विष्णुपुराणम्/द्वितीयांशः/अध्यायः ११

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

यदेतद्भगवानाह गणः सप्तविधो रवेः
मण्डले हिमतापादेः कारणं तन्मया श्रुतम् १
व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम्
ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो २
यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम्
किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ३
यदि सप्तगणो वारि हिममुष्णं च वर्षति
तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते
विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः
ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ५
पराशर उवाच
मैत्रेय श्रूयतामेतद्यद्भवान्परिपृच्छति
यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ६
सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञिता
सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ७
सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः
ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ८
मासिमासि रविर्योयस्तत्र तत्र हि सा परा
त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ९
ऋचस्तुवन्ति पूर्वाह्णे मध्याह्नेथ यजूंषि वै
बृहद्रथन्तरादीनि सामान्यह्नःक्षये रविम् १०
अंगमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिता
विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ११
न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी
ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् १२
सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः
रुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्ध्वनिः १३
एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी
आत्मसप्तगणस्थं तं भास्वंतमधितिष्ठति १४
तया चाधिष्ठितः सोपि जाज्वलीति स्वरश्मिभिः
तमः समस्तजगतां नाशं नयति चाखिलम् १५
स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः
नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः १६
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः
वालखिल्यास्तथैवैनं परिवार्य समासते १७
नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक्
विष्णुर्विष्णोः पृथक् तस्य गणास्सप्तविधोऽप्ययम् १८
स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतः
छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः १९
एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज
मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् २०
पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः
परिवर्तत्यहोरात्रकारणं सविता द्विज २१
सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाः
कृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः २२
पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज
पिबन्ति पितरस्तेषां भास्करात्तर्पणं तथा २३
आदत्ते रश्मिभिर्यतु क्षितिसंस्थं रसं रविः
तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये २४
तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः
पितृदेवमनुष्यादीनेवमाप्याययत्यसौ २५
पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम्
शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति २६
इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशोऽध्यायः ११