विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १५०

← अध्यायः १४९ विष्णुधर्मोत्तरपुराणम्
अध्यायः १५०
वेदव्यासः
अध्यायः १५१ →

मार्कण्डेय उवाच ।।
आलोकयन्नदीं पुण्यां तत्समीरहतक्लमः ।।
स गच्छन्नेव ददृशे हिमवन्तं महागिरिम् ।। १ ।।
खमुल्लिखद्भिर्बहुभिर्वृतं शृङ्गैः सुपाण्डुरैः।।
पक्षिणामथ संचारैर्विना सिद्धगतिं शुभाम् ।।२ ।।
नदीप्रपातसंजातमहाशब्दैः समन्ततः ।।
असंश्रुतान्यशब्दन्तं शीततोयं मनोरमम् ।। ३ ।।
देवदारुवनैर्नीलैः कृताधोवसनं शुभम् ।।
मेघोत्तरीयं तं शैलं ददृशे स नराधिपः ।। ४ ।।
श्वेनमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् ।।
हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविचित्रितम् ।। ५ ।।
चन्दनेनानुलिप्ताङ्गदत्तपञ्चाङ्गुलिं यथा ।।
शीतप्रदं निदाघेऽपि शिलाविषमसंकटम् ।। ६ ।।
सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित् ।।
क्वचिदस्पृष्टसूर्यांशुं क्वचिच्च तमसा वृतम् ।। ७ ।।
दरीमुखैः क्वचिद्भीमैः पिबन्तमनिलं बहु ।।
क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम् ।। ८ ।।
उपगीतं तथा मुख्यैः किन्नराणां गणैः क्वचित् ।।
आपानभूमौ च गणैर्गन्धर्वाप्सरसां क्वचित् ।। ९ ।।
गीतादिभिः समाकीर्णं गन्धर्वीणां मनोहरम् ।।
निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः ।। 1.150.१० ।।
क्वचिच्च कुसुमैर्युक्तं चात्यन्तरुचिरैः शुभम् ।।
तपस्विशरणं शैलं कामिनामपि दुर्लभम् ।। ११ ।।
मृगयूथानुचरितं दन्तिभिन्नमहाद्रुमम् ।।
यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् ।। १२ ।।
श्रुत्वोत्पश्यति विभ्रान्तं गजानामाकुलं कुलम् ।।
तपश्च तापसैर्यस्य कूलदेशेष्वलंकृतम् ।। १३ ।।
रत्नैर्यतः समुत्पन्नैस्त्रैलोक्यं चाप्यलंकृतम् ।।
अहीनशरणं नित्यमहीनजनसेवितम् ।। १४ ।।
अहीनः पश्यति गिरिमहीनं रत्नसम्पदम् ।।
अल्पेन तपसा यत्र सिद्धिः प्राप्येत तापसैः ।। १५ ।।
यश्च दर्शनमात्रेण सर्वकल्मषनाशनः ।।
महाप्रपातसंपातप्रभीतखगबन्धुभि. । १६ ।।
वायुनीत सदावृष्टिः कृतदेशं क्वचित्क्वचित् ।।
अलब्धजलदैः शृङ्गैः क्वचिच्चातिसमुच्छ्रितैः ।। १७ ।।
नित्यार्कतापविषमैरगम्यैर्मनसा युतम् ।।
देवदारु महावृक्षपुञ्जशाखानिरन्तरैः ।। १८ ।।
समस्तभुवनाकारैः प्रदेशैरुपशोभितम् ।।
हिमच्छन्नमहाशृंगं प्रपातमितनिर्झरम् ।।
शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम् ।। १९ ।।
दृष्ट्वैव तां चारुनितम्बभूमिं महानुभावः स महीन्द्रनाथः ।।
बभ्राम तत्रैव मुदा समेतः स्थानं ततः किञ्चिदथा ससाद ।। 1.150.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिमवद्वर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ।। १५० ।।