विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३४

← अध्यायः १३३ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३४
वेदव्यासः
अध्यायः १३५ →

मार्कण्डेय उवाच ।।
प्रासादेषु विचित्रेषु तथा मणिगृहेषु च ।।
पुष्पवेश्मसु रम्येषु तथा वस्त्रगृहेषु च ।। १ ।।
रत्नवेश्मसु मुख्येषु तथा चित्रगृहेषु च ।।
पर्वतानां च दुर्गेषु नदीनां पुलिनेषु च ।। २ ।।
पद्मिनीषु च फुल्लासु तथा चोत्पलिनीषु च ।।
शय्यासु च परार्ध्यासु पुष्पशय्यासु चाप्यथ।। ३।।
रमयामास तां देवीं तथा विरचितेषु च ।।
गृहेषु बहुरत्नेषु धूपोद्गारिषु पार्थिव ।।४।।
रेमे स तु तया सार्धं मानसेषु पुनःपुनः ।।
रमयँस्तां वरारोहां न तृप्यति स नित्यशः ।। ५ ।।
निशासु च सचन्द्रासु चन्द्रकान्ततरं मुखम् ।।
पपौ तस्या यथाकामं नरेन्द्रः स नराधिप।।६।।
निशासु नष्टचन्द्रासु तन्मुखो द्योतितप्रभे ।।
देशे तां रमयामास राजा राजीवलोचनः।।७।।
वर्षयन्ती नरेन्द्रस्य सा तु कामं दिनेदिने ।।
अदृष्टपूर्वेव शुभा भवत्यायतलोचना ।।८।।
राज्ञो दृढं सा दयिता तस्याश्च द्विगुणो नृपः ।।
तयाऽसौ प्रीयते राजा तेन सापि वराङ्गना ।। ९ ।।
वरचन्दनदिग्धाङ्गौ नानाभरणभूषितौ ।।
रेमाते दम्पती हृष्टौ नानारत्नावभूषितौ ।। 1.134.१० ।।
अलङ्करोति तां राजा स्वयमेव कदाचन ।।
तयाऽलंक्रियमाणश्च प्रीतिमाप्नोत्यनुत्तमाम् ।। ११ ।।
वरेषु तौ विचित्रेषु रेमाते मुदितौ भृशम् ।।
केशान्संशोभयन्तौ तौ कुसुमैस्तु परस्परम् ।। १२ ।।
उर्वश्यभ्युदितं पुष्पं तथा च ग्रथितं पुनः ।।
धारयामास शिरसा प्रेम्णा पार्थिवसत्तमः।। १३।।
पत्रच्छेदेन याँश्चक्रे तिलकान्स नराधिपः ।।
ताँश्च सा धारयामास ललाटे चारुहासिनी ।। १४।।
एवं संक्रीडतो राज्ञस्तया सह सुमध्यया ।।
बभूवुस्तनयाः पञ्च नामतस्तान्निबोध मे ।। १५ ।।
आयुर्ज्येष्ठस्ततो धीमाँस्ततश्चान्यस्त्वनामयः ।।
अयुतायुश्चतुर्थोऽभूच्छतायुश्चैव पञ्चमः ।। १६ ।।
एवं तस्याः प्रसूता वै याति काले मनोहरे ।। १७ ।।
गन्धर्वमुख्यास्तु तदा समेता तया विहीना भृशमुत्सुकास्तु ।।
तदागमायाथ सुरेन्द्रलोके यत्र तदा चक्रुरदीनसत्त्वाः ।। १८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे उर्वशीसम्भोगवर्णनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३४ ।।