विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६१

← अध्यायः १६० विष्णुधर्मोत्तरपुराणम्
अध्यायः १६१
वेदव्यासः
अध्यायः १६२ →

वज्र उवाच ।।
उपवासासमर्थानां शुक्लपक्षे द्विजोत्तम ।।
एका या द्वादशी पुण्या तां वदस्व ममानघ ।।१।।
मार्कण्डेय उवाच ।।
मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता।।
महती द्वादशी ज्ञेया उपवासे महाफला ।। २ ।।
सङ्गमे सरितोः पुण्ये द्वादशीं तामुपोषितः ।।
अयत्नादेवमाप्नोति द्वादशद्वादशीफलम् ।। ३ ।।
बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् ।।
अत्यन्तमहती यस्यां सर्वं कृतमथाक्षयम् ।। ४ ।।
द्वादशी श्रवणोपेता यदा भवति पार्थिव ।।।
सङ्गमे तु तदा स्नात्वा सत्तीर्थस्नानजं फलम् ।।५।।
सोपवासः समाप्नोति नात्र कार्या विचारणा ।।
वारिधानीं तदा दत्त्वा जलपूर्णां द्विजातये ।।६।।
छन्नां वस्त्रयुतां राजञ्छत्रोपानहसंयुताम् ।।
स्वर्गलोकमवाप्नोति कुलमुद्धरति स्वकम् ।। ७ ।।
स्वर्गं समासाद्य चिरं च भोगान्भुक्त्वा महेन्द्रोपम देवतुल्यान् ।।
मानुष्यमासाद्य भवत्यरोगो धनान्वितो धर्मपरो मनस्वी ।।८।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रावणाद्वादशीप्रशंसावर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः ।।१६१।।