विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८६

← अध्यायः ०८५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ८६
वेदव्यासः
अध्यायः ०८७ →

वज्र उवाच ।।
प्रतिदेशं महाभाग कथं प्राप्तमुपद्रवम् ।।
विज्ञायते द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।।
कृत्तिकां रोहिणीं सौम्यं मध्यदेशस्य निर्दिशेत् ।।
पीडिते त्रितयेऽतस्मिन्मध्यदेशः प्रपीड्यते ।। २ ।।
आर्द्रां पुनर्वसुं पुष्यं पूर्वदेशस्य निर्दिशेत् ।।
पीडिते त्रितये तस्मिन्पूर्वदेशः प्रपीड्यते ।। ३ ।।
आश्लेषां तु मघां पूर्वां चाग्नेय्यां दिशि निर्दिशेत् ।।
पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक् ।। ४ ।।
आर्यम्णमथ हस्तं च त्वाष्ट्रं स्याद्दिशि दक्षिणे ।।
पीडिते त्रितये तस्मिन्पीड्यते दक्षिणा च दिक् ।। ५ ।।
स्वातिं विशाखां मैत्रं च नैर्ऋत्यां दिशि निर्दिशेत् ।
पीडिते त्रितये तस्मिन्पीड्यते नैर्ऋती च दिक् ।। ६ ।।
वायव्यां दिशि निर्दिष्टा वैश्ववैष्णववासवाः ।
पीडिते त्रितये तस्मिन्वायवी पीड्यते च दिक् ।। ७ ।।
वारुणं चाजदैवत्यं चाहिर्बुध्न्यं तथोत्तरे ।।
पीडिते त्रितये तस्मिन्नुत्तरा दिक्प्रपीड्यते ।। ८ ।।
रेवती चाश्विनी याम्यमैशानी दिक् प्रपीडिता ।।
पीडिते त्रितये तस्मिन्नीशानी दिक् प्रपीड्यते ।। ९ ।।
आदित्यो भृगुजो भौमो राहुस्सौरो निशाकरः ।।
बुधो बृहस्पतिश्चैव प्राच्यादीशाः प्रकीर्तिताः ।। ।। 1.86.१० ।।
विध्वस्तवपुषस्ते च ग्रहयुद्धे पराजिताः ।।
नीचाः पितृगृहस्थाश्च स्वां दिशं पीडयन्ति ते ।। ११ ।।
वज्र उवाच ।।
स्वदेशपीडनं कुर्यान्नक्षत्रः पीडितः कथम् ।।
सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ।। १२ ।।
मार्कण्डेय उवाच ।।
शनैश्चरार्कौ चारेण वक्रेणाङ्गारको ग्रहः ।।
उपरागेण राहुश्च केतुश्चाधूमनोदयैः ।। १३ ।।
उदयास्तमयाभ्यां च जीवशुक्रशशाङ्कजाः ।।
संच्छादनेन च शशी ह्यगस्त्यश्चैव योगतः ।। १४ ।।।
तथा यस्मिँश्च नक्षत्रे दिव्यपार्थिवनाभसाः ।।
दृश्यन्ते तु महोत्पाताः स्वां दिशं संप्रपीडयेत् ।। १५ ।।
देशेषु सर्वेषु मयेरितं ते शुभाशुभं यादव मुख्यनाथ ।।
अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन् ।।१६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० प्रतिदेशपीडावर्णनं नाम षडशीतमोऽध्यायः ।।८६ ।।