विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९०

← अध्यायः ०८९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९०
वेदव्यासः
अध्यायः ०९१ →

।। वज्र उवाच ।।
ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां तथैव च ।।
पूजाविधिमहं त्वत्तः श्रोतुमिच्छामि तत्त्वतः ।। १ ।।
मार्कण्डेय उवाच ।।
ग्रहं वाप्यथ नक्षत्रं यं पूजयितुमिच्छति । ।
उपस्पृश्य शुचिर्भूत्वा कृत्वा तस्याथ मण्डलम्।।२।।
मण्डले कल्पितं वापि स्वयं दैवविदा नृप ।।
पूज्यस्नानेन विधिवत्स्नातः प्रयतमानसः ।। ३ ।।
विधिनोपसमादाय प्रयतो जातवेदसम् ।।
अथ वोपसमादाने कृते तत्र पुरोधसा ।। ४ ।।
प्राक्तन्त्रे च कृते तत्र चक्षुष्पत्रे यथाविधि ।।
मण्डलात्पश्चिमे भागे प्राङ्मुखः प्रयतश्शुचिः ।। ५ ।।
मण्डलस्य तु शौचार्थं पञ्चगव्यं प्रकल्पयेत् ।।
अभ्युक्ष्य पञ्चगव्येन मण्डलं प्रयतः शुचिः ।। ६ । ।
अर्घ्यादिकल्पनां कुर्यात्पाद्यान्तां तदनन्तरम् ।।
जीवादानं ततः कुर्याज्जीवस्यावाहनं ततः ।। ७ ।।
पूज्यस्यावाहनं कुर्यात्ततोऽर्घ्यं विनिवेदयेत् ।।
पाद्यं निवेदयेत्पश्चादासनं च निवेदयेत् ।। ८ ।।
दत्त्वैवाचमनीयं च मधुपर्कं निवेदयेत् ।।
ततोऽनुलेपनं दद्यात्ततो दद्याद्विभूषणम् । । ९ ।।
ततो यज्ञोपवीतं च ततः प्रतिसराञ्शुभान् ।।
वस्त्रं तथा पताकां च पुष्पं धूपं तथैव च ।। 1.90.१० ।।
दीपं च दत्त्वा नैवेद्यं मुखवासं च पार्थिव ।।
ततोऽग्निहवनं कुर्याद्यस्य यस्य यथा भवेत् ।। ११ ।।
कृत्वैवोत्तरतन्त्रं च दत्त्वा पूर्णाहुतिं ततः ।।
तदुक्तां दक्षिणां दत्त्वा मण्डले प्रतिपादयेत् ।। १२ ।।
होतुर्वस्त्रयुगं देयं गौस्सुवर्णं तथैव च ।।
ग्राह्यं कालविदा तच्च यद्दत्तं ग्रहमण्डले ।। १३ ।।
यथाशक्ति च दातव्या ब्राह्मणानां च दक्षिणा ।।
विसर्जनं ततः कार्यं ततो ब्राह्मणभोजनम् ।। ।। १४ । ।
भुक्तवत्सु च विप्रेषु प्रमार्ष्टिर्मण्डले भवेत् । ।
अर्घ्यपुष्पादिकं सर्वं जले प्रक्षिप्य पार्थिव ।। १५ ।।
अम्बुना तर्पणं कार्यं पूजा स्यात्तदनन्तरम्।। १६ ।।
पूजाविधिस्ते गदितो मयाद्य समासतः पार्थिवसंघमुख्य । ।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वाखिलराजसिंह ।। ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं ० ग्रहर्क्षपूजाविधिवर्णनं नाम नवतितमोऽध्यायः । । ९ ० ।।