विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४०
← अध्यायः १३९ | विष्णुधर्मोत्तरपुराणम् अध्यायः १४० वेदव्यासः |
अध्यायः १४१ → |
वज्र उवाच ।।
भगवञ्छ्रोतुमिच्छामि कथ्यमानमहं त्वया ।।
विधिं श्राद्धस्य धर्मज्ञ तन्ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।।
वक्ष्यमाणगुणान्विप्रान्पूर्वेद्युरुपमन्त्रयेत् ।।
कर्त्रा समेतैस्तैर्भाव्यं संयतैश्च निमन्त्रितैः ।। २ ।।
श्राद्धाहे प्रयतः स्नातः स्वाचान्तः सुसमाहितः ।।
शुक्लवासाः समभ्यर्च्य नृवराहं जनार्दनम् ।। ३ ।।
आमश्राद्धेषु काम्येषु हुत्वा प्रथमपञ्चकम् ।।
(मध्यमं पञ्चकं हुत्वा पशुश्राद्धेष्वसंशयम् ।। ४ ।।
अमावस्यासु सर्वासु हुत्वा चोत्तमपञ्चकम् ।।)
हुत्वा च पञ्चकानेतानष्टकात्रितयं क्रमात् ।। ५ ।।
अन्वष्टकासु च तथा भोजयेत्प्रयतो द्विजान् ।।
द्वौ दिव्ये प्राक्त्रयः पित्रे चैकैकमुभयत्र वा ।। ६ ।।
उदङ्मुखाँश्च पित्रर्थे स्नातान्विद्याद्गुण क्रमात् ।।
तिलदर्भावकीर्णेषु चासनेषूपवेशयेत् ।। ७ ।।
पितॄनावाहयामीति स्वयमुक्त्वा समाहितः ।।
आवाहयस्वेति ततो द्विजैरुक्तोऽथ तन्मनाः ।। ८ ।।
अपयान्त्वसुरा द्वाभ्यां यातुधानविसर्जनम् ।।
तिलैः कुर्यात्प्रयत्नेन त्वथवा गौरसर्षपैः ।। ९ ।।
एते पितर इत्येव सर्वांस्तानग्न आवह ।।
आग्नेयन्तु तथोदीर्य एतद्वः पितरस्तथा ।। 1.140.१० ।।
कुशाँस्तिलावमिश्रेण तथा गन्धयुतेन च ।।
यास्तिष्ठन्ति धारयन्ति अमृतावागिति त्र्यृचा ।। ११ ।।
यन्मे मातेति च तथा पाद्यमर्घ्यञ्च कारयेत् ।।
निवेद्य विप्रेषु तथा पाद्यार्थं प्रयतः क्रमात् ।। १२ ।।
गन्धैर्वस्त्रैश्च पुष्पैश्च धूपैश्चाप्यथ भूषणैः ।।
अर्चयेद्ब्राह्मणाञ्छक्त्या श्रद्दधानः समाहितः ।। १३ ।।
आदौ समर्चयेद्विप्रान्वैश्वदेवनिवेशितान् ।।
निवेशिताँश्च पित्रर्थे ततः पश्चात्समर्चयेत् ।। १४ ।।
वैश्वदेवनिविष्टानां चरमं हस्तधावनम् ।।
विसर्जनं च निर्दिष्टं तेषु रक्षा यतः स्थिता ।। १५ ।।
सर्वमन्यत्प्रदातव्यमादौ तेषां नराधिप ।।
संपूज्य गन्धपुष्पैश्च ब्राह्मणान्प्रयतस्तदा ।। १६ ।।
आदित्या वसवो रुद्रा द्विजान्वीक्ष्य ततो जपेत् ।।
अग्नौ च करवाणीति तैरुक्तं च कुरुष्विति ।। १७ ।।
परिस्तीर्य ततो वह्निमग्निमुद्धृत्य सर्वतः ।।
आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः ।। १८ ।।
अनाहिताग्निश्चौपसदे अग्न्यभावे तथाप्सु वा ।।
सोमायादौ पितृमते कव्यवाहनाय चाग्नये ।। १९ ।।
यमाय चैवाङ्गिरसे हुत्वा प्रयतमानसः ।।
ये मामकाश्च पितर एतद्वः पितरस्तथा ।। 1.140.२० ।।
अयं यज्ञस्तथैवेति एषा वो गीतिरप्यथ ।।
प्रयतस्तन्मनाः कृत्वा राजँश्चैवाभिमन्त्रणम् ।। २१ ।।
आमा सुपक्वेति ततो घृतं वाप्यथवा पयः ।।
निषिच्य रौप्यपात्रेषु रजताक्तेषु भावतः ।। २२ ।।
यथोपपन्नेष्वथवा तूष्णीमन्नं निवेदयेत् ।।
नमो विश्वेभ्य इति च सतिलेनोदकेन च ।। २३ ।।
प्राङ्मुखेषु च यद्दत्तं तदन्नमुपमन्त्रयेत् ।।
उदङ्मुखेषु यद्दत्तं नामगोत्रप्रकीर्तनैः ।। २४ ।।
मन्त्रयेत्प्रयतः प्राज्ञः स्वधान्तैः सुसमाहितः ।।
यन्मे प्रकामाहोरात्रैर्यद्वा क्रव्यात्तथैव च ।। २५ ।।
इतिहासपुराणानि धर्मशास्त्राणि चाप्यथ ।।
सप्तर्चं परमं मन्त्रं श्रावयेदग्रतो द्विजान् ।। २६ ।।
दक्षिणाग्रांस्ततो दर्भांल्लूनांश्चैवोपमूलतः ।।
मन्त्रितान्ब्रह्ममन्त्रेण विकिरेत्सुसमाहितः ।। २७ ।।
पिण्डनिर्वपणं कुर्यात्तेषु दर्भेष्वसंशयम् ।।
मध्वाज्यतिलमिश्रेण चान्ने नाग्र्येण यादव ।। २८ ।।
पितृपिण्डे भवेन्मन्त्रः पृथिवी दर्विरक्षिता ।।
पैतामहे भवेन्मन्त्रस्त्वन्तरिक्षेति पार्थिव ।। २९ ।।
प्रपितामहके मन्त्रं द्यौर्दर्विरिति कीर्तयेत् ।।
ये तत्र पितरः प्रेता मन्त्रेणानेन धर्मवित् ।। 1.140.३० ।।
सूत्रं निवेदयेद्भक्त्या क्षीरान्नं च निवेदयेत् ।।
ऊर्जं वहन्तीति ततः सान्नं दद्यादथोदकम् ।। ३१ ।।
अपसव्येन पिण्डेषु श्रद्धया परया युतः ।।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्भक्ष्यैश्च भोजनैः ।। ३२ ।।
पानैः समर्चयेत्पिण्डान्सादरः प्रयतः सदा ।।
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ।। ३३ ।।
अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ।।
भुक्तवत्स्वथ विप्रेषु विधिं मे गदतः शृणु ।। ३४ ।।
अन्नं सतृणमभ्युक्ष्य मामेक्षिष्ठेति यत्नतः ।।
उदङ्मुखानां विप्राणां पुरतः सोदकं ततः ।। ३५ ।।।
अन्नन्तु विकिरेद्भक्त्या पितृभागस्तु सः स्मृतः ।।
प्रष्टव्या ब्राह्मणा भक्त्या भूनिविष्टेन जानुना ।। ३६ ।।
तृप्ता भवन्तः संपन्नो भवतां कश्चिदेव तु ।।
तृप्ताः स्मेति च तैरुक्तः संपन्नमिति चाप्यथ ।। ३७ ।।
दद्यादाचमनं भक्त्या श्रद्दधानः समाहितः ।।
यन्मे रामश्च शक्रश्च इति कृत्वा प्रदक्षिणाम।।३८।।
प्रत्येकं तर्पयेद्विद्वान्दक्षिणाभिः स्वशक्तितः ।।
भवन्तोऽभिरमन्विति वाच्या विप्रास्त्वनन्तरम् ।। ३९ ।।
तैरुक्तोऽभिरताः स्मेति द्विजानां पुरतः स्थितः ।।
देवाश्च पितरश्चेति जपेन्मन्त्रमतन्द्रितः ।। 1.140.४० ।।
पितॄणां नामगोत्रेण जलं देयमनन्तरम् ।।
ब्राह्मणानां द्विजैर्वाच्यं चाक्षयं मनुजेश्वर ।। ४१ ।।
ततस्तु प्रार्थना कार्या मन्त्रेणानेन भूमिप ।।
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोस्विति ।।
वाजेवाजेति तूत्थाप्य कृत्वा चैषां प्रदक्षिणाम् ।। ४३ ।।
जानुभ्यामवनिं गत्वा प्रणिपत्य, विसर्जयेत् ।।
अपसव्येन कर्तव्यं पितृकार्यं नराधिप ।। ४४ ।।
ब्राह्मणैर्नैव वक्तव्या यदि पृष्टा हविर्गुणाः ।।
यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः ।।।४५।।।
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः।।
उच्छिष्टमार्जनं यावन्न कृतं नृपसत्तम ।।४६।।
तावदश्नन्ति पितरः स्वधा रसविमिश्रितम् ।।
हस्तदत्तानि लेह्यानि लवणं व्यञ्जनानि च।।४७।।
दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते च किल्बिषम् ।।
सौवर्णराजताभ्यान्तु फल्गुपात्रेण चाप्यथ ।। ४८ ।।
दत्तमक्षयता याति खड्गेनोदुम्बरेण वा ।।
मांसं नाश्नाति यः पङ्क्त्यां यथावद्विनियोजितम्।।४९।।
स प्रेत्य नरकं याति नात्र कार्या विचारणा ।। 1.140.५० ।।
श्राद्धे दाता च भोक्ता च मैथुनं यदि गच्छतः ।।
तन्मांसं पितरस्तस्य भुञ्जते रेतसा युतम् ।।
एवं श्राद्धं तथा कार्यं शूद्रेणापि नराधिप ।। ५१ ।।
मन्त्रवर्ज्यं हि शूद्रस्य सर्वमेतद्विधीयते ।।
वज्र उवाच ।।
यस्य जीवेत्पिता श्राद्धं कस्यासौ कर्तुमर्हति ।। ५२ ।।
त्वमेव संशयच्छेत्ता संशयं छिन्धि मे द्विज ।।
मार्कण्डेय उवाच ।।
येषां श्राद्धं पिता कुर्यात्तेषामेव स कारयेत् ।।
मन्त्रहीनं प्रकर्तव्यं तेन श्राद्धं यथा विधि ।।५३।।
मातामहानां श्राद्धं तु मन्त्रहीनं च कारयेत् ।।
श्राद्धं च सुहृदां कुर्यात्स्त्रीणां चाक्षयवाचकम् ।। ५४ ।।
वज्र उवाच ।।
पिता पितामहश्चैव जीवेतां यस्य देहिनः ।।
तेन श्राद्धं कथं कार्यं तन्ममाचक्ष्व पृच्छतः ।।५५।।
मार्कण्डेय उवाच।।
येषां पितामहः कुर्यात्तेषां श्राद्धं नराधिप ।।
तेन कार्यं महाप्राज्ञ यथावदनुपूर्वशः ।। ५६ ।।
वज्र उवाच ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।।
यस्य जीवन्ति कर्तव्यं तेन श्राद्धं कथं द्विज ।। ५७ ।।
मार्कण्डेय उवाच ।।
तेन श्राद्धं न कर्तव्यं विधिलोपं तु यादव ।।
पूजनीयाश्च पितरः पितामहपितुः स्वयम् ।। ५८ ।।
वज्र उवाच ।।
जीवेत्पितामहो यस्य पितुश्चैव पितामहः ।।
पिता प्रेतस्तथा यस्य तस्य श्राद्धविधिं वद ।। ५९ ।।
मार्कण्डेय उवाच ।।
पिण्डनिर्वपणं कृत्वा स पितुर्मनुजेश्वर ।।
पितुः पितामहादूर्ध्वं द्वाभ्यां पिण्डं निवेदयेत् ।।1.140.६० ।।
वज्र उवाच ।।
पिता पितामहौ प्रेतौ यस्य स्यातां द्विजोत्तम ।।
पितुः पितामहो जीवेत्तस्य श्राद्धविधिं वद ।।६१।।
मार्कण्डेय उवाच ।।
पित्रे सपित्रे कृत्वा तु पिण्डनिर्वपणं ततः ।।
पिण्डनिर्वपणं कुर्यात्पितामहपितामहे।।६२।।
वज्र उवाच ।।
प्रेतः पिता भवेद्यस्य पितुश्चैव पितामहः ।।
तेन कार्यं कथं श्राद्धं तन्ममाचक्ष्व पृच्छतः।।६३।।
मार्कण्डेय उवाच।।
स तु दत्त्वा पितुः पिण्डं ततः ऊर्ध्वं पितामहात् ।।
द्वाभ्यां दद्यात्सदा पिण्डं त्वेवमाहुर्मनीषिणः ।। ६४ ।।
वज्र उवाच ।।
प्रेतः पितामहो यस्य पिता जीवेद्द्विजोत्तम ।।
पितुः पितामहो जीवेत्तस्य श्राद्धविधिं वद ।। ६५ ।।
मार्कण्डेय उवाच ।।
दत्त्वा पितामहे पिण्डं स तूर्ध्वं प्रपितामहात् ।।
पिण्डनिर्वपणं कुर्याद्द्वाभ्यान्नित्यमतन्द्रितः।।६६।।
वज्र उवाच।।
सप्तार्चिषमहं मन्त्रं श्रोतुमिच्छामि भार्गव ।।
श्राद्धकालेपु नियतं रक्षोघ्नं यस्य कीर्तितम्।।६७।।
मार्कण्डेय उवाच ।।
पापापहं पावनीयमश्वमेधसमं तथा ।।
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ।। ६८ ।।
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।।
नमः स्वधायै स्वाहायै नित्यमेव भवत्विह ।।६९।।
आद्येवसाने श्राद्धस्य त्रिवारं तु जपेत्सदा ।।
अश्वमेधफलं ह्यतेद्द्विजैः सत्कृति पूजितम् ।।1.140.७०।।
पिण्डनिर्वपणे चापि जपेदेतत्समाहितः ।।
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ।।७१।।
पितॄँश्च त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ।।
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ।।७२।।
राज्यकामो जपेदेतत्सदा मन्त्रमतन्द्रितः ।।
वीर्यसर्वार्थशौर्यादिश्र्यायुर्बुद्धिविवर्धनम् ।। ।।७३।।
प्रीयन्ते पितरोनेन जपेन नियमेन च ।।
सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम्।।७४।।
अमूर्तानां समूर्तानां पितॄणां दीप्ततेजसाम्।।
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ।। ७५ ।।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ।।७६ ।।
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।।
तान्नमस्कृत्य सवार्न्वै पितॄनप्स्वर्णवेषु च ।। ७७ ।।
नक्षत्राणां ग्रहाणां च वाय्वग्निपितरस्तथा ।।
द्यावापृथिव्योश्च तथा नमस्ये तान्कृताञ्जलिः ।। ७८ ।।।।
देवर्षीणां च नेतारः सर्वलोकनमस्कृतान् ।।
त्रातारः सर्वभूतानां नमस्ये तान्पितामहान् ।। ७९ ।।
प्रजापतेर्गवां वह्नेः सोमाय च यमाय च ।।
योगेश्वरेभ्यश्च तथा नमस्ये तान्कृताञ्जलिः ।।1.140.८०।।
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।।
स्वयम्भुवे नमस्कृत्य ब्रह्मणे लोकचक्षुषे ।।८१।।
एतत्तदुक्तं सप्तार्चिर्ब्रह्मर्षिगणपूजितम्।।
पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम्।। ८२ ।।
एतेन विधिना युक्तः त्रीण्येव लभते नरः ।।
अन्नमायुः सुताँश्चैव वदन्ति पितरो भुवि ।। ८३ ।।
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ।।
सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ।।
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् भवेत्।।८४।।
वज्र उवाच।।
ब्रह्मन्मन्त्रं समाचक्ष्व सर्वरक्षोनिबर्हणम्।।
पिण्डनिर्वपणे येन मन्त्रणीयाः कुशोत्तमाः ।। ८५ ।।
मार्कण्डेय उवाच ।।
निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वे सुरदानवा मया ।।
ये राक्षसा यक्षपिशाचगुह्यका हता मया यातुधानाश्च सर्वे ।। ८६ ।।
एतेन मन्त्रेण सुसंयतात्मा तिलान्किरेद्दिक्षु तथा विदिक्षु।।
यस्मिन्देशे पठते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ।। ८७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्राद्धविवरणो नाम चत्वा रिंशदुत्तरशततमोऽध्यायः ।। १४० ।।