विष्णुपुराणम्/द्वितीयांशः/अध्यायः १४
श्रीपराशर उवाच
निशम्य तस्येति वचः परमार्थसमन्वितम् ।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ २,१४.१ ॥
राजोवाच
भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः ।
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ २,१४.२ ॥
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु ।
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ २,१४.३ ॥
नाहं वहामि शिबिकां शिबिका न मयि स्थिता ।
शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ २,१४.४ ॥
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता ।
प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ २,१४.५ ॥
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।
मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ २,१४.६ ॥
पूर्वमेव महाभागं कपिलर्षिमहं द्विज ।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ २,१४.७ ॥
तदन्तरे च भवता यदेतद्वाक्यमीरितम् ।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ २,१४.८ ॥
कपिलर्षिर्भगवतः सर्वभूतस्य वै द्विज ।
विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ २,१४.९ ॥
स एव भगवान्नूनमस्माकं हितकाम्यया ।
प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते ॥ २,१४.१० ॥
तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः ।
तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ २,१४.११ ॥
ब्राह्मण उवाच
भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ २,१४.१२ ॥
देवताराधनं कृत्वा धनसम्पदमिच्छति ।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ २,१४.१३ ॥
कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् ।
श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ २,१४.१४ ॥
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परम् ।
श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ २,१४.१५ ॥
श्रेयांस्येवमनेकानि शतशोय सहस्रसः ।
सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ २,१४.१६ ॥
धर्माय त्यज्यते किन्तु परमार्थो धनं यदि ।
व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥ २,१४.१७ ॥
पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर ।
परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता ॥ २,१४.१८ ॥
एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे ।
परमार्थो हि कार्याणि कारणानामशेषतः ॥ २,१४.१९ ॥
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।
परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ २,१४.२० ॥
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।
परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥ २,१४.२१ ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।
तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ २,१४.२२ ॥
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ २,१४.२३ ॥
अनाशो परमार्थश्च प्राज्ञौरभ्युपगम्यते ।
तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ २,१४.२४ ॥
तदेवाफलदं कर्म परमार्थो मतस्तव ।
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ २,१४.२५ ॥
ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २,१४.२६ ॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २,१४.२७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २,१४.२८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २,१४.२९ ॥
परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः ।
न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ २,१४.३० ॥
तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः ॥ २,१४.३१ ॥
वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः ।
अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ २,१४.३२ ॥
एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः ।
देवादिभेदेऽपध्वस्ते नास्त्येवावरणे हि सः ॥ २,१४.३३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्दशोऽध्यायः (१४)