विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७५

← अध्यायः ०७४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७५
वेदव्यासः
अध्यायः ०७६ →

वज्र उवाच ॥
मन्वन्तरे परिक्षीणे यादृशी द्विज
जायते ॥ समवस्था महाभाग तादृशीं वक्तुमर्हसि ॥ १ ॥।
मार्कण्डेय उवाच ॥
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ॥
महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः ॥ २ ॥
मनुश्च सह शक्रेण देवाश्च यदुनन्दन ॥
ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम् ॥ ३ ॥
ऋषयश्च तथा सप्त तत्र तिष्ठन्ति ते सदा ॥
अधिकारं विना सर्वे सदृशाः परमेष्ठिनः ॥ ४ ॥
भूतलं सकलं वज्र तोयरूपी महेश्वरः ॥
ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति ॥ ९ ॥
भूलोकमाश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः ॥ ६॥
महेन्द्रो मलयस्सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारियात्रश्च माल्यवान्गन्धमादनः ॥ ७ ॥।
हिमवान्हेमकूटश्च निषधो नील एव च ॥
श्वेतश्च शृङ्गवान्मेरुर्न विनश्यन्ति पर्वताः ॥ ८ ॥
शेषं विनश्यति जगत्स्थावरं जङ्गमं च यत् ॥
नौर्भूत्वा तु सती देवी तदा यदुकुलोद्वह ! ॥ ९ ॥
धारयत्यथ बीजानि सर्वाण्येवा विशेषतः ॥
भविष्यश्च मनुस्तस्यां भविष्या ऋषयस्तथा ॥ 1.75.१०॥
तिष्ठन्ति राजशार्दूल सप्त ये प्रथिता भुवि ॥
मत्स्यरूपधरो विष्णुः शृङ्गी भूत्वा जगत्पतिः ॥११॥
आकर्षति तु तां नावं स्थानात्स्थानं स लीलया ॥
कर्षमाणन्तु तां नावं देवदेवं जगत्पतिम्॥१२॥
स्तुवन्ति ऋषयः सर्वे दिव्यैः कर्मभिरच्युतम् ॥
घूर्णमानस्तदा मत्स्यो जलवेगोर्मिसंकुले ॥ १३ ॥
घूर्णमानां तु तां नावं नयत्यमितविक्रमः ॥
हिमाद्रिशिखरं नावं देवदेवो जगत्पतिः ॥ १४ ॥
मत्स्यस्त्वदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥ १९ ॥
कृततुल्यं तदा कालं तावत्प्रक्षालनं स्मृतम् ॥
आपस्साम्यमथो यान्ति यथापूर्वं नराधिप ॥
ऋषयश्च मनुश्चैव सर्वं कुर्वन्ति ते तदा ॥ १६ ॥
मन्वन्तरान्ते जगतामवस्था मयेरिता ते यदुवृन्दनाथ ।
अतः परं यत्तव कीर्तनीयं समासतस्तद्वद भूमिपाल॥१७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० मन्वन्तरवर्णनो नाम पञ्चसप्ततितमोऽध्यायः॥७५॥