तस्तनूजं दैत्यैः समेतोऽथ चकार मन्त्रम् ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवाद औत्पातिकं नाम सप्तत्रिंशत्तमोऽध्यायः ।। ३७ ।।