विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०७१-०७५

2.71
राम उवाच ।।
दण्डप्रणयनार्थाय राजा सृष्टः स्वयंभुवा ।।
देवभागानुपादाय सर्वभूताभिगुप्तये ।। ।। १ ।।
तेजसा यदयं कश्चिन्नैव शक्नोति वीक्षितुम् ।।
तदा भवति लोकेषु राजा भास्करवत्प्रभुः ।। २ ।।
यदस्य दर्शने लोकः प्रसादमुपगच्छति ।।
नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ।। ३ ।।
चारैर्यदायं व्याप्नोति सर्वलोकं यदृच्छया ।।
तदा भवति लोकेषु राजा देवः समीरणः ।। ४ ।।
यदाऽपराधिनां चैव विधत्ते निग्रहं नृपः ।।
तदा भवति लोकेषु राजा वैवस्वतः सदा ।। ५ ।।
यदा भवति माहात्म्यात्क्रुद्धबुद्धान्नरान्नृपः ।।
अनिच्छन्नपि लोकेषु तदा भवति पावकः ।। ६ ।।
करोति च यदा दानं धनानां सर्वतो नृपः ।।
विसर्गार्थं सुरश्रेष्ठ तदा भवति वित्तदः ।। ७ ।।
यदा च धनधाराभिर्वर्षन्प्लावयते जगत् ।।
तदा स वरुणः प्रोक्तो राजा नयविशारदैः ।। ८ ।।
क्षमा बलेन मनसा धारयन्सकलाः प्रजाः ।।
अविशेषेण धर्मज्ञ पार्थिवः पार्थिवो भवेत् ।। ९ ।।
यदाधिपत्येन जनान्समग्रान्परिरक्षति ।।
तदा भवति देवेन्द्रः सर्वभूतानुकम्पिता ।।2.71.१०।।
उत्साहमंत्रशक्तिर्या प्रभुशक्तिश्च दैविकी ।।
चतस्रः शक्तयस्तत्र वैष्णव्यः परिकीर्तिताः ।। ११ ।।
कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा ।।
तिस्रस्तु शक्तयस्तस्य वैष्णव्यः पृथिवीपते ।। १२ ।।
दण्डप्रणयनं सम्यक् श्रोतुमिच्छामि तत्त्वतः ।।
कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवा ।। १३ ।।
कथं च दण्डं प्रणयन्नरेन्द्रो धर्मेण युज्येद्यशसा च वीर ।।
अर्थेन कामेन च स सर्वमेतद्ब्रवीहि यादोगण नाथपुत्र ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामवाक्याध्यायो नामैकसप्ततितमोऽध्यायः।।७१।।
2.72
पुष्कर उवाच ।।
दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम् ।।
यस्य सम्यक्प्रणयनात्स्वर्गभाक्पार्थिवो भवेत् ।। १ ।।
त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् ।।
कृष्णलानां तथा षष्ट्या कर्षार्धं राम कीर्तितम् ।। २ ।।
सुवर्णश्च विनिर्दिष्टो राम षोडशमाषकः ।।
निष्कं सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः ।। ३ ।।
ताम्ररूप्यसुवर्णानां मानमेतत्प्रकीर्तितम् ।।
ताम्रकर्षापको राम प्रोक्तः कार्षापणो बुधैः ।। ४ ।।
पणानां द्वे शते सार्धे प्रथमं साहसः स्मृतः ।।
मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ।। ५ ।।
बालदायादकं रिक्थं तावद्राजानुपालयेत् ।।
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः ।। ६ ।।
वेश्यापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ।। ७ ।।
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ।।
ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ।। ८ ।।
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।।
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ।। ९ ।।
ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि ।।
सम्पाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यमर्हति ।। 2.72.१० ।।
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।।
वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ।। ११ ।।
प्रनष्टाधिगतं रिक्थं तिष्ठेदर्थैरधिष्ठितम् ।।
यांस्तत्र चौरान्गृह्णीयाद्घातयेत्कुञ्जरेण तान् ।। १२ ।।
ममेदमिति यो ब्रूयादसत्येना तथा निधिम् ।।
तस्य दण्डं हरेद्राजा स्ववित्तस्याष्टमांशकम् ।। १३ ।।
चौरैरमुषितो यस्तु मुषितोऽस्मीति भाषते ।।
तत्प्रदातरि भूपाले स दण्ड्यस्तावदेव तु ।। १४ ।।
यो यावन्निह्नु तार्थं मिथ्या यो वा वदेत्ततः ।।
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं धनम् ।। १५ ।।
कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः ।।
प्रमापयेन्महाभाग ब्राह्मणं तु विवासयेत् ।। १६ ।।
यत्स्वामिनाननुज्ञातमाधिं भुङ्क्ते विचक्षणः ।।
अवध्यमूलं कर्तव्यं तस्य दण्डं महीक्षिता ।।
वसा - - - - -तथा धर्मो न हीयते ।। १७ ।।
यो निक्षेपं याचयति यश्च निक्षिप्य याचते ।।
तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं धनम् ।। १८ ।।
उपदाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ।।
ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ।। १९ ।।
यो याचितकमादाय न तद्दद्याद्यथाक्रमम् ।।
स निगृह्य बलाद्दाप्यो दण्डो वै पूर्वसाहसम् ।। 2.72.२० ।।
अज्ञानाद्यः पुमान्कुर्यात्परद्रव्यस्य विक्रयम् ।।
निर्दोषो ज्ञानपर्यन्तं चौरवद्वधमर्हति ।। २१ ।।
मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति।।
दण्ड्यः समूलं सकलं धर्मज्ञेन महीक्षिता ।। २२ ।।
द्विजभोज्ये तु सम्प्राप्ते प्रातिवेश्यमभोजनम् ।।
हिरण्यमाषकं दण्ड्यः पापे नास्ति ह्यतिक्रमः ।। २३ ।।
आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे ।।
निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ।। २४ ।।
प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।। ।। २५ ।।
भृतोऽनार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् ।।
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ।। २६ ।।
अकाले यस्त्यजेद्भृत्यं दण्ड्यः स्यात्तावदेव तु ।।
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।।
विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ।। २७ ।।
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ।।
सोन्तर्दशाहात्तत्साम्याद्दद्याश्चैवाददीत च ।। २८ ।।
परेण तु दशाहस्य न दद्यान्नैव दापयेत् ।।
आददद्विददच्चैव राज्ञा दण्ड्यः शतानि षट् ।। २९ ।।
यस्तु दोषवतीं कन्यां त्वनाख्याय प्रयच्छति ।।
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ।। 2.72.३० ।।
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।।
स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन् ।। ३१ ।।
यस्त्वन्यां दर्शयित्वान्यां वोढुः कन्यां प्रयच्छति ।।
उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ।। ३२ ।।
वरो दोषानभिख्याप्य यः कन्यां वरयेदिह ।।
दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ।। ३३ ।।
प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ।।
दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ।। ३४ ।।
सत्यंकारेण वाचा च युक्तं पर्यासमं शयम् ।।
लुब्धोऽन्यत्र तु विक्रेता षट्शतं दण्डमर्हति ।। ३५ ।।
वहेच्छुल्कं तु विक्रेता सत्यंकारं तु संत्यजेत् ।।
द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः ।। ३६ ।।
मूल्यैकदेशं दत्त्वा तु यदि क्रेता धनं त्यजेत् ।।
दण्डयः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणात् ।। ३७ ।।
द्रुह्याद्भृतस्तु यः पालं गृहीत्वा भक्तवेतनम् ।।
स तु दण्ड्यः शतं राज्ञा सुवर्णं स्वाम्यरक्षिणा ।। ।। ३८ ।।
दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ।।
बद्धः कृत्वायसैः पाशैस्तस्य कर्मकरो भवेत् ।। ३९ ।।
धनुश्चतुःपरीमाणं ग्रामस्य तु समन्ततः ।।
द्विगुणं त्रिगुणं वापि नगरस्य तु कल्पयेत् ।।2.72.४० ।।
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ।।
छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् ।। ४१ ।।
तत्रापरधृतं धान्यं महिष्यः पशवो यदि ।।
न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् ।।४२ ।।
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा ।।
सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् ।। ४३ ।।
अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति ।। ४४ ।।
पालस्त्वपालकी स्वामी विनाशे क्षत्त्रियस्य तु ।।
भक्षयित्वोपविष्टासु द्विगुणं दण्डमर्हति ।। ४५ ।।
वैराद्दशगुणं दण्डं विनाशात्क्षत्त्रियस्य तु ।।
गृहं तडागमारामं क्षेत्रं बुद्ध्वा ह्यपाहरन् ।।
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ।। ४६ ।।
सीमाबन्धनकाले तु सीमाबन्धनकारिणाम् ।।
तेषां संज्ञां दधानस्तु जिह्वाच्छेदनमाप्नुयात् ।।४७ ।।
अर्थेनापि च यो विद्यात्संविदं वापि गच्छति ।।
उत्तमं साहसं दण्ड्य इति स्वायंभुवो ऽब्रवीत् ।। ४८ ।।
स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः ।। ४९ ।।
सर्वे पृथक्पृथग्दण्ड्या राज्ञा प्रथमसाहसम् ।।
शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।। 2.72.५० ।।
वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति ।।
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्यापि शासने ।। ५१ ।।
वैश्ये चाप्यर्धपञ्चाशच्छूद्रो द्वादशकोऽधमः ।।
क्षत्त्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ।। ५२ ।।
शूद्रः क्षत्रियमात्रस्य जिह्वाच्छेदनमाप्नुयात् ।।
पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशासने ।। ५३ ।।
शूद्रे चैवार्धपञ्चाशत्तथा धर्मो न हीयते ।।
वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तम साहसम् ।। ५४ ।।
शूद्राक्रोशे तथा वैश्यः शतार्धं दण्डमर्हति ।।
सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः ।। ५५।।
वादेषु वचनीयेषु तदेव द्विगुणं भवेत ।।
एकजातिर्द्विजातिं तु वाचा दारुणया क्षिपन् ।।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ।। ५६ ।।
नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः ।।
निखन्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ।। ५७ ।।
धर्मोपदेशधर्मेण द्विजानामस्य कुर्वतः ।।
तप्तमासिञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ।।५८।।
शृतं देशं च जातिं च कर्म शारीरमेव च ।।
वितथं तु ब्रुवन्दण्ड्यो राज्ञा द्विगुणसाहसम् ।। ५९ ।।
यस्तु पातकसंयुक्तैः क्षिपेद्वर्णान्तरौ विशः ।।
उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ।। 2.72.६० ।।
राज्ञो निवेश्य नियमं प्रथमं यान्ति ये मिथः ।। ६१ ।।
सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ।।
प्रीत्या मयास्याभिहितं प्रमादेनाथवा वदेत् ।।
भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत् ।। ६२ ।।
काणं वाप्यथवा खञ्जमन्धं वापि तथाविधम् ।।
तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणावरम् ।। ६३ ।।
मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम् ।।
आक्षारयच्छतं दण्ड्यः पन्थानं चाददद्गुरोः ।।६४ ।।
गुरुवर्ज्यं तु मार्गार्हे यो मार्गं न प्रयच्छति ।।
स राज्ञा कृष्णलं दण्ड्यस्तस्य पापस्य शान्तये ।।६५।।
एकजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् ।।
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ।।६६।।
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।।
अवसेचयतो मेढ्रमवशब्दयतो गुदम् ।। ६७ ।।
महासनमभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ।। ६८ ।।
कृताङ्कः स विनिर्वास्यो ह्यङ्गं वास्य विकर्तयेत् ।।
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।।
पादयोर्दण्डिकायां तु ग्रीवायां वृषणेषु वा ।। ६९ ।।
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।। 2.72.७० ।।
अस्थिभेत्ता च षण्णिष्कान्प्रमाप्यश्च प्रमापकः ।।
अङ्गभङ्गकरस्यांगं तदेवापहरेन्नृपः ।। ७१ ।।
दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा ।।
अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।। ७२ ।।
पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ।।
पञ्चाशत्तु भवेद्दण्डस्तथैव मृगपक्षिषु ।। ७३ ।।
कृमिकीटेषु दण्डः स्याद्रजतस्य तु माषकम् ।।
तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा ।।७४।।
सस्वामिकानां मरके शेषाणां दण्डमेव तु ।।
वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ।। ७५ ।।
द्विगुणं दण्डयेच्चैत्ये पथि सीम्नि जलाशये ।।
छेदनादफलस्यापि मध्यमः साहसः स्मृतः ।। ७६ ।।
गुल्मवल्लीलतानां तु सुवर्णस्य च माषकम् ।।
वृथा छेदे तृणस्यापि दण्डः कार्षापणं भवेत् ।। ७७ ।।
त्रिभागं कृष्णलान्दण्डयः प्राणिनस्ताडने तथा ।।
देशकालानुरूपेण मूल्यं राम! द्रुमादिषु ।। ७८ ।।
तत्स्वामिनि तथा दद्याद्दण्डमुक्तं च पार्थिवे ।।
यत्रातिवर्तते युग्यं वैगुण्याद्रजकस्य तु ।।७९ ।।
तत्र स्वामी भवेद्दण्ड्यो नाप्तश्चेद्व्याजको भवेत् ।।
प्राणकश्च भवेदाप्तः प्राजको दण्डमर्हति ।। 2.72.८०।।
नास्ति दण्डं च तस्यापि तथा त्राहीति जल्पतः ।। ८१ ।।
द्रव्याणि यो हरेद्यस्य जानतोऽजानतोऽपि वा ।।
स तस्योत्पादयेत्तुष्टिं राज्ञो दद्यात्ततो दमम् ।। ८२ ।।
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च तां प्रपाम् ।।
स दण्डं प्राप्नुयान्माषं तच्च संप्रतिपादयेत् ।। ८३ ।।
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बुधः ।।
शेषेऽप्येकादशगुणं दण्डं तस्य प्रकल्पयेत् ।।८४।।
सुवर्णरजतादीनां चोत्तमानां च वाससाम् ।।
पुरुषाणां कुलीनानां नारीणां च विशेषतः ।।
मुख्यानां चैव रत्नानां हरणे वधमर्हति।।८५।।
महापशूनां हरणे वस्त्राणामौषधस्य च ।।
कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ।। ८६ ।।
गोषु ब्राह्मणसंस्थासु स्थूलकार्याविभेदने ।।
अश्वापहारकश्चैव सद्यः कार्योर्धपादिकः ।। ८७ ।।
सूत्रकार्पासकिल्वानां गोमयस्य गुडस्य च ।।
दध्नः क्षीरस्य तक्रस्य पानीयस्य फलस्य च ।। ८८. ।।
वेणुवैदलभाण्डानां लवणानां तथैव च ।।
मृण्मयानां च सर्वेषां मृदो भस्मन एव च ।।८९।।
मद्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।।
मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम्।।2.72.९०।।
अन्येषामेवमादीनां मत्स्यानामोदनस्य च ।।
पक्वान्नानां च सर्वेषां तन्मूल्याद्द्विगुणो दमः ।। ९१ ।।
पुष्पेषु हरिते धान्ये गुल्मवल्लीलतासु च ।।।
अल्पेषु परिपूर्णेषु दण्डः स्यात्पञ्चमाषकः ।। ९२ ।।
परिपूर्णेषु धान्येषु शाकमूलफलेषु च ।।
निरन्वये शतं दण्ड्यः सान्वये च शतं दमः ।। ९३ ।।
येनयेन यथाङ्गेन स्तेनो नृषु विचेष्टते ।।
तत्तदेव हरेदस्य प्रत्यादेशाय पार्थिवः ।। ९४ ।।
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षु द्वे च मूलके ।।
त्रपुसोर्वारुकौ द्वौद्वौ तावन्मानं फलेषु च ।। ९५ ।।
तथा च सर्वधान्यानां मुष्टिग्राहेण भार्गव ।।
शाकं शाकप्रमाणेन गृह्यमाणो न दुष्यति ।। ९६ ।।
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।।
तृणं च गोभ्यो दानार्थमस्तेयं मनुरब्रवीत् ।। ९७ ।।
अदेववाटजं पुष्पं देवतार्थं तथैव च ।।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ।। ९८ ।।
शृङ्गिणं नखिनं चापि दंष्ट्रिणं वा वधोद्यतम् ।।
यो हन्यान्न स पापेन लिप्यते मनुजः क्वचित् ।। ९९ ।।
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।।
आततायिनमायान्तं हन्यादेवाविचारयन् ।। 2.72.१०० ।।
नाततायिवधे दोषः कर्तुर्भवति कश्चन ।।
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमर्हति ।। १०१ ।।
गृहक्षेत्राभिहर्तारं तथा पत्न्यभिगामिनम् ।।
अग्निदं गरदं चैव तथा हस्तोद्यतायुधम् ।। १०२ ।।
अभिचारं च कुर्वाणं राजगामि च पैशुनम् ।।
एते हि कथिता लोके धर्मज्ञैराततायिनः ।। १०३ ।।
परस्त्रियं न संभाषेत्तीर्थेऽरण्ये गृहेऽपि वा ।।
नदीनां चैव संभेदे संग्रहणमवाप्नुयात् ।। १०४ ।।
न संभाषं सह स्त्रीभिः प्रतिषिद्धं समाचरेत् ।।
प्रतिषिद्धस्तु संभाषः सुवर्णं दण्डमर्हति ।। १०५ ।।
नैष चारेणदारेषु विधिर्नात्मोपजीविषु ।।
सज्जयन्ति मनुष्यैस्ते निगूढं विचरन्त्युत ।। १०६ ।।
किञ्चिदेव तु सख्यं स्यात्संभाषेताभिचारयन् ।।
प्रेष्यासु चैव सर्वाभिरहः प्रव्रजितासु च ।। १०७ ।।
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ।।
सकामां दूषयाणस्तु प्राप्यः प्रथमसाहसम् ।। १०८ ।।
भिक्षुकोऽप्यथवा नारी योऽपि च स्यात्कुशीलवः ।।
प्रविशेत्प्रतिषिद्धस्तु प्राप्नुयाद्द्विशतं दमम् ।। १०९ ।।
यश्च संचारकस्तत्र पुरुषः स तथा भवेत् ।।
पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ।। 2.72.११० ।।
बलात्संदूषयन्यस्तु परभार्यां नरः क्वचित् ।।
वधदण्डो भवेत्तस्य नापराधो भवेत्स्त्रियाः ।। १११ ।।
रजस्तृतीयं या कन्या स्वगृहे प्रतिपद्यते ।।
अदण्ड्या सा भवेद्राज्ञा वरयन्ती पतिं स्वयम् ।। ११२ ।।
स्वदेशे कन्यकां दत्त्वा तामादाय तथा व्रजन् ।।
परदेशे भवेद्वध्यः स्त्रीचौरः स तथा भवेत् ।। ११३ ।।
अद्रव्यां मृतपत्नीं तु संगृह्णन्नापराध्यति ।।
सार्थां वै तां च गृह्णानो दण्डमुत्तममर्हति ।। ११४ ।।
उत्कृष्टं या भजेत्कन्या देया तस्यैव सा भवेत् ।।
जघन्यं सेवमानां च संयतां वासयेद्गृहे ।। ११५ ।।
उत्तमां सेवमानस्तु जघन्यो वधमर्हति ।।
जघन्यमुत्तमा नारी सेवमाना तथैव च ।। ११६ ।।
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता ।।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ।। ११७ ।।
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।।
वासयेत्स्वैरिणीं नित्यं सवर्णेनाभिदूषिताम् ।। ११८ ।।
ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् ।।
मासं च मलिना नित्यं सा ग्रासान्प्राप्नुयाद्दश ।। ११९ ।।
ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोनयः ।।।
व्रजन्दाप्यो भवेद्राम दण्ड उत्तमसाहसम् ।। 2.72.१२० ।।
वैश्यागमे तु विप्रस्य क्षत्त्रियस्यन्त्यजागमे ।।
मध्यमं प्रथमं वैश्यो दण्ड्यः शद्रागमे भवेत् ।। १२१ ।।
शूद्रः सवर्णाऽगमने शतं दण्ड्यो महीभुजा ।।
वैश्यश्च द्विगुणं राम क्षत्त्रियस्त्रिगुणं तथा ।। १२२ ।।
ब्राह्मणश्च भवेद्दण्ड्यस्तथा राम चतुर्गुणम् ।।
गुप्तास्वेव भवेद्दण्डमगुप्तास्वपि तत्स्मृतम् ।। १२३ ।।
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ।। १२४ ।।
भागिनेयी तथा चैव राजपत्नी तथैव च ।।
इत्यगम्यास्तु निर्दिष्टास्तासां तु गमने नरः ।। १२५ ।।।
शिश्नस्योत्कर्तनं कृत्वा ततस्तु वधमर्हति ।।
भ्रातृभार्यागमे पूर्वाद्दण्डस्तु वधमर्हति ।। १२६ ।।
चण्डालीं वा श्वपाकीं वा गच्छन्वधमवाप्नुयात् ।।
तिर्यग्योनौ तु गोवर्ज्यं मैथुनं यो निषेवते ।। १२७ ।।
स पणं प्राप्नुयाद्दण्डं तस्याश्च यवसोदकम् ।।
सुवर्णं च भवेद्दण्ड्यो गां व्रजन्मनुजोत्तम ।। १२८ ।।
वेश्यागामी भवेद्दण्ड्यो वेश्याशुल्कसमं पणम् ।।
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ।। १२९ ।।
वेतनं द्विगुणं दद्याद्दण्डं च त्रिगुणं तथा ।।
अन्यमुद्दिश्य वेश्यां यो नयेदन्यस्य कारणात् ।। 2.72.१३० ।।
तस्य दण्डं भवेद्राम सुवर्णस्य च माषकम् ।।
नीत्वा भोगं न यो दद्याद्दाप्यो द्विगुणवेतनम् ।। १३१ ।।
राज्ञा च द्विगुणं दण्ड्यस्तथा धर्मो न हीयते ।।
बहूनां व्रजतामेकां सर्वे तद्द्विगुणं दमम् ।। १३२ ।।
सर्वे पृथक्पृथग्राम दण्डं च द्विगुणं पणात् ।।
न माता न पिता न स्त्री ऋत्विग्याज्यस्य सूनवः ।। १३३ ।।
अन्योन्याः पतितास्त्याज्यास्त्यागे दण्ड्यः शतानि षट् ।।
पतिता गुरवस्त्याज्या न तु माता कदाचन ।।१३४।।
गर्भधारणपोषाभ्यां तेन माता गरीयसी ।।
संदंशहीनौ कर्तव्यौ कूटाक्षोपधिदेविनौ ।। १३५ ।।
अधीयानमनध्याये दण्डः कर्षापणत्रयम् ।।
अध्यापकश्च द्विगुणं तथाचारस्य लङ्घने ।। १३६ ।।
अन्तं सस्यभवे दण्डः सुवर्णस्य च कृष्णलम् ।।
भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः ।। १३७ ।।
प्राप्तापराधास्ते दण्ड्या रज्वा वेणुदलेन वा ।।
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथंचन ।। १३८ ।।
अतोन्यथा यत्प्रहरेत्प्राप्तः स्याच्चौरकिल्बिषम् ।।
द्यूतं समाह्वयं चैव यो निषिद्धं समाचरेत् ।। १३९ ।।
प्रच्छन्नं वा प्रकाशं वा स दण्ड्यः पार्थिवेच्छया ।।
वासांसि फलके श्लक्ष्णे नेनिज्याद्रजकः शनैः ।। 2.72.१४० ।।
अतोऽन्यथा तु कुर्वीत दण्डस्स्याद्रुक्मकृष्णलम् ।।
रक्षांस्यधिकृता राम प्रजेयं यैर्विलिप्यते ।। १४१ ।।
कार्यिकेभ्योऽर्थमादाय हन्युः कार्याणि कार्यिणाम् ।।
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ।। १४२ ।।
ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कार्यिणाम् ।।
निर्घृणाः क्रूरमनसः सर्वकार्योपरोधिनः ।। १४३ ।।
धनोष्मणा पच्यमानांस्तान्निःस्वान्कारयेन्नृपः ।।
कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् ।। १४४ ।।
स्त्रीबालब्राह्मणघ्नांश्च वध्यांश्चासेविनस्तथा ।।
अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ।। १४५ ।।
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।। १४६ ।।
एतान्सर्वान्पृथग्विद्यान्महापातकिनो नरान् ।।
महापातकिनो वध्या ब्राह्मणं तु विवासयेत् ।। १४७ ।।
कृतचिह्नं स्वकाद्देशाच्छृणु चिह्नक्रमं तथा।।
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।। १४८ ।।
स्तेये तु श्वपदं विद्याद्ब्रह्महण्यशिराः पुमान् ।।
असम्भाष्या ह्यसंलाप्या असम्पाद्या विशेषतः ।। १४९ ।।
त्यक्तव्याश्च तथा राम! ज्ञातिसम्बन्धिबान्धवैः ।।
महापातकिनो वित्तमादाय नृपतिः स्वयम् ।। 2.72.१५० ।।
अप्सु प्रवेशयेद्दण्डं वरुणायोपपादयेत् ।।
सहोढं न विना चौरं घातयेद्धार्मिको नृपः ।। १५१ ।।
सहोढं सोपकरणं घातयेदविचारयन्।।
ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ।। १५२ ।।
भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ।।
राष्ट्रेषु राष्ट्राधिपतेः समन्ताच्चैव दूषकान् ।। १५३ ।।
अभ्याघातेषु मध्यस्थाः क्षिप्रं शास्यास्तु चौरवत् ।।
दस्युप्रपीडितानां हि पथि मोहादिदर्शने ।। १५४ ।।।
शक्तितोनाभिधावन्तो निर्वास्याः सपरिच्छदाः ।।
राज्ञः कोषापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ।।१९५ ।।
अरीणामुपजप्तॄँश्च घातयेद्विविधैर्वधैः ।।
सन्धिं भित्त्वा तु ये चौर्यं राज्ञः कुर्वंति तस्कराः ।। १५६ ।।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।।
तडाकभेदकं हन्यादप्सु शुद्धवधेन तु ।।१५७।।
यस्तु पूर्वं निवृत्तस्य तडाकस्योदकं हरेत् ।।
आगमं वाप्यपां कुर्यात्स दाप्यः पूर्वसाहसम् ।।१५८।।
कोष्ठागारायुधागारदेवतागारभेदकान् ।।
पापान्पापसमाचारान्घातयेच्छीघ्रमेव तान्।।१५९।।
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।।
स हि कार्षापणं दण्ड्यस्तममेध्यं च शोधयेत्।। ।।2.72.१६०।।
आपद्गतोऽथवा वृद्धो गर्भिणी बाल एव वा ।।
परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः।।१६१।।
प्रथमं साहसं दण्ड्यः यश्च मिथ्याचिकित्सकः ।।
पुरुषे मध्यमं दण्ड्यस्तूत्तमे च तथोत्तमम् ।।१६२।।
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकान् ।।
प्रतिकुर्युश्च तत्सर्वं दद्युः पञ्चशतानि च।।१६३।।
अदूषितानां द्रव्याणां दूषणे भेदने तथा ।।
मणीनामपि भेदस्य दण्डः प्रथमसाहसः ।। १६४ ।।
समैश्च विषमं यो वै कुरुते मूल्यतोऽपि वा ।।
समाप्नुयान्नरः पूर्वं समं वाधममेव वा ।। १६५ ।।
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ।।
क्लिश्यन्तो यत्र दृश्यन्ते विकृताः पापचारिणः ।। १६६ ।।
प्राकारस्य तु भेत्तारं परिखानां च भेदकम् ।।
द्वाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत्पुरात् ।। १६७ ।।
मूलकर्माभिचारेषु कर्तव्यो द्विगुणो दमः ।।
अबीजविक्रयी दैवबीजोत्कृष्टस्तथैव च ।। १६८ ।।
मर्यादाभेदकश्चैव विकृतं वधमाप्नुयात् ।।
सर्वसङ्करपापिष्ठं हेमकारं नराधिपः ।। १६९ ।।
अन्याये वर्तमानं तु लवशश्छेदयेच्छरैः ।।
द्रव्यमादाय वणिजामनर्घेणावरुन्धताम् ।। 2.72.१७० ।।
राजा पृथक्पृथक्कुर्याद्दण्डमुत्तमसाहसम् ।।
द्व्यावदूषको यश्च प्रतिच्छन्दकविक्रयी।। १७१ ।।
मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम् ।।
शास्त्राणां यज्ञतपसां देशानां क्षेपको नरः ।। १७२ ।।
देवतानां सतीनां वै तूत्तमं दण्डमर्हति ।।
एकस्य दण्डपारुष्ये बहूनां द्विगुणो दमः ।।१७३ ।।
कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ।।
मध्यमं ब्राह्मणं राजा विषयाद्विप्रवासयेत् ।। १७४ ।।
लशुनं च पलाण्डुं च सूकरं ग्रामकुक्कुटम् ।।
तथा पञ्चनखं सर्वं भक्ष्यादन्यत्र भक्षिणम् ।। १७५ ।।
विवासयेत्क्षिप्रमेव ब्राह्मणं विषयात्स्वकात् ।।
अभक्ष्यभक्षणे दण्ड्यः शूद्रो भवति कृष्णलम् ।। १७६ ।।
ब्राह्मणक्षत्त्रियविशां चतुस्त्रिद्विगुणं हितम् ।।
यः साहसं कारयति स दद्याद्द्विगुण दमम् ।। १७७ ।।
यश्चेदमुक्त्वाहं दाता कारयेत्स चतुर्गुणम् ।।
संदिष्टस्याप्रदातारं समुद्रगृहभेदकम् ।। १७८ ।।
पञ्चाशत्पणिको दंडस्तयोः कार्यो महीक्षिता ।।
अस्पृश्येषु शतार्धन्तु मध्योऽधो योगकर्मकृत् ।। १७९ ।।
पुंस्त्वहर्ता पशूनां च दासीगर्भविनाशकृत् ।।
शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।। 2.72.१८०।।
अव्रजन्बाढमुक्त्वा च तथैव च निमन्त्रणात् ।।
एते कार्षापणशतं सर्वे दण्ड्या महीक्षिता ।। १८१ ।।
दुःखोत्पादि गृहे द्रव्यं क्षिपन्दण्ड्यस्तु कृष्णलम् ।।
पितापुत्रविरोधे तु साक्षिणां द्विशतो दमः ।। १८२ ।।
तुलाशासनमानानां कूटकृन्नाणकस्य च ।।
एभिश्च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ।। १८३ ।।
विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ।।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ।। १८४ ।।
क्षेत्रवेश्मग्रामवननिवीतखलदाहकाः ।।
राजपत्न्यभिगामी च दग्धव्याश्च कटाग्निना ।। १८५ ।।
ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ।।
पारदारिकचौरौ च मुञ्चतो दण्डमुत्तमम् ।। १८६ ।।
अभक्ष्येण द्विजं दूष्य दण्डमुत्तमसाहसम् ।।
क्षत्रियो मध्यमं वैश्यः प्रथमं शूद्रमर्धिकम् ।। १८७।।
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा।।
राजयानासनारोढुर्दण्ड उत्तमसाहसः ।। ।। १८८ ।।
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।।।
तमायातं पुनर्जित्वा दण्डद्येद्द्विगुणं दमम्।।१८९।।
आह्वानकारी वध्यः स्यादनाहूतमथाह्वयन्।।
दण्डिकस्य यो हस्तादभियुक्तः पलायते।।2.72.१९०।।
हीनः पुरुषकारेण तद्दद्याद्दाण्डिको धनम्।।
प्रेष्यापराधात्प्रेष्यस्य स दण्डं दातुमर्हति ।। १९१ ।।
दण्डार्थं नियमार्थं च नीयमानस्तु बन्धनम् ।।
पथि कश्चित्पलायेत दण्डमष्टगुणं भवेत् ।। १९२ ।
अनिष्ठितविवादे तु नखरोमावतारणम् ।।
कारयेद्यः स पुरुषो मध्यमं दण्डमर्हति ।। १९३ ।।
बन्धनं वाथवा वध्यं बलान्मोचयतो भवेत् ।।
वध्ये विमोचिते वध्यो दण्ड्ये द्विगुणदण्डभाक् ।। १९४ ।।
दुर्मृष्टव्यवहाराणां सभ्यानां द्विगुणो दमः ।।
ज्ञात्वा त्रिंशद्गुणं दण्डं प्रक्षेप्यमुदके भवेत्।। ।। १९५ ।।
अल्पे दण्डेधिकं कृत्वा विपुले चाल्पमेव च ।।
ऊनाधिकं तु तद्दण्डं सद्यो दद्यात्स्वकाद्गृहात् ।। १९६ ।।
यावद्वध्यः स वध्येत तावद्वध्यस्य मोक्षणात् ।।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।। १९७ ।।
वध्ये विवासयेद्राष्ट्रात्समग्रधनमक्षतम् ।।
न जातु ब्राह्मणवधात्पापमप्यधिकं क्वचित् ।। १९८ ।।
यस्मात्तस्मात्प्रयत्नेन ब्रह्महत्यां विवर्जयेत् ।।
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।।
अयशोमहदाप्नोति नरकं चैव गच्छति ।। १९९ ।।
ज्ञात्वापराधं पुरुषं च राजा कालं तथा चानुमते द्विजानाम् ।।
दण्ड्येषु दण्डं परिकल्पयेत पापस्य ये तच्छमनं न कुर्युः ।। 2.72.२०० ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० परशुरामं प्रति पुष्करोपाख्यानेषु दण्डप्रणयनन्नाम द्विसप्ततितमोऽध्यायः ।।७२।।
2.73
राम उवाच ।।
कुर्याद्दण्डप्रणयनं प्रायश्चित्तमकुर्वताम् ।।
नृणां राजा ततो ब्रूहि प्रायश्चित्तविधिं मम ।। १ ।।
पुष्कर उवाच ।।
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।।
कामचारकृतेऽप्येतन्मतं मे श्रुतिदर्शनात् ।। २।।
प्रायश्चित्तैः शमं याति पापं कृतमसंशयम् ।।
राजदण्डाच्छमं याति प्रायश्चित्तमकुर्वताम् ।। ३ ।।
प्रायश्चित्तविहीना ये राजभिश्चाप्यवासिताः ।।
नरकं प्रतिपद्यन्ते तिर्यग्योनिं तथैव च ।। ४ ।।
मानुष्यमपि चासाद्य भवन्तीह तथांकिताः ।।
प्रायश्चित्तमतः कार्यं कल्मषस्यापनुत्तये।।५।।
राजक्रुद्धातुरान्नं च न भुञ्जीत कदाचन ।।
तथैवाह्वायकस्यान्नं पदा स्पृष्टं च कामतः।।६।।।
महापातकिना स्पृष्टमवलीढं पतत्रिणा ।।
त्र्यृबीमपक्वं यश्चापि स्पृष्टं यच्चाप्युदक्यया ।। ७ ।।
गणान्नं गणिकान्नं च विद्विषां यज्जुगुप्सितम ।।
स्तेनस्य चैव तीक्ष्णस्य वार्धुषेर्गायनस्य च ।।८ ।।
दीक्षितस्य कदर्यस्य बद्धस्य निगडैरपि ।।
अभिशस्तस्य षण्ढस्य पुंश्चल्या दांभिकस्य च ।।९।।
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।।
अनर्चितं वृथा मांसमवीरायाश्च योषितः ।। 2.73.१० ।।
द्विषदन्नं च दासान्नमुग्रान्नं चाप्यचाक्षुषम् ।।
पिशुनानृतिनोश्चान्नमस्त्रविक्रयिणस्तथा ।। ११ ।।
रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे ।।
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ।। १२ ।।
परिवित्तेश्च दुष्टस्य बन्दिनः कितवस्य च ।।
कुण्डगोलकयोश्चैव स्त्रीजितस्य तथैव च ।। १३ ।।
कर्मारस्य निषादस्य रङ्गावतरकस्य च ।।
सुवर्णकर्तुवेनस्य चैलनिर्णेजकस्य च ।। १४ ।।
मिथ्याप्रव्रजितस्यान्नं तैलिकस्य तथैव च ।।
तथैव वृषलस्यान्नं ब्राह्मणेनानिमन्त्रितम् ।। १५ ।।
एषामन्यतमस्यान्नममत्यात्त्वा त्र्यहं क्षिपेत ।।
मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ।। १६ ।।
महापातकयुक्तस्य सूतिकस्य तथैव च ।।
भुक्त्वान्नं चर्मकारस्य मत्या कृच्छ्रं चरेद्द्विजः ।। १७।।
चण्डालश्वपचान्नं च भुक्त्वा चान्द्रायणं चरेत।।
अन्तश्चतुर्थिप्रेतान्नं गवाघ्रातं तथैव च ।। १८ ।।
शूद्रोच्छिष्टं लघूच्छिष्टं सूतिकान्नं तथैव च ।।
तप्तकृच्छ्रं तु कुर्वीत तस्य पापस्य शान्तये ।। १९ ।।
भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः ।।
भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रं विधीयते ।। 2.73.२० ।।
वैश्याशौचे तथा भुक्त्वा तप्तकृच्छ्रं समाचरेत् ।।
शूद्राशौचे द्विजो भुक्त्वा तथा चान्द्रायणं चरेत्।।२१।।
अशौचे यस्य यो भुक्त्वा सोऽप्यशुद्धस्तथा भवेत्।।
तावद्यावदशौचं तु तस्य राम प्रकीर्तितम्।।२२।।
तस्याशौचव्यपगमे प्रायश्चित्तं समाचरेत् ।।
भुक्त्वोत्तमस्य चाशौचे क्षपेत दिवसं तथा ।।२३।।
मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात् ।।
अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ।। २४ ।।
द्विदिनं क्षत्त्रियस्तिष्ठेदेकाहं वैश्य एव च ।।
नक्ताशी च तथा शूद्रः पञ्चगव्येन शुध्यति ।। २५ ।।
भुक्त्वाप्यथ कषायांश्च पीत्वामेध्यान्यपि द्विजः ।।
तावद्भवत्यप्रयतो यावदन्नं व्रजत्यधः ।। २६ ।।
विड्वराहखरोष्ट्राणां गोमायुकपिकाह्वयोः ।।
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।। २७ ।।
शुष्काणि जग्ध्वा मांसानि भौमानि कवकानि च ।।
अज्ञातं चैव सूनास्थं चैतदेव व्रतं चरेत् ।। २८।।
क्रव्यादसूकरोष्ट्राणां गोमायोः कपिकाकयोः।।
गोनराश्वखरोष्ट्राणां भोक्ता पञ्चनखाश्च ये ।।२९।।
मांसं च कौञ्जरं भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति।।
ग्रामकुक्कुटच्छत्राकौ भुक्त्वा चान्द्रायणं चरेत्।।2.73.३०।।
केशकीटावपन्नेऽपि पिबेद्ब्रह्मसुवर्चलाम्।।
आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति।।३१।।
संकल्पिते तथा भुक्त्वा त्रिरात्रोपोषणं भवेत् ।।
व्रतचारी तथा भुक्त्वा मधुमांसं च भार्गव।।३२।।
लशुनं गृञ्जनं चैव पालण्डुं मद्यमेव च।।
लशुनादिसमं यच्च गन्धेन मनुजोत्तम।।३३।।
भुक्त्वा चान्द्रायणं कुर्यान्मासं क्रव्यभुजस्तथा ।।
लोहितान्वृक्षनिर्यासान्कुस्थानप्रभवांस्तथा।।३४।।
शेलुं गव्यं च पेयूषं विषं श्लेष्मातकं मृदम् ।।
वृथा कृसरसंयावपायसापूपशष्कुलीः।।३५।।
गवां च महिषीणां च वर्जयित्वा तथाप्यजाम ।।
सर्वक्षीराणि वर्ज्यानि तेषां चैवाप्यनिर्दशम्।।३६।।
स्यंदनेऽमेध्यभक्षाया विवत्सायाश्च वर्जयेत् ।।
दधिवर्ज्यं च शुक्तानि सर्वाण्येव विवर्जयेत् ।।३७।।
शुभैः पुष्पफलैर्यानि भक्तैरभियुतानि च ।।
विष्किराञ्जालपादांश्च रक्तपादांस्तथैव च।।३८।।
सर्वशुष्कांश्च चूडालान्प्रतोदांश्च विवर्जयेत् ।।
वर्तिको वर्तिका चेति तित्तिरश्च कपिञ्जलः ।। ३९ ।।
भक्ष्यो मयूरश्च तथा पक्षिणां ये विवर्जिताः ।।
शशकः शल्लको गोधा खड्गः कूर्मस्तथैव च।।2.73.४०।।
भक्ष्याः पञ्चनखाः प्रोक्ताः परिवेषाश्च वर्जिताः ।।
पाठीनान्रोहितान्मत्स्याँल्लोहतुण्डांश्च भक्षयेत् ।। ४१।।
राजीवांश्च सशल्कांश्च भक्ष्यानाहुर्मनीषिणः ।।
अतोऽन्यान्वर्जयेत्सर्वांस्तथा वै जलचारिणः ।। ४२।।
एतेषां भक्षणाद्राम त्रिरात्रौ क्षपणं भवेत् ।।
चक्रवाकं प्लवं हंसं टिट्टिभं मद्गुमेव च ।। ४३ ।।
काकोलं च शुकं भासं दात्यूहं सारिकां तथा ।।
बकश्येनबलाकांश्च भुक्त्वा षड्रात्र माचरेत् ।। ४४ ।।
उपवासस्तथा कार्यः सूनामांसाशने भवेत् ।।
अजाविकानुरोहांश्च पृषतान्माहिषांस्तथा ।। ४५ ।।
रङ्कुन्यंकूंस्तथैणांश्च गवयांश्चैव भक्षयेत् ।।
भुक्त्वा मांसं ततोऽन्यस्य त्र्यहं तिष्ठेद्बुभुक्षितः ।४६।।
यवगोधूमजं सर्वं पयसश्चैव विक्रियाः ।।
रागषाडवचुक्रादीन्सस्नेहं यच्च किञ्चन ।।। ।।४७।।
एतद्विना पर्युषितं भुक्त्वा चोपवसेद्दिनम् ।।
मद्यभाण्डगता मोहात्पीत्वा वापो द्विजोत्तमः।।४८।।
शङ्खपुष्पाश्रितं क्षीरं पिबेत्तु दिवसत्रयम् ।।।
सुराभाण्डगता पीत्वा सप्तरात्रं तथा पिबेत्।।४९।।
शूद्रोच्छिष्टात्तथा पीत्वा पञ्चरात्रं तथा पिबेत्।।
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः।।2.73.५०।।।
स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ।।
अग्निहोत्रापविद्धाग्निर्ब्राह्मणः कामचारतः ।।५१।।
चान्द्रायणं चरेन्मासं वीरमप्यासनं हितम् ।।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।। ५२ ।।
महान्ति पातकान्याहुः संयोगश्चैव तैः सह ।।
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।। ५३ ।।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ।।
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः।।५४।।
वर्जितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्।।
निक्षेपस्यापहरणं नराऽश्वरजतस्य च।।५५।।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्।।
रेतःसेकस्स्वयोनीषु कुमारीष्वन्त्यजासु च।।५६।।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ।।
गोवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रयः।।५७।।
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ।।
परिवर्तितानुजेन परिवेदनमेव च ।। ५८।।
तयोर्मानं च कन्यायास्तयोरेव च याजनम् ।।
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।।५९।।
तडागारामदाराणामपत्यस्य च विक्रयः ।।
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।। 2.73.६० ।।
भृतादध्ययनादानमविक्रेयस्य विक्रयम् ।।
सर्वाकरेष्वधीकारो महायन्त्र प्रवर्तनम् ।। ६१ ।।
हिंस्रौषधिस्त्रियाजीवी क्रिया याचनकर्म च ।।
इन्धनार्थमशुष्काणां द्रुमाणां चैव पातनम् ।। ६२ ।।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ।।
अनाहिताग्निता स्तेयमगम्यास्त्रीनिषेवणम् ।। ६३।।
स्त्रीशूद्रविट्क्षत्त्रिवधो नास्तिक्यञ्चोपपातकम् ।।
ब्राह्मणस्य रुजा कृत्यं घ्रातिरघ्रेयमद्ययोः ।। ६४ ।।
जैह्मं च पुंसि मैथुन्यं जातिभ्रंशकरं स्मृतम् ।।
श्वखरोष्ट्रमृगेभानामजाव्योश्चैव मारणम् ।। ६५ ।।
संकीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ।।
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।। ६६ ।।
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ।।
कृमि कीटवयोहत्यामन्यानुगतभोजनम् ।। ६७ ।।
फलैधकुसुमस्तेयमधैर्यं चपलात्मता ।।
एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ।। ६८ ।।
यैर्यैर्व्रतैरपोहेत तानि सम्यङ्निबोधत ।।
ब्रह्महा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।। ६९ ।।
भिक्षेताथ विशुद्ध्यर्थमुपासीनो वृषध्वजम् ।।
लक्षं शस्त्रभृतां वा स्याद्विद्विषामिच्छयात्मनः ।। 2.73.७० ।।
प्राश्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्छिराः ।।
यजेत वाश्वमेधेन स्वर्जितागोसवेन च ।। ।। ७१ ।।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ।।
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ।। ७२ ।।
ब्रह्महत्यापनुत्त्वर्थं मितभुङ् नियतेन्द्रियः ।।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।। ७३ ।।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ।।
व्रतैरेतैरपोहेत महापातकितान्द्विज ।। ७४ ।।
उपपातकसंयुक्तो गोघ्नो मासं यवानदेत् ।।
कृतपापो वा निवसेच्चर्मणा तेन संवृतः ।। ७५ ।।
चतुर्थकालमश्नीयादक्षारलवण मितम् ।।
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ।। ७६ ।।
दिवाऽनुगच्छेत्ता गाश्च तिष्ठन्नूर्ध्वमपः पिबेत् ।।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं चरेत् ।। ७७ ।।
तिष्ठंतीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् ।।
आसीनासु तथासीनो नियतो वीतमत्सरः ।। ७८ ।।
आतुरामभिषिक्तां च चौरव्याघ्रादिभिर्भयैः ।।
पतित ङ्कलीनां वा सर्वप्राणैर्विमोक्षयेत् ।। ७९ ।।
उष्णैर्वर्षातिशीतैर्वा मारुते वाति वा भृशम् ।।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ।। 2.73.८० ।।
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले ।।
खादमानां न शंसेत पिबन्तं चैव वत्सकम् ।। ८१ ।।
वृषभैकादशा गास्तु दध्याद्धि चरितव्रतः ।।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।। ८२ ।।
बन्धने रोधने वापि योजने च गवां रुजा ।।
भवेद्वा मरणं यत्र निमित्ते तत्र लिप्यते ।। ८३ ।।
पादमेकं चरेद्गोष्ठे द्वौ पादौ बन्धने चरेत् ।। ।
योजने पादहीनं स्याच्चरेत्सर्वं निपातने ।। ८४ ।।
कान्तारेष्वथ दुर्गेषु विषमेषु गुहासु च ।।
यदि तत्र विपत्तिः स्यादेकः पादो विधीयते ।। ८५ ।।
बाधामरणदोषेषु तथैवार्धं विनिर्दिशेत् ।।
दमने वाहने रोधे शकटस्य च योक्त्रणे।।८६।।
नद्यां शकलपाशेषु मृते पादौ समाचरेत् ।।
व्यापन्नानां बहूनां तु बन्धने रोधनेऽपि वा।।८७।।
भिषङ् मिथ्याचरंश्चेह द्विगुणं गोव्रतं चरेत् ।।
शृङ्गभङ्गेऽस्थिभङ्गे वा लांगूलच्छेदनेऽथवा ।।८८।।
यावकं तु पिबेत्तावद्यावत्स्वस्था तु गौर्भवेत् ।।
एका चेद्बहुभिर्दैवाद्यत्र व्यापादिता भवेत् ।। ८९ ।।
पादंपादं तु हत्यायां चरेयुस्ते पृथक्पृथक् ।।
यन्त्रेण गोश्चिकित्सार्थे मूढगर्भविमोक्षणे ।। 2.73.९० ।।
यदि तत्र विपत्तिः स्याद्दोषस्तत्र न विद्यते ।।
औषधं स्नेहमाहारं दद्याच्च ब्राह्मणादिषु ।।९१ ।।
दीयमाने विपत्तिः स्याद्दातुर्दोषो न विद्यते ।।
एतदेव व्रतं कुर्युरुपपातकिनस्तथा ।। ९२ ।।
अवकीर्णी विशुद्ध्यर्थं चान्द्रायणमथापि वा ।।
अवकीर्णी तु कालेन सप्तमेन चतुष्पथे ।। ९३ ।।
पाकयज्ञविधानेन यजते निभृतं निशि ।।
हुत्वाग्नौ विधिवद्धोमांस्ततस्तु समितित्यृचम् ।। ९४ ।।
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ।।
कामतो रेतसः सेके व्रतस्थस्य द्विजन्मनः ।। ९५ ।।
आक्रमं च व्रतस्याहुर्धर्मज्ञाः सत्यवादिनः ।।
एतस्मिन्नेव सिद्धार्थे वसित्वा गर्दभाजिनम् ।। ९६ ।।
सप्तागारं चरेद्भैक्ष्यं स्वकर्मपरिदेवयन् ।।
तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेव कालिकम् ।। ९७ ।।
उप स्पृशंस्त्रिषवणमब्देन स विशुध्यति ।।
हत्वा गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ।। ९८ ।।
राजन्यवैश्यौ चेजाना आत्रेयीमेव च स्त्रियम् ।।
उक्त्वा चैवानृतं साक्ष्ये प्रतिवद्य गुरूँस्तथा।।९९।।
अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ।।
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।।2.73.१००।।
तया सकाये निर्दग्धे मुच्यते किल्बिषात्ततः ।।
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव ।।१०१।।
पयो घृतं वा मरणाद्गोशकृद्रसमेव वा।।
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि।।१०२।।
सुरापानापनुत्त्यर्थं चीरवासा जटी ध्वजी।।
सुरा वै मलन्नानां पाप्मा च मलमुच्यते।।१०३।।
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ।।
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।।१०४।।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।।
यक्षरक्षःपिशाचानां मद्यं मांसं सुराशनम् ।।१०५।।
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ।।
माध्वीकमैक्षवं टाकं कौलं खार्जूरपानसम् ।।१०६।।
मृद्वीकारसमार्द्वीके मेरेयं नारिकेलजम् ।।
असेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च ।। १०७ ।।
यस्य कामगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ।। १०८ ।।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिर्णयम् ।।
सुवर्णस्तेयकृद्विप्रो राजानमभिशस्य तु ।।१०९।।
स्वकर्म ख्यापन्ब्रूयान्मां भवानपि शास्त्विति ।।
गृहीत्वा मुसलं राजा सकृद्दद्यात्तु तं स्वयम् ।। 2.73.११० ।।
वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा ।।
तपसा त्वपनुत्सुस्तु सुवर्णस्तेयजं मलम् ।। १११ ।।
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ।।
गुरुतल्पोऽभिभाष्यैनं तल्पे स्वप्यादयोमये ।। ११२ ।।
सूर्मीं ज्वलंतीमाश्लिष्य मृत्युना तु विशुध्यति ।।
स्वयं वा शिश्नवृषणावुत्कृत्याधाय स्वाञ्जलौ ।। ११३ ।।
नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ।।
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।। ११४ ।।
प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ।।
चान्द्रायणं तु त्रीन्मासानभ्यसेन्नियतेन्द्रियः ।। ११५ ।।
हविष्येण यवाग्वा च गुरुतल्पापनुत्तये ।।
जातिभ्रंशकरं कर्म कृत्वान्यतरमिच्छया ।। ।। ११६ ।।
चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ।।
शंकरायात्र कृत्यासु चासंशोधनमैन्दवम् ।। ११७ ।।
मलिनीकरणीयेषु तप्तः स्याद्यावकं त्र्यहम् ।।
तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ।। ११८ ।।
वैश्येऽष्टमेंशो ह्यन्यत्तु शूद्रे ज्ञेयस्तु षोडश ।।
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।। ११९ ।।
वृषभैकसहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः ।।
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।। 2.73.१२० ।।
वसेद्दूरतरे ग्रामाद्वृक्षमूलनिकेतनम् ।।
एतदेवाचरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।। १२१ ।।
प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ।।
एतदेव व्रतं कृत्स्नं षण्मासाञ्छूद्रहा चरेत् ।। १२२ ।।
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ।।
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव वा ।। १२३ ।।
श्वगोधोलूक काकांश्च शूद्रहत्याव्रतं चरेत् ।।
पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।। १२४ ।।
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वा त्रिवृतं जपेत् ।।
अभ्रीं कालायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ।। १२५ ।।
पलालभारकं षण्ढं सोमकं चैव माषकम् ।।
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरे ।। ।। १२६ ।।
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा द्विहायनम् ।।
हत्वा हंसं बलाकां च वकं बर्हिणमेव च ।। १२७ ।।
वानरं श्येनभासौ वा स्पर्शयेद्ब्राह्मणाय गाम् ।।
वासो दद्याद्धयं हत्वा पञ्चनीलान्वृषान्गजम् ।। १२८ ।।
अजं मेषमनड्वाहं खरं हत्वैकहायनम् ।।
क्रव्यादां हरिणीं हत्वा धेनुं दद्यात्पयस्विनीम् ।। १२९ ।।
अक्रव्यादं वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।।
जीवकार्मुकवत्सादीन्पृथग्दद्याद्विशुद्धये ।। 2.73.१३० ।।
चतुर्णामपि वर्णानां नारीं हत्वा न रागतः ।।
वर्णानामानुपूर्व्येण त्रयाणामविशेषतः ।। १३१ ।।
प्रमाप्य चाप्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत ।।
धनेन वधनिर्णेकं सर्पादीनामशक्नुवन् ।। १३२ ।।
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ।।
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।। १३३ ।।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ।।
अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ।। १३४ ।।
पूर्णे वा तदनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ।।
किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे ।। १३५ ।।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ।।
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।। १३६ ।।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ।।
कृष्णजानामौषधीनां जातानां च स्वयं वने ।। १३७ ।।
वृथारम्भेण गच्छेद्गां दिनमेकं पयोव्रतः ।।
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।। १३८ ।।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ।।
धान्यानि धनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ।। १३९ ।।
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ।।
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।। 2.73.१४० ।।
कूपवापीजलानां तु शुद्धिश्चान्द्रायणं स्मृतम् ।।
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः ।। १४१ ।।
चरेत्सान्तपनं कृच्छ्रं तं निर्यात्यात्मशुद्धये ।।
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।। १४२ ।।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ।।
तृणकाष्ठद्रुमाणां तु शुष्कान्नस्य गुडस्य च ।। १४३ ।।
चैलचर्माऽमिषाणां च त्रिरात्रं स्यादभोजनम् ।।
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।। १४४ ।।
अयस्कांस्योपलानां च द्वादशाहं कणान्नभुक् ।।
कार्पासकीटकोर्णानां द्विशफैकशफस्य च ।। १४५ ।।
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः ।।
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।। १४६ ।।
अगम्यगमनीयेन व्रतैरेभिरपानुदेत् ।।
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वान्ययोनिषु ।। १४७ ।।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ।।
पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ।। १४८ ।।
मातुश्च भ्रातुस्तनयां गत्वा चाद्रायणं चरेत् ।।
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत बुद्धिमान् ।। १४९ ।।
ज्ञातयो नोपयमनाः पितुश्च ह्युपयन्नधः ।।
अमानुषीषु पुरुष उदक्यां वामयोनिषु ।। 2.73.१५० ।।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।।
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।। १५१ ।।
गोयानेषु दिवा चैव सवासाः स्नानमाचरेत् ।।
चण्डालान्त्यजस्त्रीयोगाद्भुक्त्वा च प्रतिगृह्य च ।। १५२ ।।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं च गच्छति ।।
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।। १५३ ।।
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ।।
सा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ।। १५४ ।।
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ।।
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।। १५५ ।।
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ।।
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ।। १५६ ।।
पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ।।
संवत्सरेण पतति पतितेन सहाचरन् ।। १५७ ।।
याजनाध्यापनाद्दानादुक्तिपानाशनासनात् ।।
यो येन पतितेनैषां संसर्गं याति मानवः ।। १५८ ।।
स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।।
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ।। १५९ ।।
निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ।।
दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ।। 2.73.१६० ।।
अहोरात्रमुपासीरन्न शौचं बान्धवैः सह ।।
निवर्तयेरन्तस्मात्तु संभाषणसहासने ।। १६१ ।।
दायादस्य प्रदानं च यात्रामेव च लौकिकीम् ।।
ज्येष्ठभागं निवर्तेत ज्येष्ठावाप्तं च यद्वसु ।। १६२ ।।
ज्येष्ठांशं प्राप्नुयाच्चापि यवीयान्गुणतोऽधिकः ।।
प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् ।। १६३ ।।
तेनैव सार्धं प्राप्येयुः स्नात्वा पुण्ये जलाशये ।।
सत्स्वप्सु तं घटं प्राप्य प्रविश्य भवनं स्वकम् ।। १६४ ।।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ।।
एनमेव विधिं कुर्याद्योषित्सु पतितास्वपि ।। १६५ ।।
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ।।
एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित्समाचरेत्।। १६६ ।।
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत कर्हिचित् ।।
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।।१६७।।
शरणागतहंतॄश्च स्त्रीहंतॄश्च न संवसेत् ।।
येषां द्विजानां सावित्री नानुच्येत यथाविधि ।। १६८ ।।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ।।
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।। १६९ ।।
ब्राह्मणाश्च परित्यक्ता येषां मध्ये तदादिशेत् ।।
यद्गर्हितेनार्जयन्ति ब्राह्मणाः कर्मणा धनम । 2.73.१७० ।।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ।।
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।। १७१ ।।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ।।
उपवासकृशं तं तु गोव्रजात्पुनरागतम् ।।१७२ ।।
प्रणतं परिपृच्छेयुः सौम्य सौम्येच्छसीति किम् ।।
सत्यमुक्त्वा तु विप्रेभ्यो वितरेद्यवसं गवाम् ।।! १७३ ।।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम ।।
व्रात्यानां याजनं कृत्वा परेषामंत्यकर्म च ।।१ ७४ ।।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुध्यति ।।
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः।।१७५।।
संवत्सरं यताहारस्तत्पापमपगच्छति।।
श्वशृगालोरगैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।। १७६।।
गवाश्वोष्ट्रवराहैश्च प्राणायामेन शुद्ध्यति।।
षष्ठान्नकालमशनं संहिताजाप एव च।। १७७।।
होमश्च शाकलो नित्यमपङ्क्त्यानां विशोधनम्।।
उष्ट्रयानं समारुह्य खरयानं च कामतः।।१७८।।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति।।
विना भिन्नाप्सु चाद्यन्तः शरीरं संनिवेशयेत्।।१७९।।
सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति।।
वेदोदितानां नित्यानां कर्मणां समतिक्रमे।।2.73.१८०।।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्।।
हुङ्कारं ब्राह्मणस्योक्त्वा त्वंकारं तु गरीयसः।।१८१।।
स्नात्वानश्नन्नहश्चैकमभिवाद्य प्रसादयेत्।।
ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा।। १८२।।
विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत्।।
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च।।१८३।।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते।।
शोणितं यावतः पांसून्संगृह्णाति द्विजन्मनः।।१८४।।
तावन्त्यब्दसहस्राणि तत्कर्ता नरकं व्रजेत्।।
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने।।१८५।।
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम्।।
चण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि।।१८६।।
सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनम्।।
चान्द्रायणं पराकं वा द्विजानां तु विशोधनम्।।१८७।।
प्राजापत्यं तु शूद्राणां शेषं तदनुसारतः।।
गुडं कुसुम्भं लवणं तथा धान्यानि यानि च।।१८८।।
कृत्वा गृहे ततो द्वारि तेषां दद्याद्धुताशनम्।।
मृण्मयानां तु भाण्डानां त्याग एव विधीयते।।१८९।।
द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते।।
यस्तस्य भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत्।।2.73.१९०।।
शुष्कान्नभोजिनः पादमित्याह भगवान्मनुः।।
कूपे ता नव संतार्य स्पर्शसंकल्पदूषिताः।।१९१।।
शुद्धेयुरुपवासेन पञ्चगव्येन चाप्यथ।।
यस्तु संस्पृश्य चाण्डालमश्नीयाद्वा त्वकामतः।।१९२।।
द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा।।
वर्णसंकरसंकीर्णाश्चण्डालादिजुगुप्सिताः।।१९३।।
भुक्त्वा पीत्वा तथा तेषां षड्रात्रेण विशुध्यति।।
अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः।। १९४।।
व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव च।।
चण्डालकूपभाण्डेषु अज्ञानाद्यः पिबेज्जलम् ।। १९५ ।।
द्विजः सान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनम् ।।
उच्छिष्टो यदि संस्पृष्टः शुना शूद्रेण वा द्विजः ।। १९६ ।।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।।
उच्छिष्टेन यदि स्पृष्ट उच्छिष्टो ब्राह्मणोत्तमः ।। १९७ ।।
त्रिकालमाचरेत्स्नानं नक्तं भुंजीत वाग्यतः ।।
क्षत्त्रियेण तथा स्पृष्टः स्नानं नक्तं समाचरेत् ।। १९८ ।।
स्पृष्टः सवर्णेनाचामेदमेध्यं स्पृशते यदि ।।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ।।१९९।।
अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ।।
पक्वान्नेन गृहीतेन मूत्रोच्चारं करोति वै ।। 2.73.२०० ।।
अनिधायैव तद्द्रव्यं कृत्वांगे उत्तमे स्थितम् ।।
शौचं कृत्वा यथान्यायमुपविश्य यथाविधि।।२०१।।
अन्नमभ्युक्षयेच्चापि उद्धृत्यार्कस्य दर्शयेत् ।।
अर्काभावेऽप्यथाग्नेश्च बस्तस्याथ प्रदर्शयेत् ।।२०२ ।।
त्यक्त्वा ग्रासत्रयं तस्माच्छेषं शुद्धिमवाप्नुयात् ।।
म्लेच्छैर्हृतानां चौरैर्वा कान्तारे वा प्रवासिनाम्।।२०३।।।
भक्ष्याभक्ष्यविशुद्ध्यर्थं तेषां वक्ष्यामि निष्कृतिम् ।।
पुनः प्राप्य स्वदेशं च वर्णानामनुपूर्वशः ।। २०४ ।।
कृच्छ्रस्यार्धे ब्राह्मणस्तु पुनः संस्कारमर्हति ।।
पादोनान्ते क्षत्रियस्तु अर्धार्धे वैश्य एव च ।। २०५ ।।
पादं कृत्वा तथा शूद्रो दानं दत्त्वा विशुध्यति ।।
उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ।। २०६ ।।
अहोरात्रोषिता सा च शुद्धा स्नानेन शुध्यति ।।
मूत्रं कृत्वा व्रजेन्मार्गं स्मृतिभ्रंशाज्जलं पिबेत् ।। २०७ ।।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।।
( मूत्रोच्चारं द्द्विजः कृत्वाऽप्यकृत्वा शौचमात्मनः ।। २०८ ।।
मोहाद्भुक्त्वा त्रिरात्रं तु यवान् पीत्वा विशुध्यति ।।)
परित्यक्तमहायज्ञा प्रव्रज्याविच्युताश्च ये ।।२०९।।
अनाशकनिवृत्ताश्च तेषां शुद्धिः प्रवक्ष्यते ।।
चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ।। 2.73.२१० ।।
जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ।।
उपानहममेध्यं वा चास्य संस्पृशते मुखम् ।। २११ ।।
पुत्रिकागोमयौ तस्य पञ्चगव्यं विशोधनम् ।।
वापन विक्रयं चैव नीलवृत्त्युपजीवनम् ।। २१२ ।।
पतनीयं हि विप्रस्य नीलसूत्रस्य धारणात् ।।
( स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।। २१३ ।।
वृथा तस्य महायज्ञा सूत्रसूत्रस्य धारणात् ।।)
नीलरक्तं यदा वस्त्रं द्विजोंगेषु हि धारयेत् ।। २१४ ।।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति।।
नीलदारु यदा भज्येद्ब्राह्मणस्य तु पादयोः ।। २१५ ।।
शोणितं दृश्यते चास्य द्विजश्चान्द्रायणं चरेत्।।
वापितं यत्र नीलं तु तावदेवाशुचिर्मही ।। २१६ ।।
प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत् ।।
अन्त्यजातिः श्वपाकेन संस्पृष्टा स्त्री रजस्वला ।। २१७ ।।।
चतुर्थेऽहनि शुद्धायाः प्रायश्चित्तं विशोधनम् ।।
त्रिरात्रमुपवासः स्यात्पञ्चगव्यं तथैव च ।। २१८ ।।
उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ।।।
यावन्न शुद्धिमाप्नोति नाश्नीयात्तावदेव तु ।। २१९ ।।
चण्डालश्वपचौ स्पृष्ट्वा शवधूमञ्च सूतिकाम् ।।
शवं स्पर्शयिता श्वानं सद्यः स्नानेन शुध्यति ।।2.73.२२०।।
ना स्पृष्ट्वाऽस्थि तु सस्नेहं स्नात्वा विप्रो विशुध्यति।।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा।।२२१।।
रथ्याकर्दमतोयेन नाभिस्पृष्टो भवत्यधः।।
मृत्तोयैश्चर्चयेदङ्गं ततः शुद्धिमवाप्नुयात्।।२२२।।
वान्तं विविक्तः स्नात्वा तु घृतं पीत्वा विशुध्यति।।
क्षुरकर्म ततः कृत्वा स्नानेनैव विशुध्यति।।२२३।।
अपाङ्क्तेयैस्तु यः पङ्क्त्यां भुंक्ते कश्चिद्द्विजोत्तमः।।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति।।२२४।।
चन्द्रार्कग्रहणे भुक्त्वा द्विजश्चान्द्रायणं चरेत्।।
ब्रह्मचारी शुनादष्टस्त्र्यहं सायं पयः पिबेत्।।२२५।।
गृहस्थो वा त्रिरात्रं तु चैकाहं त्वग्निहोत्रवान्।।
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत्।।२२६।।
बाह्वोश्च त्रिगुणं ज्ञेयं मूर्धनि स्याच्चतुर्गुणम्।।
उद्ग्रन्थमृतकं प्रेतं यः स्पृशेद्ब्राह्मणः क्वचित्।।२२७।।
तस्य शुद्धिं विजानीयात्तप्तकृच्छ्रेण नित्यशः।।
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः।।२२८।।
तस्य प्रेतक्रियां कृत्वा तप्तकृच्छ्रेण शुध्यति।।
इन्द्रियेषु प्रविष्टं स्यादमेध्यं यस्य कस्य चित्।।२२९।।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति।।
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैर्मया।।2.73.२३०।।
अनाविष्कृतपापांश्च मन्त्रैर्होमैश्च साधयेत्।।
ख्यापनेनानुतापेन तपसाऽध्ययनेन च।।२३१।।
पापकृन्मुच्यते पापात्तथा दानेन चापरे।।
यथा यथानरो धर्मं स्वयं कृत्वा न भाषते।।२३२।।
तथा तथा च येनैव तस्मात्पापात्प्रमुच्यते।।
कृत्वा पापं हि स्मर्तव्यं तस्मात्पाप्त्प्रमुच्यते।।२३३।।
यथायथा मनस्तस्य दुष्कृतं कर्म गर्हति।।
तथातथा शरीरं तत्तेनाधर्मेण मुच्यते।।२३४।।
नैतत्कुर्यां पुनरिति निवृत्यां प्रयतेन्नरः।।
एवं संचिन्त्य मनसा प्रेत्यकर्मफलोदयम्।।२३५।।
मनोवाक्कर्मभिर्न्नित्यं शुभं कर्म समाचरेत्।।
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्।।२३६।।
तस्माद्धि मुच्यते नित्यं द्वितीयं न समाचरेत्।।
यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम्।।
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्।।२३७।।
गुरुलघुतां तु विचार्य यथावद्येषु मयागमनं च तवोक्तम्।।
तेषु न चेत्सहनिश्चितबुद्धिर्विप्रवरैः कुशलैः सुधिया वा।।२३८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० प्रायश्चित्ताध्यायो नाम त्रिसप्ततितमोऽध्यायः।।७३।।
2.74
पुष्कर उवाच।।
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि।।
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोध मे।।१।।
पौरुषेण तु सूक्तेन जप्यहोमैर्दविजोत्तमाः।।
मासेनैकेन मुच्यन्ते पातकैः संयतेन्द्रियाः।।२।।
सव्याहृतीकप्रणवाः प्राणायामास्तु षोडश।।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ।।३।।
कौत्सं जप्त्वाप इत्येतद्वसिष्ठं प्रति च त्र्यृचम्।।
माहेशं शुद्धवत्यश्च सुरापोऽपि विशुध्यति।।४।।
सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च।।
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः।।५।।
हविष्मतीयमस्येति ततः संहा इतीति च ।।
जप्त्वा च पौरुषं सूक्तं मुच्यते गुरुतल्पगः ।। ६ ।।
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।।
अवेत्र्यृचं जपेदब्दं यत्किञ्चिदपि तानि चेत् ।। ७ ।।
प्रतिगृह्याप्रतिगृह्यं भुक्त्वा चान्नं विगर्हितम् ।।
जपंस्तरत्समंदीयं प्रयतो मानवस्त्र्यहम् ।। ८ ।।
सोमारौद्रं तु वह्नीनां जपन्सत्यस्य शुध्यति ।।
स्रवन्त्यामाचरेत्स्नानं पर्यस्यमिति वा त्र्यृचम् ।। ९ ।।
अद्वा रसानमित्येतदेनस्वी सप्तकं जपेत् ।।
अप्रकाशं तु कृत्वेनो मासमासीत भैक्ष्यभुक् ।। 2.74.१० ।।
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ।।
सुगुर्वप्यपहन्त्येनो जप्त्वा वामन इष्यते ।। ११ ।।
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता।।।
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ।। १२ ।।
महापातकसंयुक्तो न गच्छेद्गाः समाहितः ।।
स्वभ्यस्य पावमानीयं भैक्ष्याहारो विशुध्यति ।। ।।१३।।
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।।
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ।। १४।।
त्र्यहं तूपवसेद्युक्तस्त्रिरहोऽभ्युपयन्नपः ।।
मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरघमर्षणम् ।। १५ ।।
यथाश्वमेधः सुतरां सर्वपापापनोदनः ।।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ।।१६।।
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः ।।
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन।।१७।।
ऋक्संहितां समभ्यस्य यजुषां वा समाहितः ।।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते।।१८।।
यथा महाह्रदं प्राप्य क्षिप्रं लोष्ठो विनश्यति।।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति।।१९।।
ऋचो यजूंषि चाद्यानि सामानि विविधानि च ।।
एष ज्ञेयस्त्रिवृद्वेदो यो वै वेद स वेदवित् ।।2.74.२०।।
आद्यं वै त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ।।
स गुह्योऽन्यस्त्रिवृद्वेदो यो वेदैनं स वेदवित्।।२१।।
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियासमः।।
नाशयन्त्याशु पापानि महापातकजान्यपि ।।२२।।
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात्।।
तथा ज्ञानाग्निना पापं क्षिप्रं दहति वेदवित्।।२३।।
ये वासुदेवं जगतामधीशं भक्त्या गताः सर्वजगत्प्रधानम् ।।
ते पातकान्याशु विधूय लोके भवन्ति चन्द्रार्कसमप्रभावाः।।२४।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० प्रायश्चित्तो नाम चतुःसप्ततितमोऽध्यायः।।७४।।
2.75
राम उवाच ।।
प्रेतशुद्धिं समाचक्ष्व सूतिकाशुद्धिमेव च ।।
द्रव्यशुद्धिं च भगवंस्त्वं हि वेत्सि यथातथा ।। १ ।।
पुष्कर उवाच ।।
दशाहं शावमाशौचं सपिण्डेषु विधीयते ।।
जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ।। २ ।।
द्वादशाहेन राजन्यः पक्षाद्वैश्यो विशुध्यति ।।
मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ।। ३ ।।
आनुलोम्येन पत्नीनां दासीनां च भृगूत्तम ।।
स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौतुकम् ।। ४ ।।
षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ।।
ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ।। ५ ।।
विट्शूद्रयोनौ शुद्धिः स्यात्क्षत्त्रियस्य तथैव च ।।
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ।।६ ।।
अदन्तजातबाले तु सद्यः शौचं विधीयते ।।
बाले त्वकृतचूडे च विशुद्धिर्नैशिकी स्मृता ।। ७ ।।
तथा चानुपनीते तु त्रिरात्राच्छुद्धिरिष्यते ॥
ततः परं दशाहेन शुद्धेयुस्तस्य बान्धवाः॥८॥
ऊनत्रिवार्षिके शुद्धे पञ्चाहा शुद्धिरिष्यते ॥
द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये।।९।।
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता।।
स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता।।2.75.१०।।
तथा हि कृतचूडानां त्र्यहाच्छुध्यन्ति बान्धवाः ॥
विवाहितासु नाशौचं पितृपक्षे विधीयते ॥ ११ ॥
पितृगृहे प्रसूतायां विशुद्धिर्नैशिकी स्मृता ॥
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥ १२ ॥।
विवाहिताऽपि चेत्कन्या म्रियते पितृवेश्मनि ॥
तस्यास्त्रिरात्राच्छुध्यन्ति बान्धवा नात्र संशयः ॥ १३॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ॥
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥ १४ ॥
सस्नानं खलु शौचं च प्रथमेन समापयेत् ॥
असमानं द्वितीयेन धर्मराजवचो यथा ॥ १९ ॥
देशान्तरस्था: श्रुत्वा तु कुल्यानां मरणोद्भवौ ॥
यच्छेषं दशरात्रस्य तावदेव शुचिर्भवेत् ॥ १६ ॥
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्॥
तथा संवत्सरेऽतीते स्नात एव च शुद्ध्यति ॥ १७ ॥
मातामहे तथातीते आचार्ये च तथा मृते ॥
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १८ ॥
परपूर्वासु भार्यासु त्रिरात्राच्छुद्धिरिष्यते ॥
निवासे राजनि प्रेते मातुले श्वशुरे तथा ॥ १९ ॥
आचार्यपत्नीपुत्रेषु शिष्ये सब्रह्मचारिणि ॥
एकरात्रमशौचं स्यादन्नदाने तथा मृते ॥ 2.75.२० ॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम् ॥
सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥ २१ ॥
दशरात्रेण शुद्धयन्ति द्वादशाहेन भूमिपाः ॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन भार्गव ॥२२॥
भृग्वग्न्यनाशनांभोभिर्मृतानामात्मघातिनाम् ॥
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥ २३ ॥
सती व्रती ब्रह्मचारी नृपकारकदीक्षिताः ॥
नाशौचभाजः कथिता राजकार्यकराश्च ये ॥२४॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ॥
सवासा जलमाप्लुत्य घृतं प्राश्य विशुध्यति॥
मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥ २५॥
जननमरणयोः शुचिर्दशाहेन भवति शौचविधेर्न विप्रयोज्यम् ॥
न च भवति प्रतिग्रहेषु दोषो द्विपद चतुष्पदधान्यदक्षिणासु।।२६।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने शौचविधिर्नाम पञ्चसप्ततितमोऽध्यायः।।७५।।