विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११३

← अध्यायः ११२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११३
वेदव्यासः
अध्यायः ११४ →

मार्कण्डेय उवाच ।।
अत्रिवंशसमुत्पन्नान्गोत्रकारान्निबोध मे ।।
कर्पूरायणशाखेयास्तथा शाराहणाश्च ये ।।
शैवालकी शौनवर्णिरघोसौद्रुतयश्च ये ।। १ ।।
गौरग्रीवः सकारञ्जिरथ मैत्रायणाश्च ये ।।
आत्मयन्या वामरथ्या गौपनास्ताकिबिन्दवः ।।२।।
ह्वानजिद्बाहुरिन्द्रोविरैन्द्रालिः शाकटायनः ।।
तैलेयश्चैव बौलेयश्चात्रिगौणी मतिस्तथा ।। ३ ।।
जलदो भगपादश्च सोपुष्पिश्च महातपाः ।।
छान्दोगेयस्तथैतेषामार्षेयः प्रवरो मतः ।।४।।
ध्याराश्वाश्च तथात्रिश्च ऋचनानस एव च ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।।५।।
दक्षिर्बलिः पालकृच्च और्णनाभिः सिलिर्मिलिः ।।
बीजवापी शिरीषश्च मौंजकेशगविष्ठिरौ।।६।।
बलन्धनस्त्तथैतेषां त्र्यार्षेयः प्रवरो मतः ।।
अत्रिर्गविष्ठिरश्चैव तथा पूर्वातिथिः स्मृताः।।७
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
आत्रेयान्पुत्रिकापुत्रानत ऊर्ध्वं निबोध मे ।।८।।
हालेयश्च सवालेयो वाममथ्यस्तथैव च ।।
गोत्रेयश्चैव गोत्रेयाः त्र्यार्षेयाः परिकीर्तिताः ।। ९ ।।
अत्रिश्च वामरथ्यश्च पोत्रिश्चैव महानृषिः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। 1.113.१० ।।
इत्यत्रिवंशप्रभवास्तवोक्ता महानुभावा नृप गोत्रकाराः ।।
येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अत्रिवंशानुकीर्तनं नाम त्रयोदशाऽधिकशततमोऽध्यायः ।। ११३ ।।