विष्णुस्मृतिः/अष्टादशोऽध्यायः

ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुः, ते पैतृकं रिक्थं दशधा विभजेयुः । । १८.१ । ।

तत्र ब्राह्मणीपुत्रश्चतुरोऽंशानादद्यात् । । १८.२ । ।

क्षत्रियापुत्रस्त्रीन् । । १८.३ । ।

द्वावंशौ वैश्यापुत्रः । । १८.४ । ।

शूद्रापुत्रस्त्वेकं । । १८.५ । ।

अथ चेत्शूद्रवर्जं ब्राह्मणस्य पुत्रत्रयं भवेत्, तदा तद्धनं नवधा विभजेयुः । । १८.६ । ।

वर्नानुक्रमेण चतुस्त्रिद्विभागीकृतानंशानादद्युः । । १८.७ । ।

वैश्यवर्जं अष्टधा कृतं चतुरस्त्रीनेकं चादद्युः । । १८.८ । ।

क्षत्रियवर्जं सप्तधा कृतं चतुरो द्वावेकं च । । १८.९ । ।

ब्राह्मणवर्जं षड्धा कृतं त्रीन्द्वावेकं च । । १८.१० । ।

क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेष्वयं एव विभागः । । १८.११ । ।

अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां, तदा सप्तधा कृताद्धनाद्ब्राह्मणश्चतुरोऽंशानादद्यात् । । १८.१२ । ।

त्रीन्राजन्यः । । १८.१३ । ।

अथ ब्राह्मणस्य ब्राह्मणवैश्यौ, तदा षड्धा विभक्तस्य चतुरोऽंशान्ब्राह्मणस्त्वादद्यात् । । १८.१४ । ।

द्वावंशौ वैश्यः । । १८.१५ । ।

अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयातां । । १८.१६ । ।

चतुरोऽंशान्ब्राह्मणस्त्वादद्यात् । । १८.१७ । ।

एकं शूद्रः । । १८.१८ । ।

अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ पुत्रौ स्यातां, तदा तद्धनं पञ्चधा विभजेयातां । । १८.१९ । ।

त्रीनंशान्क्षत्रियस्त्वादद्यात् । । १८.२० । ।

द्वावंशौ वैश्यः । । १८.२१ । ।

अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां, तदा तद्धनं चतुर्धा विभजेयातां । । १८.२२ । ।

त्रीनंशान्क्षत्रियस्त्वादद्यात् । । १८.२३ । ।

एकं शूद्रः । । १८.२४ । ।

अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां, तदा तद्धनं त्रिधा विभजेयातां । । १८.२५ । ।

द्वावंशौ वैश्यस्त्वादद्यात् । । १८.२६ । ।

एकं शूद्रः । । १८.२७ । ।

अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः । । १८.२८ । ।

क्षत्रियस्य राजन्यवैश्यौ । । १८.२९ । ।

वैश्यस्य वैश्यः । । १८.३० । ।

शूद्रः शूद्रस्य । । १८.३१ । ।

द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः । । १८.३२ । ।

अपुत्ररिक्थस्य या गतिः, सात्रार्धस्य द्वितीयस्य । । १८.३३ । ।

मातरः पुत्रभागानुसारेण भागापहारिण्यः । । १८.३४ । ।

अनूढाश्च दुहितरः । । १८.३५ । ।

समानवर्णाः पुत्राः समानंशानादद्युः । । १८.३६ । ।

ज्येष्ठाय श्रेष्ठं उद्धारं दद्युः । । १८.३७ । ।

यदि द्वौ ब्राह्मणीपुत्रौ स्यातां एकः शूद्रापुत्रः, तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्यातां एकं शूद्रापुत्रः । । १८.३८ । ।

अथ शूद्रापुत्रावुभौ स्यातां एको ब्राह्मणीपुत्रः, तदा षड्धा विभक्तस्यार्थस्य चतुरोऽंशान्ब्राह्मणस्त्वादद्यात्, द्वावंशौ शूद्रापुत्रौ । । १८.३९ । ।

अनेन क्रमेणान्यत्राप्यंशकल्पना भवति । । १८.४० । ।

विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि ।
समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते । । १८.४१ । ।

अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
स्वयं ईहितलब्धं तन्नाकामो दातुं अर्हति । । १८.४२ । ।

पैतृकं तु यदा द्रव्यं अनवाप्तं यदाप्नुयात् ।
न तत्पुत्रैर्भजेत्सार्धं अकामः स्वयं अर्जितम् । । १८.४३ । ।

वस्त्रं पत्रं अलंकारः कृतान्नं उदकं स्त्रियः ।
योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् । । १८.४४ । ।