विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११६

← अध्यायः ११५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११६
वेदव्यासः
अध्यायः ११७ →

।। मार्कण्डेय उवाच ।।
वसिष्ठवंशजान्विप्रान्निबोध गदतो मम ।।
एकार्षेयश्च प्रवरो वसिष्ठानां प्रकीर्तिताः ।। १ ।।
वसिष्ठ एव वासिष्ठा अविवाह्या वसिष्ठजैः ।।
व्याघ्रपादा औपगवाः वैक्लवा शाद्वलायनाः ।। २ ।।
कापिष्ठला क्षैटलोमा आश्वलाः सर्वटाकराः ।।
गोपायना बोधयश्च द्वाकल्पा अपवाह्यकृत् ।। ३ ।।
बालिशेया पालिशिष्यास्तथोमाङ्कुरवश्च ये ।।
आयस्थूणाः शीतवृक्षास्तथा ब्रह्मपुरोहिताः ।। ४ ।।
लोमात्याः स्वस्तिकराः माण्डलिर्गौतलिस्तथा ।।
वाह्नेहण्डिश्च सुमना श्वपादिर्विद्धिरेव च ।। ।। ५ ।।
शौलिर्लोलिर्ब्रह्मबलो वैलिश्रवस एव च ।।
मौण्डवो याज्ञवल्क्यश्च एकार्षेयास्तथा नृप ।। ६ ।।
वसिष्ठ एषां प्रवर अवैवाह्याः परस्परम्।।
शैलालयो महाकर्णो कौरव्यः क्रैवणिस्तथा ।।७।।
कपिञ्जलो बालशिखिर्भागवित्तायनाश्च ये ।।
कौरायणा लाकहया कौलकृद्भागुरायणाः ।। ८ ।।
शाकहव्याः कशापेया अथो उल्वपयाश्च ये ।।
साङ्ख्यायना अनडुहा अथो माषशिराधयः ।। ९ ।।
दामकायना वाहयवो वाक्ययोगोरथस्तथा ।।
आबायनाश्च ऋषयो ये च क्रोडादनायवाः ।। 1.116.१० ।।
प्रलम्बायनाश्च ऋषय औपमन्यव एव च ।।
साङ्ख्यायनाश्च ऋषयस्तथा ये च दशेरकाः ।।।। ११ ।।
पादकायन औद्ग्राहा ऋषयश्चैव लेखयः ।।
मालेया ब्रह्मवलयः पूर्णागांरिस्तथैव च ।। १२ ।।
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरस्तथा।।
भगो वसुर्वसिष्ठश्च इन्द्रः सम्मतिरेव च ।। १३ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
औपस्वस्थाः स्वस्थलयो वालो हालो हयाश्च ये ।। ।। १४ ।।
मध्यन्दिना अक्षतयः पैप्पला देविचङ्कपी ।।
त्रैशृङ्गा वनगा आलवाः कुण्डिनाश्च नरोत्तम ।। १९ ।।
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ।।
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ।। १६ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
जातूकर्णा यवश्चैव पादपाश्च तथैव च ।। १७ ।।
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरस्तथा ।।
जातूकर्णो वसिष्ठश्च तथैवान्त्यश्च पार्थिव ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १८ ।।
वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रबर्हा नृप गोत्रकाराः ।।
येषान्तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ।।१९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वसिष्ठवंशानुकीर्तनं नाम षोडशाधिकशततमोऽध्यायः।।११६ ।।