विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६५

← अध्यायः १६४ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६५
वेदव्यासः
अध्यायः १६६ →

।। वज्र उवाच ।।
होतव्ये विष्णुदैवत्ये सावित्री मे त्वयोदिता ।।
होमकर्मणि सन्देहो महान्मे भृगुनन्दन ।। १ ।।
सविता दैवतं तस्याः सावित्रीत्युच्यते ततः ।।
तया कथं तु कर्तव्यं होमकर्म च वैष्णवम् ।। २ ।।
प्रभावमार्षेश्च तथा तस्यास्त्वं मम कीर्तय ।।
वेदमाता तु सा प्रोक्ता सर्वपापप्रणाशिनी ।।३।।
मार्कण्डेय उवाच ।।
रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ।।
तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ।। ४ ।।
अंगुष्ठमात्रः पुरुषः पूर्वमेव मयेरितः ।।
शङ्करेण तदा दृष्टः प्रभवः सर्वतेजसाम् ।। ५ ।।
स विष्णुर्भुवनाधारो यस्येदं सकलं जगत् ।।
वरेण्यं तच्च सवितुर्भर्गवाच्यं तु योगिनाम् ।।६।।
येयं परं तदुद्दिष्टं बहिरन्तश्च यादव ।।
धीशब्दवाच्यं ब्रह्माणं प्रचोदयति यः सदा ।। ७ ।।
सृष्ट्यर्थं भगवान्विष्णुः सविता स प्रकीर्तितः ।।
सर्वलोकप्रसवनात्सविता स तु कीर्त्यते ।। ८ ।।
यतस्तद्देवदेवत्या सावित्रीत्युच्यते ततः ।।
गानाद्वा त्रायते यस्माद्गायत्री वा तदा स्मृता ।। ९ ।।
एतस्मात्कारणाद्राजन्सावित्री कीर्तिता मया ।।
तव धर्मभृतां श्रेष्ठ नित्यं वैष्णवकर्मसु ।। 1.165.१० ।।
सव्याहृतीकप्रणवां गायत्रीं शिरसा सह ।।
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ।। ११ ।।
दशकृत्वा प्रजप्ता सा रात्र्यह्ना यत्कृतं लघु ।।
तत्पापं प्रणुदत्याशु नात्र कार्या विचारणा ।। १२ ।।
शतं जप्ता तु सा देवी पापोपशमना स्मृता ।।
सहस्रजप्ता सा देवी चोपपातकनाशिनी ।। १३ ।।
लक्षजापेन च तथा महापातकनाशिनी ।। १३ ।।
कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ।। १४ ।।
विद्याधरत्वं यक्षत्वं गन्धर्वत्वमथापि वा ।।
देवत्वमथवा राज्यं भूर्लोके हतकण्टकम् ।। १५ ।।
कोटिसाहस्रजाप्येन निष्कामः पुरुषोत्तम ।।
विधिना राजशार्दूल प्राप्नोति परमं पदम् ।। १६ ।।
यथा कथञ्चिज्जप्तैषा देवी परमपावनी ।।
सर्वकामप्रदा प्रोक्ता विधिना किम्पुनर्नृप ।। १७ ।।।
।। वज्र उवाच ।।
विधिना केन जप्तव्या गायत्री पापनाशिनी ।।
महापवित्रा परमा सर्वकल्याणकारिता। ।। १८ ।।
मार्कण्डेय उवाच ।।
कुशशय्यां निविष्टस्तु कुशपाणि जितेन्द्रियः ।।
अर्कमध्यगतं ध्यायेत्पुरुषं तं महाद्युतिम् ।। १९ ।।
अथवार्कं महीपाल बहिः स्नातस्त्वतन्द्रितः ।।
अनन्यचित्तो मेधावी पूर्वाह्ने तु विशेषतः ।। 1.165.२० ।।
भैक्ष्ययावकशाकाशी पयोमूलाशनोऽथवा ।।
फलपुष्पाशनो वापि नक्तं वापि हविष्यभुक् ।। २१ ।।
अनेन विधिना जप्यं यः करोति महीपते ।।
स याति परमं स्थानं वायुभूतः खमूर्तिमान् ।। २२ ।।
अकामः कामकामस्तु काममाप्नोत्यभीप्सितम् ।।
सव्याहृतीकप्रणवाः प्राणायामास्तु षोडश ।। २३ ।।
अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ।।
सव्याहृतीकप्रणवां गायत्रीं शिरसा सह ।। २४ ।।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।।
प्राणायामत्रयं कार्यं कल्यमुत्थाय वै द्विजः ।। २५ ।।
अहोरात्रकृतात्पापात्तक्षणादेव मुच्यते ।।
सर्वदोषहरं प्रोक्तं प्राणायामं द्विजन्मनाम् ।। २६ ।।
ततस्त्वभ्यधिकं नास्ति राजन्परमपावनम् ।।
प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना ।। २७ ।।
यः कुर्यादम्भसां पानं प्राणायामं तु तत्समम् ।।
निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम् ।। २८ ।।
त्रिभिः शरीरं सकलं प्राणायामैश्च शुध्यति ।।
आकेशाग्रान्नखाग्राच्च तपस्तप्येत्स उत्तमम् ।। २९ ।।
आत्मानं शोधयेद्यस्तु प्राणायामैः पुनःपुनः ।।
श्रावण्यां पौर्णमास्यां तु सोपवासो जितेन्द्रियः ।। 1.165.३० ।।
प्राणायामशतं कृत्वा मुच्यते सर्वकिल्बिषैः ।।
अन्तर्जले त्रिरावर्त्य गायत्रीं प्रयतो जपन् ।। ३१ ।।
मुच्यते पातकैः सर्वैर्यदि न ब्रह्महा भवेत् ।।
नास्ति सत्यात्परो धर्मो नास्ति कृष्णसमा गतिः ।। ३२ ।।
गायत्र्याश्च परं नास्ति दिवि चेह च पावनम् ।।
हुता च वरदा देवी सर्वकामफलप्रदा ।। ३३ ।।
गायत्र्याः सुतिलैर्होमः सर्वपापप्रणाशनः ।।
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च ।। ३४ ।।
कर्मणां सिद्धिकामस्तु कुर्यात्सिद्धार्थकैर्नरः।।
ब्रह्मवर्चसकामस्तु पयसा स समाचरेत् ।। ३५ ।।
पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ।।
क्षीरवृक्षसमिद्भिश्च ग्रहपीडाप्रशान्तये ।। ३६ ।।
धनकामस्तथा बिल्वैः श्रीकामः कमलैस्तथा ।।
आरोग्यकामः क्षीराक्तैः कुर्याद्दूर्वाङ्कुरैः शुभैः ।। ३७ ।।
देशोपसर्गे संप्राप्ते तदेव च विधीयते ।।
गुग्गुलोर्गुलिकाभिस्तु कृत्वा होममतन्द्रितः ।। ३८ ।।
सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ।।
पायसेन तथा हुत्वा विद्यां समधिगच्छति ।।
येनयेन तु कामेन लक्षहोमं समाचरेत् ।। ३९ ।।
तदेव काममाप्नोति नात्र कार्या विचारणा ।।
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ।। 1.165.४० ।।
अन्तर्जलेन वा जप्त्वा स्नातो नित्यमतन्द्रितः ।।
प्राणायामांस्ततः कृत्वा विधिनैव स षोडश ।। ४१ ।।
पूर्वाह्णे जुहुयाद्वह्नौ सुसमिद्धे यथाविधि ।।
भैक्ष्ययावकशाकाशी फलमूलाशनोऽथवा ।। ।। ४२ ।।
क्षीरसक्तूघृताहारी भवेदथ विचक्षणः ।।
आहाराणां यथोक्तानामेकाहारं समाश्रयेत् ।। ४३ ।।
यावत्समाप्तिर्भवति लक्षहोमस्य पार्थिव ।।
लक्षहोमावसाने तु ब्राह्मणानां तु दक्षिणा ।। ४४ ।।
देया भवति राजेन्द्र गावो वस्त्राणि काञ्चनम् ।।
सर्वोत्पातसमुत्पत्तौ ब्राह्मणैरनुपूजितैः ।। ४५।।
पञ्चभिर्दशभिर्वापि लक्षहोमं समाचरेत् ।।
असङ्कीर्णैस्तथा हारैर्नृपतिस्तत्प्रशान्तये ।। ४६ ।।
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ।।
मङ्गलं परमं नास्ति यत्तस्मादतिरिच्यते ।। ४७ ।।
कोटिहोमं तु यो राजा कारयेत्पूर्ववद्द्विजैः ।।
न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ।। ४८ ।।
न तस्य मरणं देशे न व्याधिर्जायते तथा ।।
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शकाः ।। ४९ ।।
राक्षसाश्च प्रशाम्यन्ति सर्वास्तत्र तथेतयः ।।
रसवन्ति च तोयानि सस्यानि स्वादुवन्ति च ।। 1.165.५० ।।
जायन्ते तस्य देशे तु धर्मिष्ठश्च जनो भवेत् ।।
कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतीन्नृप ।। ५१ ।।
शतं वाथ सहस्रं वा य इच्छेद्भूतिमात्मनः ।।
कोटिहोमं स्वयं यस्तु कुर्याद्ब्राह्मणसत्तमः ।। ५२ ।।
क्षत्रियो वाथवा वैश्यस्तस्य पुण्यफलं महत् ।।
यद्यदिच्छति कामानां तत्तदाप्नोत्यसंशयम् ।। ५३ ।।
सशरीरोऽपि चेद्गन्तुं दिवमिच्छेत्तदाप्नुयात् ।।
सावित्री परमा देवी सावित्री पावनी परम् ।। ५४ ।।
सर्वकामप्रदा देवी सावित्री कथिता तथा ।।
अभिचारेषु तां देवीं विपरीतां प्रयोजयेत् ।।५५ ।।
कार्या व्याहृतयश्चात्र विपरीताक्षरास्तथा ।।
विपरीताक्षरं कार्यं शिरश्च मनुजेश्वर ।। ५६ ।।
आदौ शिरः प्रयोक्तव्यं प्रणवान्ते च यादव ।।
स्वाहास्थाने च फट्कारं साध्यनामसमन्वितम् ।। ५७ ।।
गायत्रीं चिन्तयेत्तत्र दीप्तानलसमप्रभाम् ।।
घातयन्ती च शूलेन केशेष्वाकृष्य वैरिणम् ।। ५८ ।।
निर्दहन्तीं च तं क्रोधाद्भ्रुकुटीभीषणाननाम् ।।
उच्चाटने च तां देवीं वायुभूतां विचिन्तयेत् ।। ५९ ।।
वहमानां तथा साध्यं तस्माद्देशात्सुदूरतः ।।
अभिचारे च होतव्या राजिका विषमिश्रिताः ।।1.165.६० ।।
स्वरक्तमिश्रं होतव्यं कटुतैलमथापि वा ।।
तत्रापि च विषं देयं होमकाले च यत्नतः।।६१ ।।
मध्ये जह्याद्यदि क्रोधं ध्रुवं नश्येत्स एव तु ।।
अनागसि न कर्तव्यमभिचारमतो बुधैः ।।
अल्पागसि न कर्तव्यमभिचारं तथैव तु ।। ६२ ।।
महापराधं बलिनं देवब्राह्मणकण्टकम् ।।
अभिचारेण यो हन्यान्न स दोषेण लिप्यते ।। ६३ ।।
धर्मप्रधाने तु नरे अल्पागसि तथैव च ।।
अभिचारं न कुर्वीत बहूपायं विचक्षणः ।। ६४ ।।
बहूनां कण्टकं यं तु पापात्मानं सुदुर्मतिम् ।।
हन्यात्प्राप्तापराधं तु तस्य पुण्यफलं लभेत् ।। ६५ ।।
ये भक्ताः पुण्डरीकाक्षं देवदेवं जनार्दनम् ।।
न तानभिचरेज्जातु तत्र तद्विफलं भवेत् ।। ६६ ।।
न हि केशवभक्तानामभिचारेण कर्हिचित् ।।
विनाशमभिपद्येत तस्मात्तत्र समाचरेत् ।। ६७ ।।
सेयं धात्री विधात्री च सावित्र्यघविनाशिनी ।।
प्राणायामेन जप्येत तथैवान्तर्जलेन च ।। ६८ ।।
सव्याहृतीकप्रणवा जप्तव्या शिरसा सह ।।
प्रणवेन तथाऽभ्यस्ता वाच्या व्याहृतयः पृथक् ।। ६९ ।।
दैवतं सविता त्वस्या गायत्रं छन्द एव च ।।
विश्वामित्र ऋषिश्चैव प्रोच्यते वसुधाधिप ।। 1.165.७० ।।
कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्द्रियाणि च ।।
पञ्चेन्द्रियार्थान्महतां भूतानां चैव पञ्चकम् ।। ७१ ।।
मनो बुद्धिस्तथैवात्मा अव्यक्तं च यदूत्तम ।।
चतुर्विंशत्यथैतानि गायत्र्या अक्षराणि तु ।। ७२ ।।
प्रणवं पुरुषं विद्धि सर्वगं पञ्चविंशकम् ।।
सप्तलोकानि यानीह महाव्याहृतयस्तथा ।। ७३ ।।
शिरसश्च तथा वाच्यः पुरुषः परमेश्वरः ।।
एवंविधा सा सावित्री जप्तव्या सततं बुधैः ।। ७४ ।।
होतव्या च तथा शक्त्या सर्वकामसमृद्धिदा ।।
गायत्रीमात्रशरणो वरं विप्रः सुयन्त्रितः ।। ७५ ।।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ।।
गायत्रीं जपते यस्तु कल्यमुत्थाय वै द्विजः ।। ७६ ।।
लिप्यते न स पापेभ्यः पद्मपत्रमिवाम्भसा ।।
कामकामो लभेत्कामं गतिकामस्तु सद्गतिम् ।।
अकामस्तदवाप्नोति यद्विष्णोः परमं पदम् ।। ७७ ।।
एवं प्रभावा वरदा पवित्रा गायत्र्यथोक्ता तव राजसिंह ।।
जपन्ति ये तां परमं प्रयान्ति स्थानं परस्याऽप्रतिमस्य पुंसः ।। ७८ ।।
इति श्रीविष्णु धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गायत्रीमाहात्म्यवर्णनं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ।। १६५ ।।