विष्णुस्मृतिः/अष्टाशीतितमोऽध्यायः

अथ प्रसूयमाना गौः पृथिवी भवति । । ८८.१ । ।

तां अलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलं आप्नोति । । ८८.२ । ।

अत्र गाथा भवति । । ८८.३ । ।

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दत्त्वा स्वर्गं अवाप्नोति श्रद्दधानः समाहितः । । ८८.४ । ।