विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १११

← अध्यायः ११० विष्णुधर्मोत्तरपुराणम्
अध्यायः १११
वेदव्यासः
अध्यायः ११२ →

।। वज्र उवाच ।। ।।
महादेवेन ऋषयः शप्ताः स्वायंभुवेऽन्तरे ।।
तेषां वैवस्वते प्राप्ते संभवं मम कीर्तय ।। १ ।।
दाक्षायणी च तथा प्र कीर्तय मे विभो ।।
ऋषीणां च तथा वंशं भृगुवंश विवर्धन ।। २ ।।
मार्कण्डेय उवाच ।।
मन्वन्तरेऽस्मिन्संप्राप्ते राजन्वैवस्वते पुरा ।।
अश्वमेधे तु वितते ब्रह्मणः परमेष्ठिनः ।। ३ ।।
महादेवस्य शापेन त्यक्त्वा देहान्स्वयं ततः ।।
ऋषयस्तु समुद्भूता द्रुते शुक्रे प्रजेप्सया ।। ४ ।।
देवानां मातरो दृष्ट्वा देवपत्नीस्तथैव च ।।
स्कन्नं शुक्रं महाराज ब्रह्मणः परमेष्ठिनः ।। ५ ।।
तज्जुहाव ततो ब्रह्मा ततो जातो हुताशनात् ।।
ततो जातो महातेजा भृगुः स तपसां निधिः ।। ६ ।।
अङ्गारेस्वंगिरा जातस्सभार्योऽत्रिस्तथैव च ।।
मरीचिभ्यो मरीचिश्च ततो जातो महातपाः ।।७।।
वसुमध्यात्समुत्पन्नो वसिष्ठश्च महातपाः ।।
भृगुः पुलोम्नश्च सुतां दिव्यां भार्यामविन्दत ।। ८ ।।
यस्यां तस्य सुता जाता देवा द्वादश याज्ञिकाः ।।
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा ।।९।।
क्रतुः सुवश्च पूगश्च व्याजश्च व्यश्नुजश्च ह ।।
प्रसवश्चाव्ययश्चैव दक्षो द्वादशमस्तथा ।। 1.111.१० ।।
इत्येते भृगवो नाम देवा द्वादश कीर्तिताः ।।
पौलोम्यजनयद्विप्र देवानां तु कनीयसम् ।। ११ ।।
च्यवनं तु महाभागमात्मवन्तं तथाप्यसौ ।।
आत्मवानात्मजस्त्वौर्वो जमदग्निस्तदात्मजः ।। १२ ।।
और्वो गोत्रकरस्तस्य भार्गवानां महात्मनाम् ।।
तत्र गोत्रकरान्वक्ष्ये भृगोर्दीप्तोजसस्त्वहम् ।। १३ ।।
भृगुश्च च्यवनश्चैव आत्मवांस्तु तथैव च ।।
और्वश्च जमदग्निश्च वात्स्यो दंभिर्नडायनः ।। १४ ।।
नागायनो वहेतिश्च पेलुश्चेरानुशातिकः ।।
शौनकायनजीवन्तिः कौयोधः पार्षतिस्तथा ।। १५ ।।
वैहीनरिर्विरूपाक्षो रोहिण्यायनिरेव च ।।
वैश्वानरिरुपारीरुर्वशावणिर्वृकास्वकः ।। १६ ।।
विष्णुः पौरेयवालाकितौलिकेनान्तभागिनः ।।
मृत भागेयमर्कण्डजिहितोदीधिनस्तथा ।। १७ ।।
मण्डूमाण्डव्यमण्डूकस्फेनसाङ्कृतिनस्तथा ।।
स्थालिपिण्डिः शिलापत्तिः शार्कराक्षिस्तथैव च ।।१८।।
सृकायणो देवमतिः षाण्ढरायिः सिगालवः ।।
सकृत्वश्चातकिः कायिर्याज्ञो दार्भिस्त्रिलायनिः ।। १९ ।।
गार्ग्यायणो ह्वायनश्च ऋषिर्गेहायन स्तथा ।।
गोष्ठ्यायनो वाह्यायनो वैशम्पायन एव च ।। 1.111.२० ।।
वैकर्णेयिः शार्ङ्गरवो याज्ञेयिर्भ्राष्टकायनः ।।
ललाटिर्लकुटिश्चैव लाक्ष्म्यायाः परिमण्डलः ।। २१ ।।
ऊलुम्बिः शैलुकिः कोष्टिस्तथान्यः पैप्पलायनिः ।।
सत्यायनिर्मालयनिः कोटालिः कौचहस्तिकः ।। २२ ।।
शोक्रिः शौक्लिः स कौचाक्षिः कौसिश्चान्द्रमसिस्तथा ।।
जैकहिह्मिर्जिह्वशून्यवापयलेढिकवैरिणः ।। २३ ।।
शारद्वतिकरे नित्यौ लोष्ठाक्षिश्चल वैरिणः ।।
नागायनिश्चानुमतिः पौर्णभागधिकाशिकृत् ।। २४ ।।
समाख्यातास्तथैतेषां पञ्च तु प्रवरा मताः ।।
भृगुश्च च्यवनश्चैव आत्मवानस्तथैव च ।।२५।।
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। २६ ।।
वाज्यावाज्यो न वैवाह्या ज्ञेयास्त्रिप्रवरास्तु ते ।।
भृगुश्च जमदग्निश्च तथैवोर्वश्च पार्थिव ।। २७ ।।
अतः परं प्रवक्ष्यामि शृणु चान्यान्भृगूद्वहान् ।।
जमदग्निर्विदश्चैव पौलस्त्यो वैजभृत्तथा ।। २८ ।।
प्राचीनयोग्यो भगवानृषिः क्रौञ्चायनस्तथा।।
ऋषिभयश्चाजातश्च एकायनवटायनौ ।। २९ ।।
आत्रेयोऽभिमतश्चैषां सर्वेषां प्रवरः स्मृतः ।।
भृगुश्च च्यवनश्चैव ह्यात्मवानस्तथैव च ।। 1.111.३० ।।
परम्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
ऋग्वेदीया मार्गपथे ग्रामायणिरथायनिः ।। ३१ ।।
आपस्तम्बिस्तथा ताल्विर्नेकठिः कण्ठिरेव च ।।
आर्ष्टिषेणो गार्दभिश्च कार्द्दमायणिरेव च ।।३२ ।।
अश्वायनिरथान्नापि पंचार्षेयाः प्रकीर्तिताः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। ३३।
योविराधो वीतहव्यो नासाथश्चण्डमो दमः ।।
जीवंत्यायनिमौद्गश्च विलिश्चैव खलिस्तथा ।। ३४ ।।
भाविलिर्भागवित्तिश्च कौशाम्बेयिर्वृकाश्चकिः ।।
वालेयिः समदा गेयिर्गौरक्षितिरथैव च ।। ३५ ।।
गौर्गजिश्च सवंशालस्तथा पौष्णायनो मुनिः ।।
रोमादश्च तथैतेषामार्षेयाः प्रवरा मताः ।। ३६ ।।
भृगुश्च वीतहव्यश्च तथा चैव सदेवसः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।३७।।
खालायनिः शाकटाख्यो मैत्रेयः सातयस्तथा ।।
द्रोणायनो नौक्मायन आशिषिश्च पिकायनिः ।। ३८ ।।
होमजिह्विस्तथैतेषामार्षेयाः प्रवरा मताः ।।
भृगुश्चैवाथ वध्न्यश्वो दिवोदासस्तथैव च ।।३९।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
सकायनो यज्ञपचिर्मध्यगन्धिस्तथैव च ।। 1.111.४० ।।
प्रत्यूहश्च तथा श्रौभ्यक्षोक्षिर्वैकादशायनिः ।।
तथा गृत्समदो राजञ्शुनकश्च महानृषिः ।। ४१ ।।
प्रवरस्तु यथोक्तानां द्व्यार्षेयाः परिकीर्तिताः ।।
भृगुर्गृत्समदश्चैव द्वावेतौ परिकीर्तितौ ।।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ।।४२ ।।
एते तवोक्ता भृगुवंश जाता महानुभावा नृप गोत्रकाराः ।।
येषां च नाम्नां परिकीर्तनेन पापं समग्रं विजहाति जन्तुः ।। ४३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भृगुवंशानुकीर्तनं नामैकादशोत्तरशततमोऽध्यायः ।। १११ ।।