विष्णुस्मृतिः/अष्टसप्तसप्ततितमोऽध्यायः
सततं आदित्येऽह्नि श्राद्धं कुर्वन्नारोग्यं आप्नोति । । ७८.१ । ।
सौभाग्यं चान्द्रे । । ७८.२ । ।
समरविजयं कौजे । । ७८.३ । ।
सर्वान्कामान्बौधे । । ७८.४ । ।
विद्यां अभीष्टां जैवे । । ७८.५ । ।
धनं शौक्रे । । ७८.६ । ।
जीवितं शनैश्चरे । । ७८.७ । ।
स्वर्गं कृत्तिकासु । । ७८.८ । ।
अपत्यं रोहिणीषु । । ७८.९ । ।
ब्रह्मवर्चस्यं सौम्ये । । ७८.१० । ।
कर्मसिद्धिं रौद्रे । । ७८.११ । ।
भुवं पुनर्वसौ । । ७८.१२ । ।
पुष्टिं पुष्ये । । ७८.१३ । ।
श्रियं सार्पे । । ७८.१४ । ।
सर्वान्कामान्पैत्र्ये । । ७८.१५ । ।
सौभाग्यं भाग्ये । । ७८.१६ । ।
धनं आयमणे । । ७८.१७ । ।
ज्ञातिश्रैष्ठ्यं हस्ते । । ७८.१८ । ।
रूपवतः सुतांस्त्वाष्ट्रे । । ७८.१९ । ।
वाणिज्यसिद्धिं स्वातौ । । ७८.२० । ।
कनकं विशाखासु । । ७८.२१ । ।
मित्राणि मैत्रे । । ७८.२२ । ।
राज्यं शाक्रे । । ७८.२३ । ।
कृषिं मूले । । ७८.२४ । ।
समुद्रयानसिद्धिं आप्ये । । ७८.२५ । ।
सर्वान्कामान्वैश्वदेवे । । ७८.२६ । ।
श्रैष्ठ्यं अभिजिति । । ७८.२७ । ।
सर्वान्कामान्श्रवणे । । ७८.२८ । ।
लवणं वासवे । । ७८.२९ । ।
आरोग्यं वारुणे । । ७८.३० । ।
कुप्यद्रव्यं आजे । । ७८.३१ । ।
गृहमाहिर्बुध्न्ये । । ७८.३२ । ।
गाः पौष्णे । । ७८.३३ । ।
तुरङ्गमानाश्विने । । ७८.३४ । ।
जीवितं याम्ये । । ७८.३५ । ।
गृहं सुरूपाः स्त्रियः प्रतिपदि । । ७८.३६ । ।
कन्यां वरदां द्वितीयायां । । ७८.३७ । ।
सर्वान्कामांस्तृतीयायां । । ७८.३८ । ।
पशूंश्चतुर्थ्यां । । ७८.३९ । ।
सुरूपान्सुतान्पञ्चम्यां । । ७८.४० । ।
द्यूतविजयं षष्ठ्यां । । ७८.४१ । ।
कृषिं सप्तम्यां । । ७८.४२ । ।
वाणिज्यं अष्टम्यां । । ७८.४३ । ।
पशून्नवम्यां । । ७८.४४ । ।
वाजिनो दशम्यां । । ७८.४५ । ।
पुत्रान्ब्रह्मवर्चस्विन एकादश्यां । । ७८.४६ । ।
कनकरजतं द्वादश्यां । । ७८.४७ । ।
साउभाग्यं त्रयोदश्यां । । ७८.४८ । ।
सर्वान्कामान्पञ्चदश्यां । । ७८.४९ । ।
शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता । । ७८.५० । ।
अपि पितृगीते गाथे भवतः । । ७८.५१ । ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः । । ७८.५२ । ।
मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।
कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च । । ७८.५३ । ।