1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८

मैत्रेय उवाच ।
व्याख्याता भवता सर्ग-वंश-मन्वन्तरस्थितः ।
वंशानुचरितञ्चवै विस्तरेण महामुने ।। ६-१-१ ।।

श्रोतुमिच्छाम्यहं त्वत्तो यथावदूपसंह्टतिम् ।
महाप्रलयसंस्थानं कल्पान्ते च महामुने ।। ६-१-२ ।।

पराशा उवाच ।
मैत्रेय श्रुयतां मत्तो यथावदुपसंह्टतिः ।
कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ।। ६-१-३ ।।

अहोरात्रं पितणान्तु मासोऽब्दस्त्रिदिवौकसाम
चतुर्युगसहस्त्र तु ब्रह्मणो द्रे द्रिजोत्तम ।। ६-१-४ ।।

कृतं त्रेता द्रापरश्व कलिश्चैव चतुर्युगम् ।
दिव्यैर्वर्षसहस्त्रैस्तु तदू द्रादशभिरुच्यते ।। ६-१-५ ।।

चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।
आद्य कृतयुगं मुक्त्वा मैत्रेयान्ते तथा कलिम् ।। ६-१-६ ।।

आद्ये कृतयुगो सर्गा ब्रह्मणा क्रियते यतः
क्रियते चोपसंहारस्तथान्ते च कलौ युगे ।। ६-१-७ ।।

मैत्रेय उवाच ।
कलेः स्वरूपं भगवन् विस्तरादू वक्तुमर्हसि ।
धर्म्मश्वतुष्पाद्भगवन यस्मिन विप्लवमृच्छति ।। ६-१-८ ।।

पराशर उवाच ।
कलेः खरूपं मैत्रेय यद्भवान् प्रष्टुमिच्छति ।
तन्निबोध समासन्नं वर्त्तते यन्महामुने ।। ६-१-९ ।।

वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
नसाम-ऋगू-यजुर्व्वेदविनिष्पादनहेतुका ।। ६-१-१० ।।

विवाहा न कलौ धर्म्म्या न शिष्य-गुरुसंस्थितिः ।
नि दाम्पत्यक्रमो नैव वह्निदैवात्मकः क्रमः ।। ६-१-११ ।।

यत्र तत्र कुले जातो बली सर्व्वेस्वरः कलौ ।
सर्व्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ।। ६-१-१२ ।।

येन कैनैव योगेन द्रिजातिर्दीक्षितः कलौ ।
यौव सैव च मैत्रेय प्रायश्वित्तक्रिया कलौ ।। ६-१-१३ ।।

सर्व्वमेव कलौ शास्त्रं यस्य यदूवचनं द्रिज ।
देवाताश्व कलौ सर्व्वाः सर्व्वः सर्व्वस्य चाश्रमः ।। ६-१-१४ ।।

उपवासस्तथायासो वित्तोतूसर्गस्तथा कलौ ।
धर्म्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ।। ६-१-१५ ।।

वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।
स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ।। ६-१-१६ ।।

सुवर्णमणिरत्रादौ वस्त्रे चापि क्षयं गते ।
कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ।। ६-१-१७ ।।

परित्यक्षन्ति भर्त्तारं वित्तहीनं तथा स्त्रियः ।
भर्त्ता भविष्यति कलौ वित्तवानेव योषिताम् ।। ६-१-१८ ।।

योयो ददाति बहुल सस स्वामी तदा नृणाम् ।
स्वामित्वहेतुः सम्बन्ध भावी नाभिजनस्तदा ।। ६-१-१९ ।।

गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः ।
अर्थाश्वात्मोपभोगान्ता भविष्यन्ति कलौ युगे ।। ६-१-२० ।।

स्त्रियः कलौ भविष्यन्ति स्वैरिणयो ललितस्पृहाः ।
अन्यायावाप्तवित्तेषु पुरुषाश्व स्पृहालवः ।। ६-१-२१ ।।

अभ्यर्थितोऽपि सुह्टदा स्वार्थहानिं न मानवः ।
पणार्द्धार्द्धार्द्धमात्रेऽपि करिष्यति तदा द्रिज ।। ६-१-२२ ।।

समानं पौरुषञ्चतो भावि विप्र षु वै कलौ ।
क्षीरप्रदानसम्बन्धि भावि गोषु च गौरवम् ।। ६-१-२३ ।।

अनावृष्टिभियप्रायाः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्व्वा गगनासक्तदृष्टयः ।। ६-१-२४ ।।

कन्दपर्णफलाहारास्तापसा इव मानवाः ।
आत्मानं पातयिष्यन्ति तदा वृष्ट्यादिदुः खिताः ।। ६-१-२५ ।।

दुर्भिक्षमेव सततं तदा क्ले शमनीश्वराः ।
प्रापूस्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ।। ६-१-२६ ।।

अस्त्रानबोजिनो नाग्रिदेवतातिथिपूजनूम् ।
करिष्यन्ति कलौ प्राप्ते न च पिव्योदकक्रियाम् ।। ६-१-२७ ।।

लोलुपा ह्रस्वदेहाश्व वह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश्व भविष्यन्ति कलौ स्त्रियः ।। ६-१-२८ ।।

उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनं स्त्रियः ।
कुर्व्वन्त्यो गुरुभर्त्तृणामाज्ञां भेतूस्यन्त्यनादृताः ।। ६-१-२९ ।।

स्वपोषणपराः क्षुद्रा देहसंस्कारवर्ज्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ।। ६-१-३० ।।

दुः शीला दुष्टशीलेषु कुर्व्वन्त्यः सततं स्पृहाम् ।
असदूवुत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ।। ६-१-३१ ।।

वेदादानं करिष्यन्ति वटवश्व तदाव्रताः ।
गुहस्थाश्व न होष्यन्ति न दास्यन्त्युचितान्यपि ।। ६-१-३२ ।।

वनावासा भविष्यन्ति ग्राम्याहारपरिग्रहाः ।
भिक्षवश्वापि मित्रादिस्नेहसम्बन्धयन्त्रिताः ।। ६-१-३३ ।।

अरक्षितारो हर्त्तारः शुल्कव्याजेन पार्थिवाः ।
हारिणो जनवित्तानां संप्राप्ते तु कलो युगे ।। ६-१-३४ ।।

यो योऽश्वरथनागाढ्यः स स राजा भविष्यति ।
यश्व यश्वाबलः सर्व्वः स स भृत्यः कलौ युगे ।। ६-१-३५ ।।

वैश्याः कृषिवाणिज्यादि सन्त्यज्य निजकर्म्म यत्
शूद्रवृत्त्या प्रवत्स्यन्ति कारुकर्म्मोपजीविनः ।। ६-१-३६ ।।

भैक्ष्यव्रतास्तथा शूद्रा प्रब्रज्यालिङ्गिनोऽधमाः ।
पाषण्डसंश्रयाः वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ।। ६-१-३७ ।।

दुर्भिक्षकरपीड़ाबिरतीवोपहता जनाः ।
गवेधुककदन्नाद्यान् देशान् यास्यन्ति दुः खिताः ।। ६-१-३८ ।।

वेदमार्गे प्रलीने च पाषण्डाढये ततो जने ।
अधर्म्मवृद्धया लोकानां स्वल्पमायुर्भविष्यति ।। ६-१-३९ ।।

अशास्त्रविहित्तं घोरं तप्यमानेषु वै तपः ।
नरेषु नृपदोषेण बालमृत्युर्भविष्यति ।। ६-१-४० ।।

भवित्री योषितां सूतिः पञ्चषटूसप्तवार्षिकी ।
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ।। ६-१-४१ ।।

पतितोद्भवश्व भविता तदा द्रादशवार्षिकः ।
नातिजीवति वै कश्वित् कलौ वर्षाणि विंशतिम् ।। ६-१-४२ ।।

अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तः करणाः कलौ ।
यतस्ततो विनङूक्ष्यन्ति कालेनाल्पेन मानवाः ।। ६-१-४३ ।।

यदा यदा हि पाषणडवृद्धिर्मैत्रेय लक्ष्यते ।
तदा तदा कलेर्वृद्धिरनुमेया विचक्षणौः ।। ६-१-४४ ।।

यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् ।
प्रारम्भाश्वावसीदन्ति यदा धर्म्मभृतां नृणाम् ।

तदानुमेयं प्राधान्यं कलेर्मैत्रेय पणिडतैः ।। ६-१-४५ ।।
यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः ।
इज्यते पुरुषैर्यज्ञैस्तदा ज्ञे यं कलेर्बलम् ।। ६-१-४६ ।।

न प्रीतिर्वेदवादेषु पाषणडेषु यदा रतिः ।
कलेर्वृद्धिस्तदा प्राज्ञरैनुमेया विचक्षणैः ।। ६-१-४७ ।।

कलौ जगत्पतिं विष्णुं सर्व्वस्त्रष्टारमीश्वरम् ।
नार्च्चयिष्यन्ति मैत्रेय पाषणडोपहता नराः ।। ६-१-४८ ।।

कि वेदैः किं द्रिजैर्देवैः किं शौचेनाम्बुजन्मना ।
इत्येवं विप्र वक्ष्यन्ति पाषण्डोपहता नराः ।। ६-१-४९ ।।

स्वल्पाम्बुवृष्टिः पर्ज्जन्यः शस्यं स्वल्पफल तथा
फलं तथाल्पसारञ्च विप्र प्रापते कलौ युगे ।। ६-१-५० ।।

शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ।। ६-१-५१ ।।

अणुप्रायाणि धान्यानि अजाप्रायं तथा पयः ।
भविष्यति कलौ प्राप्ते उषोरञ्चानुलेपनम् ।। ६-१-५२ ।।

शश्रू-श्वशुरभूयिष्ठा गुरवश्व नृणां कलौ ।
श्यालाद्या हारिभाय्योश्व सुह्टदो मुनिसतम् ।। ६-१-५३ ।।

कस्य माता पिता कस्य यदा कर्म्मानुगः पुमान् ।
इति चोदाहरिष्यन्ति श्वशुरानुगेता नराः ।। ६-१-५४ ।।

वाङूमनः कायिकैर्दोषैरभिभूताः पुनः पुनः ।
नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ।। ६-१-५५ ।।

निः सत्त्वानामशौचानां निः श्रीकाणां तथा नृणाम् ।
यदूयदू दुः शाय यत् सर्व्वं कलिकाले भविष्यति ।। ६-१-५६ ।।

निःस्वाध्यायवषटूकरि स्वधास्वाहाविवर्ज्जिते ।
तथा प्रविरलो विप्र क्वचिल्लोको निवत्स्यति ।। ६-१-५७ ।।

तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् ।
करोति यं कृतयुगे क्रियते तपसा हि सः ।। ६-१-५८ ।।