विष्णुस्मृतिः/एकचत्वारिंशत्तमोऽध्यायः

पक्षिणां जलचराणां जलजानां च घातनं । । ४१.१ । ।

क्रिमिकीटानां च । । ४१.२ । ।

मध्यानुगतभोजनं । । ४१.३ । ।

इति मलावहानि । । ४१.४ । ।

मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रं अथ वा प्रायश्चित्तं विशोधनम् । । ४१.५ । ।