विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः १८१-१८५

← अध्यायाः १७६-१८० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १८१-१८५
वेदव्यासः
अध्यायाः १८६-१९० →

1.181
।। शाम्बरायण्युवाच ।।
चाक्षुषस्य मनोः पुत्रान्षष्ठस्य शृणु वासव ।।
ऊरुः पूरुः शतद्युम्नः तपस्वी सत्यवान्धृतिः ।। १ ।।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्च तथानघ ।।
हविष्मानुन्नतः श्रीमान्सुधामा विजयस्तथा ।। २ ।।
अभिमानः सहिष्णुश्च मधुश्रीर्ऋषयः स्मृताः ।।
आढ्याः प्रसूता भाव्याश्च लेखाश्च पृथुकास्तथा ।। ३ ।।
अष्टकाश्च गणाः पञ्च तदा प्रोक्ता दिवौकसाम् ।।
तेषां मनोजवो नाम बभूवेन्द्रः प्रतापवान् ।। ४ ।।
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ।।
येषां बभूव नृपतिर्महामालो बलाधिकः ।। ५ ।।
स कदाचिद्वनं यातो मृगयां पापनिश्चयः ।।
तत्र चन्द्रांशुसंकाशं ददर्शाश्वं मनोहरम् ।। ६ ।।
तमारुरोह दुर्बुद्धिर्मृगाघातचिकीर्षया ।।
तमारूढं समादाय तदा वेगात्तुरङ्गमः ।। ७ ।।
गत्वा पारे समुद्रस्य चिक्षेपोपरि दुर्मतिम् ।।
क्षिप्तमात्रः स दुर्बुद्धिः पवनेनापवाहितः ।। ८ ।।
अनासादिततोयश्च पवनेन स तृह्यते ।।
अद्यापि सुमहातेजा लोकालोकस्य बाह्यतः ।। ९ ।।
अमृत्युवरदानेन स तु पापः स्वयम्भुवः ।।
वायुमार्गं समाश्रित्य न तु प्राणैर्वियुज्यते ।। 1.181.१० ।।
एवं स घोरो वरदानदर्पादमृत्युरस्तीति कृतापराधः ।।
देवद्विजानां हयरूपधारी चिक्षेप विष्णुः पवनप्रवाहे ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे पष्ठचाक्षुषमन्वन्तरवर्णनन्नामैकाशीत्यधिकशततमोऽध्यायः ।। १८१ ।।
1.182
।। शाम्बरायण्युवाच ।।
अथान्यस्य भविष्यस्य मनोवैर्वस्वतस्य च ।।
सप्तमस्य प्रवक्ष्यामि तव पुत्रान्यशस्विनः।।१।।
इक्ष्वाकुरथ नाभागो विष्णुः शर्यातिरेव च ।।
अवृध्यतुस्तथा प्रांशुर्महात्मा दिष्ट एव च ।। २ ।।
करूषश्च पृथुध्रश्च सुद्युम्नश्च मनोः सुताः ।।
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः ।। ३ ।।
गौतमश्च भरद्वाजो विश्वामित्रोऽथ सप्तमः ।।
देवा ह्येकोनपञ्चाशन्मरुतः परिकीर्तिताः ।। ४ ।।
द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दश ।।
दशैवाङ्गिरसो देवा ह्येवं देवगणा नव ।। ५ ।।
येषां शक्रस्तु मोजंबी नाम्ना शत्रुक्षयङ्करः ।।
घोरास्तथापि ये त्वासन्दैत्या दायादबान्धवाः ।। ६ ।।
तेषां बभूव नृपतिर्हिरण्याक्षो महाबलः ।।
नृवराहेण वपुषा तं जघान हरिः पुरा ।।७।।
दैत्येश्वरं तं सुरसंघभीमं महाबलं पर्वतमात्रकायम् ।।
जघान चक्रेण हरिः प्रसह्य रूपं समास्थाय वराहशीर्षम् ।।८।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सप्तमवैवस्वतमन्वन्तरवर्णनन्नाम द्व्यशीत्यधिकशततमोऽध्यायः ।। ।।१८२ ।।
1.183
शक्र उवाच ।।
अस्मिन्कल्पे महाभागे भविष्या मनवस्तु ये ।।
तेषां पुत्रान्नृषीन्देवाञ्छक्र दायादबान्धवान् ।। १ ।।
तस्य घातं तथा कृष्णात्सर्वमेतत्प्रकीर्तय ।।
सर्वज्ञकल्पा भवती दिव्यज्ञाना मता मम ।। २ ।।
शाम्बरायण्युवाच ।।
अष्टमस्य भविष्यस्य सावर्णस्य मनोः सुतान् ।।
कथयिष्यामि ते शक्र महाबलपराक्रमान् ।। ३ ।।
विजयश्चावरीवांश्च निर्दोहस्सत्यवाक्कृतिः ।।
चरिष्णुश्चाप्यधृष्णुश्च वाचः समतिरेव च ।। ४ ।।
सावर्णस्य मनोः पुत्रानृषींश्चैव निबोध मे ।।
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ ।। ५ ।।
ऋष्यशृङ्गस्तथा राम ऋषयः परिकीर्तिताः ।।
सुतपा अमृताभाश्च आत्रेयाश्च गणास्त्रयः ।। ६ ।।
सर्वे विंशतिभिर्देवगणैर्युक्ता महात्मनाम् ।।
येषामिन्द्रो भविष्यस्तु बलिर्दानवसत्तमः ।। ७।।
त्वत्कृते देवदेवेन बद्धो यस्त्रिदशेश्वरः ।।
दायादा बान्धवास्तस्य न भविष्यन्ति वासव ।। ८ ।।
शक्रत्वं तेन कर्तव्यं मन्वन्तरमकण्टकम् ।।
देवदेवकरन्यस्तं दानमेत न्महासुरः ।। ९ ।।
त्रैलोक्यराजा भवति सावर्णस्यान्तरे मनोः ।। ।।
तस्मिन्मन्वन्तरे प्राप्ते हिमशैलालयो बली ।। 1.183.१० ।।
भविष्यति दुराचारो नानोलो नाम राक्षसः ।।
ब्रह्मलब्धवरो रौद्रस्त्रैलोक्योत्सादने रतः ।। ११ ।।
तं वधिष्यति धर्मात्मा विष्णुर्गरुडवाहनः ।।
चक्रेण शतधारेण जगतां हितकाम्यया ।। १२ ।।
दंष्ट्राकरालं विकटोग्रवेषं नीलाञ्जनाभं भयदं त्रिलोके ।।
चक्रेण देवः प्रविदार्य कर्ता लोकं समग्रं भयविप्रयुक्तम् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीसंवादेऽष्टमसावर्णिमन्वन्तरवर्णनन्नाम त्र्यशीत्यधिकशततमोऽध्यायः ।। १८३ ।।
1.184
शांबरायण्युवाच ।।
ब्रह्मपुत्रस्य तु मनोर्नवमस्य सुताञ्छृणु ।।
धृतिकेतुर्दीप्तिकेतुः पञ्चहस्तो निराकृतिः ।। १ ।।
पृथुश्रवा बृहद्द्युम्न ऋचीको बृहतां गणः ।।
ब्रह्मपुत्रस्य ते पुत्रा ऋषयश्च निबोध मे ।। २ ।।
मेधातिथिर्द्युतिश्चैव सवनो वसुरेव च ।।
ज्योतिष्मान्हव्यसत्यौ च ऋषयः परिकीर्तिताः ।। ३ ।।
पारा मरीचिगर्भाश्च स्वधर्माणश्च ते त्रयः ।।
गणा द्वादशकाः प्रोक्ता येषामिन्द्रो भविष्यति ।। ४ ।।
विभुर्नाम महातेजाः सर्वदेवेश्वरो वली ।।
दायादा बान्धवास्तस्य ये भविष्यन्ति धार्मिकाः ।। ५ ।।
कालकक्ष इति ख्यातास्तेषां राजा भविष्यति ।।
तस्मिन्मन्वन्तरे राजा वसुनाभो भविष्यति।।६।।
पुत्रस्तु भावता तस्य वासुदेवो महीपतिः ।।
चक्रवर्ती महातेजाः पद्मनाभ इति श्रुतः ।। ७ ।।
देवासुरे तु संग्रामे कालकाक्षं रणोत्कटम् ।।
नरवध्यं महातेजाः पद्मनाभो वधिष्यति।। ८ ।।
शरेण जाम्बूनदभूषितेन ब्रह्मास्त्रयुक्तेन रणप्रचण्डम्।।
हत्वासुरं कालसमप्रभावं राजा स लोकस्य भयं निहन्ता ।। ९ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणी संवादे नवमब्रह्मपुत्रमनन्वन्तरवर्णनन्नाम चतुरशीत्यधिकशततमोऽध्यायः १८४।।
1.185
शाम्बरायण्युवाच ।।
धर्मपुत्रस्य तु मनोर्दशमस्य सुताञ्छृणु ।।
सुक्षेत्र उत्तमौजाश्च भूरिशोणश्च वीर्यवान् ।। १ ।।
शतानीको निमिर्मित्रो वृषसेनो जयद्रथः ।।
भूरिद्युम्नः सुवर्मा च धर्मपुत्रमनोः सुताः ।। २ ।।
आपोमूर्तिर्हविष्मांश्च सृतिकिश्चाव्ययस्तथा ।।
नाभागः प्रमितश्चैव सौरभा ऋषयस्तथा ।। ३ ।।
प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा ।।
भविता तस्य भविता शान्तिरिन्द्रः प्रतापवान् ।। ४ ।।
दायादाबान्धवास्तस्य भविष्यन्त्यसुराश्च ये ।।
तेषां च भविता राजा बाली नाम महासुरः ।। ५ ।।
द्योतयिष्यति तं विष्णुर्गदया भीमवेगया ।।
देवासुरे तु संग्रामे देवानां हितकाम्यया ।। ६ ।।
गदानिपाताभिहते सुरेन्द्रे महाबले देववरेण तेन ।।
त्रैलोक्यमेतद्भविता समग्रं विनष्टदोषं सुरविप्रजुष्टम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीसंवादे दशमधर्मपुत्रमन्वन्त्ववर्णनं नाम पञ्चाशीत्यधिकशततमोऽध्यायः ।। ।। १८५ ।।