विष्णुस्मृतिः/अष्टषष्ठितमोऽध्यायः
चन्द्रार्कोपरागे नाश्नीयात् । । ६८.१ । ।
स्नात्वा मुक्तयोरश्नीयात् । । ६८.२ । ।
अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि । । ६८.३ । ।
न गोब्राह्मणोपरागेऽश्नीयात् । । ६८.४ । ।
न राज्ञो व्यसने । । ६८.५ । ।
प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् । । ६८.६ । ।
यदा कृतं मन्येत वैश्वदेवं अपि । । ६८.७ । ।
पर्वणि च यदा कृतं मन्येत पर्व । । ६८.८ । ।
नाश्नीयाच्चाजीर्णे । । ६८.९ । ।
नार्धरात्रे । । ६८.१० । ।
न मद्याह्ने । । ६८.११ । ।
न संध्ययोः । । ६८.१२ । ।
नार्द्रवासाः । । ६८.१३ । ।
नैकवासाः । । ६८.१४ । ।
न नग्नः । । ६८.१५ । ।
नोदके । । ६८.१६ । ।
नोत्कुटकः । । ६८.१७ । ।
न भिन्नासनगतः । । ६८.१८ । ।
न च शयनगतः । । ६८.१९ । ।
न भिन्नभोजने । । ६८.२० । ।
नोत्सङ्गे । । ६८.२१ । ।
न भुवि । । ६८.२२ । ।
न पाणौ । । ६८.२३ । ।
लवणं च यत्र दद्यात्तन्नाश्नीयात् । । ६८.२४ । ।
न बालकान्निर्भत्सेयन् । । ६८.२५ । ।
नैको मृष्टं । । ६८.२६ । ।
नोद्धृतस्नेहं । । ६८.२७ । ।
न दिवा धानाः । । ६८.२८ । ।
न रात्रौ तिलसंबन्धं । । ६८.२९ । ।
न दधिसक्तून् । । ६८.३० । ।
न कोविदारवटपिप्पलशाणशाकं । । ६८.३१ । ।
नादत्त्वा । । ६८.३२ । ।
नाहुत्वा । । ६८.३३ । ।
नानार्द्रपादः । । ६८.३४ । ।
नानार्द्रकरमुखश्च । । ६८.३५ । ।
नोच्छिष्टश्च घृतं आदद्यात् । । ६८.३६ । ।
न चन्द्रार्कतारका निरीक्षेत । । ६८.३७ । ।
न मूर्धानं स्पृशेत् । । ६८.३८ । ।
न ब्रह्म कीर्तयेत् । । ६८.३९ । ।
प्राङ्मुखोऽश्नीयात् । । ६८.४० । ।
दक्षिणामुखो वा । । ६८.४१ । ।
अभिपूज्यान्नं । । ६८.४२ । ।
सुमनाः स्रग्व्यनुलिप्तश्च । । ६८.४३ । ।
न निःशेषकृत्स्यात् । । ६८.४४ । ।
अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः । । ६८.४५ । ।
नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन्बहवस्तथा । । ६८.४६ । ।
शून्यालये वह्निगृहे देवागारे कथंचन ।
पिबेन्नाञ्जलिना तोयं नातिसौहित्यं आचरेत् । । ६८.४७ । ।
न तृतीयं अथाश्नीत न चापथ्यं कथंचन ।
नातिप्रगे नातिसायं न सायं प्रातराशितः । । ६८.४८ । ।
न भावदुष्टं अश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । । ६८.४९ । ।