विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २५६-२६०

← अध्यायाः २५१-२५५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २५६-२६०
वेदव्यासः
अध्यायाः २६१-२६५ →

1.256
।। मार्कण्डेय उवाच ।।
गन्धर्वाः कटकं केचिद्विविशुर्भरतस्य तु ।।
पुरस्कृत्य नृपस्याज्ञां सैनिकानां वधेप्सवः ।। १ ।।
मायाच्छन्नशरीरास्ते ददृशुर्निशि चेष्टितम् ।।
प्रातः समरकामानां कान्तोत्कण्ठितचेतसाम् ।। २ ।।
मनोरथरथारूढः कश्चित्प्राणेश्वरीं व्रजन् ।।
न लेभे शयने निद्रां कल्ये रणसमुत्सकः ।। ३ ।।।
कश्चिच्चन्द्रकरस्पर्शाद्विशेषपरिपीडितः ।।
ददर्श चन्द्रं दिव्याक्षिप्रियावदननिर्जितम् ।। ४ ।।
कश्चिच्च चिन्तयन्नेव प्रियां प्राणधनेश्वरीम् ।।
उत्तान शयनं चक्रे तारकागणकं दिवि ।। ५ ।।
पश्यन्नानिष्कृतं दिश्यं पत्रच्छेदं विसर्जितम् ।।
प्रियया स्वकृतं कश्चिन्मुदा नयति शर्वरीम् ।। ६ ।।
निर्वेदमतिरम्येण दह्यते चन्द्ररश्मिभिः ।।
कश्चिद्विहीनस्तन्वङ्ग्या शयनीयेऽपि खिद्यते ।। ७ ।।
स्वप्नोपलब्धतन्वङ्गिसमागममनोरथः ।।
सुप्तोऽनुमितो गन्धर्वैः कश्चिद्रोमाञ्चसम्भवात् ।। ८ ।।
प्रियां संप्रेषिता प्रेष्य समालापपरायणः ।।
न वेद कश्चिद्राजेन्द्र गतामपि विभावरीम् ।। ९ ।।
ज्वलन्तमनिशं कश्चिच्छरीरे विरहानलम् ।।
सहसा शमयामास ध्यायँश्चन्द्रमुखीं प्रियाम् ।। 1.256.१० ।।
श्यामां विकञ्चुकां तन्वीं यूनां प्राणापहारिणीम् ।।
प्रियां च खड्गयष्टिं च कश्चित्स्मरति सूत्सुकः ।। ११ ।।
सगुणां तनुमध्यां च नवकाञ्चनभूषणाम् ।।
सस्मार दयितां कश्चिच्चापयष्टिं तथैव च ।।१२।।
विचिन्तानपि गन्धर्वा भरतस्य च सैनिकान् ।।
न शेकुराधर्षयितुं भरतस्य समाश्रयात् ।। १३ ।।
अन्येऽपि ये देववरस्य विष्णोः स्मरंति नित्यं यदुनाथपादौ ।।
गन्धर्वयक्षासुरराक्षसेभ्यो भयं न तेषां भवतीह किञ्चित् ।। १४ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विरहिवर्णनं नाम षट्पञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५६ ।।
1.257
।। मार्कण्डेय उवाच ।। ।।
अथ राजगृहाख्यं तु नगरं ये विसर्जिताः ।।
गंधर्वा ददृशुस्तत्र पुरश्रियमनुत्तमाम् ।। १ ।।
चन्द्रसापत्न्यभूतानि गृहमुख्यानि सर्वशः ।।
ददृशुर्बहुरत्नानि वहुधान्यधनानि च ।। २ ।।
पुरोद्यानानि रम्याणि ददृशुश्च समन्ततः ।।
अलंकृतानि वापीभिर्द्रुमखण्डैश्च यादव ।। ३ ।।
उद्यानेषु विचित्रेषु नरमुख्यानुगामिनाम् ।।
पश्यन्ति तत्र सङ्घानि गंधर्वाः पानपायिनाम् ।। ४ ।।
वल्लकीनां निनादेन गीतेन मधुरेण च ।।
एकतामिव संयातं चारुषट्पदशिञ्जितम् ।। ५।।
वेश्याश्चैवोपनृत्यन्ति क्वचित्तत्र च कामुकान् ।।
क्वचित्साभरणाः सुप्ताः कान्तैः सह मदोत्कटाः ।। ६ ।।
सुप्तानां नरनारीणां गन्धर्वास्तत्र चेष्टितम् ।।
ददृशुर्बहुदाराणां मायाच्छादितविग्रहाः ।। ७ ।।
गायन्त्यन्ये रुदन्त्यन्ये हसन्त्यन्ये तथैव च।।
आश्लिष्यन्ति तथैवान्ये मदमत्ताः परस्परम् ।। ८ ।।
भाषन्ते केचिदव्यक्तं विह्वलार्ताः पदेपदे ।।
शयने भ्रममाणैश्च क्वचिदस्थितदृष्टयः ।। ९ ।।
कामिनीस्कन्धविन्यस्तबाहवश्च तथा परे ।।
कलहं चक्रिरे चान्ये स्तुवन्त्यन्ये निरर्थकम् ।। 1.257.१० ।।
स्खलमानपदा यान्ति स्थानं हृद्यनवस्थितम् ।।
आह्वयन्ति गणान्केचित्प्रणमन्ति तथा परे ।। ११ ।।
एवं सन्तजनाकीर्णे नगरे गीतनादिते ।।
ददृशुर्गृहमुख्येषु नरनारीविचेष्टितम् ।। १२ ।।
सञ्चोद्यमाना दूतीभिस्त्वराकृत मृजाः धियः ।।
यान्ति कान्तासु सम्भ्रान्ता मदपानसमुत्सुकाः ।। १३ ।।
पपुः काश्चित्प्रियैः सार्धं पानं मदसमीरणम् ।।
पाययन्त्यपराः कान्तान्भोजयन्त्यपराः प्रियान् ।। १४ ।।
प्रासादेषु विचित्रेषु तथा वातायनेषु च ।।
रतिश्रान्तास्तथा सुप्ताः काश्चित्कान्तैः सह स्त्रियः ।। १५ ।।
काचिद्गौरी प्रियं श्याममालिङ्ग्य शयने स्थिता ।।
उत्पलस्रगिवाभाति युक्ता जातिस्रजा सह ।।१६।।
गौरीगौरसमाश्लिष्टा काचिदाभाति सुन्दरी।।
आलिङ्गिता चन्द्रकरैश्चन्द्रकान्तशिला यथा ।। १७ ।।
श्यामा श्यामसमाश्लिष्टा काचिदाभाति पार्थिव ।।
पयोदपङ्क्तिर्गगने यथा पार्थिव सोदका ।। १८ ।।
अलीकसुप्तमप्रौढा काचिच्चुम्बयते प्रियम् ।।
प्रियेण गाढमाश्लिष्टा विलक्षमुदिताभवत् ।। १९ ।।
काचिच्च वनिता प्रौढा कर्पूर रजसा स्वयम् ।।
अवाकिरति कान्ताङ्गं रतिस्वेदपरिप्लुतम् ।। 1.257.२० ।।
पश्येमां तारकां चन्द्रो ह्यङ्केनालिङ्ग्य तिष्ठति ।।
इत्याह दयितं काचित्प्रौढा रतिसुखार्थिनी ।। २१ ।।
काचिदूरुपरामर्शाद्विदित्वा सुरतार्थिनी ।।
कान्तेनालिङ्गिता गाढं मुदितेन रिरंसुना ।। २२ ।।
कान्तेन काचिद्दष्टौष्ठी चुम्बनायार्पिते मुखे।।
न यास्ये तव विश्वासं भूयश्चेदन्यथाकृथाः ।। २३ ।।
काचित्प्रसुप्ता कान्तेन परामृष्टा रतार्थिनी ।।
कान्तमालिङ्गतात्यर्थं त्यक्तनिद्रा ससम्भ्रमा ।। २४ ।।
इत्येवमपि विश्वस्तान्सैनिकाँस्तान्युधाजितः।।
हर्तुं न शेकुर्गन्धर्वा भरतस्य समाश्रयात् ।। २५ ।।
एषां पुरे सन्निहितः स विष्णुर्महानुभावो रघुवंशगोप्ता ।।
तेषां पुरे नास्ति भयं नरेन्द्र गन्धर्व यक्षासुरपन्नगेभ्यः ।। २६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे निशोपभोगवर्णनो नाम सप्तपञ्चाशदुत्तरद्विशततमोऽ ध्यायः ।। २५७ ।।
1.258
।। मार्कण्डेय उवाच ।।
अयोध्यातस्तदाभ्येत्य गन्धर्वाः शिबिरात्तथा ।।
तथा राजगृहात्सर्वे शैलूषाय न्यवेदयन् ।। १ ।।
न विग्रहकथा तत्र न रक्षा काचिदीदृशी ।।
केवलं तु प्रभावेण रामस्य भरतस्य च ।। २ ।।
नास्माभिः किं कृतं राजन्प्रहर्तुं क्वचिदित्यपि ।।
यत्तत्र शेषं कर्त्तव्यं तत्करोतु महीपतिः।।३।।
एवमुक्तः स गन्धर्वैर्यामिनीविगमे तदा ।।
योगयोगमतिक्षिप्रमाज्ञापयत सत्वरः ।।४।।
भेरी सान्नाहिकी चैव ततः शीघ्रमहन्यत ।।
यस्याः शब्देन गन्धर्वा राजद्वारमुपागताः ।। ५ ।।
गजवारेण महता तुरगाणां बलेन च ।।
रथैश्च मेघसन्नादैः पत्तिभिश्च मदोत्कटैः ।। ६ ।।
क्ष्वेडितास्फोटितरवैः शङ्खभेरीनिनादितैः ।।
ह्रादेन गजघण्टानां गजानां चैव बृंहितैः ।। ७ ।।
ह्रेषितैस्तुरगाणां तु बभूव तुमलं महत ।।
शैलूषोऽपि तदा स्नात्वा हुत्वाग्निं द्विजपूजनम् ।। ८ ।।
कृत्वा विनिर्ययौ श्रीमान्वरचन्दनभूषितः ।।
मौली वपुष्मान्सन्नद्धः स्रग्वी रुचिरभूषणः ।। ९ ।।
आमपात्रप्रतीकाशैस्तुरगैर्योजितं रथम् ।।
आरुरोह महातेजा विमानं सुकृती यथा ।। 1.258.१० ।।
यथोक्तस्य रथस्यासीत्पुरो रणविशारदः ।।
नरकेतुरिति ख्यातस्त्रिषु लोकेषु विश्रुतः ।। ११ ।।
केतौ तस्य रथे भाति वसन्तो मूर्तिमान्कृतः ।।
ततः स सह सैन्येन निर्ययौ नगराद्बहिः ।। १२ ।।
व्यूहं च सर्वतोभद्रं समाधाय बलं तथा ।।
कृत्वा प्रत्यैक्षत तदा भरतागमनं रुषा ।। १३ ।।
सैन्येन महता राजन्भास्करस्योदयं प्रति।।१४।।
आत्तायुधाः क्ष्वेडितशङ्खनादैरानन्दयन्तः सुहृदां मनांसि ।।
गन्धर्वमुख्या रणचण्डवेगाः प्रतीक्षमाणा भरतस्य तस्थुः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वसैन्यवर्णनं नामाष्टपञ्चाशदुत्तरद्विशततमोऽध्यायः ।। २५८ ।।
1.259
मार्कण्डेय उवाच ।।
विबुद्धा यामिनीशेषे सर्व एव महीक्षितः ।।
निर्ययुर्नगराकारै रथैः संग्रामलालसाः ।।१।।
बलेन चतुरङ्गेण नानावादित्रवादिना ।।
बन्दिभिः स्तूयमानाश्च वन्द्यमानाश्च सैनिकैः ।। २ ।।
पृथक्पृथक्सुसन्नद्धा नगरद्वारमागताः ।।
कृत्वा चावश्यकं सर्वं भरतोऽपि महायशाः ।। ३ ।।
रथेन काञ्चनाङ्गेन निर्ययौ नगराद्बहिः ।।
यन्ता रथस्य तस्यासीद्युधाजिन्मातुलः स्वयम्।। ।। ४ ।।
विरराज ध्वजं तस्य कोविदारमहाद्रुमम् ।।
स तेन रथमुख्येन बहिर्निर्गम्य पार्थिवः ।। ५ ।।
समेत्य पार्थिवैः सर्वैः पूजयित्वा च तान्नृपान् ।।
वज्रं कृत्वा महाव्यूहं प्रययौ लघुविक्रमः ।। ६ ।।
प्रयाणे तस्य सैन्यस्य कम्पन्तीव वसुन्धरा ।।
शब्देन महता तस्य दीर्यते च नभस्तलम् ।। ७ ।।
बभूव रजसैवान्यः निशाकालः सुदारुणः।।
नृपाभरमाणिक्यतेजसा भुवि राजिता ।। ८ ।।
रजोन्धकारेऽपि चमूः सा प्रयाति यथासुखम् ।।
स गत्वा दूरमध्वानं सूर्यस्योदयनं प्रति।। ९ ।।
आससाद महत्सैन्यं गन्धर्वाणां दुरत्ययम् ।।1.259.१०।।
तौ सैन्यतोयौघमहादुरन्तौ संहारनागाविव तुल्यरूपौ ।।
बलार्णवौ गाढमथ प्रहारं प्रचक्रतुर्मन्युवशानुयातौ ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतसैन्यनिर्याणं नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः।।२५९।।
1.260
मार्कण्डेय उवाच।।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।।
शूराणां हर्षजननं भीतानां भयवर्धनम्।।१।।
सेनाविनिर्गमे तत्र रजसाच्छादितं जगत्।।
न प्रज्ञायत राजेन्द्र किञ्चिदेव समन्ततः ।। २ ।।
कूजतां धनुषां शब्दः श्रूयते तुमुलो महान्।।
शङ्खभेरीनिनादश्च कुञ्जराणां च बृंहितम् ।।३।।
हयानां ह्रेषमाणानां शूराणां चैव गर्जताम् ।।
शस्त्राणां पात्यमानानां योधानां कवचेष्वपि ।।४।।
तिष्ठतिष्ठ न मे जीवन्गन्तासि रणमूर्धनि ।।५।।
स्थितोऽस्मि प्रहरस्वेति किं न जानाति मां भवान् ।।६ ।।
प्रहरस्व तथा छिन्धि भिन्धि घातय मा चिरम् ।।
एवमादीनि वाक्यानि श्रूयन्ते रणमूर्धनि।। ७ ।।
तथा तुमुलसंग्रामे वर्तमाने सुदारुणे ।।
प्रशशाम रजो भौममुत्थितं रणशोणितैः ।। ८ ।।
पूर्वोत्थितेन रजसा मेघेनेव नभस्तलम् ।।
व्याप्तं तद्विरजस्केन तदा राजन्रणाङ्गणे ।।९।।
ततो युयुधिरे वीराः पश्यमाना परस्परम् ।।
गोत्रापदाननामानि कीर्तयन्तः पुनःपुनः ।। 1.260.१० ।।
सेनानां भज्यमानानां सैन्यखण्डैर्बलीयसाम् ।।
भूयश्चावर्तमानानां शुश्रवे तमुलः स्वनः ।।११।।
चित्राणां च ध्वजानां च पताकानां च भूभुजः ।।
अदृश्यत समासिक्तं रुधिरं रणमूर्धनि ।। १२ ।।
स्वभ्रे तदा महाराज रजोमेघे क्षयं गते ।।
निर्मलासु ततो दिक्षु प्रावर्तत महारणम् ।। १३ ।।
तथा प्रवृत्ते संग्रामे देवगन्धर्वदानवैः ।।
सिद्धैर्विद्याधरैश्चैव मुनिसंघैः समन्ततः ।।३४।।
आवृतं सहसा व्योम वज्रयुद्धकुतूहलैः ।।
व्यदृश्यन्त विमानानि तेषां खे विमलान्यपि ।। १५ ।।
किङ्किणीशतघुष्टानि पताकाशोभितानि च ।।
शुभं गन्धमथादाय सुरभिर्मारुतो ववौ ।। १६ ।।
पपात पुष्पवर्षं च योधानां तत्र मूर्धनि ।।
तथा प्रवृत्ते तुमुले क्ष्वेडितोत्कृष्टनादिते ।। १७ ।।
पदातयस्तदा जघ्नुः पदातीनि च संयुगे ।।
खङ्गधारानिकृत्तानां पदातीनां पदातिभिः ।। १८ ।।
द्विधा कृतानि गात्राणि निपतन्ति महीतले ।।
गृहीत्वा खङ्गपातानि रेजुः केचिच्च वर्मिणः ।। १९ ।।
खङ्गमुद्धरतां तेषां चिच्छिदुर्नृप विग्रहान् ।।
केचिद्गदाविनिर्भिन्नमस्तका गदिभिः क्षितौ ।। 1.260.२० ।।
पतितास्तत्र दृश्यन्ते रणे शतसहस्रशः ।।
भग्नासिशेषनिक्षेप निहतारातयस्तथा ।। २१ ।।
सिंहनादरवांश्चक्रुः परसैन्यविदारणान् ।।
केशेष्वन्योन्यमाकृष्य खड्गैः केचित्परस्परम् ।। २२ ।।
आसेदुर्वसुधां कृत्वा गतप्राणास्तथा परे ।।
पृष्ठविन्यस्तवर्माणः सन्नद्धांस्तुरगांस्तथा ।। २३ ।।
कृत्वा विपादान्समरे निजघ्नुः सादिनां गणम् ।।
आरुह्य वर्मिणः केचिद्वेगाच्छत्रुरथान्रणे ।। २४ ।।
सारथीन्विगतप्राणाँश्चकुर्युद्धविशारदाः ।।
चिच्छिदुर्वारणेन्द्राणां करान्केचित्पदातिनः ।। २५ ।।
केचिद्दशनविन्यस्तपादाश्चारुरुहुर्गजान् ।।
सादिनश्च तथा केचिद्विशिरस्कान्रणाजिरे ।। २६ ।।
चक्रुः पदातिनो ध्माताः खड्गैराकाशसन्निभैः ।।
केचिच्च सादिनः प्रासैः पञ्च सप्त तथा शरान् ।। २७ ।।
श्रेणीकृतान्वै बिभिदुः शिक्षया रणकोविदाः ।।
केचिच्छार्ङ्गधनुर्न्यस्तबाणजालाकुलीकृतान् ।। २८ ।।
पदातीन्समरे चक्रुर्वायुवेगैस्तुरङ्गमैः ।।
सादिनश्च तथैवान्ये सादिभिः सह संगताः ।। ।। २९ ।।
दर्शयन्तो रणे भिक्षां चक्रुर्युद्धमनेकधा ।।
केचित्पाशाग्रनिर्भिन्नहतसारथिनायकाः ।। 1.260.३० ।।
विनेदुरुच्चैः सहसा सिंहनादरवान्वनान् ।।
कुञ्जरैराकुलीकृत्य हययानविशारदाः ।। ३१ ।।
विपुच्छहस्तान्समरे चक्रुः सादिगणान्रणे ।।
निहतं व शरव्रातैः पादातं बहुधा रणे।।३२।।
रथिभिर्भाति भूपाल कमलोत्करसन्निभम् ।।
तुरगास्तुरगारोहा रथिभिर्विनिपातिताः ।। ३३ ।।
आवव्रुर्वसुधां तत्र शतशोऽथ सहस्रशः ।।
रथिनां रथिभिः सार्धं युद्धमासीत्सुदारुणम् ।।३४।।
बाणतोमरपातैश्च गदाकम्पनमुद्गरैः ।।
रथिनां च महद्युद्धमासीत्कुञ्जरधूर्गतैः ।।३५।।
प्रासबाणमहापात दुर्निरीक्ष्यं समन्ततः ।।
निहतं बहु पादातं कुञ्जरैस्तत्र दृश्यते।।३६।।
रणे नृपतिशार्दूल विनिकीर्णं सहस्रधा ।।
सादिनां सतुरङ्गाणां सुमहत्कदनं कृतम् ।। ३७ ।।
महामात्रप्रमुदितैः कुञ्जरैर्बलदर्पितैः ।।
आक्रम्य रथवृन्दानि चूर्णितानि तुरङ्गमैः।।३८।।
व्यदृश्यन्त महाराज विप्रकीर्णानि भूतले।।
एवं मध्याह्नसमये तीक्ष्णं तपति भास्करे ।। ३९ ।।
बभूवाकुलसंग्रामं घोरं रुधिरकर्दमम् ।।
रथाश्वकुञ्जरैः सार्धं पत्तयश्च समागताः ।। 1.260.४० ।।
कुञ्जराश्च महाकाया पत्त्यश्वरथिनस्तथा ।।
पत्तिभिश्च पदातीनां सादिनां सह सादिभिः ।। ४१ ।।
रथिनां रथिभिर्युद्धं कुञ्जराणां च कुञ्जरैः ।।
बभूव राजँस्तुमुले संग्रामे शोणितोदके ।। ४२ ।।
शूराणां रणलुब्धानाममर्षाक्रान्तचेतसाम् ।।
पत्तिना निहतः सादी गजेन निहतो नरः ।। ४३ ।।
रथिना निहतो नागः क्वचिदासीदघातितः ।।
हताः पदातिभिश्चान्ये व्यदृश्यन्त रणाजिरे ।। ४४ ।।
पदातिरथनागाश्च सादिभिर्विनिपातिताः ।।
रथनागहया युद्धे निहताश्च पदातिभिः ।। ४५ ।।
नरेण च हतो हस्ती शूरेण कृतबुद्धिना ।।
सादिना च हतो हस्ती सादी चैव पदातिना ।।४६।।
रथिना च हतः पत्तिः पत्तिना च हतो रथी ।।
रथिना निहतः सादी संग्रामे लोमहर्षणे ।। ४७ ।।
रेणुना च दिशो व्याप्तास्तुमुले भृशसंकुले ।।
व्यराजन्त महाराज समरे गतजीविताः ।। ४८ ।।
पततां बाणजालानां धनुषां चैव कूजताम् ।।
मुद्गराणां भुशुण्डीनां तोमराणां तथैव च ।।४९।।
पट्टिशानां च ऋष्टीनां क्षेपणानां च यादव ।।
अयोगुडानां प्रासानां चर्मणामथ वर्मणाम् ।। 1.260.५० ।।
अनिशं श्रूयते शब्दो घोरस्तस्मिन्रणाजिरे ।।
हयैश्च विगतारोहैर्धावमानैरितस्ततः ।। ५१ ।।
भग्नेषाकूबराक्षैश्च रथैर्विगतनायकैः ।।
छिन्नदन्तैश्च मातङ्गैर्भिन्नकुम्भघटाननैः ५२ ।।
लतावेष्टित वृक्षाभैः शोभां याति रणाजिरम् ।।
कुञ्जरैर्विगतारोहैस्त्रासितैर्दृढधन्विभिः ।। ५३ ।।
मर्द्यमानानि सैन्यानि शतशोऽथ सहस्रशः।।
भिन्नान्सुदन्तैः पुरुषान्दन्तासक्तांस्तथा गजाः।।५४।।
वहमाना व्यराजन्त कर्णव्यजनवीजिताः ।।
लग्नान्त्रजालैर्दशनैर्दन्तिनः पर्वतोपमाः।।५५।।
लतावेष्टितवृक्षाभैः शोभयन्ति रणाजिरम् ।।
तस्मिँस्तथाविधे रौद्रे संग्रामे घोरदर्शने ।।५६।।
नराश्वनागरुधिरैर्विसस्रुः शोणितापगाः ।।
खड्गमीना महाछत्रराजहंसविभूषिताः ।।
योधमस्तकपाषाणाः केशशैवालभूषणाः।।५७।।
महाफेनौघवत्यश्च भीतानां भयवर्धनाः ।।
तास्तरन्ति तदा योधाः शूरा जयधनैषिणः।।५८।।
राजन्वाहननौभिस्ते व्यवसायपरस्पराः ।।
छिन्नानि स्वानि गात्राणि न जानन्ति रणे परैः ।। ५९ ।।
तत्र शूरा महाभागास्त्वमर्षाक्रान्तचेतसः ।।
आयुधक्षयमासाद्य मुष्टियुद्धानि चक्रिरे ।। 1.260.६० ।।
केशाकेशि तथा केचिद्दन्तादन्ति नखानखि ।।
चक्रुर्युद्धं महाराज ब्रह्मलोकजिगीषवः ।।६१ ।।
क्रन्दन्तोऽन्ये पितॄन्पुत्रान्भ्रातॄनन्ये पितामहान् ।।
मातुलान्भागिनेयांश्च स्यालान्सम्बन्धिनस्तथा ।। ६२।।
पितृव्यानार्यकानन्ये दौहित्रानपरे तथा ।।
धावन्त्यन्ये पतन्त्यन्ये गर्जन्त्यन्ये जिगीषया ।। ६३ ।।
स्वनन्त्यन्ये पतन्त्यन्ये म्रियन्ते चापरे तथा ।।
शोचन्त्यन्ये तथा बन्धूञ्शोच्यास्त्वन्ये तु बन्धुभिः ।। ६४ ।।
याचन्तेऽन्ये महाराज तृष्णार्त्ताश्च तथा जलम् ।।
वाहनेषु समारोप्य नीयन्त्यन्ये च बन्धुभिः ।। ६५ ।।
शिबिराय महाराज शतशोऽथ सहस्रशः ।।
अन्ये संवृत्य चात्मानं भीता जग्मुरुपह्वरम् ।। ६६ ।।
जलार्थमन्ये च नरा बान्धवैश्च प्रचोदिताः ।।
आगम्य दृष्ट्वा च मृतं भाण्डं भङ्त्वा विचुक्रुशुः ।। ६७ ।।
हतबन्धुमनादृत्य स्वामिकार्यैकतत्पराः ।।
परानभिमुखानेव तत्रायुध्यन्त मानवाः ।। ६८ ।।
युध्यतामेव तेषां तु शतशोऽथ सहस्रशः ।।
उत्थितानि गणे यानि कबन्धानि महीपते ।। ६९ ।।
कश्चिन्ननर्त समरे कबन्धस्तु धनुर्धरः ।।
गदापाणिस्तथैवान्यः खड्गचर्मधरोऽपरः ।। 1.260.७० ।।
परश्वधधरः कश्चित्प्रासपाणिस्तथा परः ।।
नृत्यत्कबन्धभूयिष्ठे देवदुन्दुभिनादिते ।। ७१ ।।
प्रवर्तमाने संग्रामे शूराणां स्वर्गलोकदे।।
व्यदृश्यन्त महाराज पिशाचा घोरदर्शनाः ।।७२।।
राक्षसाश्च महाकायाः क्रव्यादाश्च तथा परे ।।
जगाम चास्तं सविता तदा रक्तवपुर्धरः ।।
संग्रामात्सर्वयोधानां पीत्वेव रुधिरं करैः ।।७३।।
ततोऽस्तशैलं भगवत्यथार्के गते जपापुष्पकदम्बकाभे ।।
सेनाद्वयं तच्छिबिराय यानं कृत्वावरोहं परबाणतप्तम् ।। ७४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे संकुलयुद्धो नाम षष्ट्युत्तरद्विशततमोऽध्यायः ।। २६० ।।