विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १७१-१७५

← अध्यायाः १६६-१७० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १७१-१७५
वेदव्यासः
अध्यायाः १७६-१८० →

2.171
दिनगतशेषाल्पकालस्योत्तरगोलेर्धरात्राद्धीनस्य दक्षिणे युक्तस्य जीवासाहोरात्रावहतात्रिज्याहृतो गोल विपर्ययेण त्रिज्यायुतोन्यच्छेदः ।
छेदोवलम्बकव्याहतः त्रिज्याविभाजितः शंकुः।
शंकुवर्गहीनस्य क्रियावर्गस्य पदं दृश्यद्वादशहता शंकुहृता छाया मध्याह्निकार्कक्रान्त्या साक्षसंयोगविवरो दक्षिणोत्तरगोलयोरनिष्ट तद्राशित्रयादपास्य तज्ज्याभागापहारः द्वादशहताया अनष्टजीवाया लब्धं माध्याह्निकी च्छाया त्रिद्यार्कघातमध्याह्नछायाभागापहारविभक्तस्तत्कर्णः विषुवकर्णहतां त्रिद्यां स्वेष्टकायाकर्णेन विभजेत् । लब्धमुत्तरदक्षिण गोलयोः क्षितिज्यया युतोनव्यासार्धताडितं स्वाहोरात्रार्धेन विभजेत् ।
लब्धा चायं गोलविपर्ययाश्चरदलोनयुतं दिवसस्य गतं शेषं वा भवति ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे ज्योतिःशास्त्रे छायाप्रकरणं नामैकसप्तत्युत्तरशततमोऽध्यायः ।। १७१ ।।
2.172
इष्टकालस्फुटार्कराशिभुक्तलिप्तास्तदा क्रान्तिराश्युदयप्राणाहताग्रहताग्रहलिप्ताभिर्विभजेत्। लब्धमर्कक्रान्तिराशेर्दिनभागकालः तदिष्टकालप्राणेभ्योणस्यादित्ये चाभुक्तलिप्ता देयाः काले चानन्तररव्युदयाश्रयास्याः अर्क ..........चराच्युदयो देयः शेषादशुद्धराश्युदयैर्भावाद्याः।
एवं राशिगत काललग्नोदयः षड्राशियुतार्का अर्कभुक्तकालाद्याः कालाः लग्नाश्च भुक्तकलाभ्यस्तद्योगे तदन्तरा व्युदये युते लग्रोदयः कालः ।।
इतिश्रीवि० मा० व० सं० द्वि० लग्नप्रकरणं नाम द्विसप्तत्युत्तरशततमोऽध्यायः ।। १७२ ।।
2.173
भौमजीवमंदाः केन्द्रः शीघ्रः बुधसितौ वक्रे मंदावत्यथाशीघ्रौ मन्द ग्रहर्कांतरगाः कालदृश्यादृश्यांशेन यदा तदा पूर्वार्धोदयास्तमययोरार्कोदयिको ग्रहः पश्चार्धेन तदास्तमयिकः तात्कालिकग्रहस्फुटविक्षेपमदाज्याहतव्यामार्धेन विभजेत ।
लब्धग्रह औदयिके ऋणमास्तमयिकवनउत्तरविक्षेपपरमापक्रमेण विभजेत्।
लब्धमयनविक्षेपेन्ये शोध्यमन्यथादेयम् ।
एवं ग्रहोदयास्तलग्नौ भवतः ।
ततो ग्रहान्तराल्लग्नवत्कालः कलांशग्रहान्तरांशानां भुजान्तरेण भागमपहरेत् ।
ग्रहे वक्रिणि भुक्तियोगेन लब्धो दिनादिः कालमुपास्तमयस्य एव नक्षत्राणां तेषां द्वादश दृश्यादृश्यांशः अगस्त्यध्रुवकृदिक्कर्मद्वयकं कृत्वा तद्वटिकाद्वयेन स्वदेशराश्युदये वर्धयेत् ।
तदंशेकेगस्त्योदयः वक्रोनेस्तमयः प्रतिदैवसिक उदयो ग्रहान्तं लग्नवशेनेति ।।
इति श्रीवि० ध० द्वि० खं०- मा० सं० उदयास्तमयप्रकरणं नाम सप्तत्युत्तरशततमोऽध्यायः ।। १७३ ।।
2.174
स्वोदयास्तविलग्नौ चन्द्रार्कयोः ततश्चन्द्रोदयास्तकालौ साध्यौ इष्टकालिकचन्द्रार्कस्वक्रान्ति त्रिज्यागुणे विलस्वज्यया विभजेत् ।
लब्धेग्रे क्रान्तिदिष्टेशेन ततोर्कचन्द्रशंकुकार्यौ पृथक्च्छंकुहताक्षज्यावलम्बकेन विभजेत् ।
लब्धे शङ्कुतले तौ चोत्तरे स्वरात्रौ दिवसयाम्ये द्वादशशंकुतलयोर्दिशैको योगो दिग्भेदवियोगः पृथग्बाहुः तयोर्दिगैको वियोगोन्यथा योगःस्फुटबाहुः स्वदृगर्ण्यवर्जभुजावर्गविश्लेषपदयोगः कपालभेदे साम्ये वियोगः प्रथमांशजां दिगैवातिश्लेषो दिग्भेदो युतिर्द्वितीयः प्रथमद्वितीयवर्गयोगपदं कोटिः कोटि वाहुवर्गयोगमूलकर्णः अर्कोनाश्चन्द्रार्केर्द्धं तस्माज्ज्याकेन्द्रलिप्ताश्चन्द्रमासलिप्ताः तस्माज्ज्याकेन्द्रलिप्ताश्चन्द्रमानघ्नाः नवत्याहृतास्मिन् केन्द्र प्रयमचतुर्थपदस्थे द्वितीयस्थे कृष्णम् इन्दुमानचतुर्भागकृतास्मितेर्कमानभुजककर्णकोटिसूत्राण्यङ्गुलतां यान्ति पूर्वापराशाभिमुखार्केन्द्राण्याद्य पदगे मितशृङ्गं परिलिखेत् ।
एवं द्वितीयतृतीयगे कृष्णं बिन्दुमर्कं परिकल्प्य ततोर्काद्यथा शशी तथा भुजा देया तदग्रात्स्वाभिमुख्येन कोटिः ततः तदंतलग्नेन पूर्वान्तं पुनःपुनः सत्कुलम् ।
यावदविशेषं लब्धोनं स्यात् इति लम्बनं संस्कृते तिथ्यन्ते ग्रहणमध्यश्चन्द्रश्चन्द्रवत्कल्पिताद्द्वित्रि भात्स्वक्रान्तिः अक्षे सौम्या शोध्या याम्या देया तज्ज्यामध्यमचन्द्रार्कभुक्त्यंतरहता शरेर्कहतया त्रिज्यया विभजेत् ।
लब्धभवनतिः स्वक्रान्तितोक्षेधिके सौम्यान्यथा याम्या तात्कालिकचन्द्रविक्षेपावनन्यादिगैक्ये योगो दिग्भेदो वियोगः स्फुटविक्षेपः तेन स्थिते मन्दभदलोनयुतैर्ग्रहैः स्पर्थनिमीलोन्मीलनमोक्षकालिकैलम्बनमानि कार्याणि मध्यलम्बनस्येष्टलंबनस्य धनर्णेकोन्तरे भेदयोगः फलम् ।
तेन मध्यस्थित्यरविमन्दावेव युते स्वकालिके स्फुटे भवतः पञ्चदशं घटिकाकालिकं लंबने फलेन हीने विमंदार्धे कार्ये शेषं पीरलेखाढ्ये चद्रग्रहणवद्भवति ।।
धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ।।
इदं ग्रहाणां गणितं सर्वकामप्रदं शिवम् ।।
गतिमेकस्य विज्ञाय ग्रहस्य सुसमाहितः ।।
तस्य लोकमवाप्नोति नात्र कार्या विचारणा ।।
सर्वग्रहगतिं ज्ञात्वा ब्रह्मलोकं प्रपद्यते ।।
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।।
कामानवाप्नुयात्कामी मोक्षार्थी परमं पदम् ।।
सम्यग्ग्रहगतिं ज्ञात्वा पात्रतां याति वै द्विजः।।
न चेद् वृत्तिं तथा कुर्यात्तथा वृत्तिं विवर्जयेत्।।
पात्राणामपि तत्पात्रं ग्रहाणां वेत्ति यो गतिम्।।
वेदास्तु यज्ञार्थमभिप्रवृत्ताः कलानुपूर्व्या विहिताश्च यज्ञाः ।।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद सर्वम् ।।
इनि श्रीवि० ध० द्वि. ख० मा० सं० पैतामहसिद्धान्तो नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ।। १७४ ।।
।। समाप्तं पैतामहसिद्धान्तम् ।
2.175
श्रीपरशुराम उवाच ।।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।।
जिगीषूणां समाचक्ष्व यात्राकालं महीक्षिताम् ।। १ ।।
पुष्कर उवाच ।।
सर्वेषामेव वर्णानां यात्राकालं निबोध मे ।।
अधिकृत्य महीनाथं विजिगीषोर्गुणान्वितम् ।। २ ।।
पूर्वे कपाले पौरोऽर्के यायी भवति चापरे ।।
यायिग्रहौ शुक्रकुजौ शेषाः पौराः प्रकीर्तिताः ।। ३ ।।
पौरग्रहैर्बलोपेतैर्न यात्रां सम्प्रयोजयेत् ।।
यायिग्रहबले राजा नित्यं यात्रां प्रयोजयेत् ।। ४ ।।
(अस्तं गते नीचगते विवशे रिपुराशिगे ।।
प्रतिलोमं च विद्ध्वस्ते शुक्रे यात्रां विवर्जयेत् ।। ५ ।।
प्रतिलोमे बुधे यात्रा दिक्पतौ च तथा ग्रहे ।।
विष्टो वृष्ट्यां वाति वाते वात्यायाञ्च विवर्जयेत ।। ६ ।।
वैधृते च व्यतीपाते नागे च शकुनौ तथा ।।
चतुष्पदे च किंस्तुघ्ने तथा यात्रां विवर्जयेत् ।। ।। ७ ।।
विपत्करे नैधने च प्रत्यरौ भे च जन्मनि ।।
गणे विवर्जयेद्यात्रां रिक्तायां च तिथावपि ।। ८ ।।
उदीची च तथा प्राची तयोरैक्यं प्रकीर्तितम् ।।
पश्चिमा दक्षिणा या दिक्तयोरैक्यं तथैव च ।। ९ ।।
वाय्वग्निदिक्समुद्भूतं परिधिन्तु न लंघयेत् ।।
राम संवत्सराद्येषु सर्वेष्वेव महीपतिः ।। 2.175.१० ।।
संवत्सरमदिक्प्राची परिपूर्वस्य दक्षिणा ।।
तत्पूर्वस्यापरा ज्ञेया चानुपूर्वस्य दक्षिणा ।। ११ ।।
अद्वारस्तु विनिर्दिष्टस्तथा वत्सरसंज्ञितः ।।
उत्तरायणगे सूर्ये प्राचीं यायाद्दिशं नृपः ।। १२ ।।
चन्द्रे च ब्राह्मणश्रेष्ठ पश्चिमां दक्षिणस्थिते ।।
तयोरयनभेदेन यायात्सूर्यायनं दिवा ।। १३ ।।
रात्रौ चान्द्रायणं यायाद्या दिगुक्ता मया तव ।।
वसन्त उत्तरद्वारे ग्रीष्मः प्राग्द्वारिकस्तथा ।। १४ ।।
शरच्च पश्चिमद्वारः शिशिरश्चोत्तरामुखः ।।
हेमन्तः सर्वतोद्वारः प्रावृडद्वारिका स्मृता ।। १५ ।।
नक्षत्रवद्देवताभिर्या यस्य तु दिगुच्यते ।।
मासार्धेऽस्य महाभाग तथैव परिकीर्तिता ।। १६ ।।
आदित्यचन्द्रसौरार्कदिवसास्तु न शोभनाः ।।
त एव चानुकूलस्य दिवसो न प्रशस्यते ।। १७ ।।
प्राग्द्वारो भास्करो ज्ञेयो दक्षिणेन तथा कुजः ।।
पश्चिमेन शनैश्चारी उदग्द्वारस्तु चन्द्रमाः ।। १८ ।।
सर्वद्वाराः स्मृता राम जीवशुक्रेन्दुनन्दनाः ।।
तेषां हि दिवसाः शस्ता विशेषेण गमिष्यताम् ।।१९।।
समागमे जितो यस्तु जीवो मित्रगृहे स्थितः।।
स्फुरणो रश्मिहीनश्च न प्रशंसन्ति तद्दिनम् ।।2.175.२०।।
उच्चस्थो मित्रगृहगः स्वक्षेत्रस्थश्च यो ग्रहः ।।
विजयी रश्मिवांस्थूलो दिनं तस्य प्रशस्यते।।२१।।
कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः।।
मैत्राद्याः पश्चिमेनाथ वासवाद्यानि चाप्युदक् ।। २२ ।।
सर्वद्वाराणि तत्रापि दिवाद्यानि विनिर्दिशेत् ।।
भवन्ति स्तम्भसंज्ञानि तानि दिङ्मध्यगानि च ।। २३ ।।
स्तम्भर्क्षाद्यानि पूर्वाणि तानि प्रावेशिकानि तु ।।
निर्गमर्क्षाणि जानीयात्स्तम्भर्क्षादुत्तराणि तु।।२४।।
प्रवेशभेषु दुष्टेषु यायिनां विजयं वदेत् ।।
स्तम्भभेषु तु दुष्टेषु दुर्गाणां ग्रहणे तदा ।।२५।।
निर्गमर्क्षेषु दुष्टेषु नागराणां जयं वदेत् ।।
ऋक्षे पापग्रहाक्रान्ते तथा चास्तमिते द्विज ।। २६ ।।
दग्धे च धूमिते वापि रजसोपहतेऽथ वा ।।
केतुना धूमिते वापि परिविष्टेऽथवा पुनः ऽ। ।। २७ ।।
उत्पातदर्शनं च स्याद्येन चर्क्षेण भार्गव ।।
संक्रान्तिर्वा ग्रहस्य स्याद्येन चास्तोदयौ तथा ।। २८ ।।
भिन्नश्चन्द्रमसा यश्च ग्रहेणान्येन वा पुनः ।।
यन्नक्षत्रगतौ ग्रस्तौ स्यातां वा शशिभास्करौ ।। २९ ।।
न तेन नृपतिर्यायान्नक्षत्रेण कदाचन ।।
अष्टवर्गानुकूलस्थ चन्द्रे यात्रां प्रयोजयेत् ।। 2.175.३० ।।
पूर्वद्वारस्थितानन्दा भद्रा दक्षिणतः स्थिता ।।
जया च पश्चिमद्वारा रिक्ता चोदक्प्रकीर्तिता ।। ३१ ।।
पूर्णा तु सर्वतो द्वारा तिथिरुक्ता महाभुज ।।
नक्षत्रदेवतातुल्या मुहूर्तानां तु दिग्भवेत् ।। ३२ ।।
त्रिदिग्द्वाराभिजिज्ज्ञेया दक्षिणेन विगर्हिता ।।
प्राग्द्वाराः कथिता राम मेषसिंहधनुर्धराः ।। ३३ ।।
तथा च पश्चिमद्वाराः कन्यामकरगोवृषाः ।।
तुलामकरकुम्भाश्च ज्ञेयाः पश्चिमदिङ्मुखाः ।। ३४ ।।
कीटवृश्चिकमीनाश्च तथा चोदक्प्रकीर्तिताः ।।
लग्नेन दिङ्मुखं यत्नाज्ज्ञेयं प्राङ्मुखमंशकम् ।। ३५ ।।
सौराः सर्वे प्रशस्यन्ते कालरोधं विवर्जयेत् ऽ।
विशाखाद्यं भत्रितयं दीने सूर्ये विवर्जयेत् ।। ३६ ।।
आषाढात्रितयं चन्द्रे तथा ब्राह्मणसंज्ञकम् ।।
धनिष्ठाद्यत्रयं भौमे पौष्णाद्यत्रितयं बुधे। ।। ३७ ।।
रोहिण्याद्यं तथा जीवे पुष्याद्यं च तथा सिते ।।
अर्यम्णाद्य तथा सौरे प्रयत्नेन महाभुज ।। ३८ ।।
मूलं च श्रवणं चैव आहिर्बुध्न्यं तथैव च ।।
आग्नेयमथ चादित्यं भाग्यं वायव्यमेव वा ।। ३९ ।।
आदित्यादिदिनेष्वेते सिद्धियोगाः प्रकीर्तिताः ।।
सिद्धियोगान्विशेषेण तिथिष्वपि निबोध मे ।। 2.175.४० ।।
ग्रहक्रमेण धर्मज्ञ सर्वकर्मसु सिद्धिदान् ।।
द्वितीया च तृतीया च प्रतिपच्चाष्टमी तथा ।। ४१ ।।
सप्तमी च चतुर्थी च पञ्चमी च तथा तिथिः ।।
अन्याश्च सिद्धयोगेषु तिथयस्त्वं शृणु क्रमात् ।। ४२ ।।
एकादशी च दशमी नवमी पञ्चदश्यपि ।।
चतुर्दशी द्वादशी च तथा राम त्रयोदशी ।। ४३ ।।
छायाप्रमाणं वक्ष्यामि सिद्धियोगेष्वतः क्रमात् ।।
तत्र काले कृतं कर्म सकृत्संपश्यते ध्रुवम् ।। ४४ ।।
आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडश कीर्तिताः ।।
भौमे पञ्चदशैवोक्ताश्चतुर्दश तथा बुधे ।। ४५ ।।
त्रयोदश तथा जीवे शुक्रे द्वादश कीर्तिताः ।।
उदितेनोत्तरां गच्छेत्प्राचीं मध्यस्थिते रवौ ।। ४६ ।।
दक्षिणामपराह्णे तु अर्धरात्रे तु पश्चिमाम् ।।
जन्मराश्युदये यात्रा न प्रशस्ता महाभुज ।। ४७ ।।
ताभ्यामुपचयर्क्षे तु यात्रा शस्ता तथा भवेत् ।।
शेषेषु वर्जयेद्यात्रां भूतिकामो नराधिपः ।। ४८ ।।
यात्रा शुभफला ज्ञेया सौम्यग्रहनवांशके ।।
पापग्रहांशके यात्रां प्रयत्नेन विवर्जयेत् ।। ४९ ।।
जन्मभे नैधने चैव तथाधाने विपत्करे ।।
प्रत्यरौ भगणे यात्रां प्रयत्नेन विवर्जयेत् ।। 2.175.५० ।।
क्षेमे संपत्करे मैत्रे साधके चातिमैत्रके ।।
कर्मभे च तथा यात्रा प्रशस्ता मनुजोत्तम ।। ५१ ।।
दिव्यान्तरिक्षक्षितिजे दृष्टे राम महाद्भुते ।।
सप्ताहं वर्जेयेद्यात्रां प्रयत्नेन महाभुज ।। ५२ ।।
लग्ने तु विबले यात्रां शून्ये केन्द्रे च वर्जयेत् ।।
जन्मपे लग्नपे राम बलहीने विशेषतः ।। ५३ ।।
दिक्पतावनुकूले तु शुभा यात्रा प्रकीर्तिता ।।
सम्मुखे शक्रचापे तु यात्रां यत्नेन वर्जयेत् ।। ५४ ।।
न च गच्छेत्तथा राम द्वाराभिहतमस्तकः ।।
दृष्ट्वा द्रव्यममङ्गल्यं खिन्नचेतास्तथैव च ।।
तुष्टे मनसि गन्तव्यं प्रयत्नेन महीभुजा ।। ५५ ।।
त्रिकोण केन्द्रोपगतास्तु सौम्याः पापास्तथा चोपचयर्क्षसंस्थाः ।।
भवन्ति लग्नस्य तु यस्य तेन यात्रा प्रयुक्ता तु शुभावहा स्यात् ।। ५६ ।।
इति श्रीविष्णु० द्वि० मा० सं० रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रमते यात्राधिकारो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।