विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १२१-१२५

← अध्यायाः ११६-१२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १२१-१२५
वेदव्यासः
अध्यायाः १२६-१३० →

2.121
राम उवाच ।।
नरकाद्यान्ति तिर्यक्त्वं ततो मानुष्यमेव च ।।
तेषां चिह्नानि मे ब्रूहि मानुष्ये वरुणात्मज ।।१।।
पुष्कर उवाच ।। मणिमुक्ताप्रवालानि रत्नानि विविधानि च ।।
अपहृत्य नरो राम जायते हेमकर्तृषु ।। २ ।।
यद्वा तद्वा परद्रव्यमपहृत्य नरो बलात् ।।
प्राप्नोति भृगुशार्दूल मानुष्ये भारवाहिताम् ।। ३ ।।
यं कञ्चिद् घातयित्वापि प्राणिनं भृगुनन्दन ।।
मांसं भुक्त्वा तु धर्मज्ञ भवतीह गदातुरः ।। ४ ।।
सुवर्णचोरः कुनखी सुरापः श्यावदन्तकः ।।
ब्रह्महा क्षयरोगी स्याहुश्चर्मा गुरुतल्पगः ।। ५ ।।
पिशुनः पूतिनासः स्यात्सूचकः पूतिवक्त्रकः ।।
धान्यचौरोङ्गहीनः स्यादव्यङ्गो मिश्रहृद्भवेत् ।। ६ ।।
व्याधितश्चान्नहर्ता स्यान्मूको वागपहारकः ।।
वस्त्रापहारकः श्वित्री पङ्गुश्चाश्वापहारकः ।। ७ ।।
खल्वाटो मत्सरी राम नास्तिको वेदनिन्दकः ।।
भूय एव समाप्नोति तथा नास्तिकतां द्विज ।। ८।।
अन्धो दीपापहारी स्यात्काणो निर्वापकस्तथा ।।
अन्धो भवति गोघ्नस्तु घाण्टिकस्तैलिकस्तथा ।। ९ ।।
दरिद्रः परवित्तघ्नो उन्मत्तश्च तथाग्निदः ।।
प्रतिकूलो गुरोर्यस्तु सोऽपस्मारी प्रजायते ।। 2.121.१० ।।
मिष्टाश्येको महाभाग वातगुल्मी भवेन्नरः ।।
खगभक्ष्यस्तु कुण्डाशी दीर्घरोगी च पीडकः ।। ११ ।।
भवतीह मृगव्याधस्त्वविक्रेयस्य विक्रयात् ।।
श्लीपदी चावकीर्णी स्यान्मूर्खश्चाक्रोशको भवेत् ।।१२।।
उक्तास्तु मुख्या हि मया तिरश्चां या योनयो यानि च लक्षणानि ।।
शक्यं न कार्त्स्येन मया प्रवक्तुं या यातनाश्चैव नराधमानाम् ।।१३।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० नारकिचिह्नवर्णनन्नामैकविंशत्युत्तरशततमोऽध्यायः ।। १२१ ।।
2.122
मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा यदुश्रेष्ठ रामो रतिकरः पितुः ।।
पपात भुवि निश्चेष्टश्छिन्नमूल इव द्रुमः ।। ।। १ ।।
तं विसंज्ञं महाभाग पीनोन्नतपयोधराः ।।
सचन्दनैः शीतजलैः सिषिचुर्देवयोषितः ।। २ ।।
वारुणेराज्ञया चान्यास्तालवृन्तैर्मनोरमैः ।।
वीजयन्ति महाभाग रामं धर्मभृतां वरम् ।। ३ ।।
लब्धसंज्ञं मुहूर्तेन भार्गवं चित्तविह्वलम् ।।
आश्वासयामास तदा वारुणिः परवीरहा ।। ४ ।। ।
समाश्वस्तस्ततो रामः पप्रच्छ वरुणात्मजम् ।।
दुर्गातितरणं वीरो रामो धर्मभृतां वरः ।। ५ ।।
राम उवाच ।। ।।
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः ।।
दुर्गाण्यतितरेद्येन ब्रूहि मे वरुणात्मज ।। ६ ।।
पुष्कर उवाच ।।
आश्रमेषु यथोक्तेषु यथोक्तं ते द्विजातयः ।।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ।। ७ ।।
ये दम्भान्न जहतीह येषां वृत्तिश्च संवृता ।।
विषयाँश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते ।। ८ ।।
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ।। ९ ।।
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।।
वर्जयन्ति दिवास्वापं दुर्गाण्यतितरन्ति ते ।। 2.122.१० ।।
स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ ।।
अग्निहोत्रपराः सन्तो दुर्गाण्यति तरन्ति ते ।। ११ ।।
आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ।।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ।। १२ ।।
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा ।।
निक्षिप्तदण्डा भूतानां दुर्गाण्यतितरन्ति ते ।। १३ ।।
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः ।।
येषामर्थश्च साध्वर्थो दुर्गाण्यतितरन्ति ते ।। १४ ।।
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।।
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ।। १५ ।।
येषां न कश्चित्त्रसति त्रस्यन्ति न च कस्यचित् ।।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते।।१६।।
परश्रिया न तप्यन्ते सन्तः पुरुषसत्तमाः ।।
ग्राम्यास्वाद निवृत्ताश्च दुर्गाण्यतितरन्ति ते।।१७।।
सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते ।।
ये श्रद्दधानाः पुरुषा दुर्गाण्यतितरन्ति ते।।१८।।
ये न लोभान्नयन्त्यर्थान्राजानो रजसा वृताः ।।
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते।।१९।।
ये न मानितुमिच्छन्ति मानयन्ति च ये नरान् ।।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ।।2.122.२०।।
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ।।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते।।२१।।
ये क्रोधं नैव कुर्वन्ति क्रोधार्तं शमयन्ति च ।।
न च कुप्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते।।२२।।
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः।।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते।।२३।।
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् ।।
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ।।२४।।
तडागारामकर्तारस्तथान्ये वृक्षरोपकाः ।।
कूपानां ये च कर्तारो दुर्गाण्यतितरन्ति ते ।। २५ ।।
गवां ग्रासप्रदातारो गवां कण्डूयकाश्च ये।।
भक्तिमन्तो गवां ये च दुर्गाण्यति तरन्ति ते ।। २६ ।।
पूजयन्ति सदा विप्रान्साधूनपि गुरूँस्तथा ।।
तपस्विनश्च धर्मज्ञ दुर्गाण्यतितरन्ति ते ।। २७ ।।
गायत्रीजापनिरतास्तीर्थयात्रारताश्च ये ।।
ये चैकमाश्रितास्तीर्थं दुर्गाण्यतितरन्ति ते ।। २८ ।।
ये चैकमाश्रिता देवं सर्वभावेन भार्गव ।।
धर्मज्ञाश्च विनीताश्च दुर्गाण्यति तरन्ति ते ।। २९ ।।
सायं प्रातश्च भुञ्जानाः पिबन्त्यापस्तु ये नराः ।।
सदोपवासिनो राम दुर्गाण्यतितरन्ति ते ।। 2.122.३० ।।
उपवासरता नित्यं नित्यं व्रतपरायणाः।।
नित्यं संयतचित्ताश्च दुर्गाण्यतितरन्ति ते।।३३।।
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।।
कथयन्ति च विप्रेभ्यो दुर्गाण्यति तरन्ति ते ।। ३२ ।।
ईश्वरः सर्वभूतानां जगतां प्रभवोऽप्ययः ।।
भक्ता नारायणे चैव दुर्गाण्यतितरन्ति ते ।। ३३ ।।
भक्तानां केशवे राम न भयं विद्यते क्वचित् ।।
तथा गीतश्च श्लोकोऽयं यमेन शृणु भार्गव ।। ३४ ।।
पृथ्वीशतस्करभुजङ्गहुताशविप्रदुःस्वप्नदुष्टगतमृत्युसपत्नजातम् ।।
संविद्यते न हि भयं भुवनैकभर्तुर्भक्ताश्च ये मधुरिपोर्मनुजेषु तेषु ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने दुर्गातितरणवर्णनन्नाम द्वाविंशत्युत्तरशततमोध्यायः।। १२२ ।।
2.123
राम उवाच ।।
भूय एव समाचक्ष्व कर्मणा येन मानवाः ।।
दुर्गाण्यतितरन्त्याशु सर्वधर्मभृतां वर ।। १ ।।
पुष्कर उवाच ।।
दुर्गाण्यतितरन्त्याशु ये नरा कृच्छ्रकारिणः ।।
प्राप्नुवन्ति तथा कामान्सर्वान्वै मनसेप्सितान् ।। २ ।।
राम उवाच ।।
कृच्छ्राणां श्रोतुमिच्छामि नामानि च विधींस्तथा ।।
एवं मे ब्रूहि धर्मज्ञ त्वं हि वेत्सि यथातथम् ।। ३ ।।
पुष्कर उवाच ।।
कृच्छ्राण्येतानि कार्याणि राम वर्णत्रयेण च ।।
कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ।। ४ ।।
आदौ तु मुण्डनं कार्यं सर्वकृच्छ्रे भार्गव ।।
नित्यं त्रिषवणस्नानं केशवस्य च पूजनम् ।। ५ ।।
होमः पवित्रमन्त्रैश्च तथान्ते जाप्य एव च ।।
स्त्रीशूद्रपतितानां च तथालापं विवर्जयेत् ।। ६ ।।
एतत्कृच्छ्रेषु सर्वेषु कर्तव्यं चाविशेषतः ।।
वीरासनं च कर्तव्यं कामतोऽप्यथवा न वा ।।७।।
वीरासनेन सहितं कृच्छ्रं बहुगुणं भवेत् ।।
वीरासनेन रहितं विधिहीनं प्रकीर्तितम् ।। ८ ।।
राम उवाच ।।
वीरासनमहं त्वत्तः श्रोतुमिच्छामि सुव्रत ।।
वीरासनेन सहितं कृच्छ्रं बहुगुणं यतः ।। ९ ।।
पुष्कर उवाच ।।
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ।।
एतद्वीरासनं प्रोक्तं महापातकनाशनम् ।। 2.123.१० ।।
आमिक्षया तु द्वौ मासौ पक्षं तु पयसा तथा ।।
अष्टरात्रं तथा दध्ना त्रिरात्रमथ सर्पिषा ।। ११ ।।
निराहारस्त्रिरात्रं तु कुर्याद्वा तालकव्रतम् ।।
सर्वपापप्रशमनं सर्वकामप्रदं तथा ।। १२ ।।
स्नपयेदात्मनोऽर्थाय पावकं भृगुनन्दन ।।
वह्नौ ततोऽऽनुजुहुयाद्दद्यादन्नञ्च कस्यचित् ।। १३ ।।
ब्रह्मा देवेति मन्त्रेण साध्यमाने विचक्षणः ।।
दर्भांस्तु खलु बध्नीयाद्रक्षार्थमिति नः श्रुतिः ।। १४ ।।
श्रितं च श्राप्यमाणं च भाण्डे न्यस्त तथा पुनः ।।
अनेन राम मन्त्रेण नरस्त्रिरभिमन्त्रयेत् ।। १५ ।।
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।।
निर्णोदः सर्वपापानां पवित्रमृषिभिः। स्मृतम् ।। १६ ।।
घृतं यवा मधु यवा आपो वा अमृतं यवाः ।।
सर्वं पुनीत मे पापं यन्मया दुष्कृतं कृतम् ।। १७ ।।
वाचा कृतं कर्मकृतं दुःस्वप्नं दुर्विचिन्तितम् ।।
अलक्ष्मीं नाशय तथा सर्वं पुनीत मे यवाः ।। १८ ।।
श्वसुकरावलीढं च ह्युच्छिष्टोपहृतं च यत् ।।
मातुर्गुरोरशुश्रूषा सर्वं पुनीत मे यवाः ।। १९ ।।
गणान्नं गणिकान्नं च शूद्रान्नं च तथा विशाम् ।।
चौरस्यान्नं नवश्राद्धं सर्वं पुनीत मे यवाः ।। 2.123.२० ।।
बालवृत्तमधर्मं च राजधर्मकृतं च यत् ।।
सुवर्णस्तेयमव्रात्यमयाज्यस्य च याजनम् ।। २१ ।।
ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ।।
भाण्डेन्यस्तस्य मन्त्रोऽयं ततस्तु परिकीर्तयेत।।२२।।
(ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा)
अनेनात्मनि धर्मज्ञ जुहुयात्प्रयतः सदा ।।
न कुर्यादतिसौहित्यं व्रतमेतद्धि यावकम् ।। २३ ।।
मेधार्थिनस्त्रिरात्रं तु षड्रात्रमतिपापिनः ।।
उपपातकिनः प्रोक्तं सप्तरात्रमरिन्दम ।।२४।।।
महापातकिनश्चैव षड्रात्त्रं द्विगुणं स्मृतम् ।।
एकविंशतिरात्रेण कामानाप्नोत्यभीप्सितान् ।। २५ ।।
मासेन सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ।।
गवां निर्हारमुक्तैस्तु यवैः कृत्वैतदेव हि ।। ।।२६ ।।
फलं प्राप्नोति धर्मज्ञ तथा दशगुणं ध्रुवम् ।।
मासेन साक्षात्त्रिदशान्वेदान्विद्याश्च पश्यति ।। २७ ।।
वरशापसमर्थस्तु तथा भवति भार्गव ।।
शुक्लपक्षसमारम्भादारभेत्प्रत्यहं नरः ।। २८ ।।
एकैकवृद्ध्या ह्यश्नीयात्पिण्डाञ्श्रीखण्डसंयुतान् ।।
एकैकं ह्रासयेत्कृष्णे प्रतिपत्प्रभृति क्रमात् ।। २९ ।।
हविष्यस्य महाभाग नाश्नीयाच्चन्द्रसंक्षये ।।
एतच्चान्द्रायणं प्रोक्तं यवमध्यं महात्मभिः ।। 2.123.३० ।।
एतदेव विपर्यस्तं वज्रमध्यं प्रकीर्तितम् ।।
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतम् ।। ३१ ।।
प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ।।। ।
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।। ३२ ।।
मासेन भक्षयेदेतत्सुरचान्द्रायणं स्मृतम् ।।
गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयम् ।३३।
स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ।।
स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् ।। ३४ ।।
एतत्सोमायनं नाम व्रतं कल्मषनाशनम् ।।
त्र्यहं पिबेदपस्तूष्णास्त्र्यहमुष्णं पयः पिबेत् ।। ३५ ।।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्ष्यो भवेत्त्रयहम् ।।
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितम् ।। ३६ ।।
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतीन् ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। ३७ ।।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।।
एतच्च प्रत्यहाभ्यस्तं महासान्तपनं स्मृतम् ।। ३८ ।।
कृच्छ्रं पराकसंज्ञं स्याद्द्वादशाहमभोजनम् ।।
एकभुक्तेन नक्तेन तथैवायाचितेन च ।। ३९ ।।
उपवासेन चैकेन कृच्छ्रपादः प्रकीर्तितः ।।
एतदेव त्रिरभ्यस्तं शिशुकृच्छ्रं प्रकीर्तितम् ।। 2.123.४० ।।
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् ।।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः ।। ४१ ।।
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।।
एकैकमुपवासं च सौम्यकृच्छं प्रकीर्तितम् ।। ४२ ।।
अम्बुसिद्धैस्तथा मासः केवलैर्वारुणं समैः ।।
फलैर्मासेन कथितं फलकृच्छ्रं मनीषिभिः ।। ४३ ।।
श्रीकृच्छ्रं श्रीफलैः प्रोक्तं पद्माक्षैरपरं तथा ।।
मासमामलकैरेव श्रीकृच्छ्रमपरं स्मृतम् ४४ ।।
पत्रैर्मतं पत्रकृच्छ्रं पुष्पैस्तत्कृच्छ्रमुच्यते ।।
मूलकृच्छ्रं तथा मूलैस्तोयकृच्छ्रं जलेन तु ।। ४५ ।।
दध्ना क्षीरेण तक्रेण पिण्याकेन कणैस्तथा ।।
शाकैर्मासं तु कार्याणि सुनामानि विचक्षणैः ।। ४६ ।।
सायं प्रातस्तु भुञ्जानो नरो यो नान्तरा पिबेत् ।।
षडभिर्वर्षैरिदं प्रोक्तं कृच्छ्रं नित्योपवासिता ।। ४७ ।।
एकभक्तेन मासेन कथितं चैकभक्तकम् ।।
न तु कृच्छ्रं तु नक्तेन महत्संवत्सराद्भवेत् ।। ४८ ।।
नक्ताशिनस्तु धर्मज्ञ एकभुक्तस्य वा पुनः ।।
त्र्यहं वोपवसेद्युक्तः स्नायीत सवनत्रयम्।।४९।।
निम्नवत्सु तथैवाप्सु त्रिः पठेदघमर्षणम् ।। ।
देवताभाववृत्तस्तु च्छन्दश्चैवाप्यनुष्टुभम् ।। 2.123.५० ।।
संस्मरेत्तस्य च तथा ऋषिं चैवाघमर्षणम् ।।
चतुर्थेऽहनि दातव्या ब्राह्मणाय तपस्विने ।। ५१ ।।
त्र्यहं जपेद्यथाशक्ति शुचिश्चैवाघमर्षणम् ।।
भाववृत्तस्तथा देवस्तथा च पुरुषः परः ।। ५२ ।।
तद्दैवत्यं विजानीयात्सूक्तं तदघमर्षणम् ।।
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।। ५३ ।।
तथाघमर्षणं सूक्तं सर्वकल्मषनाशनम् ।।
कृष्णाजिनं वा कुतपं परिधायाथ वल्कलम्।।५४।।
संवत्सरं व्रतं कुर्यात्सम्मितं नाम भार्गव ।।
गृहं न प्रविशेत्तत्र भवेदाकाशशायकः ।। ५५ ।।
अशक्तौ वा भवेद्राम तथा शैलगुहाशयः ।।
नित्यं त्रिषवणस्नायी तथा स्याद्द्विजसत्तम।।५६।।
भैक्ष्यशाकफलाहारः कामं स्याद्द्विजपुङ्गव ।।
वीरासनं तथा कुर्यात्काष्ठमौनं तथैव च।।५७।।
सर्वकामप्रदं ह्येतत्सर्वकल्मषनाशनम् ।।
वायव्यं कृच्छ्रमुक्तं तु पाणिपूरान्नभोजिनः ।। ५८ ।।
मासेनैकेन धर्मज्ञ सर्वकल्मषनाशनम् ।।
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमुच्यते ।। ५९ ।।
लाजाप्रसृतिमप्येकां कनकेन समन्विताम् ।।
भुञ्जानस्य तथा मासं कृच्छ्रं धनददैवतम् ।। 2.123.६० ।।
गवां निर्हारनिर्मुक्तैर्यवैः सक्तून्समन्त्रतः ।।
याम्यं कृच्छ्रं विनिर्दिष्टं मासेन भृगुनन्दन ।। ६१ ।।
गोमूत्रेण चरेत्स्नानं वृत्तिं गोमयमाचरेत् ।।
गवां मध्ये सदा तिष्ठेद्गोपुरीषे च संवसेत्।।६२।।
गोष्वतृप्तासु न पिबेदुदकं भृगुनन्दन ।।
अभुक्तासु तु नाश्रीयादुत्थितासूत्थितो भवेत्।।६३।।
तथा चैवोपविष्टासु सर्वासूपविशेन्नरः ।।
मासेनैकेन कथितं गोमूत्रं कल्मषापहम् ।। ६४ ।।
अजाकृच्छ्रं तथैवैतदजामध्ये तु वर्ततः ।।
तृणानां भक्षणेनेह समतुल्यफले उभे ।। ६५ ।।
द्वादशाहेन कथितं सर्वपातकनाशनम् ।।
उपोषितश्चतुर्दश्यां पञ्चदश्यामनन्तरम् ।। ६६ ।।
पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम् ।।
ब्रह्मकूर्चमिदं कुर्यादुक्तप्रशमनाय वै ।। ६७ ।।
पक्षान्ते त्वथ वा कार्यं मासमध्ये तु वा पुनः ।।
ब्रह्मकूर्चं नरः कुर्यात्पौर्णमासेषु यः सदा ।।६८।।
तस्य पापं क्षयं याति दुर्भुक्तादि न संशयः ।।
मासाभ्यां च नरः कृत्वा ब्रह्मकूर्चं समाहितः ।। ६९ ।।
सर्वपापविनिर्मुक्तो यथेष्टां गतिमाप्नुयात् ।।
ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च ।। 2.123.७० ।।
योगभूतं परिचरेत्केशवं महदाप्नुयात् ।।
एवमेतानि कृच्छ्राणि कथितानि मया तव ।।७१ ।।
शासनानीह पापानां दुरितानां च भार्गव ।।
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ।। ७२ ।।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ।।
अज्ञातं यदि वा ज्ञातं कृच्छ्रं पापं विशोधयेत् ।। ७३ ।।
कृच्छ्रसंशुद्धपापानां नरकं न विधीयते ।।
श्रीकामः पुष्टिकामश्च स्वर्गकामस्तथैव च ।। ७४ ।।
देवताराधनपरस्तथा कृच्छ्रं समाचरेत् ।।
रसायनानि मन्त्राश्च तथा चैवौषधाश्च ये ।। ७५ ।।
तस्य सर्वे हि सिध्यन्ति यो नरः कृच्छ्रकृद्भवेत् ।।
वैदिकानि च कर्माणि यानि काम्यानि कानिचित् ।। ७६ ।।
सिध्यन्ति सर्वाणि सदा कृच्छ्रकर्तुर्भृगूत्तम ।।
तेजसा तस्य संयोगो महता चैव जायते ।। ७७ ।।
वाञ्छितान्मानसान्कामान्स चाप्नोति न संशयः ।।
ज्ञातो भवति देवेषु तथा चर्षिगणेषु च ।।
विपाप्मा वितमस्कश्च संशुद्धश्च विशेषतः ।।७८।।
आराधनार्थं पुरुषोत्तमस्य कृच्छ्राणि कृत्वा मधुसूदनस्य ।।
सुरोत्तमानां समतीतलब्धं तल्लोकमाप्नोति जनार्दनस्य ।। ७९ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृच्छ्रप्रायश्चित्तवर्णन्नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ।। १२३ ।।
2.124
।। राम उवाच ।।
वैदिकानि समाचक्ष्व कर्माणि सुरसत्तम ।।
अधिकारी भवेद्येषां कृच्छ्रकारी त्वनन्तरम् ।। १ ।।
पुष्कर उवाच ।।
शृणु काम्यानि कर्माणि पुष्कलानि ममानघ ।।
प्रतिवेदं महाभाग गदतो भृगुनन्दन ।। २ ।।
अन्तर्जले तथा होमे जपेच्च मानसेप्सितम् ।।
कामं करोति गायत्री प्राणायामाद्विशेषतः ।। ३ ।।
गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज ।।
बहिः स्नातस्य तत्रैव सर्वकल्मषनाशनः ।। ४ ।।
दशायुतानि जप्त्वा च हविष्याशी सुसंयतः ।।
वायुभूतस्तदाप्नोति यद्विष्णोः परमं पदम् ।।५।।
परस्य ब्रह्मणो राम वाचकः प्रणवः स्मृतः ।।
पुरुषस्याप्रमेयस्य सर्वगस्याविनाशिनः ।। ६।।
तज्जपेनेह पूयन्ते येऽपि दुष्कृतकारिणः ।।
कारपूतं सलिलं नाभिमात्रोदकस्थितः ।। ७ ।।
शतजप्तं पिबेद्यस्तु स पापैर्विप्रमुच्यते ।।
अकारश्चाप्युकारश्च मकारश्च भृगूत्तम ।। ८ ।।
यजुर्वेदः सामवेद ऋग्वेदश्च विचक्षणैः ।।
कथितस्तु त्रिमात्रश्च प्रणवः परिकीर्तितः ।।९।।
मात्रात्रयं तु प्रणवस्त्रयो देवाः सनातनाः ।।
एत एव त्रयो लोकास्त्रयश्चैवाग्नयस्तथा ।। 2.124.१० ।।
महाव्याहृतिभिर्होमात्सर्वपापैः प्रमुच्यते ।।
महाव्याहृतयो ज्ञेयाः सप्तलोका विचक्षणैः ।। ११ ।।
गायत्री परमा जप्ये होमे व्याहृतयस्तथा ।।
अन्तर्जले तथा राम प्रोक्तश्चैवाघमर्षणः ।। १२ ।।
अग्निमीळे पुरोहित सूक्तोऽयं वह्निदेवतः ।।
शिरसा धारयेद्वह्निं यो जपेत्परिवत्सरम् ।। १३ ।।
होमं त्रिषवणं चैव तथा तेन समाचरेत् ।।
अनग्निज्वलनं कुर्याद्भैक्षाहारस्तु वत्सरान् ।। १४ ।।
अतः परमृचः सप्त चाग्नेय्यः परिकीर्तिताः ।।
ता जपन्प्रयतो नित्यमिष्टान्कामान्समश्नुते ।। १५ ।।
मेधाकामो जपेन्नित्यं सदसत्पदमित्यृचम् ।।
अम्बयो यान्ति याः प्रोक्ता न बन्धोमृत्युनाशिनी ।। १६ ।।
शुनःशेफमृषिं तद्वत्संनिरुद्धोऽथ वा जपेत् ।।
मुच्यते सर्वपापेभ्यो गदाचापगदी गदन् ।। १७ ।।
यदीच्छेच्छाश्वतं काममिन्द्रात्प्राप्तं पुरन्दरात् ।।
ऋग्भिः षोडशभिः स्तूयादिन्द्रमेति दिनेदिने ।। १८ ।।
हिरण्यस्तूपमित्येतज्जपञ्शत्रून्प्रबाधते ।।
क्षेमी भवति चाध्माने ये ते पक्ता जपन्नरः ।। १९ ।।
रौद्रीभिः षड्भिरीशानं स्तूयाद्यो वै दिनेदिने ।।
चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् ।। 2.124.२० ।।
उदित्युद्यन्तमादित्यमुपतिष्ठेद्दिनेदिने ।।
क्षिपेज्जलाञ्जलीन्सप्त मनोदुःखविनाशनम् ।। २१ ।।
द्विषन्तमित्यथानर्च्य द्विष्यन्तं च जपन्स्मरेत् ।।
अगच्छन्सप्तरात्रेण विद्वेषमधिगच्छति।।२२।।
आरोग्यकामो रोगी च प्रस्कन्नस्योत्तमं जपेत् ।।
उत्तमस्तस्य चावजपेद्वैरविनाशने ।। २३ ।। ।।
उदयत्यायुरक्षय्यं तेजोमध्यन्दिने जपेत् ।।
अस्तं व्रजति सूर्ये च द्विषन्तं प्रतिपादितम् ।। ।। २४ ।।
नवपद्येति सूक्तानि जपञ्शत्रून्नियच्छति ।।
एकादश सुवर्णस्य सर्वकामांस्तु निर्दिशेत् ।। २५ ।।
आध्यात्मिकैः क इत्येतज्जपन्मोक्षमवाप्नुयात् ।।
आसनो रुद्रमित्येतद्दीर्घमायुरवाप्नुयात् ।। २६ ।।
त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरम् ।।
उपतिष्ठेत्समित्पाणिर्वासांस्याप्नोत्यसंशयम् ।। २७ ।।
आयुरिप्सन्निदमिति कौत्ससूक्तं यदाभ्यसेत् ।।
अप नः शोशुचदिति स्तुत्वा मध्ये दिवाकरम् ।। २८ ।।
यथा मुञ्जादिवेषीका तथा पापं प्रमुञ्चति ।।
जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि ।। २९ ।।
भयैर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयाद्गृहम् ।।
व्युष्टायां च तथा रात्रावेतद्दुःस्वप्ननाशनम् ।। 2.124.३० ।।
प्रमन्दितेति सूर्यस्य जपेद्गर्भविमोचनम् ।।
जपन्निन्द्रमिति स्नातो वैश्वदेवं तु सप्तकम् ।। ३१ ।।
मुञ्चत्याज्यं तथा जुह्वत्सकलं किल्बिषं नरः ।।
इमामिति जपञ्शश्वत्कामानाप्नोत्यभीप्सितान् ।। ३२ ।।
मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचि ।।
औदुम्बरीस्तु जुहुयाद्दधिमध्वाज्यसंस्कृताः ।। ३३ ।।
छित्वा सर्वान्मृत्युपाशाञ्जीवेद्रोगविवर्जितः ।।
ऊर्ध्वबाहुरनेनैव स्तुत्वा शस्त्रं तथैव च ।। ३४ ।।
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।।
अदृश्यः सर्वभूतानां जायते संशयं विना ।। ३५ ।।
चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ।।
समित्पाणिर्नरो नित्यं प्राप्नुयात्तु धनायुषी ।। ३६ ।।
एतद् दुःस्वप्नस्येति च जपन्प्रातर्दिनेदिने।।
दुःस्वप्नं दहते कृत्स्नं भोजनं चाप्नुयाच्छुभम् ।। ३७ ।।
उभेषुनामीति तथा रक्षा च परिकीर्तिता ।।
निर्वर्त्य पञ्चयज्ञांश्च हुत्वा चाग्निं कृताह्निकः ।। ३८ ।।
देवासाविति देव्येदं जपन्कामानवाप्नुयात् ।।
आततायिनमायान्तं दृष्ट्वा व्याघ्रादिकं नरः ।। ३९ ।।
न मा गिरन्निति जपंस्तेभ्य एव प्रमुच्यते ।।
कया शुभेति च जपञ्ज्ञातिश्रैष्ठ्यमवाप्नुयात् ।। 2.124.४० ।।
इमं नु सोममित्येतत्सर्वान्कामानवाप्नुयात् ।।
पित्रन्त्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम् ।। ४१ ।।
नास्य स्यादन्नतो व्याधिर्विषमप्यन्नतामियात् ।।
अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद् घृतम् ।। ४२ ।।
पक्वान्नं प्रतिपद्येत कृत्वा चाकर्म गर्हितम् ।।
वीरान्वयं समाप्नोति सश्लोकं यो जपेत्सदा।।४३।।
कं कता चेति सूक्तेन विघ्नान्सर्वानपोहति ।।
यो जात इति सूक्तेन सुखमाप्नोत्यनुत्तमम्।। ४४।।
ये पराजन्नितीमां तु दुःस्वप्नशमनामृचम् ।।
एकामाहमितीयां तु विज्ञेया श्रीकरी तथा ।। ४५ ।।
चतुर्दशीमुपोष्यैकां कृष्णासु जुहुयाद् घृतम् ।।
आत्तसूक्तेन रौद्रेण व्याधिमेकं विमुञ्चति ।। ४६।।
स्नात्वानश्नञ्जपेदप्सु शीतत्रयमतन्द्रितः ।।
आमिषस्येतयोर्मोहात्कृत्वा वा कर्म गर्हितम् ।।४७।।
अध्वनि प्रस्थितो यस्तु पश्येच्छकुनमुत्थितम् ।।
अप्रशस्ते प्रशस्ते वा कनिक्रदमिदं जपेत् ।। ४८ ।।
अस्पृष्ट्वैव च जप्तव्यमेतत्तस्करमोहनम् ।।
[१]ॐष्वित्यृचमपां मध्ये जपेद्यो वै नदीं तरेत् ।।४९।।
उद्धौर्मिभिरितीमां तु जपेद्रथगतस्तरन् ।। .
अध्वानं प्रस्थितश्चैव मन्त्रैरिति च संस्मरेत् ।। 2.124.५० ।।
सुदातारं सुपुष्ट्यर्थं सर्ववेदे स्थितं नरम् ।।
नास्ति विद्यागमो यस्य सुयुक्तस्यापि भार्गव ।। ५१ ।।
स सर्पीरिति च जपन्मासात्तं प्रतिपद्यते ।।
यानाक्षं समभज्यन्तं दृष्ट्वा दुर्गेऽध्वनि द्विज ।। ५२ ।।
अभित्यवस्येति जपेदृक्षमक्षबलं दधत् ।।
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितः शुचिः ।। ५३ ।।
दक्षिणाप्रवणे देशे श्मशानस्थः समाहितः ।।
रक्तोष्णीष्यसिपाणिश्च तौलाकीभ्योऽनिलाशनः ।। ५४ ।।
सप्ताहं जुहुयात्तैलं सार्षपं लवणान्वितम् ।।
समिधो राजवृक्षस्य वसिष्ठे द्वेषिणीः पठन् ।। ५५ ।।
यं द्विष्यात्तस्य कृत्वा तु शम्या केनाहृतं निशि ।।
अधिष्ठाय च तं कुर्यादृग्भिश्च तिसृभिर्द्विजः ।। ५६ ।।
उद्दिश्य राम होमोऽयं सप्तरात्रं न जीवति ।।
द्वाविंशकं जपन्सूक्तमध्यात्मिकमनुत्तमम् ।। ५७ ।।
पर्वसु प्रयतो नित्यमिष्टान्कामानुपाश्नुते ।।
बृहस्पतिमजाश्वं च सतारं बभ्रुमेव च ।। ५८ ।।
पञ्चर्चेन स्तुवन्नेतान्पञ्चकामानवाप्नुयात्।।
कृणुष्वेति जपन्सूक्तं जुह्वदाज्यं समाहितः।।५९।।
अरातीनां हरेत्प्राणान्रक्षांस्यपि च नाशयेत्।।
उपतिष्ठेत यो वह्निं परीत्य च दिने दिने।।2.124.६०।।
तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः।।
को अद्येति च सूक्तेन वासांसि लभते परम्।।६१।।
कायेति वामदेवेन कुर्यात्स्वस्त्ययनं निशि।।।
हंसः शुचिषदित्येतच्छुचिरीक्षन्दिवाकरम् ।। ६२।।
कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।।
जुहुयात्क्षेत्रमध्ये तु शुना वाहस्तु पञ्चभिः।।६३।।।
इन्द्राय च मरुद्भ्यश्च पर्जन्याय भगाय च ।।
यथालिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः ।। ६४ ।।
पूष्णे धान्याय सीतायै शुनासीरमथोत्तरम् ।। ।
गन्धमाल्योपहारैश्च यजेदेताश्च देवताः ।। ६५ ।।
प्रवापणे प्रलपने खलसीतोपहारयोः ।।
अमोघं कर्म भवति वर्धते सर्वदा कृषिः ।। ६६ ।।।
क्षेत्रस्य पत्ये तत्क्षेत्रं सूर्यदृग्विन्दते भुवम् ।।
आखूत्करेषु चरणौ यजेदेतेन मूषिकाम् ।। ६७ ।।
चित्रा इन्द्रेति च स्तूयान्नास्य वृष्टिभयं भवेत् ।।।
विज्येतिष्येति ज्वलयेद्यत्रेच्छेज्जातवेदसम्।।६८।।
समुद्रादिति सूक्तेन कामानाप्नोति पावकात्।।
विश्वानि च इति द्वाभ्यामृग्भ्यां यो वह्निमर्चति।। ।।६९।।
स तरत्यापदः सर्वाः यशः प्राप्नोति चाक्षयम् ।।
अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितम्।।2.124.७०।।
उरोष्ट इति(५.३८.१) सूक्तेन वित्तमाप्नोत्यसंशयम् ।।
प्रजाकामो जपेन्नित्यं वरुणादेवसन्नया ।। ७१ ।।
स्वस्त्यात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं जपेत् ।।
स्वस्तिपन्थामिति प्रोद्य स्वस्तिमान्व्रजतेऽध्वनि ।।७२।।
विजहीषुर्वनस्यान्ते शत्रूणां बाधनं भवेत् ।।
स्त्रियो गर्भप्रमूढाया गर्भमोक्षणमुत्तमम्।।७३।।
अवच्छादिति सूक्तेन वृष्टिकामः प्रयोजयेत्।।
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति।।७४।।
श्रियः पञ्चदशर्चं तु जपञ्जुहुयाद् घृतेन वा।।
उपैतु मां देवसख इति सर्वौषधीजलैः ।।७५।।
सदा स्नातः श्रियं दीप्तां कुले प्राप्नोत्यसंशयम् ।।
मनसः काम इत्येतां पशुकामो नरो जपेत् ।।७६ ।।
कर्दमेनेति च स्नायात्प्रजाकामः शुचि व्रतः।।
अश्वपूर्वामिति स्नायाद्राज्यकामस्तु मानवः।।७७।।
रोहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि ।।
राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।।७८।।
दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः ।।
अप्सु वा जुहुयाद्राम पद्मान्ययुतशोऽग्निषु।।७९ ।।
इष्टान इत्यृचा वह्निं स्तुवञ्शत्रून्विनाशयेत्।।
आचार इति सूक्तेन गोष्ठे गां लोकमातरम्।।2.124.८० ।।
उपतिष्ठेद्व्रजेच्चैव य इच्छेद्गाः सदाक्षयाः।।
वाक्सिद्धिं तु स्तुवञ्शक्रं महद्धनमवाप्नुयात् ।। ८१ ।।
उपैतेति मृती राज्ञो दुन्दुभीनभिमन्त्रयेत् ।।
तेजो बलं च प्राप्नोति शत्रूंश्चैव नियच्छति ।। ८२ ।।
तृणपाणिर्जपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ।।
ये के च मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात् ।।८३।।
यस्य नष्टं भवेद्द्रव्य सम्पूज्य स जपेन्निशि ।।
सौमारौद्रं जपन्सूक्तं सर्वपापैः प्रमुच्यते ।।८४।।
जीमूतसूक्तेन तथा सेनाङ्गानभिमन्त्रयेत् ।।
यथालिङ्गं ततो राजा विनिहन्ति रणे रिपून् ।। ८५ ।।
अग्निं नरेति सूक्तेन स्तुवन्नग्निं सुखी भवेत् ।।
प्राणपेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ।। ८६ ।।
अभीतयः प्रगाथेन स्तुत्वा शक्रं धनी भवेत् ।।
शंवतीः शन्न इन्द्राग्नी जपेद्व्याधिविनाशनम् ।। ८७ ।।
समुद्रज्येष्ठेति जपेत्सूक्तमेतज्जयावहम् ।
वास्तोष्पते प्रतीत्येतत्सूक्तं वातोष्पतेर्जपेत् ।। ८८ ।।
अनीवहेति सूक्तेन भूतान्निःस्वापयेन्निशि ।।
सम्बाधे विषमे दुर्गे बन्धे वा निगडैः क्वचित् ।। ८९ ।।
पलायित्वा गृहीतो वा सूक्तमेतत्तथा जपेत् ।।
त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम् ।। 2.124.९० ।।
तेनायुतशतं पूर्णं जुहुयात्त्र्यम्बकेत्यृचा ।।
समुद्दिश्य महादेवं जीवेदब्दशतं सुखी ।। ९१।।
तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरम् ।।
उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः ।। ९२ ।।
व्युषा इत्युपतिष्ठेत यः प्रातः प्रयतः शुचिः ।।
प्राप्नुयात्सहिरण्यादि नानारूपधरं बहु ।। ९३ ।।
ध्रुवं सन्ध्यासु क्षितिषु जपन्बद्धः प्रमुच्यते ।।
इदमापः प्रवहत यत्किंचिद्दुरितं पुनः ।। ९४ ।।
अपः प्रविश्य तु जपन्सर्वपापैः प्रमुच्यते ।।
सूक्ताभ्यां पर एताभ्यां हुताभ्यां भूतिमाप्नुयात् ।। ९५ ।।
सूक्ताभ्यां तिस्र एताभ्यामास्यदल्पोदकस्थितः ।।
उपतिष्ठन्रविं देवं पञ्चरात्रे गते नरः ।। ९६ ।।
अनश्नन्भार्गवश्रेष्ठ महद्धर्षमवाप्नुयात् ।।
इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम् ।। ९७ ।।
यस्य लुप्येद्व्रतं मोहाद्वात्यैर्वा संसृजेत्सह ।।
उपोष्याज्यस्य जुहुयात्त्वमग्ने व्रतपा इति।। ९८ ।।
आदित्यदृक्प्रमाद्रौजं जप्त्वा वादी जयी भवेत् ।।
समग्निरग्निभिश्चेति प्रपद्येद्वायुभास्करौ ।। ९९ ।।
अग्निं प्रथमतः स्तुत्वा महत्कष्टात्प्रमुच्यते ।।
न हीति च चतुष्केण मुच्यते महतो भयात् ।। 2.124.१०० ।।
ऋचं जप्त्वा य इत्येतत्सर्वान्कामानवाप्नुयात् ।।
प्राग्भोजनमिदं ब्रह्म मानवानां महर्षिणाम् ।। १०१ ।।
पूर्वाह्णे जपतो नित्यं त्वर्थसिद्धिः परा भवेत् ।।
अग्निनेत्याश्विनं सूक्तं मृजाकरमुदाहृतम् ।। १०२ ।।
समिधेति जुहोत्यग्नौ प्राप्नुयात्कीर्तिमुत्तमाम् ।।
द्विचत्वारिंशकं चैन्द्रं जप्त्वा नाशयते रिपून् ।। १०३ ।।
नाशं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।।
दुःस्वप्नघ्नाः परा जप्या नरः पापैः प्रमुच्यते ।। १०४ ।।
शन्नो भवेति द्वाभ्यां तु भुक्त्वान्नं प्रयतः शुचिः ।।।
हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्नाभिभूयते ।। १०५ ।।
अहोरात्रोषितः स्नात्वा शक्रं सम्पूज्य मानवः ।।
इत इत्याज्यमुत्पूय जुहुयादिन्द्रमचर्येत् ।। १०६ ।।
घृतं तिलं वा धर्मज्ञ भयेभ्यो विप्रमुच्यते ।।
तत्त्वामन्दमिति स्नातो हुत्वा शत्रून्प्रमापयेत् ।।१०७।।
तान्विद्यादित्यदैवत्यं जप्त्वा मुच्येत बन्धनात् ।।
यद्द्याव इति जप्त्वा च सर्वान्कामान्समश्नुते ।। १०८ ।।
पवित्राणां पवित्रं तु पावमानऋचः स्मृताः ।।
वैखानसऋचस्त्रिंशत्पवित्राः परमाः स्मृताः ।। १०९ ।।
ऋचां द्विषष्टिः प्रोक्तं चोपवसेदृषिसत्तमैः ।।
सर्वकल्मषनाशाय पावनाय शिवाय च ।। 2.124.११० ।।
स्वादिष्टयेति सूक्तानां सप्तषष्टिरुदाहताः ।।
दशोत्तरा ऋचश्चैताः पावमान्यः शतानि षट् १११ ।।
एतज्जुह्वञ्जपंश्चैव घोरं मृत्युभयं जयेत् ।।
आध्यात्मिकं पवित्रं च सूक्तं जप्त्वाल्पतः क्वचित् ।। ११२ ।।
गतिमिष्टामवाप्नोति विन्दते महतीं श्रियम् ।।
आपोहिष्ठेति महतः प्रयुञ्जीतोदकस्थितः ।। ११३ ।।
सर्वपापविनिर्मुक्तस्त्वशेषफलमश्नुते ।।
उपतिष्ठेत राजानं यमसूक्तेन वै द्विज ।। ।। ११४ ।।
चतुर्दश्या तु कुर्वीत स्थालीपाकं यथाविधि ।।
परेयिवांसमित्येतत्सूक्तमत्र प्रयोजयेत् ।। ११५ ।।
पुरायुषः प्रमीयेत न स जातु कथञ्चन ।।
मृत्युमेव प्रपद्येत परं मृत्योरिव द्विज ।। ११६ ।।
वैशाख्यां पौर्णमास्यां तु नक्तभोजी सदा नरः ।।
पुरायुषः प्रमीयेत न स जातु कथञ्चन ।। ११७ ।।
फलाहारो जयेन्मृत्युं त्रिभिर्वर्षैः सदा नरः ।।
दशाक्षरं तु शान्त्यर्थं भद्रं न इति संस्मरन् ।। ११८ ।।
फलाहारो भवेन्मासं मासान्मासं पयः पिबेत् ।।
वायुभक्ष्यो भवेन्मासं जपन्नेतत्सहस्रशः ।। ११९ ।।
अन्तर्धानमवाप्नोति सिद्धान्पश्यति चारणान् ।।
प्रदेवतेति नियतो जपेत मरुधन्वसु ।। 2.124.१२० ।।
प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।।
वैभीतकांस्तु त्रीनक्षान्गन्धैः समधिवासयेत् ।। १२१ ।।
पुष्पैरवकिरेच्चैव स्थापयित्वा विहायसि ।।
संहृत्य पादौ तौ तत्र तिष्ठेद्दक्षस्तुतिं जपेत् ।। १२२ ।।
प्रावे मासेत्यृचामेकां जपेच्च मनसा निशि ।।
व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ।। १२३ ।।
अब्रध्नमुषसानक्तेत्येतत्स्वस्त्ययनं जपेत् ।।
नमो मित्रस्य वरुणस्य चक्षुषेति च नित्यशः ।। १२४ ।।
तथाज्यं जुहुयान्नित्यं भीतिभ्यो विप्रमुच्यते ।।
देवस्यरीति नित्यं तु जपेद्देवं समश्नुते ।। १२५ ।।
मा प्रगामीति मूढस्तु पन्थानं पथि विन्दति ।।
क्षीणायुरिति मन्येत यं कचित्सुहृदं प्रियम् ।।१२६।।
यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत् ।।
सहस्रकृत्वा पञ्चाहं तेनायुर्विन्दते पुनः।।१२७।।
स्रुक्स्रुवे दशमेनैव इध्ममौदुम्बरं भवेत् ।।
इदमिध्मेति जुहुयाद् घृतं प्राज्ञः सहस्रशः ।। १२८।।
पशुकामो गवां गोष्ठे अन्नकामश्चतुष्पथे ।।
पारावतः स्वस्त्ययनं स्नातकस्य विधीयते ।। १२९ ।।
बृहस्पते प्रथममिति ज्ञानकामस्य भार्गव ।।
वयः सुपर्णमित्येतां जपन्वै विन्दते श्रियम् ।।2.124.१३०।।
यस्ते मन्यो इति सदा मयत्नघ्नं विधीयते ।।
हविष्मतीयमभ्यस्य सर्वपापैः प्रमुच्यते ।। १३१ ।।
या ओषधीः स्वस्त्ययनं सर्वपापविनाशनम् ।। ।
तस्य माया विनश्येत कायाग्निर्वर्धते तथा ।। १३२ ।।
बृहस्पतिः प्रतीत्येतद् वृष्टिकामः प्रयोजयेत् ।।
सर्वत्र तु परा शक्तिर्ज्ञेया प्रतिरथा तथा ।। ।। १३३ ।।
भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम् ।।
अहं रुद्रेभिरित्येतद्वाग्ग्मी भवति मानवः ।। १३४ ।।
न योनौ जायते विद्वांञ्जपन्नत्रीति रात्रिषु ।।
रात्रिसूक्तं जपन्रात्रौ रात्रिक्षेमी भवेन्नरः ।। १३५ ।।
या कल्पयतीति जपेन्नित्यं कृत्वा विनाशनम् ।।
आयुष्यं चैव वर्चस्यं सूक्तं दाक्षायणं महत् ।। १३६ ।।
उत देवा इति जपेदामयघ्नं धृतव्रतः ।।
अग्ने अग्नाव इत्येद्धनकामः प्रयोजयेत् ।। १३७ ।।
वैभीतकेऽब्दं हुत्वाग्निं द्विषद्द्वेषं ततो जपेत् ।।
द्विषन्तु धन्विनं हुत्वा द्विषतो विन्दते धनम् ।। १३८ ।।
अयमग्ने जनितेति जपेदग्निं भये सति ।।
द्विमार्जन्निति पाठं तु जपन्नुत्थापयेद्द्विजः ।। १३९ ।।
प्रातश्च पाठयेदेनं संसदि ब्रह्मचारिणाम् ।।
इमामिति च सूक्तेन शतकृत्वोऽभिमन्त्रितम् ।। 2.124.१४० ।।
घृतेन पीत्वा तं प्रातः सपत्नीभिर्विमुच्यते ।।
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम् ।। १४१ ।।
श्रद्धासूक्तं जपेन्नित्यं श्रद्धाकामविवर्धनम् ।।
ब्राह्मी यद्यस्य सूक्ते द्वे जपेत नियतः सदा ।। १४२।।
शंखपुष्पीं तु पयसा ब्राह्मीपुष्पाणि सर्पिषा ।।
शतावरी तु पयसा वचामद्भिर्घृतेन वा ।। १४३ ।।
सूक्ताभ्यां ह्यनुमन्त्राभ्यां चैकैकं तु त्र्यहं पिबेत् ।।
श्रद्धां मेधां स्मृतिं पुष्टिं वर्णं लक्ष्मीं च विन्दति ।। १४४ ।।
शासन्नर्थाञ्जपन्नित्यं संग्रामे विजिगीषतः ।।
गृहीतदक्षिणादर्भान्गृहीत्वा संस्पृशेज्जपेत् ।। १४५ ।।
मुञ्चामि त्वा हविषेति यक्ष्माणमपकर्षति ।।
ब्रह्मणाग्निः संविदानं गर्भमृत्युविनाशनम् ।। १४६ ।।
अपेहीति जपेत्सूक्तं शुचिर्दुःस्वप्ननाशनम् ।।
देवाः कपोत इति तु कपोतस्योपवेशने ।। १४७ ।।
कौशिकस्य जपेत्सूक्तं घृतेन जुहुयात्तथा ।।
सपत्नघ्नं प्रयुञ्जीत ऋषभं जपहोमयोः ।। १४८ ।।
येनेदमिति जप्त्वा वै समाधिं विन्दते पराम् ।।
मयोभूर्वात इति तु गवां स्वस्त्ययनं परम् ।। १४९ ।।
यवानां च घृताक्तानां गोमयाग्नौ समाहितः ।।
जुहुयाद्गोष्ठ मध्ये तु दधिमध्वाज्यसंस्कृतम् ।। 2.124.१५० ।।
पतन्तमिति नित्यं तु जपेत विजने वने ।।
शाम्बरीमिन्द्रजालां वा मालामेतेन धारयेत् ।। १५१ ।।
अदृश्यानां च सत्त्वानां मायामेतेन बाधते ।।
न प्रतिष्ठेति स्वस्त्ययनं नारीगर्भविवर्धनम् ।। १५२ ।।
विष्णुर्ण्यानमितीमं च तथैवापरमुच्यते ।।
महित्यृणां मवोस्विति परिस्वस्त्ययनं जपेत् ।। १५३ ।
प्रापयेद्विद्विषद्वेषं जपेच्च रिपुनाशनम् ।।
आयङ्गौः सप्तराज्ञस्तु सर्पानेतैः प्रसाधयेत् ।। ।। १५४ ।।
संसमिद्युवसेच्चैतत्सौभ्रातृकरणं महत ।।
तच्छंयोरावृणीमहे जपेत्स्वस्त्ययनं सदा ।। १५५ ।।
पितॄणां संहितां विद्यात्पितॄन्प्रीणाति वै तथा ।।
वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताम् ।। १५६ ।।
तल्लिङ्गैर्देवतामन्त्रैर्देवाराधनमुच्यते ।।
जपस्येष विधिः प्रोक्तो हुते यज्ञे विशेषतः ।। ।।१५७।।
होमान्ते दक्षिणा देया यथाशक्त्या च भार्गव ।।
हुतेन शम्यते पापं हुतमन्नेन शम्यते ।।१५८।।
अन्नं हिरण्यदानेन अमोघा ब्राह्मणाशिषः।।
सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा।।१५९।।
क्षीरवृक्षास्तथेध्माश्च सर्वकामप्रदाः स्मृताः ।।
समिधः कण्टकिन्यश्च राजिका रुधिरं विषम् ।। ।। 2.124.१६०।।
तैलं च भृगुशार्दूल विज्ञेयमभिचारकम् ।।
सक्तवः फलमूलानि शाकानि विविधानि च ।। १६१ ।।
पयो दधि सुवर्णं च भैक्ष्यं नाशनमुच्यते ।।
हविःस्नानं च कर्तव्यं सर्वत्र भृगुसत्तम।।१६२।।
ऋचां विधानं कथितं तवैतत्समासतः कर्मकरं द्विजानाम् ।।
ततो विधानं यजुषां निबोध समासतो धर्मभृतां वरिष्ठ ।। १६३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० ऋग्विधानं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।।
2.125
पुष्कर उवाच ।।
ॐकारपूर्विका नाम महाव्याहतयः स्मृताः ।।
सर्वकल्मषनाशिन्यः सर्वकर्मप्रदास्तथा।।१।।
आज्याहुतिसहस्रेण देवमाराधयेद्द्विज।।
मनसः कांक्षितं राम मनसेप्तितकामदम् ।। २ ।।
शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये ।।
धान्यैः सिद्धार्थकैश्चैव सर्वकामकरं तथा ।। ३ ।।
औदुम्बरीभिरिध्माभिः पशुकामस्य शस्यते ।।
दश चैवान्नकामस्य पयसा शान्तिमिच्छतः ।। ४ ।।
अपामार्गसमिद्भिश्च कामयन्कनकं बहु ।।
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि च।।५।।
जातीपुष्पाणि जुहुयाद्वामार्थी तिलतण्डुलम् ।।
वशीकर्मणि शाखोटवाशापामार्गमेव च ।। ६ ।।
वसासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ।।
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ।। ७ ।।
सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विजः ।।
सहस्रशस्तु जुहुयात्प्रजावशगतो भवेत् ।। ८ ।।
वस्त्रकामस्य पुष्पाणि दूर्वा व्याधिविनाशनी ।।
ब्रह्मवर्चसकामस्य वामाग्रं च विधीयते ।। ९ ।।
प्रत्यङ्गिरेप्सुर्जुहुयात्तुषकण्टकभस्मभिः ।।
विद्वेषणे च पक्षाणि काककौशिकयोस्तथा ।। 2.125.१० ।।
कापिलं तु घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।।
वचाचूर्णेन संपीतांस्तानानीय च तां वचाम् ।। ११ ।।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।।
सूर्योदयेऽर्काभिमुखं पुत्रकामो जपेन्नरः ।। १२।।
एकादश्यां गुग्गुलं लौहं बैल्वं खादिरमेव वा ।।
द्विषन्तन्त्वां बधानीति निखनेद्रिपुवेश्मनि ।। १३ ।।
उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।।
शक्रं ध्रुवं भूपतये महाव्याहृतिभिर्भवेत् ।। १४ ।।
सूर्यस्त्वेति तथा मन्त्रं ज्ञेया प्रत्यङ्गिरा परा ।।
एतेनौदुम्बरैरिध्मैर्देवं वर्षापयेद्ध्रुवम् ।। १५ ।।
अहोरात्रं जले जप्त्वा चक्षुष्मानित्ययं द्विज ।।
प्रणष्टचक्षुर्धर्मज्ञ योगमाप्नोति चक्षुषः ।।१६ ।।
उपप्रयन्तमित्येतद्धुत्वा विप्रो महानसे ।।
अनुवाकं महाभाग नित्यसन्नेन युज्यते ।। १७ ।।
तनूपाग्नेऽसि इति च दूर्वा हुत्वा रुजान्वितः ।।
व्याधिमोक्षमवाप्नोति नात्र कार्या विचारणा ।। १८ ।।
इहैव तेभ्यः पतितं गृहीत्वा गोमयं द्विज ।।
घृताज्यमधुसंयुक्तं हुत्वा धेनुं तु तां लभेत् ।। १९ ।।
एष ते रुद्रभागेति हुत्वा राम गवेधुकाम् ।।
अर्धर्चेन तथाप्नोति धनं नास्त्यत्र संशयः ।। 2.125.२० ।।
अर्धर्चेन द्वितीयेन क्षेत्रमध्ये बलिं हरेत् ।।
मूषिकाशलभोत्पाते सुरामांसासवादिभिः।।२१।।
भेषजमिति मन्त्रेण दध्याज्यमधुहोमकः ।।
चतुष्पदानां सर्वेषामुपसर्गं विनाशयेत् ।। २२ ।।
त्र्यम्बकं यजामहेति होमः सर्वार्थसाधकः ।।
कन्यानाम गृहीत्वा च कन्यालाभकरः परः ।। २३ ।।
भयेषु च जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।।
धत्तूरपुष्पं सघृतं तथा हुत्वा चतुष्पथे ।। २४ ।। ।
शून्ये शिवालये वापि शिवात्कामानवाप्नुयात् ।।
हुत्वा च गुग्गुलं राम स्वयं पश्यति शङ्करम् ।। २५ ।।
अकृत्या इति चैवाष्टौ ऋचो हुत्वा घृतादिभिः ।।
अन्वहं त्वापदां नाशं स्वकुले कुरुते धुवम् ।। २६ ।।
भवत्युत्तरवादी च जप्त्वा च विदसीत्यृचम् ।।
अग्नेस्तनोरिति तथा हुत्वा च तिल तण्डुलैः ।। २७ ।।
सहस्रशस्तु धर्मज्ञ भवेत्सर्वातिथिर्नरः ।।
युञ्जते मन इत्येतदनुवाकं तु वैष्णवम् ।। २८ ।।
सायं प्रातः समासीत दीर्घमायुरवाप्नुयात् ।।
दिवो वा विष्ण इत्यस्य कर्म व्याहृतिवद्भवेत् ।। २९ ।।
विष्णोरराटमित्येतत्सर्वबाधाविनाशनम् ।।
रक्षोघ्नं च यशस्यं च तथैव विवर प्रदम्।।2.125.३०।।
अयन्नो यज्ञ इत्येतत्संग्रामे विजयप्रदम् ।।
इदमापः प्रवहत स्नाने पापापनोदनम् ।। ३१ ।।
दैवांश इति दैवेतदभिचारेषु योजयेत् ।।
व्याधिघातः समिद्भिस्तु राजिकासृग्विषैस्तथा।।३२।।
यक्ष्माहीति तथा हुत्वा बहिर्निर्गम्य मानवः।।
उपश्रुतिं तु गृह्णीयात्सा तस्यावितथा भवेत्।।३३।।
अग्ने पवस्वेति हुतं ब्रह्मवर्चसकारकम् ।।
उदुत्यं चित्रमित्यस्य कर्म व्याहतिवद्भवेत् ।। ३४ ।।
यस्मान्नरादभ्यधिको नरो भवितुमिच्छति ।।
स्वस्ति नेन्द्रेति तु जपेत्तस्य नामान्तसंयुतम् ।। ३५ ।।
भवत्यभ्यधिकस्तस्माद्विद्यया यशसा श्रिया ।।
तथा होमादनेनैव दासलाभमवाप्नुयात् ।। ३६ ।।
विश्वकर्म हविष्यं च सूचीं लौहीं दशाङ्गुलीम् ।।
कन्याग्रे निखनेद्द्वारि ततस्सास्मै प्रदीयते ।। ३७ ।।
देवस्येति तरीतेन हुतेनैवान्नवान्भवेत् ।।
वाजस्यसति चैतेन हुत्वाज्यं सप्तभिर्द्विजः ।। ३८ ।।
यदेव जुहुयात्पश्चात्तदेवाक्षयमाप्नुयात् ।।
अग्ने अच्छेति जुहुयाद्धनकामो द्विजोत्तमः ।। ।। ३९ ।।
तिलैर्यवैश्च धर्मज्ञस्तथापामार्गतण्डुलैः ।।
सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विजः ।। 2.125.४० ।।
तिलकं च तथा कृत्वा जनस्य प्रियतां व्रजेत् ।।
पौर्णमास्यां तथा हुत्वा मेघं राजानमित्यपि ।। ४१ ।।
उपस्थानं तथा कृत्वा दत्त्वा चान्नं द्विजन्मने ।।
सोमयाजी भवेद्राम नात्र कार्या विचारणा ।। ४२ ।।
एष ते निर्ऋतेत्याभिरभिचारककर्मणा ।।
गृहान्नैर्ऋत्यके भागे हुत्वा स्नात्वा नदीजले ।। ४३ ।।
कापिलाद्गोमयान्नित्यं पञ्चगव्याभिषेचितम् ।।
कृत्वा रुद्रांस्तथा जप्त्वा मैत्र्यमाप्नोति गुह्यकैः ।। ४४ ।।
रुद्राणां च तथा जप्यं सर्वाघविनिषूदनम् ।।
सर्वकर्मकरं होमं तथा सर्वत्र शान्तिदम् ।। ४५ ।।
अजाविकानामश्वानां कुञ्जराणां तथा गवाम् ।।
मनुष्याणां नरेन्द्राणां बालानां योषितामपि ।। ४६ ।।
ग्रामाणां नगराणां च देशानामपि भार्गव ।।
अनिद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।। ४७ ।।
मरणे समनुप्राप्ते रिपुजे च तथा भये ।।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।। ४८ ।।
कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति ।।
सक्तुयावकभैक्ष्याशी नक्तं मनुजसत्तम ।। ४९ ।।
बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया ।।
मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः ।। 2.125.५० ।।
सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम् ।।
हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान् ।। ५१ ।।
गुग्गुलोः कणिकाभिस्तु सौभाग्यं विन्दते ध्रुवम् ।।
कृत्वाष्टपत्रं कमलं तन्मध्ये शशिनं लिखेत् ।। ५२ ।।
लवणेन ततस्तस्य पूजां कृत्वा यथाविधि ।।
सौभाग्यं महदाप्नोति मधुवातेति वै जपन् ।।५३ ।।
जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः ।।
देवतायै निवेद्यैव कुसुमानि शिवं भवेत् ।। ५४ ।।
जीमूतस्यैव भवति मन्त्रं जयकरं द्विज ।।
पयस्वतीति पयसा तथा हुत्वा सहस्रशः ।। ५५ ।।
ब्रह्मवर्चसमाप्नोति दध्ना वा भृगुनन्दन ।।
दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम् ।। ५६ ।।
तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ।।
बोधश्च मेति कथितं तथा स्वस्त्ययनं परम् ।। ५७ ।।
स्वस्ति न इन्द्रेत्येतं च सर्वबाधाविनाशनम् ।।
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ।। ५८ ।।
स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलम् ।।
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।। ५९ ।।
बहित्वदन्यदित्येतत्कर्म व्याहृतिवद्भवेत् ।।
भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत् ।।2.125.६० ।।
हंसः शुचिषदित्येतज्जपंस्तोयेऽघनाशनम् ।।
चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले ।।६१ ।।
देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।।
जप्त्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः ।। ६२ ।।
वसन्तेति च हुत्वाज्यमादित्याद्धनमाप्नुयात् ।।
शिवो भवस्वाग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।। ६३ ।।
याम्येन इति चैतच्च तस्करेभ्यो भयावहम् ।।
दंष्ट्राभ्यामिति चैतच्च व्रीहिभिर्जुहुयान्नरः ।। ६४ ।।
यो अस्मभ्यमरातीयान्हुत्वा कृष्णतिलैर्नरः ।।
सहस्रशोऽभिचारात्तु मुच्यते विकृतिं द्विजः ।। ६५ ।।
अन्नेनान्नपतेत्वेतद्धुत्वा चान्नमवाप्नुयात् ।।
सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवेत् ।। ६६ ।।
मनः स्वतीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात् ।।
रोपयेत वचां राजा चन्द्रे ग्रस्ते जलाशये ।। ६७ ।।
या ओषधय इत्येतज्जपंस्तामुद्धरेत्पुनः ।।
तिरात्रोपोषितः कूर्चां कृत्वा तां ताम्रभाजने ।। ६८ ।।
तेनैव मन्त्रितां चन्द्रं दृष्ट्वा मासं सदा जपेत् ।।
सकापिलघृतक्षीरे पीत्वा श्रुतिधरो भवेत् ।। ।। ६९ ।।
एतमेवौषधीपाने सदा मन्त्रं जपेद्द्विज ।।
सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः ।। 2.125.७० ।।
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ।।
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ।। ७१ ।।
इह गावः प्रजायध्वं मन्त्रोऽयं पुष्टिवर्धनः ।।
हुतस्तु सर्पिषा दध्ना पयसा पायसेन वा ।। ७२ ।।
शतं व इति चैतेन हुत्वा पर्णफलानि वै ।।
आरोग्यं चिरमाप्नोति दीर्घमाप्नोति जीवितम् ।। ७३ ।।
ओषधीः प्रतिमोदध्वं जपेत्कर्मकवत्सदा ।।
लवने बीजवापे वा विशेषात्सिद्धिमाप्नुयात् ।। ७४ ।।
सर्वौषधीः समानीय सर्वव्रीहियुतास्ततः ।।
क्षेत्रमध्ये द्विजो हुत्वा कृषिमाप्नोति पुष्टिदाम् ।। ७५ ।।
अपामार्गं यवं धान्यमोषधीरिति मातरः ।।
गोकामश्चाश्वकामो वा तं कामं शीघ्रमाप्नुयात् ।। ७६ ।।
ओषधीः समजन्तेति हुत्वा चाज्येन मानवः ।।
भयमाप्नोति नैवेह यातुधानभवं क्वचित् ।। ७७ ।।
ग्रन्थावतीति चैतेन पायसं जुहुयाद्द्विज ।।
सर्वत्र शान्तिमाप्नोति नात्र कार्या विचारणा ।। ७८ ।।
सीरां युञ्जति इत्येतद्धुत्वा कृषिमवाप्नुयात् ।।
उच्छुग्मा इति चैतेन बन्धनस्थो विमुच्यते ।। ७९ ।।
युवा सुवासा एतेन वासांस्याप्नोत्यसंशयम् ।।
यस्मिँश्चापः स्थितः काष्ठे तद्गृहीत्वा विचक्षणः ।। 2.125.८० ।।
सायं यक्ष्मेति मन्त्रेण शत्रोस्तु निखनेत्पदे ।।
कुष्ठी भवति चाषस्य पक्षं गृध्रस्य वा पुनः ।। ८१ ।।
सहस्रमन्त्रितं कृत्वा शत्रोः प्रतिकृतिं ततः ।।
तेन बद्ध्वा ततो मृत्युं शत्रुः प्राप्नोत्यसंशयम् ।। ८२ ।।
शत्रुं तु नाशयत्याशु सर्वातङ्कविनाशनम् ।।
प्रपतन्तीति च ऋचा जुहुयादोषधीर्द्विज ।। ८३ ।।
मिष्टान्नभागी भवति भाण्डानां चैव रक्षिता ।।
मा मा हिंसीति चाज्येन हुतं रिपुविनाशनम् ।। ८४ ।।
कान्तारमध्वरस्येति मधुसैन्धवसंयुताम् ।।
सौभाग्यकामो जुहुयात्स्त्रियो वा पुरुषस्य वा ।। ८५ ।।
होमो द्रप्सश्च स्कन्देति वश्यकामस्य शस्यते ।।
नमोस्तु सर्पेभ्य इति पायसं सघृतं नरः ।। ८६ ।।
नागस्थानेति जुहुयात्सुवर्णं प्राप्नुयाद्बहु ।।
कृणुष्व पाज इत्येतदभिचारविनाशनम् ।। ८७ ।।
अग्ने तिष्ठेति जुहुयाद्द्रव्याः खल्वभिचारकाः ।।
शत्रोर्नाम गृहीत्वा तु शत्रुं कुर्यात्तदा वशे ।। ८८ ।।
दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मन्त्रतः ।।
ग्रामे जनपदे वापि मरकं तु शमं नयेत् ।। ८९ ।।
रोगार्तो मुच्यते रोगात्तथा दुःखात्तु दुःखितः ।।
औदुम्बर्यस्तु समिधो मधुमान्नो वनस्पतिः ।। 2.125.९० ।।
हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।। ९१ ।।
योगादिति तथा हुत्वा देवं वर्षापयेद्ध्रुवम् ।।
अपः पिबन्निति तथा हुत्वा दधिघृतं मधु ।। ९२ ।।
प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरम् ।।
अग्निर्देवतेति तथा यवमुष्ट्ययुतं द्विज ।। ९३ ।।
हुत्वा श्रद्धेयवाक्यस्तु सर्वत्रैवाभिजायते ।।
अयं पुरेति जुहुयादनुवाकेन मानवः ।। ९४ ।।
घृतपूर्णानि पद्मानि सहस्रं भृगुनन्दन ।।
कन्यां तां समवाप्नोति यामसौ मनसेप्सति ।। ९५।।
श्रियमाप्नोति च तथा धनमाप्नोत्यनुत्तमम् ।।
नमस्ते रुद्र इत्येतत्सर्वोपद्रवनाशनम् ।। ९६ ।।
सर्वशान्तिकरं प्रोक्तं महापातकनाशनम् ।।
रक्षोघ्नं च यशस्यं च श्रीरायुःपुष्टिवर्धनम् ।। ९७ ।।
अभ्यवोचदित्यनेन रक्षा स्याद्व्याधितस्य तु ।।
सिद्धार्थकानां क्षेपेण पथि चैतत्सदा पठेत् ।। ९८ ।।
क्षेमेण स्वगृहानेति सर्वबाधाविवर्जितः ।।
असौ यस्ताम्र इत्येतत्पठेन्नित्यं दिवाकरम् ।। ९९ ।।
उपतिष्ठेत धर्मज्ञ सायंप्रातरतन्द्रितः ।।
अन्नमक्षय्यमाप्नोति दीर्घमायुश्च विन्दति ।। 2.125.१०० ।।
प्रमुञ्चन्तो न इत्येतत्षड्भिरायुधमन्त्रणम् ।।
रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा ।। १०१ ।।
मानो महान्त इत्येतद्बालानां शान्तिकारकम् ।।
नमो हिरण्यबाहवे इत्यनुवाक् हर्षकारकम् ।।
राजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम् ।। १०२ ।।।।।
नमो वः किरिकेभ्यश्च पद्मलक्षे हुते नरः ।।
राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ।।
बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ।।१ ०३ ।
इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः ।।
शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम् ।। १०४ ।।
अनेनैव तु मन्त्रेण दूर्वाहोमेन मानवः ।।
सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति ।। १०५ ।।
वरारोहेण इध्मानां याते रुद्रशिवा-तनूः ।।
हुत्वाऽयुतं तु धर्मज्ञं पुत्रमाप्नोत्यभीप्सितम् ।। १०६ ।।
असंख्याताः सहस्राणि मन्त्रैस्तदभिचारकम् ।।
नमोऽस्तु रुद्रेभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ।। १ ०७।।
रक्तोष्णीषो रक्तवासा रक्तमाल्यानुलेपनः ।।
अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ।।१ ०८।।
प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन ।।
कृत्यामुत्थापयेज्जातां रक्तकुम्भेन पूजयेत् ।।१ ०९।।
पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत ।।
आशुः शिशान इत्येतदायुधानां च रक्षणम् ।।2.125.११०।।
संग्रामे कथितं राम सर्वशत्रुविनाशनम् ।।
इमं सोममित्येतन्नदीं गत्वा समुद्रगाम् ।। १११ ।।
स्नातस्तोयेऽयुतं जप्त्वा हुत्वा दशशतं ततः ।।
साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सितम् ।।११२।।
वाजश्च मेति जुहुयात्सहस्रं पञ्चभिर्द्विज ।।
आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ।। ११३ ।।
मनोभवस्वेति गृहे तथा हुत्वा विचक्षणः ।।
वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति ।। ११४ ।।
अग्न आयूंषि चैतेन हुत्वेवाज्यमतन्द्रितः ।।
सहस्रशस्तु धर्मज्ञ वशं नाप्नोति केनचित्।।११५।।
अपाम्फेनेति लाजाभिर्हुताभिर्जयमाप्नुयात् ।।
भद्रा इतीन्द्रियैर्हीनो जपन्स्यात्सकलेन्द्रियः ।। ११६ ।।
अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।।
अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत् ।। ११७ ।।
ब्रह्मराजभ्यामिति च कर्मारम्भेषु वै जपेत् ।।
सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्नुते ।। ११८ ।।
नूनपादोसुर इति न्यग्रोधे द्विजसत्तम ।।
अशोकपुष्पान्सघृताञ्जुहुयाल्लक्षसंमितान् ।।११९ ।।
ततो दानवकन्यां तु स्वयमेवेह पश्यति ।।
अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत् ।। 2.125.१२० ।।
ददाति सा ततो रुक्मं तूष्णीं तत्रेच्छया भवेत् ।।
अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम् ।। १२१ ।।
बिलं प्रवेशयेद्राम नात्र कार्या विचारणा ।।
शून्यायतनमासाद्य माषमिश्रमथौदनम् ।। १२२ ।।
कया नश्चित्र इत्येतज्जपंस्तु जुहुयान्नरः ।।
हुते शतसहस्रे तु तस्य विद्याधरः स्वकाम् ।। १२३ ।।
सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति ।।
संवत्सरोशीत्यनया घृतं हुत्वा विचक्षणः ।। १२४ ।।
यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः ।।
केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम् ।।१२५।।
ऐन्द्राग्नं वर्म इत्येतद्रणे सन्नाहबन्धनम् ।।
धननागेति मन्त्रश्च धनुर्ग्रहणिकः परः ।। १२६ ।।
वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिमन्त्रणे ।।
मन्त्रश्चाहिरिवेत्येतत्तृणमन्त्रः प्रकीर्तितः ।। १२७ ।।
युञ्जतीति तथाश्वानां योजने मन्त्र उच्यते ।।
आशुः शिशान इत्येतद्गात्रालम्भनमुच्यते ।। १२८ ।।
विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः ।।
आजंघन्तीति चाश्वानां ताडनीय उदाहृतः ।। १२९ ।।
यः सेना अभीत्वरीति परसैन्यमुखो जपेत् ।।
डुण्डुभ इति वाप्येतड् डुण्डुभीताडने भवेत् ।।2.125.१३० ।।
एतैः पूर्वहुतैर्मन्त्रैः कृत्वैवं विजयो भवेत् ।।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। १३१ ।।
रथमुत्पादयेच्छ्रीघ्रं संग्रामे विजयप्रदम् ।।
आकृष्णेति तथैतस्य कर्म व्याहतिवद्भवेत् ।। १३२ ।।
युवं च्यवानमेतच्च भयेषु भयनाशनम् ।।
घृताहुतिसहस्रेण नात्र कार्या विचारणा।।१३३।।
मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते ।।
स राज इति चैतेन देवताराधनं नरः ।। १३४ ।।
कुयाद्भार्गव सर्वत्र होमजप्यैर्यथेप्सितम् ।।
शिवसङ्कल्पजप्येन समाधिं मनसो लभेत्।।१३५।।
पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्।।
हुत्वा शीघ्रमवाप्नोति श्रियं ते पद्ममालिनीम् ।।१३६।।
उभावपि त इत्येतद्रूपकामस्य शस्यते ।।
यदाबध्नन्दाक्षायणा मन्त्रेणानेन मन्त्रितम् ।।१३७ ।।
सहस्रकृत्वः कनकं धारयेद्रिपुनाशनम्।।
गुह्यकानां च सर्वेषां तथा निर्वहणं परम् ।। १३८ ।।
इमं जीवेभ्य इति च सीतालोष्टं चतुर्दिशम् ।।
क्षिपेद्गृहे तदा तस्य न स्याच्चोरभयं निशि ।। १३९ ।।
परी मे गामनेषतेति वशीकरणमुत्तमम् ।।
हर्तुमप्यागतस्तस्य वशीभवति मानवः।।2.125.१४०।।
भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति ।।
यस्य धर्मस्य वशगः सोऽस्य शीघ्रं भविष्यति ।। १४१ ।।
शन्नोमिति त इत्येतत्सदा सर्वत्र शान्तिदम् ।।
मनसः काममाकूतिः पुष्टिकामस्य शस्यते ।। १४२ ।।
चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम् ।।
षट्केन च तथा होमः सर्वदेवप्रसादनः ।। १४३ ।।
औदार्येणोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते ।।
विवृतं चैतदाज्येन हुतं शूलापहं भवेत् ।। १४४ ।।
गणानां त्वा गणपतिं होम कृत्वा चतुष्पथे ।।
वशे कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।। १४५ ।।
वैकङ्कतेध्महोमे च समास्त्वाग्न इतीत्यपि ।।
यशसा योगमाप्नोति विपुलं नात्र संशयः ।। १४६ ।।
अग्निर्मूर्धेतिमन्त्रेण हुत्वैवाज्यं हुताशने ।।
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा।।१४७।।
एवं हि देवतालिङ्गैस्तथा राम यथा स्वकैः ।।
हुतैः प्रसादयेदिष्टां देवतां नात्र सशयः ।। १४८ ।।
हिरण्यवर्णाः शुचयो मन्त्रोऽयमभिषेचने ।।
शन्न आपश्च धन्वन्याः सर्वपापहराः स्मृताः ।। १४९ ।।
शन्नो देवीरभिष्टये चेति शान्तिकरः परः ।।
एकचक्रेति मन्त्रेण हुतेनाज्येन भार्गव ।। 2.125.१५० ।।
ग्रहेभ्यः शीघ्रमाप्नोति प्रसादं नात्र संशयः ।।
याज्यानुवाकौ वृक्षाणां समाग्ने वर्च इत्यपि।।१५१।।
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा ।।
गावो भग इति द्वाभ्यां हुत्वैवाज्यं सहस्रशः ।। १५२ ।।
गाः समाप्नोति धर्मज्ञ नात्त्र कार्या विचारणा ।।
उदुत्तमं वरुण इति जुहुयाद्भृगुनन्दन ।। १५३ ।।
नदीवाहतडागेषु सुकृतेषु द्विजोत्तम ।।
संवदत्तां हिरण्यकोशं रूपं कृत्वा तथैव च ।। १५४।।
प्रवादसां सेति चैव गृहे यज्ञो विधीयते ।।
देवेभ्यो वनस्पत इति ब्रह्मयज्ञो विधीयते।।१५५।।
रात्रीयख्य इति द्वाभ्यां रात्रियज्ञाः प्रकीर्तिताः ।।
शमे शमीकं शम्याकामश्वत्थं प्लक्षमेव च।।१५६।।
उदुम्बरं च न्यग्रोधमपामार्गं च गोमयम्।।
यां कुर्याद्दर्भपिंजूलां दूर्वां प्राचीनगामिनीम् ।।१५७।।
सीतां लोष्टं सुवर्णं च तथा वल्मीकमृत्तिकाम् ।।
सं वः सृजामीति द्वाभ्यां बीजान्यप्सु विनिक्षिपेत् ।। १५८ ।।
या ओषधय इत्येतदनुवाकं ततो जपेत् ।।
अपामिवेद्विति ततः प्रोक्षणं तु विधीयते।।१५९।।
इन्नोभयमितीत्येतच्चाष्टर्चं जुहुयाद्द्विजः ।।
यद्देवा देवहेडनमृचस्तिस्रस्तथैव च ।। 2.125.१६० ।। ।
हुत्वा सम्प्रोक्षणं कुर्याद्भूयः सर्वत्र मानवः ।।
सर्वोत्पातप्रशमनं कर्मैतत्परिकीर्तितम् ।। १६१ ।।
गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम् ।।
सर्वपापप्रशमनी सर्वकर्मकरी तथा ।। १६२ ।।
एतावदुक्तं यजुषां विधानं मया हि किञ्चित्तव धर्मनिष्ठ ।।
अतः परं वच्मि नृवीर साम्नां तन्मे शृणुष्वायतलोहिताक्ष ।।१६३ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने तन्त्रविधानन्नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ।।१२५।।

  1. ओ षु घृष्विराधसो - ७.५९.५, ओ षु प्र याहि वाजेभिः - ८.२.१९, ओ षु वृष्णः प्रयज्यून् - ८.७.३३, ओ षु स्वसारः कारवे शृणोत - ३.३३.९, ओ षु णो अग्ने शृणुहि त्वं - १.१३९.७