विष्णुस्मृतिः/अष्टाविंशतितमोऽध्यायः
अथ ब्रह्मचरिणां गुरुकुलवासः । । २८.१ । ।
संध्याद्वयोपासनं । । २८.२ । ।
पूर्वां संध्यां जपेत्तिष्ठन्पश्चिमां आसीनः । । २८.३ । ।
कालद्वयं अभिषेकाग्निकर्मकरणं । । २८.४ । ।
अप्सु दण्डवन्मज्जनं । । २८.५ । ।
आहूताध्ययनं । । २८.६ । ।
गुरोः प्रियहिताचरणं । । २८.७ । ।
मेखलादण्डाजिनोपवीतधारणं । । २८.८ । ।
गुरुकुलवर्जं गुणवत्सु भैक्ष्यचरणं । । २८.९ । ।
गुर्वनुज्ञातं भैक्ष्याभ्यवहरणं । । २८.१० । ।
श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनं । । २८.११ । ।
अधः शय्या । । २८.१२ । ।
गुरोः पूर्वोत्थानं चरमं संवेशनं । । २८.१३ । ।
कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् । । २८.१४ । ।
तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् । । २८.१५ । ।
दक्षिणं दक्षिणेनेतरं इतरेण । । २८.१६ । ।
स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् । । २८.१७ । ।
तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् । । २८.१८ । ।
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः । । २८.१९ । ।
पराङ्मुखस्याभिमुखः । । २८.२० । ।
दूरस्थस्यान्तिकं उपेत्य । । २८.२१ । ।
शयानस्य प्रणम्य । । २८.२२ । ।
तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् । । २८.२३ । ।
न चास्य केवलं नाम ब्रूयात् । । २८.२४ । ।
गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् । । २८.२५ । ।
यत्रास्य निन्दापरिवादौ स्यातां न तत्र तिष्ठेत् । । २८.२६ । ।
नास्यैकासनो भवेत् । । २८.२७ । ।
ऋते शिलाफलकनौयानेभ्यः । । २८.२८ । ।
गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत । । २८.२९ । ।
अनिर्दिष्टश्च गुरुणा स्वान्गुरुन्नाभिवादयेत् । । २८.३० । ।
बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत । । २८.३१ । ।
नास्य पादौ प्रक्षालयेत् । । २८.३२ । ।
नोच्छिष्टं अश्नीयात् । । २८.३३ । ।
एवं वेदं वेदौ वेदान्वा स्वीकुर्यात् । । २८.३४ । ।
ततो वेदाङ्गानि । । २८.३५ । ।
यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्रत्वं एति । । २८.३६ । ।
मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनं । । २८.३७ । ।
तत्रास्य माता सावित्री भवति पिता त्व्*आचार्यः [आचार्थः] । । २८.३८ । ।
एतेनैव तेषां द्विजत्वं । । २८.३९ । ।
प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति । । २८.४० । ।
ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यं । । २८.४१ । ।
वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् । । २८.४२ । ।
ततो गुरुकुल एव वा जन्मनः शेषं नयेत् । । २८.४३ । ।
तत्राचार्ये प्रेते गुरुवत्गुरुपुत्रे वर्तेत । । २८.४४ । ।
गुरुदारेषु सवर्णेषु वा । । २८.४५ । ।
तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् । । २८.४६ । ।
एवं चरति यो विप्रो ब्रह्मचर्यं अतन्द्रितः ।
स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः । । २८.४७ । ।
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मचारिणः । । २८.४८ । ।
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् । । २८.४९ । ।
तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् ।
उपस्पृशंस्त्रिषवणं अब्देन स विशुध्यति । । २८.५० । ।
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रं अकामतः ।
स्नात्वार्कं अर्चयित्वा त्रिः पुनर्मां इत्यृचं जपेत् । । २८.५१ । ।
अकृत्वा भैक्षचरणं असमिद्ध्य च पावकम् ।
अनातुरः सप्तरात्रं अवकीर्णिव्रतं चरेत् । । २८.५२ । ।
तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्य्+अविज्ञानाज्जपन्नुपवसेद्दिनम् । । २८.५३ । ।